प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०२१ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०२२
[[लेखकः :|]]
अध्यायः ०२३ →
दक्षेण स्वार्द्धांगेन स्त्री भूत्वा अनेकाः कन्यानां उत्पत्तिः, तेषां धर्माय, कश्यपाय, सोमाय च दानं, कश्यपस्य दक्षकन्यानां च संततीनां वर्णनं, देवलोके जन्मगृहीतॄणां योग्यता

द्वाविंशोऽध्यायः

जनमेजय उवाच
साध्वहं श्रोतुमिच्छामि त्रेतायां ब्राह्मणोत्तम ।
यज्ज्ञात्वा सर्वविद्यानां परं पश्येयमव्ययम् ।। १ ।।
वैशम्पायन उवाच
दक्षस्तु पुनरालम्ब्य स्त्रीभावं पुरुषोत्तमः ।
योगाद् योगेश्वरात्मानं निषण्णो गिरिमूर्धनि ।। २ ।।
सुजानुः पीनजघना सुभ्रूरः पद्मनिभानना ।
रक्तान्तनयना कान्ता सर्वभूतमनोरमा ।।३।।
दक्षः प्राचेतसस्तस्यां कन्यायां जनयत् प्रभुः ।
देहार्धयोगविधिना कन्याः पद्मनिभाननाः ।। ४ ।।
दक्षः पुरुषरूपेण स्त्रीरूपमपहाय वै ।
दर्शने सर्वभूतानां कान्तः कान्ततरोऽभवत् ।। ५ ।।
ताः कन्याः प्रददौ दक्षः स्वयं प्राचेतसः प्रभुः ।
ब्रह्मदेयेन विधिना ब्रह्मप्राप्तेन भारत ।। ६ ।।
प्रददौ दश धर्माय कश्यपाय त्रयोदश ।
सप्तविंशति सोमाय पत्नीहेतोः समाहितः ।। ७ ।।
दक्षो दत्त्वाथ ताः कन्या ब्रह्मक्षेत्रं प्रपद्य च ।
ब्रह्मणाध्युषितं पुण्यं समाहितमना मुनिः ।। ८ ।।
तप्यमानो मृगैः सार्धं चचार वसुधां नृप ।
तृणमूलफलैर्वृद्धो वृद्धश्च तपसासकृत् ।। ९ ।।
मृगास्तु तस्य मोदन्ति फलं मोदन्ति ब्राह्मणाः ।
दीक्षिताः पुण्यकर्माणस्तपसा दग्धकिल्बिषाः ।। 3.22.१० ।।
संग्रामकाले कालज्ञः शरीरादिपतिर्मुनिः ।
कर्मयज्ञकृतां तात सिद्धिं पश्यति लक्षणात् ।। ११ ।।
दानमानप्रवीराश्च निरुद्वेगा निरामिषाः ।
मृगैः सह जरां यान्ति सपत्नीकाः सुपुत्रिणः ।। १२ ।।
ब्राह्मणाः स्तोत्रसंसिद्धा जनित्रे प्रथमे पदे ।
ब्रह्मणाध्युषितत्वाच्च ब्रह्मक्षेत्रमिहोच्यते ।। १३ ।।
यतिभिः कर्मभिर्मुक्तैर्जितक्रोधैर्जितेन्द्रियैः ।
चरद्भिर्वसुधां विप्रैरकिंचनपथैषिभिः ।। १४ ।।
या प्रजा सर्वमारूढा मानसी ब्रह्मचारिणी ।
सैवैषा व्यक्तिमापन्ना स्वभावदुरतिक्रमा ।। १५ ।।
अव्यक्ता व्यक्तमापन्ता स्वभावाद् दुरतिक्रमा ।
व्यक्ताव्यक्तगतिश्चैषा कालधर्मान्महीपते ।। १६ ।।
स्थावरा जङ्गमाश्चैव स्थूलसूक्ष्माश्च भारत ।
कालयोगेन योगज्ञा भवन्ति न भवन्ति च ।। १७ ।।
एताश्चैताः प्रजाः सर्वा दक्षकन्यासु जज्ञिरे ।
कश्यपेनाव्ययेनेह संयुक्ताः कालधर्मणा ।। १८ ।।
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ।
नागाश्चानेकशिरसः साध्या वै पन्नगास्तथा ।। १९ ।।
गन्धर्वाः किन्नरा यक्षाः सुपर्णाश्च तथापरे ।
गरुत्मान् सह यक्षैश्च किन्नराश्च सुवाससः ।। 3.22.२० ।।
गावः पशुगणैः सार्धं नराश्च वसुधाधिप ।
चराचराश्च वसुधाधर्तारश्च धराधराः ।। २१ ।।
गजाः सिंहाश्च व्याघ्राश्च हयाः पक्षधरास्तथा ।
खड्गा विषाणिनश्चैव वृषभाश्च मृगास्तथा ।। २२ ।।
चतुर्विषाणा नागेन्द्राः पद्माभा वर्णतः शुभाः ।
सर्वलक्षणसम्पन्नाः प्राणिनः कामरूपिणः ।। २३ ।।
तेषां रूपैस्तथा गात्रैस्तैः शीलैस्तैः पराक्रमैः ।
मुनयः पुनरुद्भूता धर्मक्षेत्रे सनातने ।।। २४ ।।
क्षेत्रज्ञा मानसे लोके धर्मिणो वेदगोचराः ।
यत्रोद्भूताः सुराः सर्वे दिवि लोके प्रतिष्ठिताः ।। २५ ।।
ये चान्ये तपसा सिद्धा गृहस्था मनुजाधिप ।
ब्रह्मचर्येण संसिद्धाः परिचर्यां गता गुरोः ।। २६ ।।
ये च योगगतिं प्राप्ताः सिद्धिहेतोर्महीपते ।
क्लेशाधिकैः कर्मजन्यैर्वृत्तिं लप्स्यन्ति वै द्विजाः।। २७ ।।
शिलोञ्छवृत्तयः ख्याताः सपत्नीका दृढव्रताः ।
सर्वे त्वेते दिविचरा भवन्ति चरितव्रताः ।। २८ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे द्वाविंशोऽध्यायः ।। २२ ।।