हर्षचरितम्(लघुसङ्ग्रहः)/प्रथमद्वितीयतृतीयोच्छ्वासाः

               




   

॥ श्रीः ॥

॥ हर्षचरितम् ॥


 अस्ति पुण्यकृताम् अधिवासः, वासवावास इव वसुधाम अवतीर्णः श्रीकण्ठो नाम जनपदः ॥

 तत्र च प्रथमोऽवतार इव ब्रह्मलोकस्य, प्रतिनिधिरिव चन्द्रलोकस्य, स्थाण्वीश्वराख्यो जनपदविशेषः ॥

 तत्र च बुधः सदसि, अर्जुनो यशसि, भीष्मो धनुषि, राजा पुष्पभूतिरिति नाम्ना बभूव ॥

 तस्य च सहजा शैशवात् आरभ्य भगवति भवे भूयसी भक्तिः आसीत् ।

 परममाहेश्वरः स भूपालो लोकतः शुश्राव दाक्षिणात्यं भैरवाचार्यनामानं महाशैवम् ॥

 श्रवणसमकालमेव तस्मिन् भैरवाचार्ये भगवति द्वितीय इव कपर्दिनि दूरगतेऽपि गरीयसीं बबन्ध भक्तिम् । आचकाङ्क्ष च अस्य दर्शनम् ॥

 अथ कदाचित्पर्यस्ते वासरे राजानम् उपसृत्य प्रतीहारी विज्ञापितवती--"देव, द्वारि परिव्राट् आस्ते । कथयति च-- भैरवाचार्यवचनात् देवम् अनुप्राप्तोऽस्मि इति” इति ॥

 राजा तु तत् श्रुत्वा सादरम्, "क असौ ? आनय” इत्यब्रवीत् । तथा च अकरोत् प्रतीहारी ॥

 नचिराच्च प्रविशन्तं प्रांशुम् आजानुभुजं मस्करिणम् अद्राक्षीत् क्षितिपतिः । उचितेन च आदरेण एनं प्रत्यग्रहीत् ॥  आसीनं च पप्रच्छ–" क भैरवाचार्यः? ” इति । सादरनरपतिवचनेन मुदितमनास्तु परिताद् तम् उपनगरं सरस्वतीतटवनावलम्बिनि शून्यायतने स्थितम् आचचक्षे । “अर्हयति महाभागं भगवान् आशीर्वचसा " इत्युक्त्वा च उपनिन्ये भैरवाचार्यप्रहितानि रत्नधन्ति पञ्च राजतानि पुण्डरीकाणि ।

 नरपतिस्तु “ सर्वफलप्रसवहेतुः शिवभक्तिः मनोरथदुर्लभानि फलति नः फलानि । श्वो द्रष्टास्मि भगवन्तम्" इत्युक्त्वा मस्करिणं व्यस्रर्जयत् ।।

 अपरेद्युश्च प्रातरेव उत्थाय वाजिनम् अधिरुह्य , कतिपयैरेवराजपुत्रैः परिवृतः, भैरवाचार्यं द्रष्टुं प्रतस्थे । गत्वा च, महतः कार्पटिकभृन्दस्य मध्ये, प्रातरेव स्नातम्, अनुष्ठिताग्निकार्यम् , अबहुभाषिणम् , मन्दहासिनम् , सर्वोपकरिणम् , कुमारब्रह्मचारिणम् , धाम धर्मस्य, क्षेत्रं क्षमायाः आकरं करुणायाः भगवन्तं भैरवाचार्यं ददर्श।  भैरवाचार्यस्तु दूरादेव राजानं दृष्ट्वा शशिनमिव जलनिधिः चचाल । प्रथमतरोत्थितशिष्यलोकश्व उत्थाय प्रत्युज्जगाम। समपैितश्रीफलोपायनश्च स्वस्तिशब्दम् अकरोत् । नरपतिरपि दूरावनतः प्रणममभिनवं चकार ।

 भैरवाचार्योऽपि समुचितम् अर्घ्यादिकं चक्रे । राजापि विविधाभिः कथाभिः चिरं स्थित्वा गृहम् अगात् ।  अन्यस्मिन् दिवसे भैरवाचार्योऽपि राजानं द्रष्टुं ययौ । तस्मै च राजा सान्तःपुरं सपंरिजनं सकोशम् आत्मानं निवेदितवामन् । स च स्थित्वा कंचित्कालं जगाम ।।  परिव्राट् तेनैव क्रमेण पञ्च पञ्च राजतानि पुण्डरीकाणि उपायनी चकार । एकदा तु "महभाग, भवन्तम् आह भगवान् । यथा अस्मच्छिष्यः पातालस्वामिनामा ब्राह्मणः । तेन ब्रह्मराक्षसहस्तान् अपहृतो महासिः अट्टहासनामा । सोऽयं भवद्भुजयोग्यो गृह्यताम्' इति ” इत्यभिधाय अपहृतकर्पटावच्छादनात् परिवारात् आचकर्ष कृपाणम् ।।

 अवनिपतिस्तु तं गृहीत्वा करेण, सुचिरं ददर्श । परिव्राट् तु गृहीते तस्मिन् , परितुष्टः ‘स्वस्ति भवते । साधयामः” इत्युक्त्वा निरयासीत् ।

 अथ व्रजत्सु दिवसेषु एकदा भैरवाचार्यो राजानम् उपह्वरे सोपप्रहम् अवादीत् -- “तात, भगवतो महाकालहृदयनाम्नो महामन्त्रस्य महाश्मशाने जपकोट्या कृतपूर्वसेवोऽस्मि । तस्य च वेतालसाधनावसाना सिद्धिः । असहायैश्च सा दुरवापा । त्वं च अलम् अस्मै कर्मणे । त्वयि च गृहीतभरे भविष्यन्ति अपरे सहायाः त्रयः | एकः स एव अस्माकं बालमित्रं टीटिभनम मस्करी, यो भवन्तम् उपतिष्ठते । द्वितयः स पातालस्वामी । अपरो मच्छिष्य एव कर्णतालनामा द्राविडः । यदि साधु मन्यसे, ततो नीयताम् अयं गृहीताट्टहासो बाहुः एकदिङ्मुखार्गलताम् ” इति ॥

 ‘‘भगवन् , परम् अनुगृहीतोऽस्मि अनेन निदेशेन ” इत नरेन्द्रः समभाषत । ननन्द च तेन नरेन्द्रव्याहृतेन भैरवाचार्यः । चकार च संकेतम्-“ अस्यामेव आगामिन्याम् असितपक्षचतुर्दशीक्षपायाम् इयत्यां वेलायाम् अमुष्मिन् महाश्मशानसमीपभाजि शून्यायतने शस्त्रीद्वितीयेन आयुष्मता द्रष्टव्या वयम् ” इति ॥  अथ अतिक्रान्तेषु अहस्सु, प्राप्तायां च तस्यामेव कृष्णचतुर्दश्याम् , शैवेन विधिसा दीक्षितः क्षितिपो नगरात् निरगात्। अगाच्च तम् उद्देशम् । अथ प्रत्युज्जग्मुः ते त्रयो टीटिभकर्णताल पातालस्वामिनः। आचचक्षिरे च स्वं स्वं नाम ।।

 अवनिपतिश्च तैरेव अनुगम्यमानो जगाम तां साधनभूमिम् । तस्यां च कुमुदधूलिधवलेन भस्मना लिखितस्य महतो मण्डलस्य मध्ये स्थितम् , उत्तानशयस्य शवस्य उरसि उपाविश्य जातजातवेदसि मुखकुहरे प्रारब्धाग्निकार्यम् कृष्णोष्णीषम्, कृष्णाङ्गरागम् , कृष्णवाससं भैरवाचार्यम् अपश्यत् । उपसृत्य च अकरोत् नमस्कारम् । अभिनन्दितश्च तेन स्वव्यापारम् अन्वतिष्ठत् ।।

 अवान्तरे पातालस्वामी शतक्रतवीम् आशाम् अङ्गीचकार कर्णतालः कौबेरीम् , परिव्राट् प्राचेतसीम् । राजा तु त्रैशङ्कवेन ज्योतिषा अङ्कितां ककुभम् अलंकृतवान्।।

 एवं च अवस्थितेषु दिक्पालेषु, विस्रब्धं कर्म साधयति भैरवाचार्ये, अतिचिरं कृतकोलाहलेषु निष्फलप्रयत्नेषु प्रत्यूहकारिषु शान्तेषु कौणपेषु, गलति अर्धरात्रसमये, मण्डलस्य नातिदवीयसि उत्तरेण अकस्मात् क्षितिः अदीर्यत । सहसैव च तस्मात् विवरात् , चण्डास्फोटनटांकरैः एकेन्द्रियविकलमिव जीवलोकं कुर्वन् , कुवलयश्यामलः पुरुष उज्जगाम । जगाद च–“भोः, किमयं विद्यावलेपः, सहायमदो वा ? यत् अस्मै जनाय अविधाय बलिं बालिश इव सिद्धिम् अभिलषसि । का ते दुबृद्धिरियम् ? एतावता कालेन क्षेत्राधिपतिः नागतस्ते श्रोत्रोपकण्ठे श्रीकण्ठना । मा नागोऽहम् ? ” इत्यभि भय, निधुरैः प्रकोष्ठप्रझरैः त्रीनपि टीटिभप्रभृतीन् अपातयत् ।।  अथ नरनाथः सावज्ञम् अवादीत्--" रे काकोदर, काक, मयि स्थिते राजहंसे, न जिह्रेषि बलिं याचितुम् ? अमीभिः किं वा परुषभाषितैः? भुजे वीर्यं निवसति, न वाचि । प्रतिपद्यस्व शस्त्रम् । अयं न भवसि" इति । नागस्तु अनादृततरम् "एहि । किं शस्त्रेण ? भुजाभ्यामेव भनज्मि भवतो दर्पम्” इत्यभिधाय आस्फोटयामास । नरपतिरपि उत्सृज्य सचर्मफलकम् असिम् , अधोंरुकस्य उपरि बबन्ध बाहुरुद्धाय कक्ष्याम् ॥

 युयुधाते च तौ बाहुदण्डैः । नचिराच्च पातयामास भूतले । भुजंगं भूपतिः । जग्राह च केशेषु । उच्चस्वान च शिरः छेत्तुम् अट्टहासम् । अपश्यच्च वैकक्षकमालान्तरेण अस्य यज्ञोपवीतम् । उपसंहृतशस्त्रव्यापारश्च अवादीत्--“दुर्विनीत, अस्ति ते दुर्नयनिर्वाहबीजमिदम् । यतो विस्रब्धमेव आचरसि चापलानि” इत्युक्त्वा उत्ससर्ज तम् ॥

 अत्रान्तरे च सहसैव अतिबहलां ज्योत्स्नां ददर्श । झटिति नूपुरशब्दम् अशृणोत् । व्यापारयामास च शब्दानुसारेण दृष्टिम् । अथ करतलस्थितस्य अट्टहासस्य मध्ये स्फुरन्तीम्, तामरसहस्ताम्, मृणालकोमलैः अवयवैः कमलसंभवत्वम् अनक्षरम् आचक्षाणां स्त्रियम् अपश्यत् । असंभ्रान्तश्च “भद्रे, कासि ? किमर्थं वा दर्शनपथम् आगतासि ?” इति पप्रच्छ ॥

 सा तु "वीर, विद्धि मां श्रियम् । अपहृता अस्मि तव अमुना शौर्यरसेन । याचस्व । ददामि ते वरम् अभिलषितम्" इति अभाषत ॥

 राजा तां प्रणम्य, स्वार्थविमुखः, भैरवाचार्यस्य सिद्धिं ययाचे । लक्ष्मीस्तु देवीं प्रीततरहृदया, “एवम् अस्तु" इत्यब्रवीत् । अवादीच्च पुनः--"अनेन सत्त्वोत्कर्षेण भवान् भुवि सूर्याचन्द्रमसोः तृतीय इव अविच्छिन्नस्य महतो राजवंशस्य कर्ता भविष्यति; यस्मिन् उत्पत्स्यते सर्वद्वीपानां भोक्ता हर्षनामा चक्रवर्ती” इति । वचसोऽन्ते च तीरोबभूव ॥

 भैरवाचार्योऽपि देव्या वचसा, कर्मणा च सम्यगुपपादितेन सद्य एव किरीटी कुण्डली खड्गी च भूत्वा अवाप विद्याधरत्वम् । जिगमिषुश्च सुदृढं समालिङ्ग्य टीटिभादीन्, सास्रेण चक्षुषा वीक्षमाणः क्षितिपतिम्,"तात, किं ब्रवीमि--यामीति न स्नेहसदृशम् । त्वदीयाः प्राणा इति पुनरुक्तम् । स्मर्तव्या वयमिति आज्ञा ।” इत्यभिधाय गगनतलमुत्पपात । श्रीकण्ठोऽपि "राजन्, पराक्रमक्रीतः कर्तव्येषु नियोगेन अनुग्राह्योऽयं जनः" इत्यभिधाय, राज्ञा अनुमोदितः, तदेव भूयो भूविवरं विवेश ॥

 नरपतिस्तु क्षीणभूयिष्ठायां क्षपायाम्, त्रीनपि टीटिभादीन् गृहीत्वा, नागयुद्धव्यतिकरमलीमसानि शुचिनि वनवापीपयसि प्रक्षाल्य, अङ्गानि नगरं विवेश ॥

 कतिपयदिवसापगमे च परिव्राट् भूभुजा वार्यमाणोऽपि वनं ययौ । पातालस्वामिकर्णतालौ तु शौर्यानुरक्तौ तमेव सिषेवाते । समरमुखेषु च प्रथमम् उपयुज्यमानौ, कथान्तरेषु च अन्तरान्तरा समादिष्टौ विचित्राणि भैरवाचार्यचरितानि शैशववृत्तान्तांश्च कथयन्तौ, तेनैव सार्धं जरां जग्मतुः ॥

इति हर्षचरिते राजवंशवर्णनं नाम तृतीय उच्छ्वासः ॥