हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः १०५
← अध्यायः १०४ | हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व) अध्यायः १०५ [[लेखकः :|]] |
अध्यायः १०६ → |
हंसडिम्भकाभ्यां तपश्चरणं, वरप्राप्तिः, जनार्दनस्य सहितस्य तयोः विवाहः, तेषां त्रयाणां कुमाराणां धर्मनिष्ठा |
पञ्चाधिकशततमोऽध्यायः
वैशम्पायन उवाच
हंसश्च डिम्भकश्चैवं तपश्चर्तुं महामती ।
मनश्चक्रतुरात्मांशौ शंकरस्य नृपोत्तम ।। १ ।।
गत्वा तु हिमवत्पार्श्वं तपश्चक्रतुरञ्जसा ।
उद्दिश्य शंकरं शर्वं नीलग्रीवमुमापतिम् ।। २ ।।
वीर्यास्त्रे चैव नौ स्यातामित्याधाय तु मानसे ।
एकाग्रौ प्रयतौ भूत्वा वाय्वम्बुप्राशिनौ नृप ।। ३ ।।
नमस्ते देवदेवेति शंकरेति दिवानिशम् ।
हर शर्व शिवानन्द नीलग्रीव उमापते ।। ४ ।।
वृषध्वज विरूपाक्ष हर्यक्ष जगतां पते ।
भक्तप्रिय गिरीशेश वासुदेव शिवाच्युत ।। ५ ।।
सद्योजात महादेव देवदेव गुहाशय ।
भूतभावन देवेश प्रणवात्मन् सदाशिव ।। ६ ।।
इत्यादिनामभिर्नित्यं स्तुवन्तौ शंकरं भवम् ।
हृदि कृत्वा विरूपाक्षं तपस्तेपतुरञ्जसा ।। ७ ।।
निर्ममौ निरहंकारौ मौनव्रतसमास्थितौ ।
वर्षाणीह तदा राजन् पञ्च चक्रतुरोजसा ।। ८ ।।
ततः प्रीतोऽभवच्छर्वस्ताभ्यां संयमनेन च ।
स ददौ दर्शनं नैजं व्याघ्रचर्माम्बरो हरः ।। ९ ।।
त्रियक्षः शंकरः शर्वः शूलपाणिरुमापतिः ।
अग्रतः संस्थितं शर्वं चन्द्रार्धकृतशेखरम् ।
तौ दृष्ट्वा प्रीतमनसौ नमश्चक्रतुरञ्जसा ।। 3.105.१० ।।
श्रीभगवानुवाच
वरं वरय भद्रं वां यथेच्छा वां तथास्तु वै ।
तावूचतुस्तदा राजन् प्रीतस्त्वं भगवन् यदि ।। ११ ।।
देवासुरचमूमुख्यैर्यक्षगन्धर्वदानवैः ।
आवामजय्यौ सर्वात्मन्नेष नौ प्रथमो वरः ।। १२ ।।
द्वितीयो नौ विरूपाक्ष रौद्रास्त्राणां च संग्रहः ।
माहेश्वरं तथा रौद्रमस्त्रं ब्रह्मशिरो महत् ।। १३ ।।
अभेद्यं कवचं दिव्यमच्छेद्यं चापि कार्मुकम् ।
परशुं च तथा शर्व सदा रक्षार्थमेव च ।। १४ ।।
सहायौ द्वौ महादेव भूतौ युद्धे हि गच्छताम् ।
एवमस्त्विति देवेश आह भृङ्गिरिटी हरः ।। १५ ।।
कुण्डोदरं विरूपाक्षं सर्वप्राणिहिते रतम् ।
युवामथ च भूतेशौ सहायौ सततं रणे ।। १६ ।।
संग्रामं गच्छतां घोरमेतयोर्बलशालिनोः ।
इत्युक्त्वा भगवाञ्छर्वस्तत्रैवान्तरधीयत ।। १७ ।।
ततस्तौ वीर्यसम्पन्नौ हंसो डिम्भक एव च ।
कृतास्त्रौ शस्त्रसम्पन्नौ चापिनौ वीर्यवत्तरौ ।। १८ ।।
आमुक्तकवचौ वीरावजय्यौ देवदानवैः ।
अत्यन्तभक्तौ देवेशे शंकरे नीललोहिते ।। १९ ।।
नित्योत्सवकरौ देवे भस्मोद्धूलनशोभिनौ ।
कृतत्रिपुण्ड्रकौ नित्यं जटायुक्तशिरोधरौ ।। 3.105.२० ।।
रुद्राक्षार्पितसर्वाङ्गौ व्याघ्रचर्माम्बरावृतौ ।
नमः शिवाय शान्ताय महादेवाय धीमते ।। २१ ।।
इत्यादिभिर्महादेवं स्तुवन्तौ नामभिः शिवम् ।
साक्षादिव महादेवौ रेजतुर्जलधारिणौ ।। २२ ।।
ततः स्वभवनं गत्वा पितुः पादावगृह्यताम् ।
पितुश्च सख्युर्बलिनौ मातुश्च चरणौ तदा ।। २३ ।।
जनार्दनोऽपि धर्मात्मा कालेन महता नृप ।
विद्यापारं महाबुद्धिर्युक्तेनासावुपेयिवान् ।। २४ ।।
स च विष्णुं हृषीकेशं पीतकौशेयवाससम् ।
ब्रह्मतत्त्वपरो नित्यमुपास्ते विजितेन्द्रियः ।। २५ ।।
हंसश्च डिम्भकश्चैव कृतदारो बभूवतुः ।
जनार्दनोऽपि धर्मात्मा कृतदारो बभूव ह ।। २६ ।।
सर्वे ते यज्ञनिरताः पञ्चयज्ञपरास्तथा ।
स्वदारनिरताः सर्वे गुरुशुश्रूषणे रताः ।
धर्म एव परं श्रेय इति ते मेनिरे नृप ।। २७ ।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने पञ्चाधिकशततमोऽध्यायः ।। १०५ ।।