हारीतसंहिता/द्वितीयस्थानम्
← प्रथमस्थानम् | हारीतसंहिता द्वितीयस्थानम् हारीतः |
तृतीयस्थानम् → |
प्रथमोऽध्यायः
सम्पाद्यताम्आत्रेय उवाच
अथातः सम्प्रवक्ष्यामि द्वितीयस्थानमुत्तमम्
शुभाशुभानि स्वप्नानि स्वास्थ्यारिष्टानि मानुषे १
शृणु पुत्र समासेन यथा वत्स प्रकाश्यते २
हारीत उवाच
ज्ञातं मया महाप्राज्ञ अन्नपानं तथोत्तमम्
इदानीं ज्ञातुमिच्छामि रोगाणां रोगविज्ञताम् ३
कर्मजा व्याधयो ये च तान्वद त्वं महामते ४
आत्रेय उवाच
कर्मजा व्याधयः सर्वे भवन्ति हि शरीरिणाम्
सर्वे नरकरूपाः स्युः साध्यासाध्या भवन्त्यमी ५
अज्ञातं यत्कृतं पापं पश्चात्कृच्छ्रं समाचरेत्
प्रायश्चित्तबलेनापि साध्यरूपी भवेद्गदः ६
क्रियते ज्ञातरूपेण यत्पश्चात्कृच्छ्रमाचरेत्
प्रायश्चित्तेन प्रान्ते तु कष्टसाध्यो भवेद्गदः ७
ब्रह्मघ्नगोघ्न धरणीपतिघातकश्च आरामतोयधरनाशकपारदाराः
स्वाम्यङ्गनागुरुवधूकुलजाभिगामी एते त्रयोदशविधाः प्रबाला गदाश्च ८
पाण्डुः कुष्ठं राजयक्ष्मातिसारो मेहो मूत्रं चाश्मरी मूत्रकृच्छ्रम्
शूलः श्वासः कासशोफव्रणाश्च दोषाश्चैते पापरूपा नृणां स्युः ९
ज्वरोऽजीर्णं तथा छर्दिभ्रममोहाग्निमान्द्यताः
यकृत्प्लीहार्शःशोषाश्च एते चैवोपदूषकाः १०
व्रण शूलं शिरःशूलं रक्तपित्तं तथोर्द्ध्वगम्
एते रोगा महाप्राज्ञ अभिशापाद्भवन्ति हि ११
अन्येऽपि बहुधा रोगा जायन्ते दोषसम्भवाः
अतो वक्ष्ये समासेन शृणु त्वञ्च महामते १२
ब्रह्मज्ञो जायते पाण्डुः कुष्ठी गोवधकारकः
राजघ्नो राजयक्ष्मी स्यादतिसार्योपघातकः १३
स्वाम्यङ्गनाभिगमने मेहा रोगा भवन्ति हि
गुरुजायाप्रसङ्गेन मूत्ररोगोऽश्मरीगदः १४
स्वकुलजाप्रसङ्गाच्च जायते च भगन्दरः
शूली परोपतापी च पैशून्याच्छ्वासकासिनः १५
मार्गे विघ्नकरा ये तु जायन्ते पादरोगिणः
अभिशापाद्व्रणोत्पत्तिर्यकृद्वापि प्रजायते १६
सुरालये जले चापि शकृद्वृष्टिं करोति यः
गुदरोगा भवन्त्यस्य पापरूपातिदारुणाः १७
परतापिद्विजानाञ्च जायन्ते हि महाज्वराः
परान्नविघ्नजननादजीर्णमपि जायते १८
गरदश्छर्दिरोगी स्यात्पादाष्टविभ्रमी तथा
धूर्त्तोऽपस्माररोगी स्यात्कदन्नदेऽग्निमान्द्यकं १९
यकृत्प्लीहो भवेद्रोगो भ्रूणपातकपातकात्
व्रणं शूलं शिरःशूलं परतापोपकारणात् २०
अपेयपानरतको रक्तपित्ती प्रजायते
दावाग्निदायको यस्तु जायते च विसर्पवान् २१
बहुवृक्षोपच्छेदो च जायते च बहुव्रणः
परद्रव्यापहाराच्च जायते ग्रहणीगदः २२
कुनखी स्वर्णस्तेयाच्च प्रसूतिस्तस्य जायते
रौप्यस्तेयाच्चित्रकुष्ठं ताम्रचौराद्विपादिका २३
त्रपुश्चौरः सिध्मलश्च मुखरोगी च सीसहृत्
वर्वरो लोहचौरः स्यात्क्षारचौरोऽतिमूत्रलः २४
घृतचौरोऽन्त्ररोगी च तैलचौरोःतिकण्डुकः
एतैश्छिद्रैस्तु काणाक्षो वक्रोक्तो वक्रलोचनः २५
दोषवान्स्याच्छ्यावदन्तो दुष्टवाक्कुष्ठदूषणः
रसनाशाज्जिह्वारोगी गोत्रहा लूतिकाव्रणी २६
एते चैव महादोषा अतो वक्ष्यामि निष्कृतिम्
कृच्छ्रेण येन सिध्यन्ति पापरूपा इमे गदाः २७
गोदानं भूमिदानञ्च स्वर्णदानं सुरार्चनम्
कृत्वा पश्चात्प्रतीकारं कुर्यात्पाण्डूपशान्तये २८
महापापेषु सर्वस्वं तदर्द्धमुपदोषजे
आत्रेयाद्दशषष्ठांशात्कल्प्यं व्याधिबलाबलम् २९
नवषष्टिकृतं कर्मकुष्ठरोगोपशान्तये
गोहिरण्यप्रदानञ्च तथा मिष्टान्नभोजनम् ३०
चतुर्विधं दानमिदं दत्त्वा कुर्यात्प्रतिक्रियाम्
कदाचिदपि सिध्येत आयुषश्च बलक्रियाम् ३१
मेहे सुवर्णदानञ्च शूले श्वासे भगन्दरे
आश्वानडुहदानेन श्वासकासाद्विमुच्यते ३२
ज्वरे चेश्वरपूजा च रुद्रजाप्यं समाचरेत्
अतिपानान्नदानञ्च शस्त्रदानं भ्रमातुरे ३३
अग्निहोमं चाग्निमान्द्ये कन्यादानञ्च गुल्मके
मेहाश्मरीविनाशाय लवणञ्च प्रदीयते ३४
बहुभोजनदानेन शूलरोगाद्विमुच्यते
महाज्वरे शान्तिकञ्च सहस्रं गण्डुकं शिवम् ३५
स्नापयेत्तेन सिद्धिः स्याज्ज्वररोगाद्विमुच्यते
घृतमधुप्रदानेन रक्तपित्तं प्रशाम्यति ३६
वनस्पतिसिञ्चनेन विसर्पात्परिमुच्यते
विटपिसिञ्चनेनाऽथ नात्र याति बहुव्रणः ३७
चतुर्विधेन दानेन साध्यः स्याद्ग्रहणीगदः
सुवर्णदानात्कुनखी श्यावदन्तः सुखी भवेत् ३८
रौप्यदानाच्चित्रकुष्ठं साध्यं वापि प्रदिश्यते
सिध्मले त्रपुदानञ्च बर्बरे लोहदानकम् ३९
मुखव्रणे नागदानं गोदानं बहुपुन्नके
नेत्ररोगे घृतं दद्यात्सुगन्धं नासिकागदे ४०
तैलदानञ्च कण्डूके रसदानञ्च जिह्वके
श्यावन्दतेन देवानां सत्कृतिः प्रविधीयते ।
ओष्ठरोगेऽपि तद्वच्च लूतारोगे ददेत गाः ४१
अन्यांश्च कथयिष्यामि मनुष्याणां शरीरगान्
लज्जितः परनिन्दायां परमर्केन काणगः ४२
खुरहा स्याद्वक्रनासः पक्षाघातेन पक्षहा
वामनः स्वप्रशंसायां परद्वेष्टातिपिङ्गलः ४३
परस्य कृत्यकर्त्ता च जायते विकृतात्मकः
एते महागदाश्चान्ये जायन्ते पापसम्भवाः ४४
यदिवात्र न सिध्येत्तु परभावो भवेन्न च
अतो हि प्रायश्चित्तं तु कारयेद्भिषजां वरः ४५
भूयो जन्मान्तरे यावत्पापं रोग्यथ भुञ्जति
प्रायश्चित्ते कृते वापि न पुनर्जायते भवे ४६
इति आत्रेयभाषिते हारीतोत्तरे द्वितीयस्थाने पापदोष प्रतीकारो नाम प्रथमोऽध्यायः १
द्वितीयोऽध्यायः
सम्पाद्यताम्आत्रेय उवाच
शृणु पुत्र समासेन यथा वत्स प्रकाश्यते
तथारिष्टपरिज्ञानं भेषजं सम्प्रवक्ष्यते १
वातिकः पैत्तकश्चैव भयाद्धीनबलादपि
मूत्रान्विष्टे सपित्ते च षट्स्वप्नानि च वर्जयेत् २
संवत्सरेण फलदो हि भवेन्निशायां
यामे तु दृष्टःप्रथमे फलदः शुभस्य
स्याद्वत्सरार्द्धमतियाममथ द्वितीये
मासत्रये फलदो भवति तृतीये ३
निशावसाने प्रवदन्ति किञ्चिद्दशाहकः स्यात्फलदो मनुष्ये
वर्षादिने स्यात्तमुशन्ति शान्ताः षाण्मासिको मध्यदिने प्रदिष्टः ४
स्वप्नेषु शुभ्राणि शुभानि धीराः सर्वाणि चैमानि विवर्जयित्वा
कार्पासभस्मास्थिकपालशूलं कुर्यान्नराणां विपदं रुजं वा ५
सर्वाणि कृष्णानि विनिन्दितानि स्वप्ने नराणां विपदं रुजं वा
कुर्वन्ति चैतानि हि वर्जयित्वा गोवाजिराजद्विजहस्तिमत्स्यान् ६
मुकुरकुसुमशृङ्गारातपत्रं ध्वजं वा
दधि फलमथ वस्त्रं चान्नताम्बूलवस्त्रम्
कमलकलशशङ्खं भूषणं काञ्चनस्य
भवति सकलतम्पच्छेयसे रोगिणाञ्च ७
दिनकरनिशिनाथं मण्डलं तारकस्य
विकचकमलकुञ्जैः पूर्णपद्माकरं वा
तरति सलिलराशिप्रौढनद्याश्च पारं
घनसुखविभवाप्तिर्व्याधिनां रोगमुक्तिः ८
देवो द्विजो वा पितरो नृपो वा स्वप्नेषु वाक्यं वदते यथैव
तथैव नान्यच्च भवेन्मनुष्ये यद्यस्य सौख्यं विपदो रुजो वा ९
गोवाजिकुञ्जरनृपाः सुमनः प्रशस्तं
स्वप्नेषु पश्यति नरः सरुजः सुखाय
रोगान्वितश्च रुजनाशनसम्भवाय
बद्धोऽपि वै सपदि बन्धविमोचनाय १०
यो भूषणं पश्यति मन्दिरं वा कन्यां दधि मीनकुमारकं वा
सपुष्पवल्लीफलितं द्रुमं वा स्वस्थे धनाप्तिं रुजनाशनाय ११
स्वप्ने पयःपानमतिप्रशस्तं पानं सुराया अजभोजनं वा
घृतं यवागूःकृसरोदनं वा क्षैरेयिकं भोजनकं सुखाय १२
सितो भुजङ्गो दशति कराग्रे नरस्य सुप्तस्य शरीरकेषु
पुत्रस्य लाभं वदते धनं वा नाशं विदध्यादचिराद्रुजां वा १३
सश्वेतवस्त्रां रमणीं सुरम्यां स्वप्ने समालिङ्गति यो मनुष्यः
तस्य प्रकर्षेण सुखं श्रियः स्यात्सुपुत्रलाभश्च रुजां विनाशः १४
यो धान्यपुञ्जं तिलतण्डुलानां गोधूमसिद्धार्थयवादिकानाम्
धान्याप्तिरस्यामयनाशहेतुः स्वप्नेषु शीघ्रं मनुजे सुखाय १५
सफले धनसम्पत्तिर्दीप्ते रोगविनाशनम्
सुखञ्च पुष्पिते ज्ञेयं सम्पूर्णे वाञ्छितं फलम् १६
काकैः कङ्कैः करभभुजगैः सूकरोलूकगृध्रैर्जम्बूकैर्वा वृकखरमहिष्यातिरक्षैः श्वभिश्च
व्याघ्रैर्ग्राहैर्मकरकपिभिर्भक्ष्यमाणं स्वकायं
पश्येद्योऽसौ भजति नितरां हानिमापद्रुजं वा १७
योऽभ्यञ्जितं स्वं मनुजः प्रपश्येत्
सर्पिर्वसातैलविशेषणेन
शीघ्रं रुजाप्तिर्भवतीह तस्य
वदन्ति धीरा निपुणं विधेयम् १८
रक्तवस्त्रां कृष्णवस्त्रां मुक्तकेशां विसर्पिणीम्
याम्यां स्थितां रुदन्तीं वा गायन्तीमथ पश्यति २०
अथाह्वयति संक्रुद्धाँ समालिङ्गति चर्वति
यः पश्यति सुखी स स्याद्व्याधितो मृत्युमृच्छति २१
यस्य स्वप्ने च निष्कुष्ठदन्तपातः प्रदृश्यते
शीर्यन्ते केशरोमाणि स सुखी चापदं व्रजेत् २२
यस्य खट्वा प्रभज्येत तोमरादिप्रहारतः
रक्तञ्च दृश्यते देहे सस्वस्थो व्याधिमृच्छति २३
शून्यागारं पश्यति यो मनुष्यः प्रासादं वा देवहीनञ्च पश्येत्
तापश्चान्द्रे पुष्पितानां द्रुमाणां तस्यानिष्टं मृत्युमाशु प्रपद्येत् २४
विपश्येन्नरोभिन्नदेवं घटं वाथवा भग्नशाखं तरुं मन्दिरं वा
विशीर्णं विपश्येत्सुखी व्याधिपुञ्जं प्रपद्येद्रुजाग्रस्त आशु म्रियेत २५
यस्याह्वयन्ति पितरो दिशि दक्षिणस्यामाश्रित्य चाशु तनुते मनुजस्य मृत्युम्
यस्यास्ति शूललकुटोद्यतपाशपाणिराह्वयति स मृतिमाशु तनोति कष्टम् २६
कार्पासभस्मास्थिकपालशूलं चक्रञ्च पाशञ्च स्वप्ने प्रपश्येत्
तस्यापदो रोगधनक्षयौ वा रोगी मृतिं वा तनुतेऽतिकष्टम् २७
इति प्रदिष्टानि शुभानि तानि निशासु सुप्ते मनुजे विशेषात्
तथाशु विज्ञाय महामते त्वं गदस्य नाशाय विधेहि मन्त्रम् २८
स्नानञ्च दानञ्च सुरार्चनञ्च होमं तथा भाग्यविधानतश्च
दुःस्वप्नमेतेषु विनाशमेति शुभञ्च सौख्यञ्च तनोति शीघ्रम् २९
इति आत्रेयभाषिते हारीतोत्तरे द्वितीयस्थाने स्वप्नाध्यायो नाम द्वितीयोऽध्यायः२
तृतीयोऽध्यायः
सम्पाद्यताम्आत्रेय उवाच
शृणु पुत्र महाप्राज्ञ सर्व देहार्थसाधकम्
वैद्यशास्त्रस्य सारं यत्स्वास्थ्यारिष्टञ्च मानवे १
यो न पश्येद् ध्रुवं सम्यक्स्वर्णं वा मनुजो बुधः
तस्य षण्मासमध्ये तु मृतिश्चैवोपपद्यते २
यो वै द्वितीयां हिमधामलेखां नरो न पश्येद्द्विजहानिरस्य
मासत्रयं प्राप्य शरीरमाशु जीवो व्रजेत्तस्य यमस्य लोकम् ३
यः कर्णघोषं न शृणोति दृप्ता मृताश्च यूकाः प्रपतन्ति लाभात्
या वैपरीत्यं विशृणोति शब्दं मासद्वयं प्राप्य जहाति जीवम् ४
यः स्वस्थदेहः श्वसते मुखेन नेत्रेऽरुणे श्यावमथैव वक्त्रम्
जिह्वा विशीर्णा दशनाश्च कृष्णा स्वस्थोऽपि शीघ्रं यमलोकगन्ता ५
यस्य प्रभाते च शिरोव्यथा स्याद्दीपे परीवेषमवेक्ष्यमाणः
विपश्यते यः पटलञ्च रेणोः स वै मृतिं याति न दीर्घमायुः ६
यः सूर्यबिम्बे शशिनं प्रपश्येद्विना परीवेषमवेक्ष्यमाणः
धूमावृतं वा रविमण्डलञ्च प्रपश्यते शीघ्रमृतिं स गन्ता ७
स्वस्थे निरभ्रे गगने च पश्येद्यः शक्रचापं विदिशादिशासु
तथैव विद्यान्नयनाग्रतो यः स शीघ्रमेव यमलोकगन्ता ८
यो नेत्रे मीलितेऽपि द्युतिमथ चपलां पश्यते यः पुरस्तात्कर्णे रन्ध्रं
निरुध्याद्ध्वनिमथ मनुजो न शृणोति कथञ्चित् ९
तिक्तादीनां रसानां कथमपि रसनास्वादमात्रं न वेत्ति रौद्रं वैवस्वतस्य
प्रतिगमनमथो पश्यते मानुषश्च १०
यस्यात्युष्णं शरीरं शिशिरमथ मनूजस्य यस्याविलञ्च शीतं नो चेति यस्य हिमजलसिकते रोमहर्षो न यस्य । दण्डाघातेन राजा न भवति स पुनः श्राद्धदेवस्य लोके लोकानां दर्शनाय द्रुतमतिरुचिरां स्वस्थतां न प्रयाति ११
तैले जले दर्पणके घृते वा परस्य नेत्रे प्रतिबिम्बमात्मनः
पश्येन्न योऽसौयमलोकगन्ता जानीहि तं जीवविहीनमेव १२
इति आत्रेयभाषिते हारीतोत्तरे द्वितीयस्थाने स्वास्थ्यारिष्टं नाम तृतीयोऽध्यायः ३
चतुर्थोऽध्यायः
सम्पाद्यताम्आत्रेय उवाच
उपद्रवैश्च ये पुष्टा व्याधयो यान्ति वार्यताम्
रसायनादिना वत्स तान्मकैकमनाः शृणु १
वातव्याधिः प्रमेहश्च कुष्ठमर्शो भगन्दरम्
अश्मरी मूढगर्भश्च तथा चोदरमष्टमम् २
अष्टावेते प्रकृत्यैव दुश्चिकित्स्या महागदाः ३
प्राणमांसक्षयश्वासतृष्णाशोषवमिज्वरैः
मूर्च्छातिसारहिक्काभिः पुनरेतैरुपद्रुताः ४
वर्जनीया विशेषेण भिषजा सिद्धिमिच्छता ५
यस्य जिह्वा भवेत्तीव्रा पीता वा नीलसम्भवा
श्वासो भवत्यतीवोष्णः शरीरं पुलकाङ्कितम् ६
नीलनेत्रेऽरुणे पीते कण्ठो घुरघुरायते
न जीवति ज्वरार्त्तस्तु लक्षणं यस्य चेदृशम् ७
मुखे श्वासो भवेद्यस्य श्यावा दन्तावली पुनः
स्तब्धनेत्रो बलाद्यः स्याज्ज्वरार्तो नैव जीवति ८
बहुमूत्री बहुश्वासी क्षामोऽरोचकपीडितः
हतप्रभेन्द्रियो यश्च ज्वरीशीघ्रं विनश्यति ९
यस्यास्ये श्रयते रक्तं शिरोर्त्तिर्यस्य दृश्यते
अन्तर्दाहो बहिःशीतो ज्वरस्तु मृत्युमृच्छति १०
यस्ताम्यति विसंज्ञस्तु शेते विपतितोऽपि वा
शीतार्दितोऽन्तरुष्णश्च ज्वरेण म्रियते नरः ११
यो हृष्टरोमा रक्ताक्षो हृदि सङ्घातशूलवान्
नित्यञ्च वक्त्रेणोच्छ्वासः स ज्वरो हन्ति मानवम् १२
हिक्काश्वासपिपासार्त्तं मूदं विभ्रान्तलोचनम्
सन्ततोच्छ्वासिनं क्षीणं नरं क्षपयति ज्वरः १३
आविलाक्षं प्रताम्यञ्च तन्द्रायुक्तमतीव च
क्षीणशोणितमांसञ्च नरं नाशयति ज्वरः १४
घनं निष्ठीवनं नेत्रं प्लावारोचकपीडितम्
अन्तर्दाहोऽसिता जिह्वा शीघ्रं नाशयति ज्वरः १५
यश्चैकोपद्रवस्यार्त्तैः शाम्यता नोपदृश्यते
दारुणोपद्रवाश्चान्ये भूयिष्ठं बहुरूपवान् १६
तेन मृत्योर्वशं याति सिद्धिं नेच्छति दारुणः १७
यस्यादौ दृश्यते चैवाप्यतीसारस्तथापरः
श्वासः शोषश्च यस्य स्यात्सोऽपि शीघ्रं मृतिं व्रजेत् १८
श्वासशूलपिपासार्त्तं क्षीणं ज्वरनिपीडितम्
विशेषेण नरं वृद्धमतीसारो विनाशयेत् १९
यस्यातिसारशोफाः स्युस्तयारोचकशूलवान्
सोऽपि शीघ्रं मृतिं याति बहुभिः प्रतिकर्मभिः २०
बालस्य चातिवृद्धस्य विकलस्य नरस्य च
सर्वाङ्गे जायते शोफः शोफी स म्रियते ध्रुवम् २१
यस्याध्मानञ्च शूलञ्च श्वासस्तृष्णा विमूर्छना
शिरोऽर्त्तिर्यस्य दृश्येत शूली मृत्युमवाप्नुयात् २२
पाण्डुदन्तनखो यश्च पाण्डुनेत्रश्च मानवः
पाण्डुसङ्घातवांश्चैव पाण्डुरोगी विनश्यति २३
पाण्डुत्वक्पाण्डुनेत्रं च मूत्रं वा पाण्डुरं भवेत्
पाण्डुसंवातवांश्चैव पाण्डुरोगी विनश्यति २४
शुक्लाक्षमन्नद्वेष्टारमूर्ध्वश्वासनिपीडितम्
कृच्छ्रेण बहुमेहन्तं यक्ष्मा हन्तीहमानवम् २५
धातुहीनो भवेद्यस्तु शोफश्वासैर्निपीडितः
बहुभोज्यो घृणावांश्च राजयक्ष्मी विनश्यति २६
हुंकारः शीतलो यस्य फूत्कारस्योष्णता भवेत्
शीघ्रनाडी न निर्वाहः शीघ्रं याति यमालयम् २७
अङ्गकम्पो गतेर्भङ्गो मुख वा कुंकुमप्रभम्
उच्चारे च भवेद्वायुः स च याति यमालयम् २८
चिरं प्रवृद्धरोगस्तु भोजनेऽप्यसमर्थकम्
भग्नगात्रमुपेक्षेत भेषजोऽप्यरहस्यकम्
एतादृशं नरं ज्ञात्वोपचारः क्रियते बुधैः २९
विट्ध्वंसश्वासशोफाच्च तथा ज्वरपीडनात्
गम्भीरं सघनं तस्य तदुरः क्षयते नरम् ३०
श्वासशूलपिपासार्तिर्विद्वेषो ग्रन्थिमूढता
दुर्बलत्वञ्च भवति गुल्मिनो मृत्युमेष्यतः ३१
नेत्रे जिह्वाधरौ यस्य रक्तौ वा रुधिरं वमेत्
रक्तमूत्री रक्तसारी रक्तपित्ती विनश्यति ३२
लोहितं छर्दयेद्यस्तु बहुशो लोहितेक्षणः
रक्तानाञ्च दिशां द्रष्टा रक्तपित्ती विनश्यति ३३
मुखशोफो भवेद्यस्य भ्रमारोचकपीडितः
विबन्धोदरशूली च उदयाच्च विनश्यति ३४
आध्मानबद्धनिष्पन्दं छर्दिहिक्कारुगन्वितम्
रुजाश्वाससमाविष्टं विद्रधिर्नाशयेन्नरम् ३५
यस्य तृष्णा भवेद्घोरा दाहो वापि वमिर्भवेत्
भ्रमोपपन्नो भवति न स जीवति मानवः ३६
अपूर्णे दिवसे नारी ज्वरार्त्ता पुष्पमाप्नुयात्
सा न जीवेन्महाप्राज्ञ यस्या हि सारणो भवेत् ३७
यः शोफश्वाससंयुक्तस्तृष्णायुक्तोऽथ शूलवान्
कामलापाण्डुरोगार्त्तो नरश्च स विपद्यते ३८
वातमूत्रपुरीषाणि क्रिमयः शुक्रमेव च
भगन्दरात्प्रस्रवन्ति यस्य तं परिवर्जयेत् ३९
प्रसूननाभिवृषणं रुद्धमूत्रं रुगन्वितम्
अश्मरी क्षपयत्याशु सिकताशर्करान्विता ४०
गर्भकोपसमापन्नो मकुष्टो योनिसङ्गतः
हन्ति स्त्रियं मूढगर्भे यथोक्ताश्चाप्युपद्रवाः ४१
पार्श्वभङ्गान्नविद्वेषशोफातीसारपीडितम्
बहुशोऽपस्मरन्तन्तु क्षीणञ्च वलितभ्रुवम् ४२
नेत्राभ्याञ्च विकुर्वाणमपस्मारो विनाशयेत् ४३
शूलं सुप्तत्वचं भग्नमाध्मानेन निपीडितम्
रुजार्त्तिमन्तञ्च नरं वातव्याधिर्विनाशयेत् ४४
यथोक्तोपद्रवाविष्टमतिप्रस्रुतमेव च
पिडकापीडितं गाढं प्रमेहो हन्ति मानवम् ४५
प्रभिन्नं प्रस्रुताङ्गञ्च रक्तनेत्रं हतस्वरम्
पञ्चकर्मगुणातीतं कुष्ठं हन्तीह कुष्ठिनम् ४६
अवाङ्मुखस्तून्मुखो वा क्षीणमांसबलोत्तरः
जागरूकस्त्वसन्देहमुन्मादेन विनश्यति ४७
इति आत्रेयभाषिते हारीतोत्तरे द्वितीयस्थाने व्याध्यरिष्टं नाम चतुर्थोऽध्यायः ४
पञ्चमोऽध्यायः
सम्पाद्यताम्आत्रेय उवाच
यः शीलवान्क्रोधनतामुपैति यः क्रोधवाञ्छीलगुणञ्च धत्ते
द्वावेव मृत्युं तनुतो विधिज्ञ स्थूलो नरः शीघ्रतरं कृशाङ्गः १
यो धर्मशीलो भवतीह पापी पापात्मको धर्मरतो यदि स्यात्
स मृत्युभाजी भवतीह शीघ्रं यश्च प्रकृत्या विकृतिं प्रयाति २
यो गौरवर्णो विदधाति कार्ष्ण्यं कृष्णोऽतिगौरत्वमुपैति यश्च
तथा मृतिं याति नरः प्रकृत्या शीघ्रं विकृत्या भजते वियोगम् ३
यो वैपरीतं श्रवणेऽपि शब्दं गृह्णाति वा न शृणुते स शीघ्रम्
स वै मृतिं पश्यति यो न पश्येच्छायां स्वकीयां धरणीप्रपन्नाम् ४
यो वेन्द्रियैः प्रतिहतः कृशतां प्रयाति
स्थूलोऽतिनिष्प्रभवपुर्मरणं विपश्येत्
यो विस्रगन्धिञ्च रसञ्च क्वचिन्न वेत्ति
स वै मृतिं प्रियतामां भजते मनुष्यः ५
यस्यास्यगन्धमाघ्राय भजन्ते नीलमक्षिकाः
नासिकायां शरीरे वा स चैव यमलोकगः ६
इति आत्रेयभाषिते हारीतोत्तरे द्वितीयस्थाने पञ्चेद्रियविकारो नाम पञ्चमोऽध्यायः ५
षष्ठोऽध्यायः
सम्पाद्यताम्आत्रेय उवाच
अथ नक्षत्रयोगेन व्याधिर्यस्य प्रजायते
साध्यासाध्यञ्च याप्यं च वक्ष्यामि शृणु पुत्रक १
आदित्ययोगेन मघा विशाखा चन्द्रेण युक्ता कुज आर्द्रया तु
मूलं प्रबुद्धे गुरुकृत्तिका च शुक्रेण रोहिण्यसितेन हस्तः २
एतान्वदन्ति निपुणा यमघण्टयोगान्
व्याधिप्रपन्नमनुजो यदि पुण्ययोगात्
जीवेद्यदा कथमसौ घनदत्तयन्त्रघोरान्तरेण तपने न कथं सुखं स्यात् ३
आदित्येनानुराधा वसति हिमरुचिश्चोत्तरासम्प्रयुक्तो
भौमः पित्रीशयुक्तो बुध इति तुरगीयुक्त एतत्सुखं न ।
तस्माज्जीवेन युक्तो मृगशिरस हितोऽश्लेषया भार्गसूनुः युक्तोर्किर्हस्तसंज्ञैर्न तु वदति शुभं शास्त्रविद्योगयुक्तः ४
दिनकरकरयुक्तः सोमसौम्येन वापि तुरगसहित भौमः सोमपुत्रोऽनुराधा
सुरगुरुरपि पुष्ये रेवती शुक्रवारे दिनकरसुतयुक्ता रोहिणी सौख्यहेतुः ५
शूले वज्रेऽतिगण्डे वा व्याघाते व्यतिपातके
विष्कम्भयोगयुक्ते च नक्षत्रे क्रूरदैवते ६
एतैरसाध्या ज्वरिणस्तस्माद्योगान् परीक्षयेत्
योगे ऋक्षे तथा वारे क्रूरे प्राप्ते न जीवति ७
सिद्धिः शुक्लः शुभः प्रीतिरायुष्मान्सौभगश्चवै
धृतिर्वृद्धिर्ध्रुवो हर्षः सुखसाध्या इमे स्मृताः ८
मघा विशाखा भरणी तथार्द्रा मूलं तथा कृत्तिकहस्ततिष्याः
एते न शस्ता मुनयो वदन्ति वारक्रमेणैव विचिन्तनीयाः ९
मघाभरणिहस्तेषु मूले वा ज्वरितोऽपि वा
मृत्युमापद्यते सोऽपि नात्र कार्या विचारणा १०
अश्विनीरोहिणीपुष्यमृगज्येष्ठाः पुनर्वसू
एते साध्याश्च विज्ञेया ज्वरिणाञ्च विशेषतः ११
पूर्वात्रयं स्वातिरथापि चित्रा तथा त्रयार्द्राश्रवणाधनिष्ठाः
मूलं विशाखा सह कृत्तिकाभिः सार्प्योऽनुराधा सह ज्येष्ठया च १२
एते सकाष्ठा रुजपीडितानां तिष्या सुयाप्या कुरुते नरस्य
तस्मात्तु विज्ञाय बुधाश्च सम्यग्रुजां विनाशं प्रतिकर्मणा च १३
अश्विन्याञ्चैकरात्रन्तु भरण्यां मृत्युमीक्षते
नवरात्रं कृत्तिकायां रोहिण्यान्तु दिनत्रयम् १४
मृगेण बहुपीडा स्यादार्द्रायां मृत्युरेव च
पुनर्वसौ च पुष्ये च सप्तरात्रन्तु पीड्यते १५
नवरात्रं तथाश्लेषा मघा चैति यमालयम्
पूर्वा मासत्रयं ज्ञेयमुत्तरा पञ्चकत्रयम् १६
पूर्वात्रये त्रयोंऽशाश्च शुभा ज्ञेया मनीषिभिः
एतेषां तुर्यगे चान्ते यदि रोगस्तदा मृतिः १७
हस्तेन प्राप्यते सौख्यं चित्रा पञ्चदशाहकम्
स्वातिः षोडशरात्रन्तु विशाखा विंशरात्रकम् १८
अनुराधा पक्षमेकं ज्येष्ठा दशदिनानि तु
मूलेन मृत्युमाप्नोति आषाढासु त्रिपञ्चकम् १९
उत्तरा विंशरात्रे श्रवणे मासकद्वयम्
मासद्वयं धनिष्ठा स्याच्छतर्क्षे दिनविंशतिः २०
नवरात्रं भवेत्पूर्वा उत्तरा पञ्चकत्रयम्
दशाहं रेवती पीडा मुच्यते व्याधिभिस्ततः २१
कृत्तिकासु ज्वरस्तीव्रो व्याधिर्भवति पैत्तिकः
दिनानि दश प्रथमे चरणे च विनिर्दिशेत् २२
दशैव द्वितीये भागे तृतीये दिनपञ्चकम्
रोहिण्यां नवरात्रन्तु प्रथमेंऽशे प्रकीर्त्तितम् २३
द्वितीये द्विगुणं प्रोक्तं तृतीये दशरात्रकम्
नक्षत्रे चन्द्रदैवत्ये पीडा वै जायते ध्रुवम् २४
प्रथमांशे पञ्च रात्रं मध्ये द्वादशवासरान्
तृतीयांशे तथा ज्ञेयं मृत्युर्मासादनन्तरम् २५
नक्षत्रे रुद्रदैवत्ये पक्षं स्यात्प्रथमेंऽशके
द्वादशाहं द्वितीये च तृतीयांशे न जीवति २६
पुनर्वसौ ज्वरं विद्यात्प्रथमांशे त्रिपक्षकम्
मध्यमे दिवसान्सप्त तृतीये पञ्चविंशतिम् २७
पुष्ये स्यात्प्रथमे सप्त द्विके विंशतिवासरान्
तृतीयांशे तथा विन्द्याद्दिवसानेकविंशतिम् २८
आश्लेषायां च नक्षत्रे यस्य सम्भवति ज्वरः
मासत्रयेण प्रागंशे कष्टाज्जीवति मानवः २९
द्वितीये च तृतीये च मृत्युरेव न संशयः
नक्षत्रे पितृदैवत्ये रोगो यस्य प्रवर्तते ३०
प्रथमेंऽशे सप्तरात्रं द्वितीये धिष्ण्यतुल्यताम्
विंशत्तृतीये दिवसान्पीड्यते कर्मणो बलात् ३१
नक्षत्रे भगदैवत्ये यस्य सञ्जायते ज्वरः ३२
प्रथमेंशे पञ्चरात्रं मध्ये द्वादशवासरान्
तृतीयांशे तथा ज्ञेयं मृत्युर्मासादनन्तरम् ३३
उत्तराया आद्यभागे वासराणि चतुर्दश
द्वितीये सप्तरात्रन्तु तृतीये दिवसा नव ३४
यदि हस्ते भवेद्रोगः प्रथमे सप्तरात्रकम्
चत्वार्यहानि द्वितीये तृतीये दिनपञ्चकम् ३५
मृत्युं विद्यात्तथा पूर्वे त्वाष्ट्रो यस्य भवेज्ज्वरः
त्रिभिर्मासैर्द्वितीयांशे रोगो भवति दारुणः ३६
तृतीयांशे तथा ज्ञेयं वातरागि त्रयोदश
वायव्ये प्राक् सप्तदश द्वितीये चैकविंशतिः ३७
अस्यैव तु तृतीयांशे मृत्युमेव विनिर्दिशेत् ३८
प्रथमांशे विशाखायां त्रिगुणाः षोडश स्मृताः
द्वितीये द्वादश प्रोक्तास्तृतीयेऽपि तथैव च ३९
मैत्रांशे प्रथमे सप्त द्वितीये पक्षमादिशेत्
तृतीयांशे चतुःषष्टिर्वासराणां महामुने ४०
त्रिपक्षमैन्द्रे प्रथमे द्वित्रिभागे च षोडश ४१
मूलेंऽशे तृतीये ज्ञेयः पक्ष एव मनीषिभिः
आद्ये पूर्वत्रयो मासा मध्यमेऽहानि षोडश ४२
पूर्वांऽशे द्वितये ज्ञेयः पक्ष एव मनीषिभिः
तृतीयांशे पुनर्मृत्युरतीरात्रात्प्रजायते ४३
विश्वंशे प्रथमे पक्षे मध्ये द्वादशरात्रिकम्
दिनानां विंशतिः प्रोक्ता तृतीयांशे महामुने ४४
सप्ताहमादौ श्रवणे विंशतिर्मध्यमे मता
षोडशाहं तृतीयांशे सत्यमेतद्ब्रवाम्यहम् ४५
विंशतिर्वासवे पूर्वं मध्यमे मासयुग्मकम्
मासस्तृतीये विज्ञेयो दैवज्ञैश्च निवेदितम् ४६
वारुणे दारुणी रोगस्त्रिपक्षं प्रथमांशके
द्वितीये मासषट्कं तु षोडशाहं तृतीयके ४७
अहिर्बुध्न्ये पक्षमादौ मध्ये मासं विनिर्दिशेत्
अन्तेऽष्टाविंशतिर्ज्ञेया पीडास्यात्पापकर्मणि ४८
रेवत्याः प्रथमे चाष्टौ द्विभागे तु च षोडश
अन्ते त्रिंशद्दिनान्येवं प्रोक्तानि पूर्वसूरिभिः ४९
अश्विन्याः प्रथमे भागे दिनमेकं प्रकीर्त्तितम्
द्वितीये पञ्चरात्रन्तु तृतीये सप्तकं तथा ५०
भरण्याः प्रथमे चांशे सप्तवासरमेव च
मध्ये मृत्युस्तथा चान्ते रोगो मासत्रयावधिः ५१
एवं ज्ञात्वा सुधीः सम्यक्कुर्यात्प्रशमनक्रियाम्
नक्षत्रस्य त्रयो भागा आत्रेयेण प्रकाशिताः ५२
इति आत्रेयभाषिते हारीतोत्तरे द्वितीयस्थाने नक्षत्रज्ञानं नाम षष्ठोऽध्यायः ६
सप्तमोऽध्यायः
सम्पाद्यताम्आत्रेय उवाच
अर्कः खदिरपालाशबदर्यः पारिभद्रकः
दूर्वा शमीकुशः काशः पिप्पलो वटभूरुहः १
जम्ब्वाम्रौ करहाटश्च सोमवृक्षः कलिद्रुमः
रक्तसारश्चन्दनश्च जयन्ती गुरुवृक्षकम् २
सहचरी सितावर्षा सर्वौषधिनिशायुगम्
समिद्वर्गः समस्तोऽपि समिद्धोमः प्रकाशितः ३
चन्दनं रक्तचन्दनं गोरोचना हरिद्रा गैरिकनिम्बबिल्वं कदम्बं कुंकुममिश्रितकस्तूरिका घनसारं श्रीपर्णं सुरदारु हरिचन्दनं पद्मकं हरिद्राद्वयं कालीयकागुरुशिंशपा रक्तगोरोचना पलाश इति गन्धानि पद्मबिल्वसुरसादूर्वाकुशजयन्तीशमीपत्रार्ककिंशुककर्णिकारगिरिकर्णिकासहचरा-लूषपुष्पाणि जम्बाम्रपल्लवानि काञ्चनारपाटलावर्वरी अगस्तिः काककाह्लारी अशोकपुष्पमिति धूपदीपादिभिरलङ्कारैरलंकृतं वास्तुमण्डलं कृत्वा ईशानदिक्क्रमेण नक्षत्रमण्डलं चार्चयेत् । तन्मण्डलकमध्ये आदित्यादीन् ग्रहान् समभ्यर्च्य क्रमेण समिद्भिर्होमं कुर्यात् । तस्मात्पुनर्दधिमधुघृताक्ताभिः समिद्भिरश्विन्यादिक्रमेण जुहुयात् । आकृष्णेति अर्कसमिद्भिरिदम् अश्विन्यै विष्णोरराटमसीति पलाशेन इदं भरण्यै मधुमाध्वीति बदरीसद्भिरिदं कृत्तिकायै काण्डात्काण्डेति पारिभद्रकपूर्वकुशसमिद्भिः रोहिणीमृगशिरःपुनर्वस्वादीन् काण्डेति होमयेत् । इदं देव इति पिप्पलसमिद्भिरिदं पुष्याय सप्तत्यग्निमन्त्रेण चूतसमिद्भिरिदं सार्प्ये अग्निमूर्द्धादिवैति जम्बूसमिद्भिर्मघां होमयेत् । सद्योजाताभिः करहाटकसमित्पूर्वसमिद्भिर्होमयेत् । तत्पुरुषाय विद्महे इति सोमवल्ली समिद्भिरुत्तरात्रयं नमो घोराय विभीतकसमिद्भिर्हस्त होमयेत् । नमो ज्योतिष्पतये रक्तसारसमिद्भिश्चित्रां होमयेत् । नमो देवाय नमो ज्येष्ठायेति चन्दनसमिद्भिः स्वात्यै होमं कुर्यात् । उदुम्बरजयन्तीसमिद्भिर्विशाखां होमयेत् । बृहते इति यदुपतये गुरुवृक्षकसमिद्भिरनुराधां होमयेत् । एतज्ज्योतिःसहचरीसमिद्भिर्ज्येष्ठां काण्डात्काण्डेति शतावरीसमिद्भिर्मूलमिष्टं स्तौति । निशायुगसमिद्भिः पूर्वाषाढामुत्तराषाढां मधुवातेति उदुम्बरसमिद्भिः श्रवणं त्र्यम्बकमिति बिल्वसमिद्भिर्वासवप्रभृतीनि होमयेत् । घृतेन पूर्णाहुतिं दद्यात् । नवग्रहस्थापनं चतुरस्रेण होमकुण्डै होमयेत् । तस्मादभिषेकस्नानमाचरेत् । शुक्लवस्त्रोपवीतं यज्ञोपवीतसहितं रोगिणं कृत्वा वेदादिभिराशिष्य गोभूवस्त्रहिरण्यादिदानं कुर्यात् । इति विधाने कृते सम्यक् शान्तिर्भवति ४
इति आत्रेयभाषिते हारीतोत्तरे द्वितीयस्थाने होमविधिर्नाम सप्तमोऽध्यायः ७
अष्टमोऽध्यायः
सम्पाद्यताम्आत्रेय उवाच
अथातो गदग्रस्तानां दूतारिष्टं भिषग्वर
शुभं वाशुभमेवान्यत्समासेन प्रचक्ष्यते १
आतुरस्योपकारार्थं दूतो याति भिषग्गृहे
तस्य परीक्षणं कार्यं येन संलक्ष्यते गदः २
खञ्जान्धमूकबधिरं रुजपीडितं वा बालं
स्त्रियञ्च विकलं तृषितं विजीर्णम्
श्रान्तं क्षुधातुरमपि भ्रमितञ्च दीनं दूतं
न शस्तमिह वेदविदो वदन्ति ३
कषायकृष्णार्द्रकवाससा च तथैव वस्त्रावृतमस्तकेन
अश्रुप्लुतैर्वा नयनैश्च युक्ताः केशैस्तथा मुण्डितमस्तकश्च ४
समर्कटाक्षोर्ध्वशिरोरुहश्च खर्वस्तथा वामनकृत्तनासः
एतान्न शंसन्ति विदो मुनीन्द्रा दूतान्नराणां रुजनाशनाय ५
यः कर्कशः क्रोधनपाशपाणिर्भिषग्विदूषी तमसावृतश्च
एते न शस्ताः प्रवदन्ति धीरा दूता विकारञ्च प्रवर्द्धयन्ति ६
यः काष्टहस्तोद्घतपाशपाणिस्तथातुरोदीनवचो हि रोदिति
प्रक्लिन्ननेत्रो गमनोत्सुकोऽपि वर्ज्यो रुगार्त्तोशुभकारिदूतः ७
यो रज्जुहस्तोद्घतपाशपाणिर्याम्यां दिशञ्च परिभूयतूर्णम्
यो वावदीति प्रबलं सरोषस्तथा समागम्य वदेच्च दूतः ८
लगुडं हस्तेऽवष्टभ्य वक्रपादेन तिष्ठति
तस्मादाकुलवादी यो न शस्तो वैद्यकर्मसु ९
पथा गच्छति शीघ्रेण आविश्योत्थाय मुह्यति
पादौ प्रसार्य विशति मस्तके विन्यसेत्करम् १०
भिनत्ति लोहकाष्ठञ्च तृणं वा स्फोटते क्वचित्
एतानि स्पृशते नासां स्तनं वा स्पृशति पुनः ११
भूमिं लिखति पादेन रेखां वापि करोति यः
निद्रां वा कुरुते यस्तु स दूतोऽनिष्टकारकः १२
यः श्वेतवस्त्रावृतपूर्णपाणिः सम्पूर्णताम्बूलमुखः प्रशस्तः
द्विजस्तथा माणवकः सुशीलः प्रज्ञाधिकश्चाह्वयते सुखाय १३
कुसुममुकुरवक्त्रं यस्य स्यात्सर्वदापि
श्रमविकचसरोजंपद्मकिञ्जल्कपुष्पम्
करतलवरवस्त्रं पुष्पपूगाङ्गरागं
करतलधृतमेतत्सौख्यकर्त्ता हि दूतः १४
आगत्योदीच्यपूर्वामथवरुणदिशमैशीमाश्रित्य शान्तो
दृष्ट्वा वैद्यं प्रहस्य प्रवदति निपुणं नातिनीचं न चोच्चम्
उत्तिष्ठ त्वं प्रसादं कुरु पवन इदं सौख्यवाक्यं तनोति
प्राज्ञैः स्वार्थं प्रकृष्टं सुखमगदकरं रोगिणां वैद्यलाभः १५
पूर्वां दिशं समासाद्य प्रशान्तः शान्तया गिरा
वैद्यं वदति लाभाय रोगिणाञ्च सुखावहम् १६
यश्चागत्योपविष्टोऽपि श्लोकं वाथ सुभाषितम्
वदते शान्तया वाचा सोऽपि लाभाय शान्तये १७
अभिवाद्यस्य वैद्यस्य क्षेमं पृच्छति यः पुनः
फलं ददाति पुष्पं वा रोगिणाञ्च सुखावहम् १८
यस्य सौख्यं सुखं सिद्धिस्तस्य दूता इदं विदुः
किमत्र बहुनोक्तेन दूतो नरसुखावहः १९
न हितमस्त्रीपुरुषं तस्मात्तु परिवर्जयेत्
एवं जानाति यो वैद्यस्तस्य सिद्धिः सुखं श्रियः २०
इति आत्रेयभाषिते हारीतोत्तरे द्वितीयस्थाने दूतपरीक्षणलक्षणं नाम अष्टमोऽध्यायः ८
नवमोऽध्यायः
सम्पाद्यताम्आत्रेय उवाच
इदानीं निर्गमे पुत्र प्रवेशे वा गृहस्य च
शुभाशुभानि सर्वाणि वक्ष्यामि शकुनानि च १
राजा गजो द्विजमयूरकखञ्जरीटाश्चाषः
शकुन्तरजकः सितवस्त्रयुक्तः
पुत्रान्विता च युवतो गणिका च कन्या श्रेयः
सुखाय यशसे प्रतिदर्शयन्ति २
लट्वा श्येनो भासहारीतचक्रो भारद्वाजश्छिक्करश्छागसंज्ञः
एते श्रेष्ठा दक्षिणे सव्यवामे वैद्यावेशे निर्गमे श्रेयसे च ३
सर्पोलूको वानरः सूकरश्च गोधा ऋक्षः कृकलासः शशश्च
एतेऽरिष्टा निर्गमे वा प्रवेशे कार्ये निर्घातोपकारेषु शस्ताः ४
मृगो वा पिङ्गलो वापि प्रशस्तो दक्षिणे सदा
निर्गमे वा प्रवेशे च दक्षिणे शुभदायकः ५
एको वा त्रयो वा पञ्च सप्त वा नवसंख्यया
भाग्यकाले नराणान्तु मृगा यान्ति प्रदक्षिणाः ६
शिखी च भवनगोधा रासभो भृङ्गराजः
पिकभषणकपोताः पोतकी सूकरी वा
तन्तु विहगराजो दीर्घकण्ठादयः स्युर्
वदति शकुनवेत्ता वामतो निर्गमे वा ७
तित्तिरः क्रकरः क्रौञ्चसारसाभाससूकराः
खगः किरीटी वामे तु सदा शुभतरा मताः ८
भवन्ति निर्गमे चैते सर्वकार्यसु सिद्धये ९
काको दक्षिणतः श्रेष्ठो निर्गमे शुभदायकः
प्रवेशे गदितः श्रेष्ठो वामतः कृष्णवायसः १०
जाहकोऽपि शशकोऽपि मर्कटः कीर्त्तनञ्च गदितं न सुखाय
न वै नाम न च दर्शनमेषां सर्पगोधाकृकलासबिडालाः ११
दर्शनं हितकरं प्रवदन्ति खञ्जरीटकमरालछिक्कराः
नामतः शुभकराः प्रवदन्ति दार्वघाटवरटकौ शुकश्च १२
निर्गमे विविधकार्यसिद्धये भृङ्गराजरजतं पयो जलम्
मत्स्यमांसरुधिरं मृतकं वा धौतवासमुकुरं पिधानकम् १३
मार्गं छिन्दन्ति मार्जाराः सर्पा वा कृकलासकाः
गोधा वापि प्रवेशे च पदमेकन्तु न व्रजेत् १४
प्रस्खलन्ति पादशिरसो वसनानि स्खलन्ति वा
विक्रुष्टं वचनं श्रुत्वा पदमेकन्तु न व्रजेत् १५
गृहाणां ज्वलनं दृष्ट्वा भिद्यते सजलं घटम्
पतनं भूरुहाणाञ्च दृष्ट्वा कुर्यान्न चङमम् १६
आक्रोशवचनं श्रुत्वा मार्जाराणां रुतं तथा
कलहं गृहलोकस्य दृष्ट्वा चंक्रमणं न च १७
कनककङ्कणमेव विभूषणं सफलपुष्पमथासववारुणी
फलमशोककरं ज्वरिणां तदा शुभकरो हि भवति भिषक् सदा १८
एवं ज्ञात्वा परमनिपुणं पानमन्नादिकानां
वीर्यं चैषां गुणमपि तथा कोपनं कोपवेगम् ।
आदानं वा पुनरपि चयं कोपनस्योपचारं
वैद्यो विद्वान्भवति भवने पूजितो राजलोकैः १९
इति आत्रेयभाषिते हारीतोत्तरे द्वितीयस्थाने शकुनवर्णनं नाम नवमोऽध्यायः ९
द्वितीयं स्थानं समाप्तम् २