हर्षचरितम्/सप्तमोच्छ्वासः
← षष्ठोच्छ्वासः | हर्षचरितम् सप्तमोच्छ्वासः बाणः |
अष्टमोच्छ्वासः → |
अङ्गनवेदी वसुधा कुल्या जलधिः स्थली च पातालं ।
वल्मीकश्च सुमेरुः कृतप्रतिज्ञस्य वीरस्य ।। ७.१ ।।
धृतधनुषि बाहुशालिनि शैला न नमन्ति यत्तदाश्चर्यं ।
रिपुसंज्ञकेषु गणना कैव वराकेषु काकेषु ।। ७.२ ।।
अथ व्यीतेषु च केषुचिद्दिवसेषु मौहूर्तिकमण्डलेन शतशः सुगणिते सुप्रशस्तेऽहनि दत्ते चतसृणामपि दिशां विजययोग्ये दण्डयात्रालग्ने सलिलमोक्षविशारदैः शारदैरिवाम्भोधरैः कालधौतैः शातक्ॐभैश्च कुम्भैः स्नात्वा विरचय्य परमया भक्त्या भगवतो नीललोहितस्यार्चामुदर्चिषं हुत्वा प्रदक्षिणावर्तशिखाकलापमाशुशुक्षणिं, दत्त्वा द्विजेब्यो रत्नवन्ति राजतानि जातरूपमयानि च सहस्रशस्तिलपात्राणि कनकपत्रलतालङ्कृतशफशृङ्गशिखरा गाश्चार्बुदशः, समुपविश्य विततव्याघ्रचर्मणि भद्रासने विलिप्य प्रथमविलिप्तायुधो निजयशोधवलेनाचरणतश्चन्दनेन शरीरं, परिधाय राजहंसमिथुनलक्ष्मणी सदृशे दुकूले, परमेश्वरचिह्नभूतां शशिकलामिव कल्पयित्वा सितकुसुममुण्डमालिकां शिरसि, नीत्वा कर्णाभरणमरकतमयूखमिव कर्णगोचरतां गोरोचनाच्छुरितमभिनवं दूर्वापल्लवं, विन्यस्य सह शासनवलयेन गमनमह्गलप्रतिसरं प्रकोष्ठे, परिपूजितप्रहृष्टपुरोहितकरप्रकीर्यमाणशान्तिसलिलसीकरनिकराभ्युक्षितशिराः संप्रेष्य महार्हाणि वाहनानि बहलरत्नालोकलिप्तककुभि च भूषणानि भूभुजां सविभज्य, क्लिष्टकार्पटिककुलपुत्रलोकमोचितैः प्रसाददानैश्च विमुच्य बन्धनानि सकलानि, नियुज्य तत्कालस्मरणस्फुरणेन कथितात्मानमिव चाष्टादशद्वीपजेतव्याधिकारे दक्षिणं भुजस्तम्भमहमहमिकया सेवकैरिव सनिमित्तैरपि समग्रैरग्रतो भवद्भिः प्रमुदितप्रजाजन्यमानजयशब्दकोलाहलो हिरण्यगर्भ इव ब्रह्नाण्डात्कृतयुगकरणाय भवनान्निर्जगाम ।
नातिदूरे च नगरादुपसरस्वति निर्मिते महति तृणमये, समुत्तम्भिततुङ्गतोरणे, वेदीविनिहितपल्लवललामहेमकलशे, बद्धवनमालादाम्नि, धवलध्वजसालिनि, भ्रमच्छुक्लवाससि, पठद्द्विजन्मनि मन्दिरे प्रस्थानमकरोत् । तत्रस्थस्य चास्य ग्रामाक्षपटलिकः सकलकरणिपरिकरः "करोतु देवो दिवसग्रहणमद्यैवावन्ध्यशासनः शासनानाम्ऽ इत्यभिधाय वृषाङ्कामभिनवघटितां हाटकमयीं मुद्रां समुपनिन्ये । जग्राह च तां राजा । समुपस्थापिते च प्रथमत एव मृत्पिण्डे परिभ्रश्य करकमलादध्ॐउखी महीतले पपात मुद्रा । मन्दाश्यानपङ्कपटले मृदुमृदि सरस्वतीतीरे परिस्फुटं व्यराजन्त राजयो वर्णानां । अमङ्गलाशङ्किनि च विषीदति परिजने नरपतिरकरोन्मनस्येतत्--"अतत्त्वदर्शिन्यो हि भवन्त्यविदग्धानां धियः । तथा हि--एकशासनमुद्राङ्का भूर्भवतो भविष्यतीति निवेदितमपि निमित्तेनान्यथा गृह्णन्ति ग्राम्याःऽ । इत्यभिनन्द्य मनसा महानिमित्तं तत्सीरसहस्रसंमितसीम्नां ग्रामाणां शतमदाद्द्विजेभ्यः । निनाय च तत्र तं दिवसं । प्रतिपन्नायां सर्वर्यां संमानितसर्वराजलोकः सुष्वाप । अथ गलति तृतीये यामे सुप्तसमस्तसनत्त्वनिःशब्दे दिक्कुञ्जरजृम्भमाणगम्भीरध्वनिरताढ्यत प्रयाणपटहः । अग्रतः स्थित्वा च मुहूर्तमिव पुनः प्रयाणक्रोशसंख्यापकाः स्पष्टमष्टावदीयन्त प्रहाराः पटहे पटीयांसः ।
अथ गलति तृतीये यामे सुप्तसमस्तसत्त्वनिःशब्दे दिक्कुञ्जरजृम्भमाणगम्भीरध्वनिरताड्यत प्रयाणपटहः अग्रतः स्थित्वा च मुहूर्तमिव पुनः प्रयाणक्रीशसंख्यापकाः स्पष्टमष्टावदीयन्त प्रहाराः पटहे पटीयांसः ।
ततो रटत्पटहे, नन्दन्नान्दीके, गुञ्जद्गुञ्जे, कूजत्काहले, शब्दायमानशङ्खे, क्रमोपचीयमानकटककलकले, परिजनोत्थापनव्यापृतव्यवहारिणि, द्रुतद्रुघणघातघट्यमानकोणिकाकीलकोलाहलकलितककुभि, बलाधिकृतबध्यमानपाटीपतिपेटके, जनज्वलितोल्कासहस्रालोकलुप्यमानत्रियामातमसि, यामचेटीचरणचलनोत्थाप्यमानकामिमिथुने, कटुककटुकनिर्देशनश्यन्निद्रोन्मिषन्निषादिनि, प्रबुद्धहास्तिकशून्यीक्रियमाणशय्यागृहे, सुप्तोत्थिताश्वीयविधूयमानसटेष रटत्कटकमुखरखनित्रखन्यमानक्षोणीपाशे, समुत्कील्यमानकीलशिञ्जानाहिञ्जीरे, उपनीयमाननिगडतालकलरवोत्तालतुरङ्गतरङ्ग्यमाणखुरपुटे, लेशिकमुच्यमानमदस्यन्दिदन्तिसंदानशृङ्खलाखनखननिनादनिर्भरभरितदशदिशि, भासपूलकप्रहारप्रमृष्टपांसुलकरिपृष्ठत्रसार्यमाणप्रस्फोटितप्रमृष्टचर्मणि, गृहचिन्तकचेटकसंवेष्ट्यमानपटपुटीकाण्डपटमण्डपपरिवस्त्रावितानके, कीलकलापापूर्यमाणचिपिटचर्मपुटे, संभाण्डायमानभाण्डागारिणि, भाण्डागारवहनसंवाह्यमानबहुनालीवाहिके, निषादिनिश्चलानेकानेकपारोप्यमाणकोशकलशपीडापीडसंकटायमानसामन्तौकसि, दूरगतदक्षदासेरकक्षिप्रप्रक्षिप्यमाणोपकरणसंभारभ्रियमाणदुष्टदन्तिनि, तिर्यगानमज्जाघनिकरकृच्छ्राकृष्टलम्बमानपरतन्त्रतुन्दिलचुन्दीजनजनितजनहासे, पीड्यमानशारशारिवरत्रागुणग्राहितगात्रविहारबृंहद्बहुबृहदुन्मदकरिणि, करिघटाघटमानघण्टाटाङ्कारक्रियमाणकर्णज्वरे, पृष्ठप्रतिष्ठाप्यमानकण्ठालककदर्थितकूजत्करभे, अभिजातराजपुत्रप्रेष्यमाण कुप्ययुक्ताकुलकुलीनकुलपुत्रकलत्रवाहने, गमनवेलाविप्रलब्धवारणाधोरणान्विष्यमाणनवसेवके, प्रसादवित्तपत्तिनीयमाननरपतिवल्लभवारवाजिनि, चारुचारभटसन्यन्यस्यमाननासीरमण्डलाडम्बरस्थूलस्थासके, स्थानपालपर्यमाणलम्बमानलवणकलायीकिङ्किणीनालीसनाथसंकलिततलसारके, कुण्डलीकृतावरक्षणीजालजटिलवल्लभपालाश्वधटानिवेश्यमानसाखामृगे, परिवर्धकाकृष्यमाणार्धजन्धप्राभातिकयोग्याशनप्रारोहके, व्यक्रोशीविजृम्भमाणघासिकघोषे, गमनसंभ्रमभ्रष्टभ्रमदुत्तुण्डतरुणतुरङ्गमतन्यमानानेकमन्दुराविमर्दे, सज्जीकृतकरेणुकारोहाह्वानसत्वरसुन्दरीदीयमानमुखालेपने, चलितमातङ्गतुरङ्गप्रधावितप्राकृतप्रातिवेशिकलोकलुण्ठ्यमाननिर्घाससस्यसंचये, संचरच्चेलचक्राकान्तचक्रीवति, चक्रचीत्कारिगन्त्रीगणगृह्यमाणप्रहतवर्त्मनि, अकाण्डकोड्डीयमानभाण्डभरितानडुहि, निकटघासलाभलुभ्यल्लम्बमानप्रथमप्रसार्यमाणसारसौरभेये, प्रमुखप्रवर्त्यमानमहासमामन्तमहानसे, पुरःप्रधावद्ध्वजवाहिनि, प्रियशतोपलभ्यमानसंकटकुटीरकान्तरालनिःसरणे, करिचरणदलितमठिकोत्थितलोकलोष्टहन्यमानमेण्ठक्रियमाणासन्नसाक्षिंणि, संघट्टविघट्टमानव्याघ्रपल्लीपलायमानक्षुद्रकुटुम्बके, कलकलोपद्रवद्रवद्द्रविणबलीवर्दविद्राणवणिजि, पुरःसरदीपिकालोकविरलायमानलोकोत्पीडाप्रस्थितान्तःपुरकरिणीकदम्बके, हयारोहाहूयमानलम्बितशुनि, सरभसचरणनिपतननिश्चलगमनसुखायमानखक्खटस्तूयमानतुङ्गतङ्गणगुणे, स्रस्तवेसरविसंवादिसीदद्दाक्षिणात्यसादिनि, रोजजग्धजगति प्रयाणसमये, प्रतिदिशमागच्छद्भिर्गजवधूसमारूढैराधोरणैरूर्ध्वध्रियमाणहेमपत्रभङ्गशारशार्ङ्गैः, अन्तरासनासीनान्तरङ्गगृहीतासिभिः, ताम्बूलिकविधूयमानचामरपल्लवैः, पश्चिमासनिकार्पितभस्त्राभरणभिन्दिपालपूलिङ्कैः, पत्रलताकुटिलकलधौतनलकपल्लवितपर्याणैः, पर्याणपक्षकपरिक्षेपपट्टिकाबन्धनिश्चलपट्टोपधानस्थिरावधानैः, प्रचलपादफलिकास्फालनस्फायमानपदबन्धमणिशिलाशब्दैः, उच्चित्रनेत्रसुकुमारस्वस्थानस्थगितजङ्घाकाण्डैश्च कार्दमिकपटकल्माषितपिशङ्गपिङ्गैः, अलिनीलमसृणसतुलासमुत्पादितसितासमायोगपरभागैश्चावदातदेहवणर्विराजमानराजावर्तमेचकैः, कञ्चुकैश्चापचितचीनचोलकैश्च तारमुक्तास्तबकितस्तवरकवारबाणैश्च नानाकषायकर्बुरकूपसिकैश्य शुकपिच्छच्छायाच्छादनकैश्च व्यायामोल्लुप्तपार्श्वप्रविष्टचारुशस्त्रश्च गतिवशवेल्लितहारलतागलल्लोलकुण्डलोन्मोचनप्रधावितपरिजनैः, चामीकरपत्राङ्कुरकर्णपूरकविघट्टमानवाचालवालपाशैश्चोष्णीषपट्टावष्टब्धकर्णोत्पलनालैश्च कुङ्कुमरागक्ॐअलोत्तरीयान्तरितोत्तमाह्गैश्च चूडामणिखण्डखचितक्ष्ॐअचोलैश्य मायूरातपत्रायमाणशेखरषट्पदपटलैश्च मार्गागतशारिकशारिवाहवेगदण्डैः, पुनश्चञ्चच्चामरकिर्मीरकार्दरङ्गचर्ममण्डलमण्डनोड्डीयमानचटुलडामरचारभटभरितभुवनान्तरैः, आस्कन्दत्काम्बोजवाजिशतशिञ्जानजातरूपायानरवमुखरितदिङ्मुखैश्च निर्दयप्रहतलम्बापटहशतपटुरवबधिरीकृतश्रवणविवरैः, उद्घोष्यमाणनामभिः, उन्मुखपादातप्रतिपाल्यमानाज्ञापातै राजभिरापुपूरे राजद्वारं ।
उदिते च भगवति दिनकृति राज्ञः समायोगग्रहणसमयशंसी सस्वान संज्ञाशङ्खो मुहुर्मुहुः । अथ न चिरादिव प्रथमप्रयाण एव दिग्विजयाय दिग्गजसमागममिव गमनविलोलकर्णतालदोलाविलासैः कुर्वाणया करेणुकया सिद्धयात्रयोह्यमानः, वैदूर्यदण्डविकटेनोपरि प्रत्युप्तपझरागखण्डमयूखखचिततया सूर्योदयदर्शनकोपादिव लोहितायतया ध्रियमाणेन मङ्गलातपत्रेण कदलीगर्भाभ्यधिकम्रदिम्ना नवनेत्रनिर्मितेन द्वितीय इव भोगिनामधिपतिरङ्गलग्नेन कञ्चुकेनामृतमथनदिवस इव क्षीरोदफेनपटलधवलाम्बरवाही, बाल एव पारिजातपादप इवाखण्डलभूमिमारूढः, विधूयमानचामरमरुद्विधूतकर्णपूरकुसुममञ्जरीरजसा सकलभुवनवशीकरणचूर्णेनेवदिशश्छुरयन्नभिमुखचूडामणिघटमानपाटलप्रतिबिम्बमुदयमानं सवितारमपि पिबन्निव तेजसा बहलताम्बूलसिन्दूरच्छुरितया विलभमान इव द्वीपान्तराण्योष्ठमुद्रयानुरागस्य स्फुरन्महाहारमरीचिचक्रवालानि चामराणीव दिशोऽपि ग्राहयन्, राजकेक्षणोत्क्षिप्तत्रिभागया त्रीनपि लोकान्करदानायाज्ञापयन्निव सविभ्रमं भ्रूलतया द्राघीयसा बाहुप्राकारेण परिक्षिपन्निव रिरक्षया सप्तापि सागरमहाखातानखिलमिव क्षोरोदमाधुर्यमादायोद्गतया लक्ष्म्या समुपगूढः, गाढममृतमय इव पीयमानः कुतूहलोत्तानकटकलोकलोचनसहस्राइः स्नेहार्द्रेषु राज्ञां हृदयेषु गुणगौरवेण मज्जन्निव, लिम्पन्निवसौभाग्यद्रवेण द्रष्ट्éणाममरपतिरिवाग्रजवधकलह्कप्रक्षालनाकुलः, पृथुरिव पृथिवीपरिशोधनावधानसंकलितसकलमहीभृत्समुत्सारणः, पुरःसरैरालोककारकैः सहस्रसंख्यैरर्क इव किरणैरधिकारचातुर्यचञ्चलचरणैर्व्यवस्थास्थापननिष्ठुरैः भयपलायमानलोकोत्पीडान्तरिता दसापि दिशो ग्राहयद्भिरिव, चलितकदलिकासंपातपीतप्रचारं पवनमपि विनये स्थापयद्भिरिव, द्रुतचरणोद्धूतधूलिपटलावधूतान्दिनकरकिलणानप्युत्सारयद्भिरिव, कनकवेत्रलतालोकविक्षिप्यमाणं दिनमपि दूरीकुर्वद्भिरिव, दण्डिभिरितस्ततः समुत्सार्यमाणजनसमूहो निर्जगाम नरपतिः ।
अवनमति च विनयनमितवपुषि, भयचकितमनसि, चलनशिथिलमणिकनकमुकुटकिरणनिकरपरिकररुचिरशिरसि, विलुलितकुसुमशेखररजसि राजचक्रे, प्रभामुचां चूडामणीनामवाञ्चस्तिर्यञ्च उदञ्चश्च चञ्चन्तो मरीचयश्चापराशय इव सुशकुनसंपादनाय चेलुः ।
मेघायमानरेणुमेदुरं मन्दिरशिखण्डिन इव खमुड्डीयमानाः क्ॐअलकल्पपादपपल्लववन्दनमालाः कलापा इवाबध्यन्त दिग्द्वारेषु दिक्पालैः । प्रणम्यमानश्च नेत्रविभागैश्चकटाक्षैश्च समग्रेक्षितैर्भ्रूवञ्चितैश्चार्धस्मितैश्च परिहासैश्च छेकालापैश्च कुशलप्रश्नैश्च प्रतिप्रणामैश्चोन्मत्तभ्रूवीक्षितैश्चाज्ञादानैश्चाक्रीणन्निव मानमयान्प्राणान्प्रणयदानैः प्रवीराणां वीरो यथानुरूपं विबभाज राजकं ।
अथ प्रस्थिते राजनि बहलकलकलत्रस्तदिङ्नागशूत्काररव इवेतस्ततस्तस्तार तारतरस्तूर्याणां प्रतिध्वनिराशातटेषु । दिग्गजेभ्यः प्रकुपितानां त्रिप्रस्रुतानां करिणां मदप्रस्रवणवीथीभिरलिकुलकालीभिः कालिन्दीवेणिकासहस्राणीव सस्यन्दिरे । सिन्दूररेणुराशिभिररुणायमानबिम्बे रवावस्तमयसमयं शशङ्किरे शकुनयः । करिणां षट्पदकोलाहलमांसलैः कर्णतालनिःस्वनैस्तिरोदधिरे दुन्दुभिध्वनयः । दोधूयमानश्च सचराचरमाचचाम चामरसंघातो विश्वं । अश्वीयश्वासनिक्षिप्तैः शिश्विन्दे सितसिन्धुवारदामशुचिभिर्निरन्तरमन्तरिक्षं फेनिपण्डैः । पिण्डीभूततगरस्तबकपाण्डुराणि पपुरिव परस्परसंघट्टनष्टाष्टदिशं दिवसमुच्चचामीकरदण्डान्यातपत्रवनानि । रजोरजनीनिमीलितो मुकुटमणिशिलावलीबालातपेन विचकास वासरः । राजतैर्हिरण्यैश्च मण्डनकभाण्डमण्डलैर्ह्रदमानैर्हिरतीकृताः परिह्रादा हरितो बधिरतां दधुः । अरिप्रतापानलनिर्मूलनायेव मदोष्मशीकरैः शिशेकिरे करिणः ककुभां चक्रं । चक्षुषामुन्मेषं मुमुषुस्तडिच्चञ्चलानि चूडामणीनामर्चीषि । स्वयमपि विसिष्मिये बलानां भूपालः सर्वतोविक्षिप्तचक्षुश्चाद्राक्षीदावासस्थानसकाशात्प्रतिष्ठमानं स्वन्धावारम्, अधोक्षजकुक्षेरिव युगादौ निष्पतन्तं जीवलोकम्, अम्भोनिधिमिव कुम्भभुवो वदनात्प्लावितभुवनमुद्भवन्तम्, अर्जुनबाहुदण्डसहस्रसंपिण्डितोन्मुक्तमिव सहस्रधा प्रवर्तमानं प्रवाहं नर्मदायाः । "प्रसर तात । भाव, किं विलम्बसे? लङ्घति तुरङ्गमः । भद्र, भग्नचरण इव संचरसियावदमी पुरःसराः सरभसमुपरि पतन्ति । वाहयसि किमुष्ट्रम्? न पश्यसि निर्दय, निःशूकशिशुकं शयानम्? वत्स रामिल, रजसि यथा न नस्यसि तथा समीपे भव, किं न पश्यसि गलति शक्तुप्रसेवकः? किमेवमित्वर, त्वरसे । सौरभेय, सरणिमपहाय हयमध्यं धावसि? धीवरि, विशसि, गन्तुकामा मातह्गि, मातङ्गमार्गं । अङ्ग, गलति तिरश्चीना चणकगोणी । गणयसि न मामारटन्तम्? अवटमतटेनावतरसि । सुखमास्स्व स्वैरिणि । सौवीरक, कुम्भो भग्नः । मन्थरक खादिष्यसि गतः सन्निक्षुं । उक्षाणं प्रसादय । कियच्चिरमुच्चिनोषि चेट, बदराणि? दूरं गन्तव्यं । किमद्यैव विद्रासि द्रोणक, द्राघीयसी दण्डयात्रा, विनैकेन निष्ठुरकेण निष्क्रेयमस्माकं । अग्रतः पन्थाः स्थपुटक, स्थावर, यथा न भनक्षि फणितस्थालीं, गरीयान्गण्डकतण्डुलभारको न निर्वहति दम्यः । दासक, माषीणाममुतो द्राग्दात्रेण मुखघासपूलकं लुनीहि । को जानाति यवसगतं गतानां । धव, वारय बलीवर्दान्, वाहीकरक्षितं क्षेत्रमिदं । लम्बिता शकटी । शाक्करं धुरन्धरं धुरि धवलं नियुङ्क्ष्व । यक्षपालित, प्रमदाः पिनक्षि । अक्षिणी किं ते स्फुटिते । हत हस्तिपक, नेदीयसि करिकरदण्डे समदःसंमर्दकर्दमे स्खलसि । भ्रातर्भावविधुरबन्धो, उद्धर पङ्कादनड्वाहं । इत एहि माणवक, घनेभघटासंघट्टसंकटे नास्ति निस्तरणसरणिःऽ । इत्येवमादिप्रवर्तमानानेकसंलापं व्कचित्स्वेच्छामृदितोद्दामसस्यघासविघससुखसंपन्नान्नपुष्टैः केलिकलैः किलकिलायमानैर्मेण्ठवण्ठवठरलम्बनलेशिकलुण्ठकचेटशाटचण्डालमण्डलैराण्डीरैः स्तूयमानम्, व्कविदसहायैः क्लेशार्जितकुग्रामकुटुम्बिसंपादितसीदत्सौरभेयशम्बलसंवाहनायासावेगागतसंयोगैः स्वयं गृहीतगृहोपस्करणैः "इयमेका कथञ्चिद्दण्डयात्रा यातु । यातु पातालतलं तृष्ण भूतेरभवनिः । भवतु शिवं । सेवां करोतु । स्वस्ति सर्वदुःखकूटाय कटकायऽ इति दुर्विधवृद्धकुलपुत्रकैर्निन्द्यमानम्, व्कचिदतितीक्ष्णसलिलस्रोतःपातिनौगतैरिव ग्रथितैरिव पङ्क्तिभूतैर्जनैरतिद्रुतम्, द्रवद्भिः कृष्णकठिनस्कन्धगुरुलगुडैर्गृहीतसौवर्णपादपीठीकरह्ककलशपतद्ग्रहावग्राहैः प्रत्यासन्नपार्थिवोपकरणग्रहणगर्वदुर्वारैः सवंमेव बहिः कारयद्भिर्भूपतिभृतकभारिकैर्महानसोपकरणवाहिभिश्च बद्धवराहवर्ध्रवार्धीणसैर्लम्बमानहरिणचटुकचटकजूटजटि लैः शिशुशशकशाकपत्रवेत्राग्रसंग्रहसंग्राहिभिः शुक्लकर्पटप्रावृतमुखैकदेशदतार्द्रमुद्रागुप्तगोरसभण्डैस्तलकतापकतापिकाहस्तकताम्रचरुककटाहसंकटपिटकभारिकैः समुत्सार्यमाणपुरोवर्तिजनम्, व्कचित्"क्लोशोऽस्माकं । फलकालेऽन्य एव विटाः समुपस्थास्यन्तेऽ इति मुखरैः पदे पदे पततां दुर्बलबलीवर्दानां नियुक्तैः स्खलने खलचेटकेः खेद्यमानांसंविभक्तकुलपुत्रलोकम्, क्वचिन्नरपतिदर्शनकुतूहलादुभयतः प्रजवितप्रधावितग्रामेयकजनपदम्, मार्गग्रामनिर्गतैराग्रहारिकजाल्मैश्च पुरःसरजरन्महत्तरोत्तम्भिताम्भःकुम्भैरुपायनीकृतदधिगुडखण्डकुसुमकरण्डकैर्घटितपेटकैः सरभसं समुत्सर्पद्भिः प्रकुपितप्रचण्जदण्जिवित्रासनविद्रुतैर्दूरगतैरपि स्खलद्भिरपि पतद्भिरपि नरेन्द्रनिहितदृष्टिभिरसतोऽपि पूर्वभोगपतिदोषानुद्भावयद्भिरधिक्रान्तायुक्तकशतानि च शंसद्भिश्चिरन्तनचाटापराधाश्चाभिदधानैरुद्धूयमानधूलिपटलम्, क्वचिदेकान्तप्रवृत्ताश्ववारचक्रचर्व्यमाणागामिगौडविमृग्यमाणसस्यसंरक्षणम्, अपरैरादिष्टपरिपालकपुरुषपरितुष्टैः "धर्मःप्रत्यक्षो देवःऽ इति स्तुतीरातन्घद्बिः, अपरैर्लूयमाननिष्पन्नसस्यप्रकटितविषादैः क्षेत्रशुचा सकुटुम्बकैरेव निर्गतैः प्ररूढप्राणच्छेदैः परितापत्याजितभयैः "व्क राजा, कुतो राजा? को दृशो वा राजा?ऽ इति प्रारब्धनरनाथनिन्दम्, शशकैश्च कैश्चित्पदे पदे प्रजविप्रचम्डदण्डपाणिपेटकानुबद्धैर्गिरिगुडकैरिव हन्यमानैरितस्ततः संचरद्भिः, अपरैर्युगपत्परापतितमहाजनग्रस्तैस्तिलशो विलुप्यमानैरनेकजन्तुजह्घान्तरालनिःसरणकुशलिभिः कुटिलिकाव्यंसितसादिबहुश्वभिः पतल्लोष्टलगुडकोणकुठारकील कुद्दाल्खनित्रदात्रयष्टिवृष्टिभिरपि निःसरद्भिरायुषो बलात्कृतकलकलम्, अन्यत्र संघशो घासिकैर्बुसधूलिधूसरितघासजालजालकितजघनैश्च पुराणपर्याणैकदेशदोलायमानदात्रैश्च सीर्णोर्णाशकलशिथिलमलिनमलकुथैश्च प्रभुप्रसादीकृतपाटितपटच्चरचलच्चोलकधारिभिश्च दावमानैरुद्धूयमानधूलिपटलम्, व्कचिदेकान्तप्रवृत्तास्ववारचक्रचर्च्यमानागामिगौडविग्रहम्, व्कचित्पङ्कितप्रदेशपूरणादेशाकुलसकललोकलूयमानतृणपूलकम्, व्कचित्तलवर्तिवेत्रिवेत्रवित्रास्यमानशाखिशिखरगतविक्रोशाद्विवादिब्राह्नणम्, व्कचित्कुलुण्ठकपाशविवेष्ट्यमानग्रामीणग्रामाकृष्टकौलेयकम्, व्कचिदन्योन्यविभवस्पर्थोद्धुरराजपुत्रवाह्यमानवाजिसंघट्टमण्डितम्, अनेकवृत्तान्ततया कौतुकजननम्, प्रलयजलधिमिव जगद्ग्रासग्रहणाय प्रवृत्तम्, पातालमिव मह्राभोगिनां गुप्तये समुत्पादितम्, कैलासमिव परमेश्वरवसतये सृष्टम्, दृस्यमानसकलप्राणिपर्यायं चतुर्युगसर्गकोशमिव प्रजापतीनां क्लेशबहुलमपि तपःकरणमित्र क्रमकारिणं कल्याणानाम्, एवं च वीक्ष्यमाणः कटकं जगांम ।
आसन्नवर्तिनां च "तत्रभवता मान्धात्रा प्रवर्तिताः पन्थानो दिग्विजयाय । अप्रतिहतरथरंहसा रघुणा लघुनैव कालेनाकारि ककुभां प्रसादनं । शरासनद्वितीयः करदीचकार चक्रं क्रमागतभुजबलाभिजनधनमदावलिप्तानां भूभुजां पाण्डुः । पाण्डवः सव्यसाची जीनविषयमतिक्रम्यराजसूयसंपदे क्रुध्यद्गन्धर्वधनुष्कोटिटाङ्कारकूजितकुञ्जं हेमकूटपर्वतं पराजैष्ट । संकल्पान्तरितो विजयस्तरस्विनां । सहिमहिमवद्व्यवहितोऽप्युवाह बाहुबलव्यतिकरकातरः करं कौरवेश्वरस्य किङ्कर इवाकृती द्रुमः । नातिजिगीषवः खलु पूर्वे येनाल्प एव भूभागे भूयांसो भगदत्तदन्तवक्रक्राथकर्णकौ रवशिशुपालसाल्वजरासंधसिन्धुराजप्रभृतयोऽभवन्भूपतयः । संतुष्टो राजा युधिष्ठिरो यो ह्यसहत समीप एव धनञ्जयजयजनितजगत्कम्पः किंपुरुषाणां राज्यं । अलसश्चण्डकोशो यो न प्राविक्षत्क्ष्मां जित्वा स्त्रीराज्यं । ह्रसीय एवान्तरं तुषारगिरिगन्धमादनयोः उत्साहिनः । किष्कुः तुरुष्कविषयः । प्रादेशः पारसीकदेशः । शशपदं शकश्थानं । अदृश्यमानप्रतिहारे पारियात्रे यात्रैव शिथिला । शौर्यशुल्कः सुलभो दक्षिणापथः । दक्षिणार्णवकल्लोलानिलचलितचन्दनलतासौरभसुन्दरीकृतदरीमन्दिराद्दर्दुरादद्रेर्नेदीयसि मलयो मलयलग्न एव च महेन्द्रःऽ । इत्येवंप्रायानुद्योगद्योतकानामालापान्पार्थिवकुमाराणां बाहुशालिनां शृण्वन्नेवाससादावासं । मन्दिरद्वारि चोभयतः सबहुमानं ब्रूलताभ्यां विसर्जितराजलोकः प्रविश्य चावततार बाह्यास्थानमण्डपस्थापितमासनमाचक्राम । अपास्तसमायोगश्च क्षणमासिष्ट ।
अथ तत्र प्रतीहारः पृथिवीपृष्ठप्रतिष्ठापितपाणिपल्लवो विज्ञापितवान्--"देव! प्राग्ज्योतिषेश्वरेण कुमारेण प्रहितो हंसवेगनामा दूतोऽन्तरङ्गस्तोरणमध्यास्तेऽ इति । राजा तु "तमाशु प्रवेशयऽ इति सादरमादिदेश । अथ दक्षतया क्षितिपालादराच्च प्रतीहारः स्वयमेव निरगात् । अनन्तरं च हंसवेगः सविनयमाकृत्यैव नयनानन्दसंपादनसुभगाभोगभद्रतया समुल्लङ्घ्यमानगुणगरिमा प्रभूतप्राभृतभृतां पुरुषाणां समूहेन महतानुगम्यमानः प्रविवेश राजमन्दिरं । आरादेव पञ्चाह्गालिङ्गिताङ्गनः प्रणाममकरोत् । "एह्येहिऽ इति सबहुमानमाहूतश्च प्रदावितोऽपसृतः पादपीठलुठितललाटलेखो न्यस्तहस्तः पृष्ठे पार्थिवेनोपसृत्य भूयो नमश्चक्रे । स्निग्धनरेन्दरदृष्ट्या निर्दिष्टमविप्रकृष्टं स प्रदेशमध्यास्ते । ततो राजा तिरश्चीं तनुमीषदिव दधानश्चामरग्राहिणीमन्तरालवर्तिनीं समुत्सार्य संमुखीनस्तं सप्रश्रयं पप्रच्छ--"हंसवेग! श्रीमान्कच्चित्कुशली कुमारः?ऽ इति । स तमन्ववादीत्--"अद्य कुशली येनैवं स्नेहस्नपितया सौहार्दद्रवार्द्रया सगौरवं गिरा पृच्छति देवःऽ इति ।
स्थित्वा च मुहूर्त्तमिव पुनः स चतुरमुवाच--"चतुरम्भोधिभोगभूतिभाजनभूतस्य देवस्य सद्भावगर्भमपहाय हृदयमेकमन्यदनुरूपं प्राभृतमेव दुर्लभं लोके तथाप्यस्मत्स्वामिना संदेशमशून्यतां नयता पूर्वजोपार्जितं वारुणातपत्रमाभोगाख्यमनुरूपस्थानन्यासेन कृतार्थीकृतमेतत् । अस्य च कुतूहलकृन्ति बहून्याश्चर्याणि दृस्यन्ते । तथा हि--प्रतिदिवसं प्रविशति शैत्यहेतोश्छायायाः किरणसहस्रादेकैकः स्ॐअस्य रश्मिरस्मिन् । यस्मिन्प्रविष्टे प्रध्यानानन्तरं स्वादवो दन्तवीणोपदेशाचार्याश्च्योतन्तिचन्द्रभासामम्भसां मणिशलाकाभ्यो यावदिच्छमच्छा धाराः । प्रचेता इव यश्चतुर्णामर्णवानामधिपतिर्भूतो भावी वा तमिदमनुगृह्णाति च्छायया नेतरं । इदं च न सप्तार्चिर्दहति, न पृषदश्वो हरति, नोदकमार्द्रयति, न रजांसि मलिनयन्ति, न जरा जर्जरयतीति । एतत्तावदनुगृह्णातु दृशा देवः संदेशमपि विस्रब्धं श्रोष्यतिऽ । इत्येवमभिधाय विवृत्यात्मीयं पुरुषमभ्यधात्--"उत्तिष्ठ! दर्शय देवस्यऽ इति ।
स च वचनानन्तरमुत्थाय पुमानूर्ध्वीचकार तद्धौतदुकूलकल्पिताच्च निचोलकादकोषीत् । आकृष्यमाण एव च यस्मिन्नतिसितमहसि सरभसमहासीव हरेण, रसातलादुदलासीव शेषफणिफणाफलकमण्डलेन, अस्थायीव चक्रीभूयान्तरिक्षे क्षीरोदेन, अघटीव गगनाङ्गने गीष्ठीबन्धः शारदेन बलाहकव्यहैन, विश्रान्तमिव विततपक्षतिना वियति पातामहविमानहंसयूथेन, अत्रिनेत्रनिर्गतस्य धवलधाममण्डलमनोहरो दृष्ट इव जनेन जन्मदिवसः कुमुदबन्धोः प्रत्यक्षीकृत इवोद्गमनक्षणो नारायणनाबिपुण्डरीकस्य, आहितेव कीमुदीप्रदोषदर्शनानन्दतृप्तिरक्ष्णाम्, उदमाङ्क्षीदिव मन्दाकिनीपुलिनमण्डलं महदम्बरोदरे, परिवर्तित इव दिवसः पौर्णमासीनिशया, मन्दंमन्दमिन्दूदयसंदेहदूयमानमानसैर्विघटितं घटमानचञ्चुच्युतमृणालकोटिभिरासन्नकमलिनीचक्रवाकमिथुनैः, शरज्जलधरपटलाशङ्कासंकोचितकेकारवमूकमुखपुटैः पराङ्मुखीभूतं भवनशिखण्डिमण्डलैः, प्रबुद्धमाबद्धचन्द्रानन्दोद्दामोद्दलद्दलपुटाट्टहासविशदं कुमुदषण्डैः ।
चित्रीयमाणचेताश्च सराजको राजा दण्डानुसाराधिरोहिण्या दृष्ट्या सादरमैक्षिष्ट तत्तिंलकमिव त्रिभुवनस्य, शैशवमिव श्वेतद्वीपस्य, अंशावतारमिव शरदिन्दोः, हृदयमिव धर्मस्य, निवेशमिव शशिलोकस्य, दन्तमडलकद्युतिधवलं मुखमिव चक्रवर्तित्वस्य, मौक्तिकजालपरिकरसितं सीमन्तचक्रमिव दिवः, बहलज्योत्स्नाशुक्लोदरमैन्दवमिव परिवेषवलयं शौक्ल्यापहसितशङ्खश्रीकं श्रवणमण्डलमिव निश्चलतां गतमैरावतस्य, श्वेतगङ्गावर्तपाण्डुरं पदमिव त्रिभुवनवन्दनीयं त्रिविक्रमस्य, प्रचेतसश्चूडामणिमरीचिशिखाभिरिव श्लिष्ठाभिर्मानसबिसतन्तुमयीभिश्चामरिकावलीभिर्विरचितपरिवेषम्, उपरि चक्रवर्तिलक्ष्मीनूपुरस्वनश्रवणदोहदनिश्चलेनेव लक्ष्मणा विततपत्रेण हंसेन सनाथीकृतशिखरम्, स्पर्शवता च प्रभावस्तम्भितेन मन्दाकिनीमृणालेन मुकुलितफणेन वासुकिनेव नीतेन दण्डतां द्योतमानम्, धवलिम्ना क्षालयदिव नक्षत्रपथम्, प्रबाप्रवाहप्रथिम्ना प्रावृण्वदिव दिवसम्, समुच्छ्रायेणाधःकुर्वदिव दिवम्, उपरिस्थितमिव सर्वमङ्गलानाम्, श्वेतमण्डपमिव श्रियःष स्तबकमिव ब्रह्नस्तम्बस्य, नाभिमण्डलमिव ज्योत्स्नायाः, विशदहासमिव कीर्तेः, फेनराशिमिंव खड्गधाराजलानाम्, यशः पटलमिव शौर्यशालितायाः, त्रैलौक्याद्भुतं महच्छत्रं ।
दृष्टे तस्मिन्राज्ञा प्रथमे शेषमपि प्राभृतं प्रकाशयाञ्चक्रुः क्रमेण कार्माः । तद्यथा परार्ध्यरत्नांशुशोणीकृतदिग्भागान्, भगदत्तप्रभृतिख्यातपार्थिवपरागतानाहतलक्षणानलङ्कारान्, प्रबालेपिनां च चूडामणीनां समुत्कर्षान्, क्षीरोदधेर्धवलताहेतूनिव हारान्, अनेकरागरुचिरवेत्रकरण्डकुण्डलीकृतानि शरच्चन्द्रमरीचिरुञ्चि शौचक्षमाणि क्ष्ॐआणि, कुशलशिल्पिलोकोल्लिखितानां च शुक्तिशङ्खगल्वर्कप्रमुखानां पानबाजनानां निचयान्, निचोलकरक्षितरुचां च रुचिरकाञ्चनपत्रभङ्गभङ्गुराणामतिबन्धुरपरिवेशानां कार्दरङ्गचर्मणां संभारान्, भूर्जत्वक्क्ॐअलाः स्पर्शवतीर्जातीपट्टिकाः, चित्रपटानां च म्रदीयसां समूरुकोपधानादीन्विकारान्, प्रियङ्गुप्रसवपिङ्गलत्वञ्चि चासनानि वेत्रमयान्यगुरुवल्कलकल्पितसञ्चयानि च सुभाषितभाञ्जि पुस्तकानि, परिणतपाटलपटोलत्विंषि च तरुणहारीतहरिन्ति क्षीरक्षारीणि च पूगानां पल्लववलम्बीनि सरसानि फलानि, सहकारलतारकानां च कृष्णागुरुतैलस्य च कुपितकपिकपोलकपिलकापोतिकापलाशकोशीकवचिताङ्गीः स्थवीयसीर्वैणवीर्नाडोश्च पट्टसूत्रप्रसेवकार्पितांश्च भिन्नाञ्जनवर्णस्य कृष्णागुरुणो गुरुपरितापमुषश्च गोशीर्षचन्दनस्य, तुषारशिलाशकलशिशिरस्वच्छसितस्य च कर्पूरस्य, कस्तूरिकाकोशकानां च पक्कफलजूटजटिलानां च कक्कोलपल्लवानाम्, लवङ्गपुष्पमञ्जरीणां जातीफलस्तबकानां च राशीन्, अतिमधुरमधुरसामोदनिर्हारिणीश्वोल्लककलशीः सितासितस्य च चामरजातस्य निचयान्, अवलम्बमानतूलिकालाबुकांस्च लिखितानेकलेख्यफलकसंपुटान्, कुतूहलकृन्ति च कनकशृङ्खलानियमितग्रीवाणां किंन्नराणां च वनमानुषाणां च जीवञ्जीवकानां च जलमानुषाणां च मिथुनानि, परिमलामोदितककुभश्च कस्तूरिकाकुरङ्गान्, गेहपरिसरणपरिचिताश्च चमरीः चामीकररसचित्रवेत्रपञ्जरान्तर्गतांश्च बहुसुभाषितजल्पाकजिह्वांश्च सुकशारिकाप्रभृतीन्पक्षिणः प्रवालपञ्जरगतांश्च चकोरान्जलहस्तिनामुदग्रकुम्भमुक्ताफलदामदन्तुराणि च दन्तकाण्डकुण्डलानि ।
राजा तु छत्रदर्शनात्प्रहृष्टहृदयः प्रथमप्रयाणे शोभननिमितमिति मनसा जग्राह । हंसवेगं च प्रीयमाणो बभाषे--"भद्र! सकलरत्नधाम्नः परमेस्वरशिरोधारणार्हस्यास्य महातपत्रस्य महार्णवादिव कुमुदबान्धवस्य कुमाराल्लाभो न विस्माय । बालविद्याः खलु महतामुपकृतयःऽ इति । अपनीते च तस्मात्प्रदेशात्प्राभृतसंभारे क्षणमिव स्थित्वा "हंसवेग! विश्रम्यताम्ऽ इति प्रतीहारभवनं विसर्जयांबभूव । स्वयमप्युत्थाय स्नात्वा मड्गलाकाङ्क्षी प्राङ्मुखः प्राविशदाभोगस्य छायां ।
अथ विशत एवास्य छायाजन्मना जडिम्ना चूढामणितामनीयतेव शशिबिम्बमम्बुबिन्दुमुचश्चुचुम्बुरिव चन्द्रकान्तमणयो ललाटतटं कर्पूररेणव इव व्यलीयन्त लोचनयूगले गले गलत्तुहिनकणनिकरकृतनीहारा हारा इवावबध्यन्त हरिचन्दनरसासारेणेवापाति संततमुरसि कुमुदमयमिव हृदयमभवदतिशिशिरमन्तर्हितहिमशिलेव विलीयमाना व्यलिम्पदङ्गानि । जातविस्मयश्चाकरोन्मनसि "एकमजर्यं संगतमपहाय कास्त्यान्या प्रतिकौशलिकेऽति । आहारकाले च हसवेगाय धवलकर्पटप्रावृतधौतनालिकेरपरिगृहीतं विलिप्तशेषं चन्दनमह्गस्पृष्टे च वाससी शरत्तारकाकारतारमुक्तास्तबकितपदं परिवेशं नाम कटिसूत्रकं अतिमहार्हपझरागालोकलोहितीकृतदिवसं च तरङ्गकं नाम कर्णाभरणं प्रबूतं च भोज्यजातं प्राहिणोत् । एवंप्रायेण च क्रमेण जगाम दिवसः ।
ततः कटकस्थलबलबहलधूलिधूसरितवपुरंशुमाली मलीमसमङ्गमिवक्षालयितुमपरजलनिधिमवातरत् । आभोगातपत्रप्रदानवार्तामिव निवेदयितुं वरुणाय वारुणीं दिशमयासीत् । मुकुलायमानसकलकमलवना प्रमुख एव बद्धसेवाञ्जलिपुटेव सद्वीपा भूरभूद्भूपतेः । भूपालानुरागम्य इव निखिलजीवलोकलोकाञ्जलिबद्धबन्दुर्जगज्जग्राह संध्यारागः । गौडापराधशङ्किनीव श्यामतां प्रपेदे दिक्प्राची । प्रचिततिमिरनिवहा निर्वाणान्यनृपप्रतापानलकलापेव कालिमानमतानीन्मेदिनी । मेदिनीशप्रधोषास्थानपुष्पनिकरमिव विकचतगररुचिरमवचकरुरुडुनिकरमविरलं ककुभः । स्कन्धावारगन्धगजमदामोदधावितस्येव मार्गो वियति विरराज रजःपाण्डुरैरावतस्य । कुपितनृपव्याघ्राघ्रातामुपसृष्टामिव पौरुष्टुतीं विहाय विहायस्तलमारुरोह रोहिणीरमणः । प्रयाणवार्ता इव मानिनीनां हृदयभेदिन्यो ययुरिन्दुदीधितयो दश दिशः । नवनृपदण्डयात्रात्रासातुरा इव तरलितसत्त्ववृत्तयश्चुक्षुभुः पतयो वाहिनीनां । चिन्तेव भूभृतां हृदयानि विवेश गुहाविवराणि विमुक्तसर्वाशातिमिरसंततिः । प्रतिसामन्तचक्षुषामिव ननाश निद्रा कुमुदवनानां ।
अस्यां च वेलायां विततवितानतलवर्ती नरेन्द्रो "यात तावत्ऽ इति विसर्ज्यानुजीविनो हंसवेगमादिष्टवान्--"कथय संदेशम्ऽ इति । प्रणम्य स कथयितुं प्रास्तावीत्--"देव! पुरा महावराहसंपर्कसंभूतगर्भया भगवत्या भुवा नरको नाम सूनुरसावि रसातले । वीरस्य सयस्याभवन्भाल्य एव पादप्रणामप्रणयिनश्चूडामणयो लोकपालानां । यस्य च त्रिभुवनभुजो भुजशौण्डस्य भवनकमलिनीचक्रवाकीकोपकुटिलकटाक्षेक्षितोऽपि भयचकितारुणपरिवर्तितरथो नाज्ञया विना रविरस्तमव्राजीत् । यश्च वरुणस्य बहिर्वृत्ति हृदयमिदमातपत्रमहार्षीत् । महात्मनस्तस्यान्वये भगदत्तपुष्पदत्तवज्रदत्तप्रभृतिषु व्यतीतेषु बहुषु मेरूपमेषु महत्सु महीपालेषु प्रमौत्रो महाराजभूतिवर्मणः पौत्रश्चन्द्रमुखवर्मणः पुत्रो देवस्य कैलासस्थिरस्थितेः स्थितिवर्मणः सुस्थिरवर्मा नाम महाराजाधिराजो जज्ञे तेजसां राशिर्मृगाङ्क इति यं जना जगुः । योऽयमग्रजेनेवाजायत सहैवाहङ्कारेण । यश्च बाल एव प्रीत्या द्विजातीनप्रीत्या चारातीन्समग्रान्प्रतिग्रहानग्राहयत् । यत्र चातिदुर्लभं लवणालयसंभूतायाः परं माधुर्यमभूल्लक्ष्म्याः । तथा च यो वाहिनीनाथानां शङ्खाञ्जहार न रत्नानि, पृथिव्याः स्थैर्यं जग्राह न करम्, अवनिभृतां गौरवमादत्त न नैष्ठुर्यं । तस्य च सुगृहीतनाम्नो देवस्य देव्यां श्यामादेव्यां भास्करद्युतिर्भास्करवर्मापरनामा तनयः संतनोर्बागीरथ्यां भीष्म इव कुमारः समभवत् । अयमस्य च शैशवादारब्य संकल्पः स्थेयान्स्थाणुपादारविन्दद्वयादृते नाहमन्यं नमस्कुर्यामितिरिदृशश्चायं मनोरथस्त्रिभुवनदुर्लभस्त्रयाणामन्यतमेन संपद्यते सकलबुवनविजयेन वा मृत्युना वा यदि वा प्रजण्डप्रतापज्वलनजनितदिग्दाहेन जगत्येकवीरेण देवोपमेन मित्रेण । मैत्री च प्रायः कार्यव्यपेक्षिणी क्षेणीभृतां । कार्यं च कीदृशं नाम तद्भवेद्यदुपन्यस्यमानमुपनयेन्मित्रतां देवं । देवस्य हि यशांसि सञ्चिचीषतो बहिरङ्गभूतानि धनानि । बाहावेव च केवले निषण्णस्य शेषावयवानामपि साहायकसंपादनमनोरथो निरवकाशः किमुत बाह्यजनस्य । चतुःसागरग्रामग्रहणघस्मरस्य पृथिव्येकदेशदानोपन्यासेनापि का तुष्टिः । अभिरूपकन्याविश्राणनविलोभनमपि लक्ष्मीमुखारविन्ददर्शनदुर्ललितदृष्टेरकिञ्चित्करं । एवमघटमानसकलोपायसंपादितपदार्थेऽस्मिन्प्रार्थनामात्रकमेव केवलमनुरुध्यमानः शृणोतु देवः । प्राग्ज्योतिषेस्वरो हि देवेन सहैकपिङ्ग इवानह्गद्विषा, दशरथ इव गोत्रभिदा, धनञ्जय इव पुष्कराक्षेण, वकर्तन इव दुर्योधनेन, मलयानिल इव माधवेन, अजर्यं संगतमिच्छति । यदि च देवस्यापि मैत्रीयति हृदयमवगच्छति च पर्यायान्तरितं दास्यमनुतिष्ठन्ति सुहृद इति ततः किमास्यते समाज्ञाप्यतामनुभवतु विष्णोर्मन्दरगिरिरिव विकटकेयूरकोटिमणिविघट्टनव्कणितकटकमणिशिलाशकलानि गाढोपगूढानि देवस्य कामरूपाधिपतिः । अस्मिन्नातृप्तेरनवरतविमललावण्यसौभाग्यसुधानिर्झरिणि मुखशशिनि चिराच्चक्षुषी लालयतु प्राग्ज्योतिषेश्वरश्रीः । नाभिनन्दति चेद्देवः प्रणयमाज्ञापयतु किं कथनीयं मया स्वामिनऽ इति ।
विरतवचसि तस्मिन्भूपालः पूर्वोपलब्धैरेव गुरुभिर्गुणैरारोपितबहुमानः कुमारे सुदूरमाभोगातपत्रव्यतिकरेण तु परां कोटिमारोपिते प्रेम्णि लज्जमान इव सादरं जगाद--"हंसवेग! कथमिव तादृशि महात्मनि महाभिजने पुण्यराशौ गुणीनां प्राग्रहरे परोक्षसुहृदि स्निह्यति मद्विधस्यान्यथा स्वप्नेऽपि प्रवर्तेत मनः । सकलजगदुत्तापनपटवोऽपि शिशिरायन्ते त्रिबुवननयनानन्दकरे कमलाकरे करास्तिग्मतेजसः. सुबहुगुणक्रीतास्च के वयं सख्यस्य । सज्जनमाधुर्याणामभृतदास्यो दश दिशः । एकान्तावदातोत्तानस्वभावसंभृतसादृश्यस्य कुमुदस्य कृते केनाभिहितः शिशिररश्मिः । श्रेयांश्च संकल्पः कुमारस्य स्वयं बाहुशाली मयि च समालम्बितशरासने सुहृदि हरादृते कमन्यं नमस्यति । संवर्धिता मे प्रीतिरमुना संकल्पेन । अवलेपिनि पशावपि केसरिणि बहुमानो हृदयस्य किं पुनः सुहृदि । तत्तथा यतेषाः यथा न चिरमियमस्मान्क्लेशयति कुमारदर्शनोत्कण्ठाऽ इति ।
हंसवेगस्तु विज्ञापयांबभूव--"देव! किमपरमिदानीं क्लेशयत्यभिजातमभिहितं देवेव । सेवाभीरवो हि सन्तः, तत्रापि विशेषेणायमहङ्कारधनो वैष्णवो वंशः । आस्तां तावदस्मत्स्वामिवंशः । पश्यतु देवः पुरुषस्य हि सेवां प्रति दुर्जनन्येवातिवृद्धया दुर्गत्या वाभिमुखीक्रियमाणस्य, कुटुम्बिन्येवासंतुष्टया तृष्णया वा प्रेर्यमाणस्य, दुरपत्यैरिव यौवनजनितैर्नानाभिलाषिभिरसत्संकल्पैर्वाकुलीक्रियमाणस्य, जरत्कुमारीमिव परमार्गणयोग्यामतिमहतीं वा अवस्थां पश्यतः, स्तगृहे दुर्बन्धुभिरिव दुःस्थितैः समग्रैर्ग्रहैर्वा ग्राह्यमाणस्याभियोगं, पुरातनैरतिदुस्त्यजैर्भृत्यैरिव मलिनैः कर्मभिर्वानुवर्त्यमानस्य, सकलशरीरसंतापकरं करीषाग्निमिव दुष्कृतिनः कृतचित्त्स्य संप्रवेष्टुं राजकुलमुपहतसकलेन्द्रियशक्तेरिव मिथ्यैव हृदयगतविषयग्रामग्रहणाभिलाषस्य, प्रथममेव तोरणतले वन्तनमालाकिसलयस्येव शुष्यतो द्वाररक्षिभिर्निरुद्धस्य, पीडितस्य प्रविशतो द्वारे हरिणस्येवापरैर्हन्यमानस्य, करिकर्मचर्मपुटस्येव मुहुर्मुहुः प्रतिहारमण्डलकरप्रहारैर्निरस्यमानस्य, निधिपादपप्ररोहस्येव द्रविणाबिलाषादध्ॐउखीभवतः, दूरममार्गणस्याप्यतिविप्रकृष्टविवृतविसर्जितस्योद्वेगं व्रजतः, अकण्टकस्यापि चरणतललग्नस्याकृष्य क्षेपीयः क्षिप्यमाणस्य, अमकरकेतोरप्यकालोपसर्पणाप्रकुपितेश्वरदृष्टिदग्धस्य, प्रलयमुपगच्छतः कपेरिव कोपनिर्भर्त्सितस्याप्यभिन्नमुखरागस्य, ब्रह्नग्न इव प्रतिदिवसवन्दनोद्घृष्टशिरःकपालस्य, स्पर्शरहितस्याशुभकर्माणि निर्वहतः, त्रिशङ्कोरिवोभयलोकभ्रष्टस्य नक्तन्दिनमवाक्शिरसस्तिष्ठतः, वाजिन इव कवलवशेन सुखवाह्यमात्मानं विदधानस्य, अनशनशायिन इव हृदयस्थापितजीवनाशस्य, शरीरं क्षपयतः शुन इव निजदारपराह्मुखस्य, जघन्यकर्मलग्नमा मानं ताडयतः, प्रेतस्येवानुचितभूमिदीयमानान्नपिण्डस्य, बलिभुज इव जिह्वालौल्योपयुक्तपुरुषवर्चसो वृथा विहितायुषो जीवितः, श्मशानपादपानिव पिशाचरय दग्धभूत्या परुषीकृतान्राजवल्लभानुपसर्पतः विपरीतजिह्वाजनितमाधुर्यैरोष्ठमात्रप्रकटितरागै राजशुकालापैः शिशोरिव मुग्धविलोभ्यमानस्य, वेतालस्येव नरेन्द्रप्रभावाविष्टस्य न किञ्चिन्नाचरतः, चित्रधनुष इवालीकगुणाध्यारोपणैकक्रियानित्यनम्रस्य निर्वाणतेजसः, संमार्जनीसमुपार्जितरजसोऽवकरकूटस्येव निर्माल्यवाहिनः, कफविकारिण इव दिने दिने कटुकैरुद्वेज्यमानस्य, सौगतस्येवार्थशून्यविज्ञप्तिजनितवैराग्यस्य काषायाण्यभिलषतः, निशास्वपि मातृबलिपिण्डस्येव दिक्षु विक्षिप्यमाणस्य, अशौचगतस्येव कुशयनचनितसमधिकतरदुःखवृत्तेः, तुलायन्त्रस्येव पश्चात्कृतगौरवस्य तोयार्थमपि नमतः, अतिकृपणस्य शिरसा केवलेनासंतुष्टस्य वचसापि पादौ स्पृशतः, निर्दयवेत्रिवेत्रताडनत्रस्तयेव त्रपयात्यक्तस्य, दैन्यसंकोचितहृदयहृतावकाशयेवाहोपुरुषिकया परिवर्जितस्य, कुत्सितकर्मा ङ्गीकरणकुपितयेवोन्नत्या वियुक्तस्य, धनश्रद्धया क्लेशानुपार्जयतः. स्ववृद्धिबुद्ध्यावमानं संवर्धयतो मूढस्य, सत्यपि विविधकुसुमाधिवाससुरभिणि वने तृष्णायाञ्जलिमुपरचयतः, कुलपुत्रस्यापि कृतागस इव भीतभीतस्य समीपमुपसर्पतः, दर्शनीयस्याप्यालेख्यकुसुमस्येव निष्फलजन्मनः, विदुषोऽपि वेधेयस्येवापशब्दमुखस्य, शक्तिमतोऽपि श्वित्रिण इव संकोचितकरयुगलस्य, समसमुत्कर्षेषु निरग्निपच्यमानस्य, नीचसमीकरणेषु निरुच्छ्वासंम्रियमाणस्य, परिभवैस्तृणीकृतस्य, दुःखानिलेनानिर्वृतेर्ज्वलतः, भक्तस्याप्यभक्तस्य, निरूष्मणः सषन्तापयतो बन्धून्, विमानस्याप्यगतिकस्य, च्युतगौरवस्याप्यधस्ताद्गच्छतः, निःसत्त्वस्यापि महामांसविक्रयं कुर्वतः, निर्मदस्याप्यस्वतन्त्रवृत्तेः, अयोगिनोऽपि ध्यानवशोकृतात्मनः, शय्योत्थायं प्रणमतो दग्धमुण्डस्य, गोत्रविदूषकस्य नक्तन्दिनं नृत्यतो मनस्विजनं हासयतः, कुलाह्गारस्य वंशं दहतः, नृपशोस्तृणेऽपि लब्दे कन्धरामवनमयतः, जठरपरिपूरणमात्रप्रयोजनजन्मनो मांसपिण्डस्य गर्भरोगस्यमातुः, अपुण्यानां कमणामाचरणाद्भृतकस्य किं प्रायश्चित्तम्, का प्रतिपत्तिक्रिया, व्क गतस्य शान्तिः, कीदृशं जीवितम्, कः पुरुषाभिमानः, किंनामानो विलासाः, कीदृशो भोगश्रद्धा, प्रबलपङ्क इव सर्वमधस्तान्नयति दारुणो दासशब्दः धिक्तदुच्छ्वसितमुपयातु निधनं धनम्, अभवनिर्भूतेरस्तु तस्या नमो भगवद्भ्यस्तेभ्यः सुखेभ्यस्तस्यायमञ्जलिरैश्वर्यस्य तिष्ठतु दूर एव सा श्रीः शिवं स परिच्छदः करोतु यदर्थमुत्तमाङ्गं गा गमिष्यत्यशापानुग्रहक्षमस्तपस्वी मुखप्रियरतः क्लीबो पूतिमांसमयः कृमिरगण्यमानो नरकः, पादरजोधूसरोत्तमाह्गो जङ्गमः पादपीठः पुंस्कोकिलः काकुव्कणितेषु, शिखी मुखकरकेकासु, स्थूलकूर्म क्रोडकषणेषु, श्वा नीचचाटुकरणेषु, कृकलासः शिरोविडम्बनासु, जाहक आत्मसंकोचनेषु, वेणुर्मूर्च्छनासु, वेश्याकायः करणबन्धक्लेशेषु, पलालं सत्त्वशालिषु, प्रतिपादकः पादसंवाहनासु, कन्दुकः करतलताडनेषु, वीणादण्डः कोणाबिघातेषु, वराकः सेवकोऽपि मर्त्यमध्ये राजिलोऽपि वा भोगी, पुलाकोऽपि वा कलमो, वरं क्षणमपि कृता मानवता मानवता न मतो नमतस्त्रैलोक्याधिराज्योपभोगोऽपि मनस्विनः । तदेवमभिनन्दितास्मदीयप्रणयो देवोऽपि दिवसैः कतिपयैरेव परागतः प्राग्ज्योतिषेश्वर इति करोतु चेतसिऽ इत्युक्त्वा तूष्णीमभूत् । चिराच्च नमस्कृत्य निर्जगाम ।
राजापि रजनीं तां कुमारदर्शनौत्सुक्यस्वीकृतहृदयः समनैषीत् । आत्मार्पणं हि महताममूलमन्त्रमयं वशीकरणं । प्रबाते च प्रभूतं प्रतिप्राभृतं प्रधानप्रतिदूताधिष्ठितं दत्त्वा हंसवेगं प्राहिणोत् । आत्मनापि ततः प्रभृति प्रयाणकैरनवरतैरभ्यमित्रं प्रावर्तत । कदाचित्तु राज्यवर्धनभुजबलोपार्जितमशेषं मालवराजसाधनमादायागतं समीप एवावासितं लेखहारकाद्भण्डिमशृणोत् । श्रुत्वा चाभिनवीभूतभ्रातृशोकहुताशनस्तद्दर्शनकातरहृदयो बभूव मूर्च्छान्धकारमिव विवेशातिष्ठच्च समुत्सृष्टसकलव्यापारः प्रतीहारनिवारणनिभृतनिःशब्दपरिजने निजमन्दिरे सराजकपरिवारस्तदागमनमुदीक्षमाणो मुहूर्तं ।
अथ भण्डिरेकेनैव वाजिना कतिपयकुलपुत्रपरिवृतो मलिनवासा रिपुशरशल्यपूरितेन निखातबहुलोहकीलकपरिकररक्षितस्फुटनेनेव हृदयेन, हृदयलग्नैः स्वामिसत्कृतैरिव श्मश्रुभिः, शुचं समुपदर्शयन्दूरीकृतव्यायामशिथिलभुजदण्डदोलायमानमङ्गलवलयैकशेषालह्कृतिरनादरोपयुक्तताम्बूलविरलरागेण शोकदहनदह्यमानस्य हृदयस्याङ्गारेणेव, दीर्घनिःश्वासवेगनिर्गतेनाधरेण शुष्यता स्वामिविरहविधृतजीवितापराधवैलक्ष्यादिव, बाष्पवारिपटलेन पटेनेव प्रावृतवदनः, विशन्निव दुर्बलीभूतैः स्वाह्गमपत्रपयाह्गैर्वमन्निव च व्षथीभूतभुजोष्माणमायतैर्निःश्वसितैः, पातकीव, अपराधीव, द्रोहीव, मुषित इव, छलित इव, यूथपतिपतनविषण्ण इव वेगदण्डवारणः, सूर्यास्तमयनिःश्रीक इव कमलाकरः, दुर्योधननिधनदुर्मना इव द्रौणिः, अपहृतरत्न इव सागरो राजद्वारमाजगाम । अवतीर्य च तुरह्गमादवनतमुखो विवेश राजमन्दिरं । दूरादेव च विमुक्ताक्रन्दः पपात पादयोः ।
अवनिपतिरपि दृष्ट्वा तमुत्थाय प्रविरलैः पदैः प्रत्युद्गम्योत्थाप्य च गाढमुपगूह्य कण्ठे करुणमतिचिरं रुरोद । शिथिलीभूतमन्युवेघश्च पुरेव पुनरागत्य निजासने निषसाद । प्रथमप्रक्षालितमुखे च भण्डौ मुखमक्षालयत् । समतिक्रान्ते च कियत्यपि कालकलाकलापे भ्रातृमरणवृत्तान्तमप्राक्षीत् । अथाकथयच्च यथावृत्तमखिलं भण्डिः । अथ नरपतिस्तमुवाच--"राज्यश्रीव्यतिकरः कः?ऽ इति । स पुनरवादीत्--"देव! देव भूयं गते देवे राज्यवर्धने गुप्तनाम्ना च गृहीते कुशस्थले देवी राज्यश्रीः परिभ्रश्य बन्धनाद्विन्ध्याटवीं सपरिवारा प्रविष्टेति लोकतो वार्तामशृणवं । अन्वेष्टारस्तु तां प्रति प्रभूताः प्रहिता जना नाद्यापि निवर्तन्तेऽ इति । तच्चाकर्ण्य भूपतिरब्रवीत्--"किमन्यैरनुपदिबिः यत्र सा तत्र परित्यक्तान्यकृत्यः स्वयमेवाहं यास्यामि । भवानपि कटकमादाय प्रवर्ततां गौडाभिमुखम्ऽ । इत्युक्त्वा चोत्थाय स्नानभुवमगात् । कारितशोकश्मश्रुवपनकर्मणा च महाप्रतीहारभवनस्नातेन, शारीरिकवसनकुसुमाङ्गरागालङ्कारप्रेषणप्रकटितप्रसादेव भण्डिना सार्धमभुक्त, निनाय च तेनैव सह वासरं ।
अथापरेद्युरुषस्येव भण्डिर्भूपालमुपसृत्य व्यज्ञापयत्--"पश्यतु देवः श्रीराज्यवर्धनभुजबलार्जितं साधनं सपरिबर्हं मालवराजस्यऽ इति । नरपतिना स "एवं क्रियताम्ऽ इत्यभ्यनुज्ञातो दर्शयाबभूव । तद्याथा--अनवरतगलितमदमदिरामोदमुखरमधुकरजूटजटिलकरटपट्टपङ्किलगण्डान्, गण्डशैलानिव जह्गमान्, गम्भीरगर्जितरवाञ्जलधरानिव महीमवतीर्णानुत्फुल्लसप्तच्छदवनामोदमुचः, शरद्दिवसानिव पुञ्जभूतान्, अनेकसहस्रसंख्यान्करिणः, चारुचामीकरचित्रचामरमण्डलमनोहरांश्च हरिणरंहसो हरीन्, बालातपविसरवर्षिणां च क्रिरणैरनेकेन्द्रायुधीकृतदशदिशामलङ्काराणां विशेषान्, विस्मयकृतः स्मरोन्मादितमालवीकुचपरिमलदुर्ललितांश्च निजज्योत्स्नापूरप्लावितदिगन्तानपि तारान्हारान्, उडुपतिपादसंचयशूचीनि निजयशांसीव बालव्यजनानि, जातरूपमयनालं च निवासपुण्डरीकमिव श्रियः श्वेतमातपत्रम्, अप्सरस इव बहुसमररससाहसानुरागावतीर्णा वारविलासिनीः, सिंहासनशयनासन्दीप्रभृतीनि राज्योपकरणानि, कालायसनिश्यलीकृतचरणयुगलं च सकलं मालवराजलोकम्, अशेषांश्च ससंख्यालेख्यपत्रान्, सालङ्कारापीडपीडान्कोशकलशान् । अथालोच्य तत्सर्वमवनिपालः स्वीकर्तुं यथाधिकारमादिशदध्यक्षानन्यस्मिंश्चाहनि हयैरेव स्वसारमन्वेष्टुमुच्चचाल विन्ध्याटवीमवाप च परिमितैरेव प्रयाणकैस्तां ।
अथ प्रविशन्दूरादेव दह्यमानषष्टिकबुसविसरविसारिविभावसूनां वन्यधान्यबीजधानीनां धूमेन धूसरिमाणमादधानैः शुष्कशाखासंचयरचितगोवाटवेष्टितविकटवटैः, व्यापादितवत्सरूपकरोषाविष्टगोपालकल्पितव्याग्रमन्त्रैः, अयन्त्रितवनपालहठह्रियमाणपरग्रामीणकाष्ठिककुठारैः, गहनतरुखण्डनिर्मितचामुण्डामण्डपैर्वनप्रदेशैः, प्रकास्यमानमटवीप्रायप्रान्ततया कुटुम्बभरणाकुलैः कुद्दालप्रायकृषिभिः कृषीवलैरबलवद्भिरुच्चभागबाषितेन भज्यमानभूरिशालिखलक्षेत्रखण्डलकमल्पावकाशैश्च कापितैः, कालायसैरिव कृष्णमृत्तिकाकठिनैः, स्थानस्थानस्कथापितस्थाणूत्थितस्थूलपल्लवैः दुरुपगमश्यामाकप्ररूढिभिरलम्बुसबहुलैः, अविरहितकोकिलाक्षक्षुपैर्विरलविरलैः केदारैः, कृच्छ्रात्कृष्यमाणैर्नातिप्रभूतप्रवृत्तगतागताप्रहतभुवमुपक्षेत्रमुपरचितैरुच्चैर्मञ्चैश्च सूच्यमानश्वापदोपद्रवं, दिशि दिशि च प्रतिमार्गद्रुमकृतानां पथिकपादप्रस्फोटनधूलिधूसरैर्नवपल्लवैर्लाञ्झितच्छायानाम्, अटवीसुलभसालकुसुमस्तबकाञ्चितनवखातकूपिकोपकण्ठप्रतिष्ठितनाशस्फुटानामच्छिद्रकटकल्पितकुटीरकाणाम्, कुटिलकीटवेणीवेष्ट्यमानसक्तुशारशरावश्रेणीश्रितानाम्, अध्वगजनजग्धजम्बूफलास्थिशबलसमीपभुवाम्, उद्धूलितधूलीकदम्बस्तबकप्रकरपुलकिनीनाम्, कण्टकितकर्करीचक्राक्रान्तकाष्ठमञ्चिकामुषिततृषाम्, तिम्यत्तलशीतलसिकतिलकलशीशमितश्रमाणाम्, आश्यानशैवलश्यामलितालिञ्जरजायमानजलजडिम्नाम्, उदकुम्भाकृष्टपाटलशर्कराशकलशिशिरीकृतदिशाम्, घटमुखघटितकटहारपाटलपुष्पपुटानाम्, शीकरपुलकितपल्लवपूलीपाल्यमानशोष्यसरसशिशुसहकारफलजूटीजटिलस्थाणूनाम्, विश्राम्यत्कार्पटिकपेटकपरिपाटीपीयमानपयसामटवीप्रवेशप्रपाणां शैत्येन त्याजयन्तमिव ग्रैष्ममूष्मणां व्कचिदन्यत्र ग्राहयन्तमिवाङ्गारीयदारुसंग्रहदाहिभिः व्योकारैः, सर्वतश्च प्रातिवेश्यविषयवासिना समासन्नग्रामगृहस्थगृहस्थापितस्थविरपरिपाल्यमानपाथेयस्थगितेन कृतदारुणदारुव्यायामयोग्याङ्गाब्यङ्गेन स्कन्धाद्यासितकठोरकुठारकण्ठलम्बमानप्रातराशपुटेन पाटच्चरप्रत्यवायप्रतिपन्नपटच्चरेण कालवेत्रकत्रिगुणव्रततिवलयपाशग्रथितग्रीवाग्रथितैः पत्रवीटावृतमुखैः, बोटकूटैरूढवारिणा पुरःसरबलद्बलीवर्दयुगसरेण नैकटिककुटुम्बिकलोकेन काष्ठसंग्रहार्थमटवीं प्रविशता स्वापदव्यधनव्यवधानबहलीसमारोपितकुटीकृतकूटपाशैश्च गृहीतमृगतन्तुतन्त्रीजालवलयवागुरैः, बहिर्व्यादैर्विचरद्भिरंसावसक्तवीतंसव्यालम्बमानबालपाशिकैश्च संगृहीतग्राहकक्रकरकपिञ्जलादिपञ्जरकैः शाकुनिकैः, संचरद्भिश्च्युतलासकलेशलिप्रलतावधूलट्वालम्पटानां चपेटकैः, पाशकशिशूनामटद्भिः तृणस्तम्बान्तरिततित्तिरितरलायमानकौलेयककुलचाटुकारैश्चलद्विंहगमृगयां मृगयुयुवभिः क्रीडद्भिः, पुरिणतचक्रवाककण्ठकषायरुचां शीधव्यानां वल्कलानां कलापान्, नातिचिरोद्धृतानां च धातुत्विषां धातकीकुसुमानां गोणीरगणिताः पिचव्यानां चातसीगणपट्टमूलकानां पुष्कलान्संबारान्, भारांश्च मधुनो माक्षिकस्य मयूराङ्गजस्याक्लिष्टमधूच्छिष्टचक्रमालानां लम्बमानलामज्जकमुञ्जजूटजटानामपत्वचां खदिरकाष्ठानां कुष्ठस्य कठोरकेसरिसटाभारबभ्रुणश्च रोध्रस्य भूयसो भारकान्, लोकेनादाय व्रजता प्रविचितविविधवनफलपूरितपिटकमस्तकाभिश्चाभ्यर्णग्रामगत्वरीभिस्त्वरमाणाभिर्विक्रयचिन्ताव्यग्राभिर्ग्रामेयकाभिर्व्याप्तदिगन्तरमितस्ततश्च युक्तशूरशकुरशाव्कराणां पुराणपांसूत्किरकरीषकूटवाहिनीनां धूर्गतधूलिधूसरसैरिभसरोषस्वरसार्यमाणानां संक्रीडच्चटुलचक्रचीत्कारिणीनां शकटश्रेणीनां संपातैः, संपाद्यमानदुर्बलोर्वीविरूक्षक्षेत्रसंस्कारमारक्षक्षिप्तदान्तवाहकदण्डोड्डीयमानहरिणहेलालङ्घिततुङ्गवैणववृतिभिश्च निकातगौरकरङ्कशङ्खुशङ्कितशशकशकलिततुङ्गशुङ्गैः,प्रयत्नप्रभृतविशङ्कटविचपैर्वाचैरैक्षवैः, कार्मुककर्मण्यवंशविटपसंकटैः, कण्टकितकरञ्जराजिदुष्प्रवेश्यैः, उरुबूकवचावङ्गकसुरससूरणशिग्रुग्रन्थिपर्णगवेधुकागर्मुद्गुल्मगहनगृहवाटिकैः, निखातोच्चकाष्ठारोपितकाष्ठालुकलताप्रतानविहितच्छायैः, परिमण्डलबदरीमण्डपकतलनिखातखादिरकीलबद्धवत्सरूपैः, कथमपि कुक्कुटरटितानुमीयमानसंनिवेशैरह्गनागस्तिस्तम्भतलविरचितपक्षि पूपिकावापिकैर्विकीर्णबदरपाटलपटलैः, वेणुपोटदलनलकलितशरमयवृतिविहितभित्तिभिः, किंशुकगोरोचनारचितमण्डलमण्डपबल्वजबद्धाङ्गारराशिभिः, शाल्मलीफलतूलसंचयबहुलैः, संनिहितनलशालिशालूकखण्डकुमुदबीजवेणुतण्डुलैः, संगृहीततमालबीजैः, भस्ममलिनम्लानकाश्मर्यकूट्वयाधृतकटैराश्यानराजादनमदनफलस्फीतैर्मधूकासवमद्यप्रायैः, कुसुम्भकुम्भगण्डकुसूलैरविरहितराजमाषत्रपुषकर्कटिकाकूष्मांण्डालाबुबीजैः, पोष्यमाणवनबिडालमालुधाननकुलशालिजातजातकादिभिरटवीकुटुम्बिनां गृहैरुपेतं वनग्रामकं ददर्श । तत्रैव च तं दिवसमत्यवाहयदिति ।
सप्तम उच्छ्वास