हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः १००

← अध्यायः ०९९ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः १००
[[लेखकः :|]]
अध्यायः १०१ →
श्रीकृष्णस्य द्वारकायां आगमनं, पौण्ड्रकेन सह तस्य वार्तालापम्

शततमोऽध्यायः

वैशम्पायन उवाच
ततः प्रभाते विमले भगवान् देवकीसुतः ।
गन्तुमैच्छज्जगन्नाथः पुरं बदरिकाश्रमात् ।। १ ।।
नमस्कृत्य मुनीन् सर्वान् ययौ द्वारवतीं नृप ।
आरुह्य गरुडं विष्णुर्वेगेन महता प्रभुः ।। २ ।।
सुमहाञ्छुश्रुवे शब्दस्तेषां युद्धं प्रकुर्वताम् ।
गच्छता देवदेवेन पुरीं द्वारवतीं नृप ।। ३ ।।
अचिन्तयज्जगन्नाथः को न्वयं शब्द उत्थितः ।
संग्रामसम्भवो घोर आर्यशैनेयसंयुतः ।। ४ ।।
व्यक्तमागतवान् पौण्ड्रो नगरीं द्वारकामनु ।
तेन युद्धं समभवत् पौण्ड्रकेण दुरात्मना ।। ५ ।।
यदूनां वृष्णिवीराणां युद्ध्यतामितरेतरम् ।
शब्दोऽयं सुमहान् व्यक्तो नात्र कार्या विचारणा।। ६ ।।
इत्येवं चिन्तयित्वा तु दध्मौ शङ्खं महारवम् ।
पाञ्चजन्यं हरिः साक्षात् प्रीणयन् वृष्णिपुङ्गवान्।।७ ।।
रोदसी पूरयामास तेन शब्देन केशवः ।
यादवा वृष्णयश्चैव श्रुत्वा शङ्खस्य ते रवम् ।। ८ ।।
व्यक्तमायाति भगवान् पाञ्चजन्यरवो ह्ययम् ।
इति ते मेनिरे राजन् वृष्णयो यादवास्तथा ।। ९ ।।
निर्भयाः समपद्यन्त वृष्णयो यादवाश्च ते ।
तस्मिन्नेव क्षणे दृष्टस्तार्क्ष्यश्च पततां वरः ।। 3.100.१० ।।
ततश्च देवकीसूनुर्दृष्टस्तैर्यादवेश्वरः ।
सूताश्च मागधाश्चैव पुरो यान्ति जगत्पतेः ।। ११ ।।
स्तुत्या स्तुतं हरिं विष्णुमीश्वरं कमलेक्षणम् ।
गताश्च यादवाः सर्वे परिवव्रुर्जनार्दनम् ।। १२ ।।
कृष्णस्तु गरुडं भूयो गच्छ त्वं नाकमुत्तमम् ।
इत्युक्त्वा गरुडं विष्णुर्विसृज्य यदुनन्दनः ।। १३ ।।
दारुकं पुनराहेदं रथमानय मे प्रभो ।
स तथेति प्रतिज्ञाय रथमादाय सत्वरम् ।। १४ ।।
रथोऽयं भगवन् देव किमतः कृत्यमस्ति मे ।
इत्युक्त्वा रथमादाय प्रणम्याग्रे स्थितो हरेः ।। १५ ।।
गतेऽथ गरुडे विष्णू रथमारुह्य सत्वरम् ।
यत्र युद्धं समभवत् तत्र याति स्म केशवः ।। १६ ।।
तत्र गत्वा महाराज युध्यतां च महात्मनाम् ।
पाञ्चजन्यं महाशस्त्रं दध्मौ यदुवृषोत्तमः ।। १७ ।।
पौण्ड्रोऽथ वासुदेवस्तु कृष्णं दृष्ट्वा रणोत्सुकम् ।
सात्यकिं पृष्ठतः कृत्वा वासुदेवमुपागमत् ।। १८ ।।
क्रुद्धोऽथ सात्यकी राजन् वारयामास पौण्ड्रकम्।
न गन्तव्यमितो राजन्नैष धर्मः सनातनः ।। १९ ।।
जित्वा मां गच्छ राजेन्द्र परं योद्धुं महारणे ।
क्षत्रियोऽसि महावीर स्थिते मयि रणोत्सुके ।। 3.100.२० ।।
एष ते गर्वमखिलं नाशयिष्यामि संयुगे ।
इत्युक्त्वा चाग्रतस्तस्थौ गच्छतो यादवेश्वरः ।। २१ ।।
पौण्ड्रस्य शिनिनप्ता तु पश्यतः केशवस्य ह ।
अवज्ञाय शिनेः पौत्रं कृष्णमेव जगाम ह ।। २२ ।।
निर्भर्त्स्य सहसा भूयः सात्यकिः क्रोधमूर्च्छितः ।
गदया प्राहरत् पौण्ड्रं वासुदेवस्य पश्यतः ।। २३ ।।
यथाप्राणं यथायोगं सात्यकिः सत्यविक्रमः ।
दृष्ट्वाथ भगवानेवं सात्यकिं प्रशशंस ह ।। २४ ।।
निवार्य सात्यकिं कृष्णो यथेष्टं क्रियतामसौ ।
उपारमद् यथायोगं सात्यकिः कृष्णवारितः ।। २५ ।।
स ततः पौण्ड्रको राजा वासुदेवमुवाच ह ।
भो भो यादव गोपाल इदानीं क्व गतो भवान् ।। २६ ।।
त्वां द्रष्टुमथ सम्प्राप्तो वासुदेवोऽस्मि साम्प्रतम् ।
हत्वा त्वां सबलं कृष्ण बलैर्बहुभिरन्वितः ।। २७ ।।
अहमेको भविष्यामि वासुदेवो महीतले ।
यच्चकं तव गोविन्द प्रथितं सुप्रभं महत् ।। २८ ।।
अनेन मम चक्रेण पीडितोऽस्मि च तद्रणे ।
चक्रमस्तीति तद्वीर्यं तव माधव साम्प्रतम् ।। २९ ।।
नाशयिष्यामि तत् सर्वं सर्वक्षत्रस्य पश्यतः ।
शार्ङ्गीति मां विजानीहि न त्वं शार्ङ्गीति शिष्यसे ।। 3.100.३०।।
शङ्खमस्तीति तद्वीर्यं तव माधव साम्प्रतम् ।
शङ्खी चाहं गदी चाहं चक्री चाहं जनार्दन ।। ३१ ।।
मामेव हि सदा ब्रूयुर्जानन्तो वीर्यशालिनः ।
आदौ त्वं बलवद् वृद्धान्हत्वा स्त्रीबालकान्बहून।।३२।।
गाश्च हत्वा महागर्वस्तव सम्प्रति वर्तते ।
तत् तेऽहं व्यपनेष्यामि यदि तिष्ठसि मत्पुरः ।। ३३ ।।
शस्त्रं गृहाण गोच्चिन्द्र यदि योद्धुं व्यवस्थितः ।
इत्युक्त्वा बाणमादाय तस्थौ पार्श्वं जगत्पतेः ।। ३४ ।।
एतद् वचनमाकर्ण्य वासुदेवेन भाषितम् ।
स्मितं कृत्वा हरिः कृष्णो बभाषे पौण्ड्रकं नृपम् ।।३५।।
कामं वद नृप त्वं हि पातक्यस्मि सदा नृप ।
गोघाती बालघाती च स्त्रीहन्ता सर्वथा नृप ।। ३६ ।।
चक्री भव गदी राजञ्छार्ङ्गी च सततं भव ।
नामधेयं वृथा मह्यं वासुदेवेति च प्रभो ।। ३७ ।।
शार्ङ्गी चक्री गदी शङ्खीत्येवमादि वृथा मम ।
किं तु वक्ष्यामि किंचित्तु शृणुष्व यदि मन्यसे ।३८।
क्षत्रिया बलिनो ये तु स्थिते मयि जगत्पतौ ।
तथानुब्रुवते त्वां हि जीवत्येव मयि प्रभो ।। ३९ ।।
यन्मे चक्रं महाघोरमसुरान्तकरं महत्।
तत्तुल्यं तव चक्रं तु वृत्ततो न तु वीर्यतः ।
आयुधेष्वथ सर्वत्र शब्दसादृश्यमस्ति ते ।। 3.100.४० ।।
गोपोऽहं सर्वदा राजन् प्राणिनां प्राणदः सदा ।
गोप्ता सर्वेषु लोकेषु शास्ता दुष्टस्य सर्वदा ।। ४१ ।।
कत्थनं सर्वकार्यं हि जित्वा शत्रून् नृपाधम ।
अजित्वा किं भवान् ब्रूते स्थिते मयि च शस्त्रिणि ।। ४२ ।।
हत्वा मां ब्रूहि राजेन्द्र यदि शक्तोऽसि पौण्ड्रक ।
स्थितोऽहं चक्रमाश्रित्य रथी चापी गदासिमान्।। ४३ ।।
रथमारुह्य युद्धाय सन्नद्धो भव मानद ।
इत्युक्त्वा भगवान् विष्णुः सिंहनादं व्यनीनदत्।। ४४ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कृष्णपौण्ड्रकयुद्धे शततमोऽध्यायः ।। १०० ।।