प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ००७ हरिवंशपुराणम्
अध्यायः ००८
वेदव्यासः
अध्यायः ००९ →
सत्ययुगादीनां परिमाणानां वर्णनम्

अष्टमोऽध्यायः

वैशम्पायन उवाच
चत्वार्याहुः सहस्राणि वर्षाणां तु कृतं युगम् ।
तस्य तावच्छती संध्या द्विगुणा जनमेजय ।। १ ।।
तत्र धर्मश्चतुष्पादो ह्यधर्मः पादविग्रहः ।
स्वधर्मनिरताः सन्तो यजन्ते चैव मानवाः ।। २ ।।
स्थिता धर्मपरा विप्रा राजवृत्तौ स्थिता नृपाः ।
कृष्यामभिरता वैश्याः शूद्राः शुश्रूषवस्तथा ।। ३ ।।
सदा सत्यं तपश्चैव धर्मश्चैव विवर्धते ।
सद्भिराचरितं यच्च क्रियते ख्यायते च यत् ।। ४ ।।
एतत् कृतयुगे वृत्तं सर्वेषामेव भारत ।
प्राणिनां धर्मबुद्धीनामपि चेन्नीचयोनिनाम् ।। ५ ।।
त्रीणि वर्षसहस्राणि त्रेतायुगमिहोच्यते ।
तस्य तावच्छती संध्या द्विगुणा परिकीर्तिता ।। ६ ।।
द्वाभ्यामधर्मः पादाभ्यां त्रिभिर्धर्मो व्यवस्थितः ।
तत्र सत्यं च सत्त्वं च कृते सर्वं प्रवर्तते ।। ७ ।।
त्रेतायां विकृतिं यान्ति वर्णा लौल्येन संयुताः ।
चातुर्वर्ण्यस्य वैकृत्याद्यान्ति दौर्बल्यमाश्रिताः।। ८ ।।
एष त्रेतायुगविधिर्विहितो देवनिर्मितः ।
द्वापरस्यापि या चेष्टा तामपि श्रोतुमर्हसि ।। ९ ।।
द्वापरं द्वे सहस्रे तु वर्षाणां कुरुसत्तम ।
तस्य तावच्छती संध्या द्विगुणा परिकीर्तिता ।। 3.8.१० ।।
तत्राप्यर्थपरा विप्रा ज्ञानिनो रजसाऽऽवृताः ।
शठा नैष्कृतिकाः क्षुद्रा जायन्ते कुरुपुङ्गव ।। ११ ।।
द्वाभ्यां धर्मः स्थितः पद्भ्यामधर्मस्त्रिभिरुत्थितः ।
विपर्ययं शनैर्यान्ति कृते ये धर्मसेतवः ।। १२ ।।
ब्राह्मण्यभावा नश्यन्ति तथास्तिक्यं विशीर्यते ।
व्रतोपवासास्त्यज्यन्ते द्वापरे युगपर्यये ।। १३ ।।
तथा वर्षसहस्रं तु वर्षाणां द्वे शते तथा ।
संध्यया सह संख्यातं क्रूरं कलियुगं स्मृतम् ।। १४ ।।
तत्राधर्मश्चतुष्पादः स्याद् धर्मः पादविग्रहः ।
कामनिष्ठास्तमश्छन्ना जायन्ते तत्र मानवाः ।। १५ ।।
नैवोपवासकृत् कश्चिन्न च साधुर्न सत्यवाक् ।
आस्तिको ब्रह्मवक्ता वा नरो भवति वै तदा ।। १६ ।।
अहंकारगृहीताश्च प्रक्षीणस्नेहबन्धनाः ।
विप्राः शूद्रसमाचाराः शूद्रास्त्वाचारलक्षणाः ।। १७ ।।
दूषकास्त्वाश्रमाणां च वर्णानां चैव संकराः ।
अगम्यास्वभिरंस्यन्ते वर्तन्त्येवं कलौ युगे ।। १८ ।।
एवं द्वादशसाहस्रं तदेकं युगमुच्यते ।
तदेकसप्ततिगुणं मन्वन्तरमिहोच्यते ।। १९ ।।
त्रय्यां चैव न संदेहो युगान्ते जनमेजय ।
दिव्यं द्वादशसाहस्रं युगं तु कवयो विदुः ।
एतत्सहस्रपर्यन्तं तदहो ब्राह्ममुच्यते ।। 3.8.२० ।।
ततोऽहनि गते तस्मिन् सर्वेषामेव देहिनाम् ।
शरीरनिर्वृतिं दृष्ट्वा रुद्रः संहारबुद्धिमान् ।। २१ ।।
देवतानां च सर्वेषां ब्राह्मणानां महीपते ।
दैत्यानां मानवानां च यक्षगन्धर्वरक्षसाम् ।। २२ ।।
देवर्षीणां ब्रह्मर्षीणां तथा राजर्षिणामपि ।
किंनराणामप्सरसां भुजङ्गानां तथैव च ।। २३ ।।
पर्वतानां नदीनां च पशूनां चैव भारत ।
तिर्यग्योनिगतानां च सत्त्वानां मृगपक्षिणाम् ।। २४ ।।
महाभूतपतिर्देवः पञ्चभूतानि भूतकृत् ।
जगत्संहरणार्थाय कुरुते वैशसं महत् ।। २५ ।।
भूत्वा सूर्यश्चक्षुषी चाददानो
भूत्वा वायुः संहरन् प्राणिजातम्।
भूत्वा वह्निर्दह्यते सर्वलोकान्
मेघो भूत्वा भूय एवाभ्यवर्षत् ।। २६ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पुष्करप्रादुर्भावे
कृतादियुगपरिमाणवर्णने अष्टमोऽध्यायः ।।८ ।।