हर्षचरितम् (लघुसङ्ग्रहः)/चतुर्थोच्छवासः

॥ चतुर्थ उच्छ्वासः ।


 अथ तस्मात्पुष्पभूतेः, दुर्जयबलसनाथो हरिवंश इव शूरात् निर्जगाम राजवंशः ॥

 यस्मात् अविनष्टधर्मधवलाः प्रतापाक्रान्तभुवना अजायन्त राजानः ॥

 तेषु च एवमुत्पद्यमानेषु क्रमेण उदपादि हूणहरिणकेसरी, प्रतापशील इति प्रथितापरनामा प्रभाकरवर्धनो नाम राजाधिराजः ।

 तस्य च, पार्वतीव शंकरस्य, लक्ष्मीरिव लोकगुरोः,रोहिणीव कलावतः, हंसमयीव गतिषु, मधुमयीव संभाषणेषु, यशःपुष्टिरिव चारित्रस्य, हृदयतुष्टिरिव धर्मस्य, शमस्यापि शान्तिरिव, विनयस्यापि विनीतिरिव, धैर्यस्यापि धृतिरिव, यशोवती नाम महादेवी प्राणानां प्रणयस्य विस्रम्भस्य धर्मस्य सुखस्य च भूमिरभूत् ॥

 निसर्गत एव च स नृपतिः आदित्यभक्तो बभूव । प्रतिदिनम् उदये दिनकृतः स्नातः सितदुकूलधारी प्राङ्मुखः क्षितौ जानुभ्यां स्थित्वा कुङ्कमपङ्कानुलिप्ते मण्डलके रक्तकमलषण्डेन अर्चां ददौ । अजपच्च प्रत्युषसि मध्यंदिने दिनान्ते च अपत्यहेतोः प्रयतेन मनसा मन्त्रम् आदित्यहृदयम् ॥

 ततः समतिक्रान्ते कस्मिंश्चित्कालांशे देव्यां यशोवत्यां देवो राज्यवर्धनः प्रथममेव संबभूव गर्भे । गर्भस्थितस्यैव च यस्य यशसेव पाण्डुताम् अधत्त जननी । अदतीर्णे च दशमे मासि असूत देवं राज्यवर्धनम् ॥  अथान्यस्मिन्नतिक्रान्ते कस्मिंश्चित्काले, नभसि देवक्या इव चक्रपाणिः यशोवत्या हृदये गर्भे च सममेव संबभूव हर्षः । ततश्च प्राप्ते ज्येष्ठामूलीये मासि बहुलासु बहुपक्षद्वादश्यां व्यतीते प्रदोषसमये समारुरुक्षति क्षपां यौवने, सहसैव अन्तःपुरे समुदपादि कोलाहलः स्त्रीजनस्य । निर्गत्य च ससंभ्रमं यशोवत्याः स्वयमेव हृदयनिर्विशत्या धात्र्याः सुता सुयात्रा राज्ञः पादयोर्निपत्य "देव, दिष्ट्या वर्धसे द्वितीयसुतजन्मना" इति व्याहरन्ती पूर्णपात्रं जहार ॥

 तत्क्षण एव च शुक्लवाससो ब्रह्ममुखाः समुपतस्थिरे द्विजातयः। साक्षाद्धर्म इव शान्त्युदकफलहस्तः तस्थौ पुरः पुरोधाः । प्रावर्तत च विगतराजकुलस्थितिः, समस्वामिपरिजनः, निर्विशेषबालवृद्धः, दुर्ज्ञेयमत्तामत्तप्रविभागः पुत्रजन्मोत्सवो महान् ॥

 एवं च वृत्ते तस्मिन्महोत्सवे, शनैः शनैः पुनरपि अतिक्रामति काले, धात्रीकराङ्गुलिलग्ने पञ्चषाणि पदानि प्रयच्छति हर्षे, षष्ठं वर्षम् अवतरति च राज्यवर्धने, देवी यशोवती गर्भेण अधत्त राज्यश्रियम् । पूणेषु च प्रसवदिवसेषु गौरीमिव मेनी प्रसूतवती दुहितरम् ॥

 अस्मिन्नेव तु काले देव्या यशोवत्या भ्राता, सुतम् अष्टवर्षदेशीयं मकरध्वजमिव पुनर्जातं भण्डिनामानम् अनुसरं कुमारयोः अर्पितवान् ॥

 एका च भुक्तवान् अभ्यन्तरगतः पिता, सुतौ आहूय, वत्सौ, प्रथमं राज्याङ्गं दुर्लभाः सद्भृत्या: । अतः परीक्षितौ शुची विनीतौ विक्रान्तौ मालवराजपुत्रौ भ्रातरौ कुमारगुप्तमाधवगुप्तौ भवतोः अनुचरत्वार्थम् अस्माभिः निर्दिष्टौ । अनयोरुपरि भवद्भ्यामपि नाम्यपरिजनसमवृत्तिभ्यां भवितव्यम्” इत्युक्त्वा, तयोराह्वानाय प्रतीहारम् आदिदेश ॥

 प्रविश्य च तौ दूरादेव चतुर्भिः अङ्गैः उत्तमाङ्गेन च गां स्पृशन्तौ नमश्चक्रतुः। स्निग्धनरेन्द्रदृष्टिनिर्दिष्टाम् उचितां भूमिं भेजाते । मुहूर्तं च स्थित्वा भूपतिः आदिदेश तौ-- "अद्यप्रभृति कुमारौ अनुवर्तनीयौ" इति । ततश्च आरभ्य भुजाविव सततपार्श्ववर्तिनौ कुमारयोः तौ बभूवतुः ॥

 अथ राज्यश्रीरपि नृत्यगीतादिषु सकलासु कलासु प्रतिदिनमुपचीयमानपरिचया शनैः शनैरवर्धत । परिमितैरेव दिवसैः यौवनमारुरोह । निपेतुरेकस्यां तस्यां शरा इव लक्ष्यभुवि भूभुजां सर्वेषां दृष्टयः । दूतप्रेषणादिभिश्च तां ययाचिरे राजानः ॥

 कदाचित्तु राजा अन्तःपुरप्रासादस्थितः पार्श्वस्थितां महादेवीं जगाद-- "देवि, तरुणीभूता वत्सा राज्यश्रीः। एतदीया गुणवत्तेव क्षणमपि हृदयान्नापयाति मे चिन्ता । प्रायेण च सत्स्वप्यन्येषु वरगुणेषु अभिजनमेव अनुरुध्यन्ते धीमन्तः। धरणीधराणां च मूर्ध्नि स्थितो माहेश्वरो मौखरी वंशः । तत्रापि तिलकभूतस्य अवन्तिवर्मणः सूनुः अग्रजो ग्रहवर्मा नाम पितुरन्यूनो गुणैरेनां प्रार्थयते । यदि भवत्या अपि मतिरनुमन्यते, ततस्तस्मै दातुमिच्छामि“ इति ।

 “आर्यपुत्र, संवर्धनमात्रोपयोगिन्यो धात्रीनिर्विशेषा भवन्ति खलु मातरः कन्यकानाम् । दाने तु प्रमाणमासां पितरः” इति महादेवी प्रत्युवाच ॥

 राजा तु जातनिश्चयो दुहितृदानं प्रति, समाहूय सुतावपि विेदितार्थौ अकार्षीत् । शोभने च दिवसे ग्रहवर्मणा प्रेषितस्य प्रधान दूतपुरुषस्य करे सर्वसमक्षं दुहितृदानजलम् अपातयत् । जातमुदिकृतार्थे गते च तस्मिन् , आसन्नेषु च विवाहदिवसेषु, रमणीयं च औत्सुक्यदं च मङ्गल्यं च आसीद्राजकुलम् ॥

 देवी तु यशोवती विवाहोत्सवपर्याकुलहृदया, हृदयेन भर्तरि, कुतूहलेन जामातरि, स्नेहेन दुहितरि, उपचारेण निमन्त्रितस्त्रीषु, आदेशेन परिजने, एकापि बहुधा विभक्तेवाभवत् ।।

 एवं च तस्मिन्नविधवामय इव भवति राजकुले, भूषणमय इव भ्रमति परिजने, लक्ष्मीमय इव विजृम्भमाणे महोत्सवे, आलोक्यमान इव मार्गध्वजैः आहूयमान इव मौहूर्तिकैः आकृष्यमाण इव मनोरथैः, आजगाम विवाहदिवसः। प्रातरेव प्रतीहारैः समुत्सारितनिखिलानिबद्धलोकं विविक्तम् अक्रियत राजकुलम् ।।

 अथ प्रतीहारः प्रविश्य नृपसमीपम् ‘‘देव, जामातुरन्तिकात् ताम्बूलदायकः पारिजातकनामा संप्राप्तः” इत्यभिधाय, स्वकारं युवानम् अदर्शयत् । आगतजामातृनिवेदनागतं च तं ज्ञात्वा राजा "यामिन्याः प्रथमे यामे विवाहकालात्ययकृतो यथा न भवति दोषः" इति संदिश्य प्रतीपं प्राहिणोत् ।

 अथ समवसिते वासरे, नक्षत्रमालामण्डितमुखीं करिणीमरूढः, दीपिकाचक्रवालस्यालोकेन पिञ्जरीकुर्वन्सकलं जीवलोकम्, नववधूवदनालोकनकुतूहलेनेव कृष्यमाणहृदयः आजगाम प्रत्यासन्नलग्नो गृहवर्मा ।।

 नचिराच्च नृपमुपसृत्य मौहूर्तिका "देव, समसीदति लग्नवेला । व्रजतु जामाता कौतुकगृहम्’ इत्यूचुः । अथ नरेन्द्रेण "गच्छ" इति गदितो गृहवर्मा आससाद कौतुकगृहद्वारम् । निषारितपरिज नश्च प्रविवेश । तत्र कतिपयप्रियसखीस्वजनप्रायपरिवाराम्, अरुणांशुकावगुण्ठितमुखीम्, चन्दनधवलतनुलताम्, कुसुमामोदनिर्हारिणीम्, अधोमुखीम्, मुहुर्मुहुः कृतमुखोन्नमनप्रयत्नं च सखीजनं निर्भर्त्सयन्तीं वधूमपश्यत् ॥

 परिहासस्मेरमुखीभिश्च नारीभिः कौतुकगृहे यद्यत् कार्यते जामाता, तत्तत् सर्वमतिपेशलं चकार । कृतपरिणयानुरूपवेषपरिग्रहां गृहीत्वा करे वधूं निर्जगाम । जगाम च नवसुधाधवलाम् उपकृशानु निहितानुपहतहरितकुशां वेदीम् । आरुरोह च तां दिवमिव सज्योत्स्नः शशी । हुते च हुतभुजि, दक्षिणावर्तप्रवृत्ताभिः ज्वालाभिरेव सह प्रदक्षिणं बभ्राम । पात्यमाने लाजाञ्जलौ, अदृष्टपूर्ववधूवररूपविस्मयस्मेर इव अदृश्यत विभावसुः ॥

 अत्रान्तरे निर्वदनविकारं रुरोद वधूः । उदश्रुविलोचनानां च बान्धववधूनाम् उदपादि महानाक्रन्दः । परिसमापितवैवाहिकक्रियाकलापस्तु जामाता, वध्वा समं प्रणनाम श्वशुरौ । प्रविवेश च मङ्गलप्रदीपैः प्रकाशितम्, सोपधानेन स्वास्तीर्णेन शयनेन शोभमानम्, शयनशिरोभागस्थितेन च निद्राकलशेन राजतेन विराजमानं वासगृहम् ॥

 स्थित्वा च अभिनवोपचारैः अपुनरुक्तानि आनन्दमयानि दशदिनानि, कथं कथमपि विसर्जितो नृपेण, वध्वा सह स्वदेशमगमत् ॥

 इति हर्षचरिते चक्रवर्तिजन्मवर्णनं नाम चतुर्थ उच्छ्वासः ॥