हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०९०

← अध्यायः ०८९ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०९०
[[लेखकः :|]]
अध्यायः ०९१ →
भगवता शंकरेण द्वारा श्रीकृष्णस्य स्तुतिः, श्रीकृष्णस्य कैलासात् बदरिकाश्रमे प्रत्यागमनम्

नवतितमोऽध्यायः

वैशम्पायन उवाच
ततः स भगवान्रुद्रः सर्वान्विस्मापयन्निव ।
स्तुत्या प्रचक्रमे स्तोतुं विष्णुं विश्वेश्वरं हरिम् ।
अर्थ्याभिस्तु तदा वाग्भिर्मुनीनां शृण्वतां तथा।। १ ।।
महेश्वर उवाच
नमो भगवते तुभ्यं वासुदेवाय धीमते ।
यस्य भासा जगत् सर्वं भासते नित्यमच्युत ।। २ ।।
नमो भगवते देव नित्यं सूर्यात्मने नमः ।
यः शीतयति शीतांशुर्लोकान् सर्वानिमान् विभुः।। ३ ।।
नमस्ते विष्णवे देव नित्यं सोमात्मने नमः ।
यः प्रजाः प्रीणयत्येको विश्वात्मा भूतभावनः ।। ४ ।।
नमः सर्वात्मने देव नमो वागात्मने हरे ।
यो दधार करेणासौ कुशचीरादि यत् सदा ।। ५ ।।
दधार वेदान् सर्वांश्च तुभ्यं ब्रह्मात्मने नमः ।
सर्वान् संहरते यस्तु संहारे विश्वदृक् सदा ।। ६ ।।
क्रोधात्मासि विरूपोऽसि तुभ्यं रुद्रात्मने नमः ।
सृष्टौ स्रष्टा समस्तानां प्राणिनां प्राणदायिने ।। ७ ।।
अजाय विष्णवे तुभ्यं स्रष्ट्रे विश्वसृजे नमः ।
आदौ प्रकृतिमूलाय भूतानां प्रभवाय च ।। ८ ।।
नमस्ते देवदेवेश प्रधानाय नमो नमः ।
पृथिव्यां गन्धरूपेण संस्थितः प्राणिनां हरे ।। ९ ।।
दृढाय दृढरूपाय तुभ्यं गन्धात्मने नमः ।
अपां रसाय सर्वत्र प्राणिनां सुखहेतवे ।। 3.90.१० ।।
नमस्ते विश्वरूपाय रसाय च नमो नमः ।
तेजसा भास्करो यस्तु घृणिर्जन्तुहितः सदा ।। ११ ।।
तस्मै देव जगन्नाथ नमो भास्कररूपिणे ।
वायोः स्पर्शगुणो यत्र शीतोष्णसुखदुःखदः ।। १२ ।।
नमस्ते वायुरूपाय नमः स्पर्शात्मने हरे ।
आकाशेऽवस्थितः शब्दः सर्वश्रोत्रनिवेशनः ।। १३ ।।

यो दधार जगत् सर्वं मायामानुषदेहवान् ।। १४ ।।
नमस्तुभ्यं जगन्नाथ मायिनेऽमायदायिने ।
नम आद्याय बीजाय निर्गुणाय गुणात्मने ।। १५ ।।
अचिन्त्याय सुचिन्त्याय तस्मै चिन्त्यात्मने नमः।
हराय हरिरूपाय ब्रह्मणे ब्रह्मदायिने ।। १६ ।।
नमो ब्रह्मविदे तुभ्यं ब्रह्मब्रह्मात्मने नमः ।
नमः सहस्रशिरसे सहस्रकिरणाय च ।। १७ ।।
नमः सहस्रवक्त्राय सहस्रनयनाय च ।
विश्वाय विश्वरूपाय विश्वकर्त्रे नमो नमः ।। १८ ।।
विश्ववक्त्रे नमो नित्यं भूतावास नमो नमः ।
इन्द्रियायेन्द्ररूपाय विषयाय सदा हरे ।। १९ ।।
नमोऽश्वशिरसे तुभ्यं वेदाभरणरूपिणे ।
अग्नयेऽग्निपते तुभ्यं ज्योतिषां पतये नमः ।। 3.90.२० ।।
सूर्याय सूर्यपुत्राय तेजसां पतये नमः ।
नमः सोमाय सौम्याय नमः शीतात्मने हरे ।। २१ ।।
नमो वषट्कृते तुभ्यं स्वाहास्वधास्वरूपिणे ।
नमो यज्ञाय इज्याय हविषे हव्यसंस्कृते ।
नमः स्रुवाय पात्राय यज्ञाङ्गाय पराय च ।। २२ ।।
नमः प्रणवदेहाय क्षरायाप्यक्षराय च ।
वेदाय वेदरूपाय शस्त्रिणे शस्त्ररूपिणे ।। २३ ।।
गदिने खड्गिने तुभ्यं शङ्खिने चक्रिणे नमः ।
शूलिने चर्मिणे नित्य वरदाय नमो नमः ।। २४ ।।
बुद्धिप्रियाय बुद्धाय प्रबुद्धाय सुखाय च ।
हरये विष्णवे तुभ्यं नमः सर्वात्मने गुरो।। २५ ।।
नमस्ते सर्वलोकेश सर्वकर्त्रे नमो नमः ।
नभः स्वभावशुद्धाय नमस्ते यज्ञसूकर ।। २६ ।।
नमो विष्णो नमो विष्णो नमो विष्णो नमो हरे ।
नमस्ते वासुदेवाय वासुदेवाय धीमते ।। २७ ।।
नमः कृष्णाय कृष्णाय सर्वावास नमो नमः ।
नमो भूयो नमस्तेऽस्तु पाहि लोकान् जनार्दन।। २८ ।।
इति स्तुत्वा जगन्नाथमुवाच मुनिसत्तमान् ।
इदं स्तोत्रमधीयाना नित्यं व्रजत केशवम् ।। २९ ।।
शरण्यं सर्वभूतानां तत्र श्रेयो विधास्यति ।
ये चेमं धारयिष्यन्ति स्तवं पापविमोचनम् ।। 3.90.३० ।।
तेषां प्रीतः प्रसन्नात्मा पठतां शृण्वतां हरिः ।
श्रेयो दास्यति धर्मात्मा नात्र कार्या विचारणा।। ३१ ।।
अवश्यं मनसा ध्यात केशवं भक्तवत्सलम् ।
श्रेयः प्राप्तुं यदीच्छन्ति भवन्तः शंसितव्रताः ।। ३२ ।।
इत्युक्त्वा भगवान् रुद्रस्तत्रैवान्तरधीयत ।
सगणः शंकरः साक्षादुमया भूतभावनः ।। ३३ ।।
नेमुस्तं मुनयः सर्वे परां निर्वृतिमाययुः ।
तमेव परमं तत्त्वं मत्वा नारायणं हरिम् ।
विस्मयं परमं गत्वा मेनिरे स्वकृतार्थताम् ।। ३४ ।।
लोकपालास्तदा विष्णुं नमस्कृत्य हरिं मुदा ।
जग्मुः स्वान्यथ वेश्मानि गणैः सर्वैर्नृपोत्तम ।। ३५ ।।
आरुह्य भगवान् विष्णुर्गरुडं पक्षिपुङ्गवम् ।
शङ्खी चक्री गदी खड्गी शार्ङ्गी तूणी तनुत्रवान् ।। ३६ ।।
यथागतं जगन्नाथो ययौ बदरिकामनु ।
सायाह्ने पुण्डरीकाक्षो नित्यं मुनिनिषेविताम् ।। ३७ ।।
तत्र गत्वा यथायोगं विनम्य हरिरीश्वरः ।
अर्चितो मुनिभिः सर्वैर्निषसाद सुखासने ।। ३८ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां कृष्णप्रत्यागमने नवतितमोऽध्यायः ।। ९० ।।