हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०५१

← अध्यायः ०५० हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०५१
[[लेखकः :|]]
अध्यायः ०५२ →


अनुह्रादश्च तत्रैव दैत्यः परमदुर्जयः।
हिरण्यकशिपोः पुत्रः प्रययौ युद्धलालसः ।। १ ।।
चतुश्चक्रेण यानेन त्रिनल्वप्रतिमेन तु ।
युक्तेनाश्वैर्महावीर्यैः सिंहवक्त्रैरजिह्मगैः ।। २ ।।
भीमगम्भीरनादेन नेमिघोषेण वीर्यवान् ।
चालयन् वसुधां सर्वां सशैलवनकाननाम् ।। ३ ।।
विनर्दमाना दैत्यौघा अनुह्रादं ययुः शुभाः ।
शतं शतसहस्राणां रथानां हेममालिनाम् ।। ४
परिघैर्भिन्दिपालैश्च भल्लैः पाशैः परश्वधैः ।
विविधायुधहस्तास्ते शूलमुद्गरपाणयः ।। ५ ।।
सुवर्णजालनिर्मुक्तैर्वज्रैश्च समलंकृताः ।
रथैश्चित्रैश्च कवचैः सज्जमाना महासुराः ।। ६ ।।
तदा विशालोच्छ्रितशैलरूपे
बभौ रथे काञ्चनचित्रिताङ्गे ।
दैत्याधिपः सत्त्वबलानुरूपे
समास्थितस्त्वप्रतिमे सुरूपे ।। ७ ।।
विरोचनश्च बलवान् वैश्वानरसमद्युतिः।
महता रथवंशेन सर्वास्त्रकुशलः शुचिः ।। ८ ।।
व्यूहानां विनियोगज्ञो ज्ञानविज्ञानतत्त्ववित् ।
बलेः पितासुरवरः सुराणामिव वासवः ।। ९ ।।
सर्वायुधसमोपेतं किङ्किणीजालभूषितम् ।
युक्तानां हाजिमुख्यानां सहस्रेणाशुगामिनाम् ।। 3.51.१० ।।
रथमारुह्य दैत्येन्द्रो बभौ मेरुरिवापरः ।
किङ्किणीजालपर्यन्तं गजेन्द्रध्वजशोभितम्।
संध्याभ्रसमवर्णाभिः पताकाभिरलंकृतम् ।। ११
प्रवालजाम्बूनदभक्तिचित्रं
व्यालम्बिमुक्ताफलभूषितं च ।
रथं समारुह्य किरीटमाली
ययौ स युद्धाय महासुरेन्द्रः ।। १२ ।।
विरोचनानुजश्चैव कुजंभो नाम दानवः ।
स्यन्दनैर्बहुसाहस्रैर्मणिकाञ्चनभूषितैः ।। १३
वृतो मदबलात् सिक्तैर्देवारिभिररिंदमः ।
प्रासपाशगदाहस्तैर्दानवैर्युद्धकाङ्क्षिभिः ।। १४ ।।
स पर्वतनिभाकारो भिन्नाञ्जनचयप्रभः ।
महता भ्राजमानेन किरीटेन सुवर्चसा ।। १५ ।।
सर्वरत्नविचित्रेण कवचेन च संवृतः ।
महता दीप्तवपुषा रथेनेन्दुरिवांशुमान् ।। १६ ।।
शातकौम्भेन महता तालवृक्षेण केतुना ।
रराज रथमध्यस्थो मेरुस्थ इव भास्करः ।। १७ ।।
रणपटुरतिवीर्यसत्त्वबुद्धिः
सुरसमराभिमुखः प्रयाति तूर्णम्।
असुरगणसमावृतः कुजम्भ-
स्त्रिदशगणैरिव बृत्रहामरेन्द्रः ।। १८ ।।
असिलोमा च तत्रैव दानवः पर्वतायुधः ।
दारुणं वपुरास्थाय दारुणो दारुणाननः ।। १९ ।।
रौद्रः शकटचक्राक्षो महाकायो महाबलः ।
कृष्णवासा महादंष्ट्रः किरीटी लोहिताननः ।। 3.51.२० ।।
वृतो दैत्यसहस्रौघैर्गिरिपादपयोधिभिः ।
नानारूपधरैर्दृप्तैर्दैत्यैस्त्रिदशशत्रुभिः ।। २१ ।।
ते शूलहस्ता गगने चरन्त
इतस्ततस्तोयदवृन्दतुल्याः ।
खं छादयन्तस्तपनीयनिष्का
यथोन्नताः प्रावृषि कालमेघाः ।। २२ ।।
दनायुषायाः पुत्रस्तु वृत्रो नाम महासुरः ।
देवशत्रुर्महाकायस्ताम्रास्यो निर्नतोदरः ।। २३ ।।
दीप्तजिह्वो हरिश्मश्रुरूर्ध्वरोमा महाहनुः ।
नीलाङ्गो लोहितमुखः किरीटी लोहिताम्बरः ।। २४
आजानुबाहुर्विकृतः श्वेतदंष्ट्रो विभीषणः ।
महामायाधरो भीमो हेमकेयूरभूषणः ।। २५ ।।
महता मणिचित्रेण कवचेन तु संवृतः ।
हेममालाधरो रौद्रश्चक्रकेतुरमर्षणः ।। २६।।
किंकिणीशतसंघुष्टं तपनीयविभूषितम् ।
युक्तं हयसहस्रेण रक्तध्वजपताकिनम् ।। २७
रथानीकेन महता युद्धायाभिमुखो ययौ ।
दिव्यं स्यन्दनमास्थाय दैत्यानां नन्दिवर्धनः ।। २८ ।।
तपितकनकबिन्दुपिङ्गलाक्षो
दितितनयोऽसुरसैन्ययुद्धनेता ।
विकसितकमलाभचारुचक्षुः
सितदशनः शुशुभे रथासनस्थः ।। २९ ।।
एकचक्रस्तु तत्रैव सूर्यचक्र इवोदितः ।
कालचक्रसमो रौद्रश्चक्रायुध इवोद्यतः ।। 3.51.३० ।।
सर्वायसमयं दिव्यं रथमास्थाय भासुरम् ।
वृतो दैत्यगणैर्दृप्तैः कालायसशिलायुधैः ।। ३१ ।।
तस्याशीतिसहस्राणि रथिनां चित्रयोधिनाम् ।
सर्वे कालान्तकप्रख्या रुधिराक्षा महाबलाः ।
आयसैः काञ्चनैश्चैव संनद्धा वरवर्णिनः ।। ३२ ।
व्यराजन्तान्तरिक्षस्था नीला इव पयोधराः।।
सर्वे कालान्तकप्रख्या धीराः समरदुर्जयाः ।। ३३ ।।
सागरोदरगम्भीरा नीलचक्रा दुरासदाः ।
नेदुर्यान्तोऽसुरवरा वेलातीता इवार्णवाः ।। ३४ ।।
ते भीममायाः सुसमृद्धकायाः
किरीटिनः काञ्चनभूषिताङ्गाः ।
ययुस्तदा स्वायुधदीप्तहस्ता
नभः सपक्षा इव पर्वतेन्द्राः ।। ३५ ।।
संदिष्टो बलिपुत्रेण वृत्रभ्राता महासुरः ।
वधाय सुरसैन्यस्य संनह्यस्वेति वीर्यवान् ।। ३६ ।।
हेममाली महादंष्ट्रः स्रग्वी रुचिरकुण्डलः ।
रक्तमाल्याम्बरधरश्चण्डः समरदुर्जयः ।। ३७ ।।
सुमहावृत्तनयनः स किरीट धनुर्धरः ।
प्रभिन्न इव मातङ्गः शार्दूलसमविक्रमः ।। ३८
महातालनिभं चापं तथा रुचिरसायकम् ।
विस्फारयन् महावेगं वज्रनिष्पेषनिःस्वनम् ।। ३९ ।।
रथेन खरयुक्तेन ध्वजेन भुजगेन च ।
शुशुभे स्यन्दनस्थः स संध्यागत इवांशुमान् ।। 3.51.४० ।।
रथैस्तु बहुसाहस्रैर्हेमपट्टविभूषितैः ।
शूलमुद्गरसम्पूर्णैर्जलपूर्णैरिवाम्बुदैः ।
स दैत्येन्द्रोऽभिचक्राम तस्मिन्युद्ध उपस्थिते ।। ४१ ।।
पवनसमगतिर्विशालवक्षा
विकसितपङ्कजचारुगर्भगौरः ।
प्रवररथगतो ययौ स तूर्णं
त्रिदशगणैरभिलक्षितप्रभावः ।। ४२ ।।
सिंहिकातनयश्चैव राहुर्नाम महासुरः ।
विकटः पर्वताकारः शतशीर्षा शतोदरः ।। ४३ ।।
पीतमाल्याम्बरधरो जाम्बूनदविभूषितः ।
स्निग्धवैदूर्यस्रंकाशः पद्मपत्रनिभेक्षणः ।। ४४ ।।
सर्वकाञ्चनसंयुक्तं मणिजालपरिष्कृतम् ।
पताकाशतसंकीर्णं युक्तं परमवाजिभिः ।। ४५ ।।
आरुरोह रथं दिव्यं दैत्यः परमवीर्यवान् ।
ननाद च महानादं कम्पयन् वसुधातलम् ।। ४६ ।।
मयेन विहितो दिव्यस्तस्य केतुर्हिरण्मयः ।
मयूरपक्षसंकाशं कवचं चायसं महत् ।।४७ ।।
भीमवेगरवैश्चान्यै रथैर्दिव्यैः सुभासुरैः ।
नानाप्रहरणाकीर्णैः सेव्यमानो महाबलः ।। ४८ ।।
असुरगणपतिर्गजेन्द्रगामी
अतिरभसगतिर्महासुराणाम् ।
अरिगणमभितो विभुः प्रयातो
गिरिवरमस्तमिवांशुमान् सुदीप्तः।।४९।।
विप्रचित्तिस्तु तत्रैव दनोर्वंशविवर्धनः ।
कश्यपस्यात्मजः श्रीमान् ब्रह्मणस्तेजसा समः।। 3.51.५० ।।
यष्टा क्रतुसहस्राणां वेदवित् तपसान्वितः ।
स्वयम्भुवा दत्तवरो वरदश्च स्वयम्भुवः ।
ईशित्वं च महत्त्वं च वशित्वं च महाद्युतेः ।। ५१ ।।
ऐश्वर्यगुणसम्पन्नो ब्रह्मेव स्वयमूर्जितः ।
सार्धं पुत्रैश्च पौत्रैश्च संनह्यत महाबलः ।। ५२ ।।
सर्वे मायाधराः शूराः कृतास्त्रा रणदुर्जयाः ।
सर्वे कमलवर्णाभा हेमकूटोच्छ्रयोच्छ्रयाः ।। ५३ ।।
सर्वे रजतसंकाशाः कैलासशिखरोपमाः ।
मयेन निर्मितास्तेषां सर्वे मायामया रथाः ।। ५४ ।।
विचरन्तो व्यराजन्त शारदा इव तोयदाः ।
सर्वे हंसध्वजाः श्वेताः श्वेतदण्डसमुच्छ्रयाः।।५५।।
श्वेताम्बरधरा दैत्याः श्वेतमाल्यविभूषिताः ।
श्वेतातपत्राः सर्वे ते श्वेतकुण्डलमण्डिताः ।। ५६ ।।
मुक्ताहारवृतोरस्का भान्ति नाकेश्वरा इव।
महाग्रहनिभाकाराः शत्रूणां लोमहर्षणाः ।। ५७ ।।
रक्तचित्राम्बरधराश्चित्राभरणभूषिताः ।
त्रैलोक्यविजयं नाम रथमास्थाय वीर्यवान् ।
कैलासशिखराकारमष्टनल्वायतान्तरम् ।। ५८ ।।
युक्तं वाजिसहस्रेण सितेन सितवर्चसा ।
पताकाशतसंछन्नं नानायुद्धविकल्पितम् ।। ५९ ।।
हिमांशुकुन्दप्रतिमं विशालं
सितातपत्रं दनुजेश्वरस्य ।
विभाति तस्योपरि धार्यमाणं
श्वेताद्रिमूर्धोपगतः शशाङ्कः ।। 3.51.६० ।।
केशी दानवमुख्यस्तु जिह्मस्ताम्राक्षदर्शनः ।
नीलमेघचयप्रख्यः कालः पुरुषविग्रहः ।। ६१ ।
महाग्रहनिभाकारः शत्रूणां लोमहर्षणः ।
चित्रमाल्याम्बरधरो रक्ताभरणभूषितः ।। ६२ ।।
शताक्षः शतबाहुश्च हरिश्मश्रुर्महाबलः ।
शङ्कुकर्णो महानादो वपुषा घोरदर्शनः ।। ६३ ।।
युक्तं महिषकैर्दिव्यैर्घण्टाकोटिकृतस्वनम् ।
महावारिधराकारमास्थाय रथमुत्तमम् ।। ६४ ।।
ध्वजेनोष्ट्रेण महता नीलकेसरवर्चसा ।
नानारागविचित्राभिः पताकाभिर्विभूषितम् ।। ६५ ।।
द्विपञ्चाशत्सहस्राणि रथानामुग्रवर्चसाम्।
ययुस्तस्यासुरेन्द्रस्य प्रयातस्य सुरान् प्रति।।६६।।
भान्ति भिन्नाञ्जननिभाः प्रयातस्य महात्मनः ।
दंष्ट्रार्धचन्द्रवदनाः सबलाका इवाम्बुदाः ।। ६७ ।।
तत् तस्य वैदूर्यसुवर्णचित्रं
विद्युत्प्रभं भास्कररश्मितुल्यम्।
किरीटमाभात्यसुरोत्तमस्य
दावाग्निदीप्तं शिखरं यथाद्रेः ।। ६८ ।।
वृषपर्वासुरश्चैव श्रीमांश्च सुरसूदनः ।
आरुरोह रथं दिव्यं मेरुशृङ्गमिवांशुमान् ।। ६९ ।।
प्रवालजाम्बूनदचित्रकूबरं
महारथं भारसहं महार्हम् ।
स्वलंकृतं राजतनेमिमण्डलं
गभस्तिनक्षत्रतडिन्निकाशम् ।। 3.51.७० ।।
केयूरयुक्ताङ्गदनद्धबाहुः
सहस्रतारेण च चर्मणा सः ।
सांग्रामिकैराभरणैश्च चित्रै-
र्मध्याह्नसूर्यप्रतिमो बभूव ।। ७१ ।।
महाबलो बद्धतलाङ्गुलित्रो
बलोत्कटः किंशुकलोहिताक्षः ।
प्रगृह्य चामीकरचारुचित्रं
चापं स्थितो वृत्तविशालनेत्रः ।। ७२ ।।
महासुरेन्द्रश्च महासुरैर्वृतो
बलिस्तदा स्यन्दनमारुरोह ।
वैदूर्यहेमोपचितं विशालं
विद्युत्प्रभं षोडशनल्वमात्रम् ।। ७३
युक्तं सहस्रेण दितेः सुतानां
गजाननं विकृताकृतीनाम् ।
चामीकरोरः स्थलभूषितानां
प्रनर्दतां प्रावृषि चाम्बुदानाम्।। ७४
महारथं देवरथप्रकाशं
सहस्रमायेन मयेन सृष्टम् ।
ईहामृगाक्रीडितभक्तिचित्रं
दिव्यं रथं दिव्यरथानुयातम् ७५ ।।
सकिङ्किणीकं विमलं सुविस्तृतं
हिरण्मयैः पद्मशतैरलंकृतम् ।
अभ्याददे वैजयिकीं जयाय
स्रजं वलिर्हेमविचित्रपुष्पाम् ।। ७६ ।।
आबध्य मालां प्रभया विचित्रां
बलिस्तदा भाति भुजैर्विशालैः ।
रराज तैः सर्वसमृद्धियुक्तै-
र्महार्चिषा सूर्य इवाम्बरस्थः ।। ७७ ।।
स्रजं तदा बध्यति चास्य दुर्गा
सर्वासुराणामिव हारभूताम् ।
वैरोचनिः सर्वश्रियाभिजुष्टो
बिभ्राजतेऽसौ शरदीव चन्द्रः ।। ७८ ।।
मेरोस्तटे वा ज्वलनप्रकाशे
ह्यादित्यसंयुक्तमिवाभ्रजालम् ।
प्रासाश्च पाशाश्च हिरण्यबद्धा
वर्माणि खड्गाश्च परश्वधाश्च ।। ७९ ।।
धनूंषि वज्रायुधसप्रभाणि
दिव्या गदा वज्रमुखाश्च शक्त्यः ।
दिव्याश्च खड्गा विशिखाश्च दीप्ता
नाराचपूर्णा विविधाश्च तूणाः।। 3.51.८० ।।
धृता रथे दैत्यवृषस्य तस्य
चकाशिरे प्रज्वलिता यथोल्काः ।
तं चामरापीडधराः सुदंष्ट्राः
सुवर्णमुक्तामणिहेमचित्राः ।। ८१ ।।
वीजन्ति बालव्यजनैर्विनीता
महासुराः स्यन्दनवेदिकास्थाः ।
अयःशिरा अश्वशिरा दुरापः
शिबिर्मतङ्गो विशिराः शताक्षः ।। ८२ ।।
अयो निकुम्भः क्रथनश्च दानवो
ररक्षिरे ते दश दानवाधिपम् ।
पुरश्चराश्चैव सहस्रशोऽसुराः
पदातयो दानवराजरक्षिणः ।। ८३ ।।
शतघ्निचक्राशनिशक्तिपाणयः
प्रजग्मुरग्रेऽनिलतुल्यवेगिनः ।
घण्टा सुशब्दास्तपनीयबद्धा
आडम्बरा गर्गरडिण्डिमाश्च ।। ८४ ।।
महारवा दुन्दुभयश्च नेदू
रथप्रयाणे दितिजेश्वरस्य ।
तस्योत्थितः काञ्चनवेदिकाढ्यो
हिरण्मयो दिव्यमहापताकः ।। ८५ ।।
महाध्वजो वै तपनीयनद्धो
रराज वीरस्य यथा विवस्वान् ।
समुच्छ्रितं काञ्चनमातपत्रं
स्रक्काञ्चनी वक्षसि चास्य भाति ।। ८६ ।।
समन्ततश्चाप्यसुराश्चरन्ति
दैत्यर्षयः प्राञ्जलयो जयन्ति ।
पुरोहिताः शत्रुवधे समाहिता-
स्तथैव चान्ये श्रुतशीलवृद्धाः ।। ८७ ।।
जपैश्च मन्त्रैश्च तथौषधीभि-
र्महात्मनः स्वस्त्ययनं प्रचक्रुः ।
स तत्र वस्त्राणि शुभाश्च गावः
फलानि पुष्पाणि तथैव निष्कान्।। ८८ ।।
बलिर्द्विजेभ्यः प्रयतः प्रयच्छन्
विराजतेऽतीव यथा धनेशः ।
सहस्रसूर्यो बहुकिङ्किणीकः
परार्द्ध्यजाम्बूनदहेमचित्रः ।।८९ ।।
सहस्रचन्द्रायुततारकश्च
रथो बलेरग्निरिवावभाति ।
तमास्थितो दानवसंगृहीतं
महाबलः कार्मुकधृक् सबाणः ।। 3.51.९० ।।
उद्वर्तयिष्यंस्त्रिदशेन्द्रसेना-
मतीव रौद्रं स बिभर्तिरूपम् ।
स वेगवान् वीररथौघसंकुलः
प्रयाति देवान् प्रति दैत्यसागरः।। ९१ ।।
महार्णवो वीचितरङ्गसंकुलो
यथा जलौघैर्युगसंक्षये तथा ।
त्रैलोक्यवित्रासकरैर्वपुर्भि
स्तान्यग्रतो यान्ति बले रथस्य ।। ९२ ।।
महाबलान्युच्छ्रितकार्मुकाणि
सपर्वतानीव वनानि राजन् ।। ९३

इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामने बलेरुद्योगे एकपञ्चाशत्तमोऽध्यायः ।। ५१ ।।