प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ४५ हरिवंशपुराणम्
अध्यायः ४६
वेदव्यासः
अध्यायः ४७ →
इन्द्रेण चन्द्रमसः स्तुतिः, चन्द्रेण एवं वरुणेन दैत्यसैन्यस्य संहारः, मयदानवेन मायायाः प्रयोगः, दैत्यसैन्येन सह पवनस्य एवं अग्निदेवस्य संग्रामम्, कालनेमिनः रणे आगमनम्।


वैशम्पायन उवाच
एवमस्त्विति संहृष्टः शक्रस्त्रिदशवर्द्धनः ।
संदिदेशाग्रतः सोमं युद्धाय शिशिरायुधम् ।। १ ।।
शक्र उवाच
गच्छ सोम सहायत्वं कुरु पाशधरस्य वै ।
असुराणां विनाशाय जयाय च दिवौकसाम् २ ।।
त्वमप्रतिमवीर्यश्च ज्योतिषां चेश्वरेश्वरः ।
त्वन्मयं सर्वलोकानां रसं रसविदो विदुः ।। ३ ।।
क्षयवृद्धी तवाव्यक्ते सागरस्येव मण्डले ।
परिवर्तस्यहोरात्रं कालं जगति योजयन्।।४।।
लोकच्छायामयं लक्ष्म तवाङ्के शशसंशितम् ।
न विदुः सोमदेवाऽपि ये च नक्षत्रयोगिनः ।। ५ ।।
त्वमादित्यपथादूर्ध्वं ज्योतिषां चोपरि स्थितः ।
तमश्चोत्सार्य वपुषा भासयस्यखिलं जगत्।।६।।
श्वेतभानुर्हिमतनुर्ज्योतिषामधिपः शशी ।
अब्दकृत्कालयोगात्मा ईज्यो यज्ञ्ररसोऽव्ययः ।। ७ ।।
ओषधीशः क्रियायोनिरम्भोयोनिरनुष्णभाक् ।
शीतांशुरमृताधारश्चपलः श्वेतवाहनः ।। ८।।
त्वं कान्तिः कान्तवपुषां त्वं सोमः सोमवृत्तिनाम्।
सौम्यस्त्वं सर्वभूतानां तिमिरघ्नस्त्वमृक्षराट् ।। ९ ।।
तद् गच्छ त्वं सहानेन वरुणेन वरूथिना ।
शमयस्वासुरीं मायां यया दह्याम संगरे ।। 1.46.१० ।।
सोम उवाच
यन्मां वदसि युद्धार्थे देवराज जगत्पते ।
एष वर्षामि शिशिरं दैत्यमायापकर्षणम् ।। ११ ।।
एतान्मच्छीतनिर्दग्धान्पश्य त्वं हिमवेष्टितान्।
विमायान् विमदांश्चैव दानवांस्त्वं महामृधे ।। १२ ।।
वैशम्पायन उवाच
ततो हिमकरोत्सृष्टाः सबाष्पा हिमवृष्टयः ।
वेष्टयन्ति स्म तान्घोरान्दैत्यान् मेघगणा इव।। १३ ।।
तौ पाशशुक्लांशुधरौ वरुणेन्दू महारणे।
जघ्नतुर्हिमपातैश्च पाशघातैश्च दानवान् ।। १४ ।।
द्वावम्बुनाथौ समरे तौ पाशहिमयोधिनौ ।
मृधे चेरतुरम्भोभिः क्षुब्धाविव महार्णवौ ।। १५ ।।
ताभ्यामाप्लावितं सैन्यं तद् दानवमदृश्यत ।
जगत् संवर्तकाम्भोदैः प्रवृष्टैरिव संवृतम् ।। १६ ।।
तावुद्यतांशुपाशौ द्वौ शशाङ्कवरुणौ रणे ।
शमयामासतुर्मायां देवौ दैतेयनिर्मिताम् ।। १७ ।।
शीतांशुजयनिर्दग्धाः पाशैश्च प्रसिता रणे ।
न शेकुश्चलितुं दैत्या विशिरस्का इवाद्रयः ।। १८ ।।
शीतांशुनिहतास्ते तु पेतुर्दैत्या हिमार्दिताः ।
हिमप्रावृतसर्वाङ्गा निरूष्माण इवाग्नयः ।। १९ ।।
तेषां तु दिवि दैत्यानां विपरीतप्रभाणि च ।
विमानानि विचित्राणि निपतन्त्युत्पतन्ति च ।। 1.46.२० ।।
तान् पाशहस्तग्रथिताञ्च्छादितान्हिमरश्मिना ।
मयो ददर्श मायावी दानवान् दिवि दानवः ।। २१ ।।
स शिलाजालविततां गण्डशैलाट्टहासिनीम् ।
पादपोत्कटकूटाग्रां कन्दराकीर्णकाननाम् ।। २२ ।।
सिंहव्याघ्रगजाकीर्णां नदन्तीमिव यूथपैः ।
ईहामृगगणाकीर्णां पवनाघूर्णितद्रुमाम् ।। २३ ।।
निर्मितां स्वेन पुत्रेण क्रौञ्चेन दिविकामगाम् ।
प्रथितां पार्वतीं मायां ससृजे दानवोत्तमः ।। २४ ।।
सास्मशब्दैः शिलावर्षैः सम्पतद्भिश्च पादपैः ।
निजघ्ने देवसंघांस्तान् दानवांश्चाप्यजीवयत् ।।२५।।
नैशाकरी वारुणी च मायेऽन्तर्दधतस्ततः ।
अश्मभिश्चायसघनैः कीर्णा देवगणा रणे ।। २६ ।।
साश्मसंघातविषमा द्रुमपर्वतसंकटा ।
अभवद् घोरसंचारा पृथिवी पर्वतैरिव ।। २७।।
नानाहतोऽश्मभिः कश्चिच्छिलाभिश्चाप्यताडितः ।
नानिरुद्धो द्रुमगणैर्देवोऽदृश्यत संयुगे ।। २८ ।।
तदपभ्रष्टधनुषं भग्नप्रहरणाविलम् ।
निष्प्रयत्नं सुरानीकं वर्जयित्वा गदाधरम् ।। २९ ।।
स हि युद्धगतः श्रीमानीशो न स्म व्यकम्पत ।
सहिष्णुत्वाज्जगत्स्वामी न चुक्रोध गदाधरः ।। 1.46.३० ।।
कालज्ञः कालमेघाभः समैक्षत् कालमाहवे ।
देवासुरविमर्दं स द्रष्टुकामो जनार्दनः ।। ३१ ।।
ततो भगवताऽऽदिष्टौ रणे पावकमारुतौ ।
शमनार्थं प्रवृद्धाया मायाया मयसृष्टया ।। ३२ ।।
ततः प्रवृद्धावन्योन्यं प्रबुद्धौ ज्वालवाहिनौ ।
चोदितौ विष्णुवाक्येन तां मायां व्यपकर्षताम् ।। ३३ ।।
ताभ्यामुद्भ्रान्तवेगाभ्यां प्रवृद्धाभ्यां महाहवे ।
दग्धा सा पार्वती माया भस्मीभूता ननाश ह ।। ३४ ।।
सोऽनिलोऽनलसंयुक्तः सोऽनलश्चानिलाकुलः ।
दैत्यसेनां ददहतुर्युगान्तेष्विव मूच्छितौ ।। ३५ ।।
वायुः प्रधावितस्तत्र पश्चादग्निश्च मारुतात् ।
चेरतुर्दानवानीके क्रीडन्तावनलानिलौ ।। ३६ ।।
भस्मावयवभूतेषु प्रपतच्छपतत्सु च ।
दानवेषु विनष्टेषु कृतकर्मणि पावके ।। ३७ ।।
वातस्कन्धापविद्धेषु विमानेषु समन्ततः ।
मायाबन्धे विनिर्वृत्ते स्तूयमाने गदाधरे ।। ३८ ।।
निष्प्रयत्नेषु दैत्येषु त्रैलोक्ये मुक्तबन्धने ।
सम्प्रहृष्टेषु देवेषु साधु साध्विति सर्वशः ।। ३९ ।।
जये दशशताक्षस्य मयस्य च पराजये ।
दिक्षु सर्वासु शुद्धासु प्रवृत्ते धर्मसंस्तरे ।। 1.46.४० ।।
अपावृत्ते चन्द्रपथे अयनस्थे दिवाकरे ।
प्रकृतिस्थेषु लोकेषु नृषु चारित्रबन्धुषु ।। ४१ ।।
अभिन्नबन्धने मृत्यौ हूयमाने हुताशने ।
यज्ञभागिषु देवेषु स्वर्गार्थं दर्शयत्सु च ।। ४२ ।।
लोकपालेषु सर्वेषु दिक्षु संयानवर्तिषु ।
भावे तपसि शुद्धानामभावे दुष्टकर्मणाम् ।। ४३ ।।
देवपक्षे प्रमुदिते दैत्यपक्षे विषीदति ।
त्रिपादविग्रहे धर्मे अधर्मे पादविग्रहे ।। ४४ ।।
अपावृतमहाद्वारे वर्तमाने च सत्पथे ।
स्वधर्मस्थेषु वर्णेषु लोकेऽल्मिन्नाश्रमेषु च ।। ४५ ।।
प्रजारक्षणयुक्तेषु भ्राजमानेषु राजसु ।
गीयमानासु गाथासु देवसंस्तवनादिषु ।। ४६ ।।
प्रशान्तकलुषे लोके शान्ते तपसि दारुणे ।
अग्निमारुतयोस्तस्मिन् वृत्ते संग्रामकर्मणि ।
तन्मया विमलालोकास्ताभ्यां जयकृतप्रियाः ।। ४७ ।।
पूर्वदेवभयं श्रुत्वा मारुताग्निकृतं महत् ।
कालनेमिरिति ख्यातो दानवः प्रत्यदृश्यत ।। ४८ ।।
भास्कराकारमुकुटः शिञ्जिताभरणाङ्गदः ।
मन्दराचलसंकाशो महारजतसंवृतः ।। ४९ ।।
शतप्रहरणोदग्रः शतबाहुः शताननः ।
शतशीर्षा स्थितः श्रीमाञ्छतशृङ्ग इवाचलः ।। 1.46.५० ।।
कक्षे महति संवृद्धो हिमान्त इव पावकः ।। ५१ ।।
धूम्रकेशो हरिच्छ्मश्रुर्दंष्ट्रालोष्ठपुटाननः ।
त्रैलोक्यान्तरविस्तारो धारयन् विपुलं वपुः ।। ५२ ।।
बाहुभिस्तुलयन् व्योम क्षिपन्पद्भ्यां महीधरान् ।
ईरयन् मुखनिःश्वासैर्वृष्टिमन्तो बलाहकान् ।। ५३ ।।
तिर्यगायतरक्ताक्षं मन्दरोश्ग्रवर्चसम् ।
दिधक्षन्तमिवायान्तं सर्वान् देवगणान्मृधे ।। ५५४ ।।
तर्जयन्तं सुरगणांश्छादयन्तं दिशो दश ।
संवर्तकाले क्षुधितं दृप्तं मृत्युमिवोत्थितम् ।। ५५ ।।
सुतलेनोच्छ्रितवता विपुलाङ्गुलिपर्वणा ।
माल्याभरणपूर्णेन किञ्चिच्चलितवर्मणा ।। ५६ ।।
उच्छ्रितेनाग्रहस्तेन दक्षिणेन वपुष्मता ।
दानवान् देवनिहतानुत्तिष्ठध्वमिति ब्रुवन् ।। ५७ ।।
तं कालनेमिं समरे द्विषतां कालसंनिभम् ।
वीक्षन्ति स्म सुराः सर्वे भयविक्लवमानसाः ।। ५८ ।।
तं स्म वीक्षन्ति भूतानि क्रमन्तं कालनेमिनम् ।
त्रिविक्रमं विक्रमन्तं नारायणमिवापरम् ।।५९ ।।
सोच्छ्रयन् प्रथमं पादं मारुताघूर्णिताम्बरः ।
प्राक्रामदसुरो युद्धे त्रासयन् सर्वदेवताः ।। 1.46.६० ।।
स मयेनासुरेन्द्रेण परिष्वक्तः क्रमन् रणे ।
कालनेमिर्बभौ दैत्यः विष्णुनेव पुरंदरः ।। ६१ ।।
अथ विव्यथिरे देवाः सर्वे शक्रपुरोगमाः ।
दृष्ट्वा कालमिवायान्तं कालनेमिं भयावहम् ।। ६२ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि कालनेमिप्रक्रमणे षट्चत्वारिंशोऽध्यायः ।। ४६ ।।