प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०६९ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०७०
[[लेखकः :|]]
अध्यायः ०७१ →
ऋषिभिः देवेभिश्च वामनाय नमस्कारं, गन्धर्वाप्सरेभ्यो नृत्यं गानं च, भगवतः वैशिष्ट्यस्य वर्णनं, भगवतः देवेभ्यः तेषां मनोरथं पृष्ट्वा बृहस्पतिना सह बलेः यागं गमनं, तत्र स्ववाक्पटुतया सर्वान् चकितं करणं, राज्ञा बलिना तस्य परिचयं आगमनस्य प्रयोजनस्य च पृच्छा।

सप्ततितमोऽध्यायः

वैशम्पायन उवाच
प्रजानां पतयः सप्त सप्त चैव महर्षयः ।
तस्य देवस्य जातस्य नमस्कारं प्रचक्रिरे ।। १ ।।
भरद्वाजः कश्यपो गौतमश्च विश्वामित्रो जमदग्निर्वसिष्ठः ।
यश्चोदितो भास्करे सम्प्रणष्टे सोऽप्यत्रात्रिर्भगवानाजगाम ।। २ ।।
मरीचिरङ्गिराश्चैव पुलस्त्यः पुलहः क्रतुः ।
दक्षप्रजापतिश्चैव नमस्कारं प्रचक्रिरे ।। ३ ।।
और्वो वसिष्ठपुत्रश्च स्तम्बः काश्यप एव च ।
कपीवानकपीवांश्च दत्तो निश्च्यवनस्तथा ।। ४ ।।
वसिष्ठपुत्राः सप्तासन् वासिष्ठा इति विश्रुताः ।
हिरण्यगर्भस्य सुताः पूर्वजाताः सुतेजसः ।। ५ ।।
गार्ग्यः पृथुस्तथैवान्यो जन्यो वामन एव च ।
देवबाहुर्यदुध्रश्च पर्जन्यश्चैव सोमजः ।। ६ ।।
हिरण्यरोमा वेदशिराः सप्तनेत्रस्तथैव च ।
विश्वोऽतिविश्वश्च्यवनः सुधामा विरजास्तथा ।। ७ ।।
अतिनामा सहिष्णुश्च नमस्कारमकुर्वत ।
उद्दयोतमाना वपुषा सर्वाभरणभूषिताः ।। ८ ।।
उपनृत्यन्ति देवेशं विष्णुमप्सरसां वराः ।
ततो गन्धर्वतूर्येषु प्रणदत्सु विहायसि ।। ९ ।।
बहुभिः सह गन्धर्वैः प्रागायत च तुम्बुरुः ।
महाश्रुतिश्चित्रशिरा ऊर्णायुरनघस्तथा ।। 3.70.१० ।।
गोमायुः सूर्यवर्चाश्च सोमवर्चाश्च सप्तमः ।
युगपस्तृणपः कार्ष्णिर्नन्दिश्च त्रिशिरास्तथा ।। ११ ।।
त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः ।
कलिः पञ्चदशश्चात्र तत्रैव तु महीपते ।। १२ ।।
दश पञ्च त्विमे प्रोक्ता नारदश्चैव षोडशः ।
हाहा हूहूश्च गन्धर्वौ हंसश्चैव महाद्युतिः ।। १३ ।।
सर्वे ते देवगन्धर्वा उपगायन्ति केशवम् ।
तथैवाप्सरसो हृष्टाः सर्वालंकारभूषिताः ।। १४।।
वपुष्मन्तः सुजघनाः सर्वाङ्गशुभदर्शनाः ।
ननृतुश्च महाभागा जगुश्चायतलोचनाः ।। १५।।
सुमध्याश्चारुमध्याश्च प्रियमुख्यो वराननाः ।
अनूकाथ तथा जामी मिश्रकेशी त्वलम्बुषा ।। १६।।
मरीचिः शुचिका चैव विद्युत्पूर्णा तिलोत्तमा ।
अद्रिका लक्षणा चैव रम्भा तद्वन्मनोरमा ।। १७ ।।
असिता च सुबाहुश्च सुप्रिया सुभगा तथा ।
उर्वशी चित्रलेखा च सुग्रीवा च सुलोचना ।। १८।।
पुण्डरीका सुगन्धा च सुरथा च प्रमाथिनी ।
नन्दा शारद्वती चैव तथान्यास्तत्र संघशः ।। १९।।
मेनका सहजन्या च पर्णिका पुञ्जिकस्थला ।
एताश्चाप्सरसोऽन्याश्च प्रनृत्यन्ति सहस्रशः ।।3.70.२०।।
धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा ।
इन्द्रो विवस्वान्पूषा च त्वष्टा च सविता तथा ।।२१।।
कथितो विष्णुरित्येवं काश्यपेयो गणस्तथा ।
इत्येते द्वादशादित्या ज्वलन्तः सूर्यवर्चसः ।।२२।।
चक्रुस्तस्य सुरेशस्य नमस्कारं महात्मनः ।
मृगव्याधश्च सर्पश्च निर्ऋतिश्च महाबलः ।।२३।।
अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः ।
दहनोऽथेश्वरश्चैव कपाली च विशाम्पते ।।२४।।
स्थाणुर्भर्गश्च भगवान् रुद्रास्तत्रावतस्थिरे ।
प्रजानाथ! मृगव्याधः सर्प, महाबली निष्कृतिः
अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः ।।२५।।
विश्वेदेवाश्च साध्याश्च तस्य प्राञ्जलयः स्थिताः ।
शेषानुजा महाभागा वासुकिप्रमुखास्तथा ।।२६।।
कच्छपश्चापहर्ता च तक्षकश्च महाबलः ।
अधृष्टास्तेजसा युक्ता महाक्रोधा महाबलाः ।।२७।।
एते नागा महात्मानस्तस्मै प्राञ्जलयः स्थिताः ।
तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्च महाबलः ।।२८।।
अरुणश्चारुणिश्चैव वैनतेया ह्युपस्थिताः ।
पितामहश्च भगवान् स्वयमागम्य लोककृत् ।
प्राह चैवं गुरुः श्रीमान् सह सर्वैर्महात्मभिः ।।२९।।
ब्रह्मोवाच
यस्मात् प्रसूयते लोकः प्रभविष्णुः सनातनः ।
तस्माल्लोकेश्वरः श्रीमान् विष्णुरेव भवत्वयम् ।।3.70.३०।।
एवमुक्त्वा तु भगवान् सार्धं देवर्षिभिः प्रभुः ।
नमस्कृत्वा सुरेशाय जगाम त्रिदिवं पुनः ।।३१।।
स तु जातः सुरेशानः कश्यपस्यात्मजः प्रभुः ।
नवदुर्दिनमेघाभो रक्ताक्षो वामनाकृतिः ।।३२।।
श्रीवत्सेनोरसि श्रीमान् रोमजातेन राजता ।
उत्फुल्ललोचनाः सर्वाः पश्यन्त्यप्सरसस्तदा ।।३३ ।।
दिवि सूर्यसहस्रस्य भवेद् युगपदुत्थिता ।
यदि भाः सदृशी सा स्याद् भासा तस्य महात्मनः।।३४।।
सुरर्षिप्रतिमः श्रीमान् भूर्भुवर्भूतभावनः ।
शुचिरोमा महास्कन्धः सर्वतेजोमयः प्रभुः ।।३५।।
या गतिः पुण्यकीर्तीनामगतिः पापकर्मणाम् ।
योगसिद्धा महात्मानो यं विदुर्योगमुत्तमम् ।३६।
यस्याष्टगुणमैश्वर्यं यमाहुर्देवसत्तमम् ।
यं प्राप्य शाश्वतं विप्रा नियता मोक्षकाङक्षिणः ।।३७।
जन्मनो मरणाच्चैव मुच्यन्ते भवभीरवः ।
यदेतत्तप इत्याहुः सर्वाश्रमनिवासिनः ।।३८।
सेवन्ते यं यताहारा दुश्चरं व्रतमास्थिताः ।
योऽनन्त इति नागेषु सेव्यते सर्वभोगिभिः ।।३९।।
सहस्रमूर्धा रक्ताक्षः शेषादिभिरनुत्तमैः ।
यो यज्ञ इति विप्रेन्द्रैरिज्यते स्वर्गलिप्सुभिः ।।3.70.४०।
नानास्थानगतः श्रीमानेकः कविरनुत्तमः ।
यं देवा यान्ति वेत्तारं यज्ञभागप्रदायिनम् ।।४१।।
वृषार्चिश्चन्द्रसूर्याक्षं देवमाकाशविग्रहम् ।
स प्राह त्रिदशान् सर्वान् वाचा वै परया विभुः ।।४२।।
जानन्नपि महातेजा गतो योगेन बालताम् ।
किं करोमि सुरश्रेष्ठाः कं वरं च ददामि वः ।।४३।।
यत्काङ्क्षितं वै सर्वेषां तद्वै ब्रूत मुदा युताः ।
तस्य तद् वचनं श्रुत्वा वामनस्य महात्मनः ।।४४।।
सर्वे ते हृष्टमनसो देवाः कश्यपनन्दनम् ।
ऊचुः प्राञ्जलयो विष्णुं सुराः शक्रपुरोगमाः ।।४५।।
ब्रह्मणो वरदानेन हृतं नो निखिलं जगत् ।
तपसा महता चैव विक्रमेण दमेन च ।।४६
बलिना दैत्यमुख्येन सर्वज्ञेन महात्मना ।
अवध्यः किल सोऽस्माकं सर्वेषां देवसत्तम ।।४७
भवान् प्रभवते तस्य नान्यः कश्चन सुव्रत ।
तत् प्रपद्यामहे सर्वे भवन्तं शरणार्थिनः ।
शरण्यं वरदं देवं सर्वदेवभयापहम् ।।४८
ऋषीणां च हितार्थाय लोकानां च सुरेश्वर ।
प्रियार्थं च तथादित्याः कश्यपस्य तथैव च ।।४९।
कव्यं पितॄणामुचितं सुराणां हव्यमुत्तमम् ।
प्रवर्तेत महाबाहो यथापूर्वं सुरोत्तम ।।3.70.५०।
आनृण्यार्थं सुरेशस्य वासवस्य महात्मनः ।
प्रत्यानय महेन्द्रस्य त्रैलोक्यमिदमव्ययम् ।।५१ ।।
क्रतुना वाजिमेधेन यजते स हि दानवः ।
यत् प्रत्यानयने युक्तं लोकानां तद् विचिन्तय ।।५२।।
वैशम्पायन उवाच
एवमुक्तस्तदा देवैर्विष्णुर्वामनरूपधृक् ।
प्रहर्षयन्नुवाचाथ सर्वान् देवानिदं वचः ।।५३।।
तस्य यज्ञसकाशं मां महर्षिर्वेदपारगः ।
बृहस्पतिर्महातेजा नयत्वङ्गिरसः सुतः ।।५४।।
तस्याहं समनुप्राप्तो यज्ञवाटं सुरोत्तमाः ।
विचरिष्ये यथायुक्तं त्रैलोक्यहरणाय वै ।।५५।।
वैशम्पायन उवाच
ततो बृहस्पतिर्धीमाननयद् वामनं प्रभुम् ।
यज्ञवाटं महातेजा दानवेन्द्रस्य धीमतः ।।५६।।
मौञ्जी यज्ञोपवीती च छत्री दण्डी ध्वजी तथा ।
वामनो धूम्ररक्ताक्षो भगवान् बालरूपधृक् ।।५७।।
तं गत्वा यत्रवाटं च ब्रह्मर्षिगणसंकुलम् ।
आत्मना चैव भगवान् वर्णयामास तं क्रतुम् ।।५८।।
लोकेश्वरेश्वरः श्रीमान् सुरैर्व्रह्मपुरोगमैः ।
अध्यास्यमानो भगवानवृद्धोऽप्यथ वृद्धवत् ।।५९।
दानवाधिपतेस्तस्य बलेर्वैरोचनस्य च ।
यज्ञवाटमचिन्त्यात्मा जगाम सुरसत्तमः ।।3.70.६०।।
पालितोऽपि हि दैतेयः सांग्रामिकपरिच्छदैः ।
द्वारे दानवसम्बाधे सहसैव विवेश ह ।।६१ ।।
ऋषिभिश्चैव मन्त्राद्यैः सर्वतः परिवारितम् ।
दैत्यदानवराजेन्द्रमुपतस्थे बलिं बली ।।६२।
वर्णयित्वा यथान्यायं यज्ञं यज्ञः सनातनः ।
विस्तरेण नरश्रेष्ठ प्रयोगैर्विविधैस्तथा ।।६३।।
शुक्रादीनृत्विजश्चापि यज्ञकर्मविचक्षणान् ।
सर्वानेव निजग्राह चकार च निरुत्तरान् ।।६४।।
आरादथ बलेस्तस्य ऋत्विजामभितस्तथा ।
यज्ञमात्मानमेवासौ हेतुभिः कारणं विभुः ।।६५।।
वैदिकैरप्रकाशैश्च पुनरप्यथ भारत ।
प्रत्यक्षमृषिसंघानां वर्णयामास चित्रगुः ।।६६।।
ततो निरुत्तरान् दृष्ट्वा सोपाध्यायानृषींश्च तान् ।
अवृद्धेनापि वृद्धांस्तान् वामनेन महौजसा ।। ६७ ।।
अद्भुतं चापि मेने स विरोचनसुतो बली ।
मूर्ध्ना कृताञ्जलिश्चेदमब्रवीद् विस्मितो वचः ।।६८।।
कुतस्त्वं कोऽसि कस्यासि किं तेहास्ति प्रयोजनम् ।
नैवंविधः परिज्ञातो दृष्टपूर्वो मया द्विजः ।।६९।।
बालो मतिमतां श्रेष्ठो ज्ञानविज्ञानकोविदः ।
शिष्टवाग्रूपसम्पन्नो मनोज्ञः प्रियदर्शनः ।।3.70.७० ।।
नेदृशाः सन्ति देवानामृषीणामपि सूनवः ।
न नागानां न यक्षाणां नासुराणां न रक्षसाम् ।।७१।।
न पितॄणां न सिद्धानां गन्धर्वाणां तथैव च ।
योऽसि सोऽसि नमस्तेऽस्तु ब्रूहि किं करवाणि ते ।।
वैशम्पायन उवाच
उक्त एवं ह्यचिन्त्यात्मा बलिना वामनस्तदा ।
प्रोवाचोपायतत्त्वज्ञः स्मितपूर्वमिदं वचः ।।७३।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्राद्रुर्भावे सप्ततितमोऽध्यायः ।। ७० ।।