हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०१४

← अध्यायः ०१३ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०१४
[[लेखकः :|]]
अध्यायः ०१५ →
ब्रह्मणः त्रिभिः पुत्रैः परमपदस्य प्राप्तिः, तत्पश्चात् तेन मैथुनीसृष्ट्याः विस्तारं, दक्षकन्यानां संततीनां वर्णनम्

चतुर्दशोऽध्यायः

वैशम्पायन उवाच
स्थित्वा तस्मिंस्तु कमले ब्रह्मा ब्रह्मविदां वरः ।
ऊर्ध्वबाहुर्महाबाहुस्तपो घोरं समाश्रितः ।। १ ।।
ज्वलन्निव च तेजस्वी भाभिः स्वाभिस्तमोनुदः ।
बभासे सर्वधर्मज्ञः सहस्रांशुरिवांशुमान् ।। २ ।।
अथान्यद्रूमास्थाय शम्भुर्नारायणोऽव्ययः ।
द्विधा कृत्वाऽऽत्मनाऽऽत्मानमचिन्त्यात्मा सनातनः।३।
आजगाम महातेजा योगाचार्यो महायशाः ।
सांख्याचार्यश्च मतिमान् कपिलो ब्राह्मणो वरः ।। ४ ।।
देवर्षिभिस्तु तावेतौ ब्रह्म ब्रह्मविदां वरौ ।
उभावपि महात्मानावूर्जितौ क्षेत्रतत्परौ ।। ५ ।।
तौ प्राप्तावूचतुस्तत्र ब्रह्माणममितौजसम् ।
परावरविशेषज्ञौ पूजितौ परमर्षिभिः ।। ६ ।।
बहुत्वाद् दृढपादश्च विश्वात्मा जगतः स्थितिः ।
ग्रामणीः सर्वलोकानां ब्रह्मा लोकगुरुर्वरः ।। ७ ।।
तयोस्तद् वचनं श्रुत्वा तिस्रो व्याहृतयो जपन् ।
त्रीनिमान्कृतवाँल्लोकान्यथाह ब्राह्मणी श्रुतिः।। ८ ।।
पुत्रं भूसंज्ञकं चैव समुत्पादितवान् प्रभुः ।
ततोऽग्रे तद्गतस्नेहो ब्रह्मा मानसमव्ययम् ।। ९ ।।
सोत्पन्नस्त्वग्रे ब्रह्माणमुवाच मानसः सुतः ।
करोमि किं ते साहाय्यं ब्रवीतु भगवानिति ।। १० ।।
ब्रह्मोवाच
य एष कपिलो नाम ब्रह्मा नारायणस्तथा ।
वदते वरदस्त्वां तु तत्कुरुष्व महामते ।। ११ ।।
वैशम्पायन उवाच
ब्रह्मणोक्तस्तदा भूयः संशयं समुपस्थितः ।
शुश्रूषुरस्मि युवयोः किं कुर्मीति कृताञ्जलिः ।। १२ ।।
परमेश्वरावूचतुः
यत् सत्यमक्षरं ब्रह्म ह्यष्टादशनिधं स्मृतम् ।
यत् सत्यममृतं चैव परं तत् समनुस्मर ।। १३ ।।
वैशम्पायन उवाच
एतद् वचो निशम्याथ स ययौ दिशमुत्तराम् ।
गत्वा च तत्र ब्रह्मत्वमगमज्ज्ञानचक्षुषा ।। १४ ।।
ततो ब्रह्मा भुवर्नाम द्वितीयमसृजत् प्रभुः ।
संकल्पयित्वा च पुनर्मनसैव महामनाः ।। १५ ।।
ततः सोऽप्यब्रवीद् वाक्यं किं कुर्मीति पितामहम् ।
पितामहसमाज्ञप्तो ब्रह्माणौ समुपस्थितः ।। १६ ।।
ब्रह्मभ्यां सहितः सोऽथ भूयो भागवतीं गतः ।
प्राप्तश्च परमं स्थानं स तयोः पार्श्वमागतः ।। १७ ।।
तस्मिन्नपि गते पुत्रं तृतीयमसृजत् प्रभुः ।
मोक्षोपायेति कुशलं भूर्भुवर्नाम तं विभुः ।। १८।।
आससाद स तद्धर्मं तयोरेवागमद् गतिम् ।
एवं पुत्रास्त्रयोऽप्येते उक्ताः शम्भोर्महात्मनः ।। १९ ।।
तान् गृहीत्वा सुतांस्तस्य प्रययौ स्वां गतिं तथा।
नारायणोऽथ भगवान् कपिलश्च यतीश्वरः ।। २० ।।
यं कालं तौ गतौ मुक्तौ ब्रह्मा तत्कालमेव तु ।
तेपे घोरतरं भूयः स तपः संशितव्रतः ।। २१ ।।
न रराम ततो ब्रह्मा प्रभुरेकस्तपश्चरन् ।
शरीरार्द्धमथो भार्यां समुत्पादितवाञ्छुभाम् ।। २२ ।।
तपसा तेजसा चैव वर्चसा नियमेन च ।
सदृशीमात्मनो भार्यां समर्थां लोकसर्जने ।। २३ ।।
तया सह ततस्तत्र रेमे ब्रह्मा तपोमयः ।
सृजन् प्रजापतीन् सर्वान्सागरान् सरितस्तथा ।।२४।।
ततोऽसृजद् वै त्रिपदां गायत्रीं वेदमातरम्।
अकरोच्चैव चत्वारो वेदान् गायत्रिसम्भवान् ।।२५।।
आत्मार्थे चासृजत् पुत्राँल्लोककर्तॄन् पितामहः ।
विश्वे प्रजानां पतयो येभ्यो लोका विनिःसृताः ।। २६ ।।
विश्वेशं प्रथमं नाम महातपसमात्मजम् ।
सर्वाश्रमतमं पुण्यं नाम्ना धर्मं स सृष्टवान् ।। २७।।
दक्षं मरीचिमत्रिं च पुलस्त्यं पुलहं क्रतुम् ।
वसिष्ठं गौतमं चैव भृगुमङ्गिरसं मनुम् ।। २८ ।।
अथर्वभूता इत्येते ख्याता ब्रह्ममहर्षयः ।
त्रयोदशसुतानां तु ये वंशा वै महर्षिणाम् ।। २९ ।।
अदितिर्दितिर्दनुः काला दनायुः सिंहिका मुनिः ।
प्रबोधा सुरसा क्रोधा विनता कद्रुरेव च ।। ३० ।।
दक्षस्यैता दुहितरः कन्या द्वादश भारत ।
नक्षत्राणि च भद्रं ते सप्तविंशतिरूर्जिताः ।। ३१ ।।
मरीचेः कश्यपः पुत्रस्तपसा निर्मितः प्रभुः ।
तस्मै कन्या द्वादशेमा दक्षस्ता अन्वमन्यत ।। ३२ ।।
नक्षत्राख्यानि सोमाय वसवे दत्तवानृषिः ।
रोहिण्यादीनि सर्वाणि पुण्यानि जनमेजय ।। ३३ ।।
लक्ष्मीः कीर्तिस्तथा साध्या विश्वा कामानुगा शुभा ।
देवी मरुत्वती चैव ब्रह्मणा निर्मिता पुरा ।। ३४ ।।
एताः पञ्च वरिष्ठा वै सुरश्रेष्ठाय भारत ।
दत्ता धर्माय भद्रं ते ब्रह्मणा दृष्टधर्मणा ।। ३५ ।।
या रूपार्द्धमयी पत्नी ब्रह्मणः कामरूपिणी ।
सुरभिः सा तु गौर्भूत्वा ब्रह्माणं समुपस्थिता ।। ३६ ।।
ततस्तामगमद् ब्रह्मा मैथुने लोकपूजितः ।
लोकसर्जनहेतुज्ञो गवामर्थाय भारत ।। ३७ ।।
जज्ञे चैकादश सुतान् विपुलान् धर्मसंहितान् ।
रक्तसंध्याभ्रसदृशान् दहनोपमतेजसः ।। ३८ ।।
ते रुदन्तो द्रवन्तश्च भगवन्तं पितामहम् ।
रोदनाद् रावणाच्चैव ततो रुद्रा इति स्मृताः ।। ३९ ।।
निर्ऋतिश्चैव सर्पश्च तृतीयो ह्यज एकपात् ।
मृगव्याधः पिनाकी च दहनोऽथेश्वरश्च वै ।। ४० ।।
अहिर्बुध्न्यश्च भगवान् कपाली चापराजितः ।
सेनानीश्च महातेजा रुद्रा एकादश स्मृताः ४१ ।।
तस्यामेव सुरभ्यां तु जज्ञे गोवृषभस्तथा ।
अकृष्टाश्च तथा माषाः सिकताः प्रश्रयोऽक्षताः ।।४२ ।।
अजाश्चैव तु वत्साश्च तथैवामृतमुत्तमम् ।
ओषध्यः प्रवरा याश्च सुरभ्यां ताः समुत्थिताः ।। ४३ ।।
धर्माल्लक्ष्म्युद्भवः कामः साध्या साध्यान् व्यजायत ।
भवं च प्रभवं चैवमीशानं सुरभी तथा ।। ४४ ।।
अरुन्धत्यारुणी चैव विश्वावसुबलध्रुवौ ।
महिषश्च तनूजश्च विज्ञातमनसावपि ।। ४५ ।।
मत्सरश्च विभूतिश्च सर्वाः सुरभिसूनवः ।
सुपर्वतं विषं नागं साध्या लोकनमस्कृता ।। ४६ ।।
वासवानुगता देवी जनयामास वै सुतान् ।
धरं वै प्रथमं देवं द्वितीयं ध्रुवमव्ययम् ।। ४७ ।।
विश्वावसुं तृतीयं च चतुर्थं सोममीश्वरम् ।
पञ्चमं पर्वतं चैव योगेन्द्रं तदनन्तरम् ।। ४८ ।।
सप्तमं च ततो वायुमष्टमं निर्ऋतिं वसुम् ।
धर्मस्यापत्यमित्येवं सुरभ्यां समजायत ।। ४९ ।।
विश्वेदेवास्तु विश्वायां धर्माज्जाता इति श्रुतिः ।
सुधर्मा च महाबाहुः शङ्खपाच्च महाबलः ।। ५० ।।
दक्षश्चैव महाबाहुर्वपुष्मांश्च तथैव च ।
चाक्षुषस्य मनोरेते तथानन्तमहीरणौ ।। ५१ ।।
विश्वावसुसुपर्वाणौ विष्टरश्च महायशाः ।
रुरुश्च ऋषिपुत्रो वै भास्करप्रतिमद्युतिः ।। ५२ ।।
विश्वेदेवान्देवमाता विश्वेशाञ्जनयत्सुतान् ।
मरुत्वती मरुत्वत्तो देवानजनयच्छुभान् ।। ५३ ।।
अग्निं चक्षुर्हविर्ज्योतिः सावित्रं मित्रमेव च ।
अमरं शरवृष्टिं च संक्षयं च महाभुजम् ।। ५४ ।।
विरजं चैव शुक्रं च विश्वावसुविभावसू।
अश्मन्तं चित्ररश्मिं च तथा निष्कुपितं नृपम् ।। ५५ ।।
हूयमानं च हूतिं च चारित्रं बहुपन्नगम् ।
बृहन्तं च बृहद्रूपं तथैव परतापनम् ।। ५६ ।।
मरुत्वत्यां पुरा धर्माज्जज्ञे पुत्रद्वयं शुभम् ।
अदित्यां जज्ञिरे राजन्नादित्याः कश्यपादथ ।
इन्द्रो विष्णुर्भगस्त्वष्टा वरुणोंऽशोऽर्यमा रविः।। ५७ ।।
पूषा मित्रश्च वरदो मनुः पर्जन्य एव च ।
इत्येते द्वादशादित्या वरिष्ठास्त्रिदिवौकसः ।। ५८ ।।
आदित्यस्य सरस्वत्यां जज्ञे पुत्रद्वयं शुभम् ।
रूपश्रेष्ठं बलश्रेष्ठं त्रिदिवे रूपिणां वरम् ।। ५९ ।।
दनुस्तु दानवाञ्जज्ञे दितिर्दैत्यान् व्यजायत ।
काला नु कालकेयांश्च ह्यसुरान्राक्षसांस्तथा ।। ६० ।।
दनायुषायास्तनया व्याधयश्चाधयस्तथा ।
सिंहिका ग्रहमाता च गन्धर्वजननी मुनिः ।। ६१ ।।
प्रबोधाप्सरसां माता सुरसायां सरीसृपाः ।
क्रोधायाः सर्वभूतानि पिशाचाश्चैव भारत ।। ६२ ।।
तथा यक्षगणाश्चैव गुह्यकाश्च विशाम्पते ।
चतुष्पदानि सर्वाणि ऋते गावस्तु सौरभाः ।। ६३ ।।
अरुणो गरुडश्चैव विनतायां व्यजायत ।
महीधरान् सर्पनागान् देवी कद्रूर्व्यजायत ।। ६४ ।।
एवं विवृद्धिमगमन् विश्वेलोकाः परस्परम्।
तदा पौष्करके राजन् प्रादुर्भावे महात्मनः ।। ६५ ।।
पुराणे पौष्करं चैव मया द्वैपायनाच्छ्रुतम् ।
कथितं तेन पूर्वेण यत् कृतं परमर्षिभिः ।। ६६ ।।
यश्चेदमग्र्यं प्रथमं पुराणं
सदाप्रमत्तः पठते महात्मा ।
अवाप्य कामानिह वीतशोकः
परत्र स स्वर्गफलानि भुङ्क्ते ।। ६७ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे सर्वभूतोत्पत्तौ चतुर्दशोऽध्यायः ।। १४ ।।