[य्]
किं शीलः किं समाचारः किं विद्यः किं परायनः।
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम्॥१॥

[भी]
मोक्षधर्मेषु निरतो लघ्वाहारो जितेन्द्रियः।
प्राप्नोति परमं स्थानं यत्परं प्रकृतेर्ध्रुवम्॥२॥

स्वगृहादभिनिःसृत्य लाभालाभे समो मुनिः।
समुपोधेषु कामेषु निरपेक्षः परिव्रजेत्॥३॥

न चक्षुषा न मनसा न वाचा दूसयेदपि।
न प्रत्यक्षं परोक्षं वा दूसनं व्याहरेत्क्व चित्॥४॥

न हिंस्यात्सर्वभूतानि मैत्रायण गतिश् चरेत्।
नेदं जीवितमासाद्य वैरं कुर्वीत केन चित्॥५॥

अतिवादांस्तितिक्षेत नाभिमन्येत्कथं चन।
क्रोध्यमानः प्रियं ब्रूयादाक्रुष्टः कुशलं वदेत्॥६॥

प्रदक्षिणं प्रसव्यं च ग्राममध्ये न चाचरेत्।
भैक्ष चर्यामनापन्नो न गच्छेत्पूर्वकेतितः॥७॥

अविकीर्णः सुगुप्तश्च न वाचा ह्यप्रियं वदेत्।
मृदुः स्यादप्रतिक्रूरो विस्रब्धः स्यादरोषणः॥८॥

विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने।
अतीते पात्रसञ्चारे भिक्षां लिप्सेत वै मुनिः॥९॥

अनुयात्रिकमर्थस्य मात्रा लाभेष्वनादृतः।
अलाभे न विहन्येत लाभश्चैनं न हर्षयेत्॥१०॥

लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः।
अभिपूजित लाभं हि जुगुप्सेतैव तादृशः॥११॥

न चान्न दोषान्निन्देत न गुणानभिपूजयेत्।
शयासने विविक्ते च नित्यमेवाभिपूजयेत्॥१२॥

शून्यागरं वृक्षमूलमरण्यमथ वा गुहाम्।
अज्ञातचर्यां गत्वान्यां ततोऽन्यत्रैव संविशेत्॥१३॥

अनुरोध विरोधाभ्यां समः स्यादचलो ध्रुवः।
सुकृतं दुष्कृतं चोभे नानुरुध्येत कर्मणि॥१४॥

वाचो वेगं मनसः क्रोधवेगं विवित्सा वेगमुदरोपस्थ वेगम्।
एतान्वेगान्विनयेद्वै तपस्वी निन्दा चास्य हृदयं नोपहन्यात्॥१५॥

मध्यस्थ एव तिष्ठेत प्रशंसा निन्दयोः समः।
एतत्पवित्रं परमं परिव्राजक आश्रमे॥१६॥

महात्मा सुव्रतो दान्तः सर्वत्रैवानपाश्रितः।
अपूर्व चारकः सौम्यो अनिकेतः समाहितः॥१७॥

वान प्रस्थगृहस्थाभ्यां न संसृज्येत कर्हि चित्।
अज्ञातलिप्सां लिप्सेत न चैनं हर्ष आविशेत्॥१८॥

विजानतां मोक्ष एष श्रमः स्यादविजानताम्।
मोक्षयानमिदं कृत्स्नं विदुषां हारितोऽब्रवीत्॥१९॥

अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद्गृहात्।
लोकास्तेजोमयास्तस्य तथानन्त्याय कल्पते॥२०॥

॥इति हारीतगीता समाप्ता॥

"https://sa.wikisource.org/w/index.php?title=हारीतगीता&oldid=37667" इत्यस्माद् प्रतिप्राप्तम्