प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०६६ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०६७
[[लेखकः :|]]
अध्यायः ०६८ →
ब्रह्मणः आज्ञया कश्यपेन अदित्या सह देवानां क्षीरसागरस्य उत्तरे तीरे गत्वा तपःकरणे संलग्नता।

सप्तषष्टितमोऽध्यायः

ब्रह्मोवाच
यदर्थमिह सम्प्राप्ता भवन्तः सर्व एव हि ।
विजानाम्यहमव्यग्र एतत् सर्वं महाबलाः ।। १ ।।
भविष्यति च वः सोऽर्थः काङ्क्षितो यः सुरोत्तमाः ।
बलेर्दानवमुख्यस्य यो विजेता भविष्यति ।। २ ।।
न खल्वसुरसंघानामेको जेता स विश्वकृत् ।
त्रैलोक्यस्यापि जेतासौ देवानामपि चोत्तमः ।। ३ ।।
धाता चैव हि लोकानां विश्वयोनिः सनातनः ।
पूर्वं देवं सदा प्राहुर्हेमगर्भनिदर्शनम् ।। ४ ।।
आत्मा देवेन विभुना कृतोऽजेयो महात्मनः ।
बलेरसुरमुख्यस्य विश्वस्य जगतस्तथा ।। ५ ।।
प्रभवः स हि सर्वेषामस्माकमपि पूर्वजः ।
अचिन्त्यः स हि विश्वात्मा योगयुक्तः परंतपः।। ६ ।।
तं देवापि महात्मानं न विदुः कोऽप्यसाविति ।
वेदात्मानं च विश्वं च स देवः पुरुषोत्तमः ।। ७ ।।
तस्यैव तु प्रसादेन प्रवक्ष्येऽहं परां गतिम् ।
यत्र योगं समास्थाय तपश्चरति दुश्चरम् ।। ८ ।।
क्षीरोदस्योत्तरे कूले उदीच्यां दिशि देवताः ।
अमृतं नाम परमं स्थानमाहुर्मनीषिणः ।। ९ ।।
भवन्तस्तत्र वै गत्वा तपसा संशितव्रताः ।
अमृतं स्थानमासाद्य तपश्चरत दुश्चरम् ।। 3.67.१० ।।
तत्र श्रोष्यथ विस्पष्टां स्निग्धगम्भीरनिःस्वनाम्।
उष्णगे तोयपूर्णस्य तोयदस्य समस्वनाम् ।। ११ ।।
युक्ताक्षरपदस्निग्धां रम्यामभयदां शिवाम् ।
वाणीं परमसंस्कारां वरदां ब्रह्मवादिनीम् ।। १२ ।।
दिव्यां सरस्वतीं सत्यां सर्वकिल्बिषनाशिनीम् ।
सर्वदेवाधिदेवस्य भाषितां भावितात्मनः ।। १३ ।।
तस्य व्रतसमाप्तौ तु यावद् व्रतविसर्जनम् ।
अमोघस्य तु देवस्य विश्वेदेवा महात्मनः ।। १४ ।।
स्वागतं वः सुरश्रेष्ठा मत्सकाशे व्यवस्थिताः ।
कस्य किं वा वरं देवा ददामि वरदः स्थितः ।। १५ ।।
तं कश्यपोऽदितिश्चैव वरं गृह्णीत वै ततः ।
प्रणम्य शिरसा पादौ तस्मै योगात्मने तदा ।। १६ ।।
भवानेव च नः पुत्रो भवत्विति न संशयः ।
उक्तश्च परया भक्त्या तथास्त्विति स वक्ष्यति ।। १७ ।।
देवा ब्रुवन्तु तं सर्वे भ्राता नस्त्वं भवेति ह ।
तथास्त्विति च स श्रीमान् वक्ष्यते सर्वलोककृत्।। १८ ।।
तस्मादेवं गृहीत्वा तु वरं त्रिदशसत्तमाः ।
कृतकृत्याः पुनः सर्वे गच्छध्वं स्वं स्वमालयम्।। १९ ।।
तथास्त्विति सुराः सर्वे कश्यपोऽदितिरेव च ।
वन्दित्वा ब्रह्मचरणौ गताः सौम्यां दिशं प्रति।। 3.67.२० ।।
तेऽचिरेणैव सम्प्राप्ताः क्षीरोदस्योत्तरं तटम् ।
यथोद्दिष्टं भगवता ब्रह्मणा ब्रह्मवादिना ।। २१ ।।
तेऽतीत्य सागरान् सर्वान्पर्वतांश्च बहून्क्षणात्।
नद्यश्च विविधा दिव्याः पृथिव्यां सुरसत्तमाः ।। २२ ।।
पश्यन्ति च सुघोरां वै सर्वसत्त्वविवर्जिताम् ।
अभास्कराममर्यादां तमसा संवृतां दिशम् ।। २३ ।।
अमृतं स्थानमासाद्य कश्यपेन सुराः सह ।
दीक्षिताः कामदं दिव्यं व्रतं वर्षसहस्रकम् ।। २४।।
प्रसादार्थं सुरेशाय तस्मै योगाय धीमते ।
नारायणाय देवाय सद्दस्राक्षाय धीमते ।। २५ ।।
ब्रह्मचर्येण मौनेन स्थानवीरासनेन च ।
दमेन च सुराः सर्वे तपो दुश्चरमास्थिताः ।। २६ ।।
कश्यपस्तत्र भगवान् प्रसादार्थं महात्मनः ।
उदीरयति वेदोक्तं यमाहुः परमं स्तवम् ।। २७ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भाबे सप्तषष्टितमोऽध्यायः ।। ६७ ।।