प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०२६ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०२७
[[लेखकः :|]]
अध्यायः ०२८ →
मधोः पतनात् समस्तेषु प्राणिषु हर्षं, तत्र एकत्रितानां पर्वतानां वसन्त ऋतोश्च वर्णनं, मधुवाहिनी नद्याः प्राकट्यं, गौरीसिद्ध्याः माहात्म्यम्

सप्तविंशोऽध्यायः

वैशम्पायन उवाच
मधोर्निपतनं दृष्ट्वा सर्वभूतानि पुष्करे ।
प्रहृष्टानि प्रगायन्ति प्रनृत्यन्ति च सर्वशः ।। १ ।।
सुपार्श्वो गिरिमुख्यस्तु काञ्चनैः शिखरोत्तमैः ।
बहुधातुविचित्रैश्च खं लिखन्निव चाबभौ ।। २ ।।
गिरयश्चाभिशोभन्ते धातुभिः समरञ्जिताः ।
प्रांशुभिः शिखराग्रैश्च सविद्युत इवाम्बुदाः ।। ३ ।।
पक्षवातोद्धतो रेणुश्चूर्णैः साञ्जनवालुकैः ।
छादयन् पर्वताग्राणि महामेघ इवाबभौ ।। ४ ।।
मेघसंश्लिष्टशिखराः पक्षविक्षिप्तपादपाः ।
काञ्चनोद्भेदबहुलाः खे तिष्ठन्तीव पर्वताः ।। ५ ।।
पक्षवन्तः सशिखरा हेमधातुभिरञ्जिताः ।
पवनेन समुद्भूतास्त्रासयन्ति विहङ्गमान् ।। ६ ।।
काञ्चनाः पर्वताः सर्वे स्फाटिकैर्मणिभिश्चिताः ।
सूर्यकान्तैश्च बहुभिश्चन्द्रकान्तैश्च निर्मलाः ।। ७ ।।
हिमवांश्च महाशैलः श्वेतैर्धातुभिराचितः ।
काञ्चनैः शिखराग्रैश्च सूर्यपादप्रकाशितैः ।। ८ ।।
मणिभिश्च प्रकाशद्भिः पक्षान्तरविनिःसृतैः ।
ताम्रपुष्पैश्च शिखरैर्दीप्यमानैः स्वतेजसा ।। ९ ।।
मन्दरश्चोग्रशिखरः स्फाटिकैर्मणिभिश्चितः ।
वज्रगर्भो निरालम्बैः स्वर्गोपम इवाबभौ ।। 3.27.१० ।।
सहस्रशृङ्गः कैलासः शिलाधातुविभूषितः ।
तोरणैश्चैव निबिडैः प्रांशुभिश्चैव पादपैः ।। ११ ।।
प्रवादयद्भिर्गन्धर्वैः किन्नरैश्च प्रगायिभिः ।
देवकन्याङ्गरागैश्च प्रक्रीडाद्रिरिवाबभौ ।। १२ ।।
मधुरैर्वाद्यगीतैश्च नृत्यैश्चाभिनयोद्गतैः ।
शृङ्गारैः साङ्गहारैश्च कैलासो मदनायते ।। १३ ।।
आदित्याभासिभिः शृङ्गैर्भिन्नाञ्जनचयोपमैः ।
विन्ध्यो नीलाम्बुदश्यामो विभिन्न इव तोयदः ।। १४ ।।
धात्वर्थं सर्वभूतानां मेरुपृष्ठे महाबले ।
निर्वेमुर्विमलं तोयं मेघजालैरिवोत्तमैः ।। १५ ।।
शिलाभिर्बहुचित्राभिर्धातुभिर्बहुरूपिभिः ।
प्रस्रवद्भिर्गुहाद्वारैः सलिलं स्फटिकप्रभम् ।। १६ ।।
ग्रीष्मान्ते वायुसंगूढा घना इव सविद्युतः ।
चित्रैः पुष्पैस्तरुगणाः शोभन्त इव भूषिताः ।। १७ ।।
नागाः कनकसम्भूतैर्विचित्रैरिव भूषिताः ।
विहंगमाभिलीनाश्च लतास्तरुसमाश्रिताः ।। १८ ।।
विलम्बन्त्यः सपुष्पाश्च नृत्यन्ते वायुघट्टिताः ।
पवनेन समुद्भूता महता माधवेऽहनि ।। १९ ।।
मुमुचुः पुष्पसंघातं तोयं वेलेव वर्षति ।
फलवद्भिश्च विपुलैः शास्त्रास्कन्धावरोहिभिः ।
पादपैर्वर्णबहुलैर्ध्रियेत च वसुंधरा ।। 3.27.२० ।।
मधुप्रिया मधुकरा मधुमत्ता विहंगमाः ।
घोषयन्तीव गायन्तः कामस्यागमसम्भवम् ।। २१ ।।
विष्णुर्मधोर्निहन्ता च चकार मधुवाहिनीम् ।
नदीं प्रस्रवनिर्भेदां सुतीर्था बहुलोदकाम् ।। २२ ।।
अंगारवर्णसिकतां मधुतीर्थां मनोरमाम् ।
विमलैरम्बुभिः पूर्णां पुष्पसंचयवाहिनीम् ।। २३ ।।
विवेश पुष्करं सा तु ब्रह्मणो वाक्यनोदिता ।
ऋषिभिश्चानुचरिता ब्रह्मतन्त्रनिषेविभिः ।। २४ ।।
धात्री कपिलरूपेण गौर्भूत्वा क्षरते पयः ।
मधुरं वितते यज्ञे ब्रह्मणो वाक्यचोदिता ।। २५ ।।
सरश्च पृथिवीभूतं संधातुं प्राप्तवन्महीम् ।
शुद्धं च भजते लोकं शाश्वतं परमाद्भुतम् ।। २६ ।।
सरस्वत्याः समुद्भूतं ब्रह्मक्षेत्रे तमोनुदम्।
मरुतीर्थमतिक्रम्य पुष्करेषु विसर्पति ।। २७ ।।
सुचारुरूपा धर्मज्ञा अजा रूपेण छादयन् ।
रूपं कनकवर्णाभं तपोयुक्तेन चेतसा ।। २८
अजगन्धकृतोन्मुक्तः सम्भूतः पर्वतो महान् ।
गुरुद्धारगुणप्राणः शाश्वतः सिद्धसेवितः ।। २९ ।।
वेदिकाभिः सुचित्राभिः काञ्चनाभिर्विराजितः ।
पुष्कराणि परीतानि त्वष्ट्रा विपुलदक्षिण ।। 3.27.३० ।।
महामेरोर्यथा रूपं पञ्चभिर्धातुभिर्वृतः ।
चेतना याभिसम्पन्नो रूपेणाद्भुतदर्शनः ।। ३१ ।।
करिष्याम्यहमप्येतन्मनसा धर्मचारिणम् ।
रूपं बहुविधं लोके पार्थिवीं चेतनां तथा ।। ३२ ।।
त्रींश्च लोकान् प्रपद्येयं पञ्चभिर्धातुलक्षणैः ।
षष्ठेन च ससर्जेयं मनसा धर्मचारिणीम् ।। ३३ ।।
सङ्गेषु भावमोहाभ्यां पश्यन्ति च समृद्धयः ।
विमुक्ताः सर्वसङ्गेभ्यो धारयन्ति परिग्रहान् ।। ३४ ।।
न च विन्देत मां कश्चिन्मनसा कामरूपिणम् ।
पञ्चधातुनिबद्धश्च नानाभाषितचोदनः ।। ३५ ।।
ये च विष्णुमधीयन्ते बहुधा कामविग्रहैः ।
ते मां पश्येयुरव्यक्तं तपसा दग्धकिल्बिषाः ।। ३६ ।।
ये च मामभिरोहेयुर्नरा धर्मपथे स्थिताः ।
तेऽपि स्वर्गजितः सन्तः पश्येयुर्मां गतक्लमाः ।। ३७ ।।
यश्चैव पर्वतः प्रांशुर्मेरुपृष्ठे व्यवस्थितः ।
एतमारुह्य युध्येयुः प्राणत्यागे सुनिर्मलाः ।। ३८ ।।
अप्सरोभिः समागम्य विचरेयुर्मनोजवाः ।
नन्दनं वनमारुह्य काम्यकं च महद्वनम् ।। ३९ ।।
इमां विद्यां समास्थाय मद्भक्ताः पुष्करेष्विह ।
शरीरं क्षपयिष्यन्ति व्रतैर्बहुविधैः कृतैः ।। 3.27.४० ।।
सिद्धिं प्राप्य क्रमेयुस्ते कामैर्बहुविधैर्नराः ।
इमं लोकममुं चैव सम्पतेयुर्यथासुखम् ।। ४१ ।।
गौरी सिद्धेतिव्याख्याता त्रिषु लोकेषु विद्यया ।
प्रभावं तपसा वृत्तं दर्शयन्ती समाहिताः ।। ४२ ।।
षण्णां ज्ञानाभिसंधीनामभिज्ञानात् ससंग्रहाः ।
भवेयुस्ते निरारम्भा धातुनिर्मुक्तबन्धनाः ।। ४३ ।।
सहस्रगुणमप्यत्र दत्त्वा दानफलादिव ।
अविमानेन विप्राणां मनःशुद्धेन कर्मणा ।। ४४ ।।
सर्वत्रैवाप्रमेयेण अत्यन्तं फलमाप्नुयुः ।
अमुष्मिँल्लोके धर्मज्ञाः सह सर्वकुलोद्भवैः ।। ४५ ।।
येषामिह च सांनिध्यं यज्ञे ब्राह्मणसंकुले ।
ते भूयो यजमानाद्या अभिषिच्य पुनः पुनः ।। ४६ ।।
तथा तां मन्यसे गौरीं मनसा धर्मचारिणीम् ।
अनुग्रहाय भूतानां तन्ममाग्रे तपोधने ।। ४७ ।।
सत्य एष परोऽविद्ये भविता नात्र संशयः ।
नाफलो विद्यते धर्मश्चरितो धर्मचारिणा ।। ४८ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे सप्तविंशोऽध्यायः।। २७ ।।