प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ००९ हरिवंशपुराणम्
अध्यायः ०१०
वेदव्यासः
अध्यायः ०११ →
एकार्णवे भगवतः मार्कण्डेयेन सह संवादम्

दशमोऽध्यायः

वैशम्पायन उवाच
एवमेकार्णवीभूते शेते लोके महाद्युतिः ।
प्रच्छाद्य सलिलं सर्वं हरिर्नारायणः प्रभुः ।। १ ।।
महतो रजसो मध्ये महार्णवसमस्य वै ।
विरजस्को महाबाहुरक्षरं ब्रह्म यं विदुः ।। २ ।।
आत्मरूपप्रकाशेन तपसा संवृतः प्रभुः ।
त्रिकमास्थाय कालं तु ततः सुष्वाप सोऽव्ययः।। ३ ।।
पुरुषो यज्ञ इत्येवं यत्परं परिकीर्तितम् ।
यथान्यत्पुरुषाख्यं स्यात्सर्वं तत्पुरुषोत्तमः।। ४ ।।
ये च यज्ञपरा विप्रा ऋत्विजा इति संज्ञिताः ।
आत्मदेहात्पुरा भूता यज्ञेभ्यः श्रूयतां तदा ।। ५ ।।
ब्रह्माणं परमं वक्त्रादुद्गातारं च सामगम् ।
होतारमथ चाध्वर्युं बाहुभ्यामसृजत् प्रभुः ।। ६ ।।
ब्राह्मणो ब्राह्मणत्वाच्च सम्प्रस्तारं च सर्वशः ।
तन्मित्रं वरुणं सृष्ट्वा प्रतिष्ठातारमेव च ।। ७ ।।
उदरात् प्रतिहर्तारं पोतारं चैव भारत ।
अच्छावाकं मनोरूभ्यां नेष्टारं चैव भारत ।। ८ ।।
पाणिभ्यामथ चाग्नीध्रं सुब्रह्मण्यं च यज्ञियम् ।
ग्रावाणमथ बाहुभ्यामुन्नेतारं च यज्ञियम् ।। ९ ।।
एवमेवैष भगवान् पोडशैताञ्जगत्पतिः ।
प्रवक्तॄन् सर्वयज्ञानामृत्विजोऽसृजदुत्तमान् ।। 3.10.१० ।।
तदेष वै वेदमयः पुरुषो यज्ञसम्मितः ।
वेदाश्च तन्मयाः सर्वे साङ्गोपनिषदक्रियाः ।। ११ ।।
स्वपित्येकार्णवे चैव यदाश्चर्यमभूत्तदा ।
श्रूयते तद् यथावृत्तं मार्कण्डेयो यदन्वभूत् ।।१२ ।।
जीर्णो भगवतस्तस्य कुक्षावेव महामुनिः ।
बहुवर्षसहस्रायुस्तस्यैव वरतेजसा ।। १३ ।।
इति तीर्थप्रसङ्गेन पृथ्वीतीर्थगोचरः ।
आश्रमानपि पुण्यांश्च तीर्थान्यायतनानि च ।। १४ ।।
देशान्राष्ट्राणि चित्राणि पुराणि विविधानि च ।
जपहोमरतः क्षान्तस्तपो घोरं समाश्रितः ।। १५ ।।
मार्कण्डेयस्ततस्तस्य शनैर्वक्त्राद् विनिःसृतः ।
निष्क्रामन्तं न चात्मानं जानीते देवमायया ।। १६।।
निष्क्रान्तस्तस्य वदनादेकार्णवमथो गतः ।
सर्वतस्तमसाच्छन्नं मार्कण्डेयो निरीक्षते ।। १७ ।।
तस्योत्पन्नं भयं तीव्रं संशयश्चात्मजीविते ।
देवदर्शनसंहृष्टो विस्मयं चागमत् परम् ।। १८ ।।
संचिन्तयति मध्यस्थो मार्कण्डेयोऽतिशङ्कितः ।
किंस्विद्भवेदियं चिन्ता मोहः स्वप्नोऽनुऽभूयते ।। १९ ।।
व्यक्तमन्यतमो भावो ह्येतेषां भविता मम ।
न हीदृशमसंश्लिष्टमयुक्तं सत्यमर्हति ।। 3.10.२० ।।
नष्टचन्द्रार्कपवने छन्नपर्वतभूतले ।
कतमः स्यादयं लोक इति चिन्ताव्यवस्थितः ।। २१ ।।
अपश्यच्चापि पुरुषं शयानं पर्वतोपमम् ।
तोयाढ्यमिव जीमूतं मध्ये मग्नं महार्णवे ।। २२ ।।
तपन्तमिव तेजोभिर्भास्वन्तमिव वर्चसा ।
जाग्रन्तमिव गाम्भीर्याच्छ्वसन्तमिव पन्नगम् ।। २३ ।।
स देवं प्रष्टुमायाति कौ भवानिति विस्मयात्।
तथैव च शनैर्भूयो मुनिः कुक्षिं प्रवेशितः ।। २४ ।।
स प्रविष्टः पुनः कुक्षौ मार्कण्डेयः सुनिश्चितः ।
तथैव चरते भूयो विजानन् स्वप्नदर्शनम् ।। २५ ।।
स तथैव यथापूर्वं पृथिवीमटते पुनः ।
पुण्यतीर्थानि पूतानि निरैक्षद् दिवि भूतले ।। २६ ।।
क्रतुभिर्यजमानांश्च समाप्तवरदक्षिणैः ।
पश्यते देवकुक्षिस्थान्यज्ञियाञ्छतशो द्विजान्।। २७ ।।
सद्वृत्तमाश्रिताः सर्वे वर्णा ब्राह्मणपूर्वकाः ।
चत्वारश्चाश्रमाः सम्यग् यथोद्दिष्टपदानुगाः ।। २८ ।।
वर्षाणां शतसाहस्रं मार्कण्डेयो महामुनिः ।
विचरन् पृथिवीं कृत्स्नां न च कुक्ष्यन्तमैक्षत।। २९ ।।
ततः कदाचिदथ वै पुनर्वक्त्राद् विनिःसृतः ।
सुप्तं न्यग्रोधशाखायां बालमेकं निरीक्षते ।। 3.10.३० ।।
यथा चैकार्णवजले नीहारेण वृतान्तरे ।
अव्यक्तभीषणे लोके सर्वभूतविवर्जिते ।। ३१ ।।
स भूयो विस्मयाविष्टः कौतूहलसमन्वितः ।
बालमादित्यसंकाशं न शक्नोत्युपसर्पितुम् ।। ३२ ।।
सोऽचिन्तयदथैकान्ते स्थित्वा सलिलसंनिधौ ।
पूर्वदृष्टमिदं नेति शङ्कितो देवमायया ।। ३३ ।।
अगाधे सलिल स्तब्धे मार्कण्डेयः प्लवन्मुनिः ।
न शान्तिं लभते तत्र श्रमात् संत्रस्तविक्लवः ।। ३४ ।।
तथैव भगवान् हंसो गतो योगेन बालताम् ।
बभाषे मेघतुल्येन स्वरेण पुरुषोत्तमः ।। ३५ ।।
श्रीभगवानुवाच
मा भैर्वत्स न भेतव्यमिहैवायाहि चान्तिकम् ।
मार्कण्डेय मुने धीर बालस्त्वं श्रमपीडितः ।। ३६ ।।
मार्कण्डेय उवाच
को मां नाम्ना कीर्तयते तपः परिभवन् मम ।
बहुवर्षसहस्रायुर्धर्षयंश्चैव मे वयः ।। ३७ ।।
न ह्येष समुदाचारो देवेष्वपि समाहितः ।
मां ब्रह्मापि स विश्वेशो दीर्घायुरिति भाषते ।। ३८ ।।
कस्तपो घोरशिरसो ममाद्य त्यक्तजीवितः ।
मार्कण्डेयेति मां प्रोक्त्वा मृत्युमीक्षितुमिच्छति।। ३९ ।।
वैशम्पायन उवाच
एवमाभाषते क्रोधान्मार्कण्डेयो महामुनिः ।
अथैनं भगवान् भूयो बभाषे तत्परायणम् ।। 3.10.४० ।।
श्रीभगवानुवाच
अहं ते जनको वत्स हृपीकेशः पिता गुरुः ।
आयुःप्रदाता पौराणः किमर्थं नोपसर्पति ।। ४१ ।।
मां पुत्रकामः प्रथमं पिता ते ह्यङ्गिरा मुनिः ।
पूर्वमाराधयामास तपस्तीव्रमुपाश्रितः ।। ४२ ।।
ततस्त्वां घोरशिरसं दहनोपमतेजसम् ।
दत्तवानहमात्मेष्टं महर्षिममितायुषम् ।। ४३ ।।
तत्र नोत्सहते चान्यो यो न भूतो ममात्मकः ।
द्रष्टुमेकार्णवगतं क्रीडन्तं योगधर्मिणम् ।। ४४ ।।
वैशम्पायन उवाच
ततः प्रसन्नवदनो विस्मयोत्फुल्ललोचनः ।
मूर्घ्नि बद्धाञ्जलिपुटो मार्कण्डेयो महातपाः ।। ४५ ।।
नामगोत्रं ततः श्रुत्वा दीर्घायुर्लोकपूजितः ।
अथाकरोन्नमस्कारं प्रणतः शिरसा प्रभुम् ।। ४६ ।।
मार्कण्डेय उवाच
इच्छेऽहं तत्त्वत्तो मायामिमां ज्ञातुं तवानघ ।
यदेकार्णवमध्यस्थः शेषे त्वं बालरूपवान् ।। ४७ ।।
किंसंज्ञः कश्च भगवाँल्लोके विज्ञायसेऽनघ ।
तर्कये त्वां महाभूतं न भूतमिह तिष्ठति ।। ४८ ।।
श्रीभगवानुवाच
अहं नारायणो ब्रह्मा सम्भवः सर्वदेहिनाम् ।
सर्वभूतोद्भवकरः सर्वभूतविनाशनः ।। ४९ ।।
अहमैन्द्रे पदे शक्र ऋतूनामपि वत्सरः ।
अहं युगे युगाक्षश्च युगस्यावर्त एव च ।। 3.10.५० ।।
अहं सर्वाणि सत्त्वानि दैवतान्यखिलानि च ।
भुजगानामहं शेषस्तार्क्ष्योऽहं सर्वपक्षिणाम् ।। ५१ ।।
अहं सहस्रशीर्षा द्यौर्यः पदैरभिसंवृतः ।
आदित्यो यज्ञपुरुषो देवो यज्ञमयो मखः ।
अहमग्निर्हव्यवाहे यादसां पतिरव्ययः ।। ५२ ।।
यत्पृथिव्यां द्विजेन्द्राणां तपसा भावितात्मनाम् ।
बहुजन्मनिरुद्धात्मा ब्राह्मणो यतिरुच्यते ।। ५३ ।।
ज्ञानवान् दृष्टविश्वात्मा योगिनां योगवित्तमः ।
कृतान्तः सर्वभूतानां विश्वेषां कालसंज्ञितः ।। ५४ ।।
अहं कर्म क्रिया जीवः सर्वेषां धर्मदर्शनः ।
निष्क्रियः सर्वभूतेषु स्वात्मज्योतिः सनातनः ।। ५५ ।।
प्रधानं पुरुषो देवोऽहमाद्यस्त्वक्षयोऽव्ययः ।
अहं धर्मस्तपश्चाहं सर्वाश्रमनिवासिनाम् ।। ५६ ।।
अहं हयशिरो देवः क्षीरोदे यो महार्णवे ।
ऋतं सत्यं च परममहमेकः प्रजापतिः ।। ५७ ।।
अहं सांख्यमहं योगमहं तत्परमं पदम् ।
अहमिज्यो भवश्चाहमहं विद्याधिपः स्मृतः ।। ५८ ।।
अहं ज्योतिरहं वायुरहं भूमिरहं नभः ।
अहमापः समुद्राश्च नक्षत्राणि दिशो दश ।
अहं वर्षमहं सोमः पर्जन्योऽहमहं रविः ।। ५९ ।।
क्षीरोदः सागरश्चाहं समुद्रो वडवामुखः ।
वह्निः संवर्तको भूत्या पिबंस्तोयमयं हविः ।। 3.10.६० ।।
अहं पुराणं परमं तथैवेह परायणम् ।
अहं भूतस्य भव्यस्य वर्तमानस्य सम्भवः ।। ६१ ।।
यत्किंचित्पश्यसे चैव यच्छृणोषि च किंचन ।
यच्चानुभवसे लोके तत् सर्वं मामकं स्मृतम् ।। ६२ ।।
विश्वं सृष्टं मया पूर्वं सृजेयं चाद्य पश्य माम्। ।
युगे युगे च स्रक्ष्यामि मार्कण्डेयाखिलं जगत् ।। ६३ ।। ।
तदेतदखिलं सर्वं मार्कण्डेयावधारय ।
शुश्रूषुर्मम धर्मेप्सुः कुक्षौ चर सुखी भव ।। ६४ ।।
मम ब्रह्मा शरीरस्थो देवाश्च ऋषिभिः सह ।
ब्यक्तमव्यक्तयोगं मामवगच्छापराजितम् ।। ६५ ।।
अहमेकाक्षरो मन्त्रस्त्र्यक्षरश्चैव सर्वशः ।
त्रिपदश्चैव परमस्त्रिवर्गार्थनिदर्शनः ।। ६६ ।।
वैशम्पायन उवाच
एवमेतत् पुराणेषु वेदान्ते च महामुनिः ।
वक्त्रे व्याहृतवानाशु मार्कण्डेयं महामुनिम्।
प्रवेशयामास ततो जठरं विश्वरूपधृक् ।। ६७ ।।
ततो भगवतः कुक्षिं प्रविष्टो मुनिसत्तमः ।
रराम सुखमासाद्य शुश्रूषुर्हंसमव्ययम् ।। ६८ ।।
तदक्षरं विविधमथाश्रितो वपु-
र्महार्णवे व्यपगतचन्द्रभास्करे ।
शनैश्चरन्प्रभुरपि हंससंज्ञितो-
ऽसृजज्जगद्विसृजति कालपर्यये ।। ६९ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे मार्कण्डेयकर्तृकभगवद्दर्शने दशमोऽध्यायः ।। १० ।।