हितोपदेशः ०७
सुहृद्भेदः
सम्पाद्यताम्अथ राजपुत्रा ऊचुः आर्य ! मित्रलाभः श्रुतस्तावद् अस्माभिः । इदानीं सुहृद्भेदं श्रोतुम् इच्छामः । विष्णुशर्मोवाच्सुहृद्भेदं तावच् छृणुत, यस्यायम् आद्यः श्लोकः
वर्धमानो महान् स्नेहो मृगेन्द्रवृषयोर्वने ।
पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः ॥१॥
राजपुत्रैरुक्तम्कथम् एतत्
विष्णुशर्मा कथयतिस्ति दक्षिणापथे सुवर्णवती नाम नगरी । तत्र वर्धमानो नाम वणिग् निवसति । तस्य प्रचुरेपि वित्ते परान् बन्धून् अतिसमृद्धान् समीक्ष्य पुनरर्थवृद्धिः करणीयेति मतिर्बभूव । यतः,
अधोधः पश्यतः कस्य महिमा नोपचीयते ।
उपर्य् उपरि पश्यन्तः सर्व एव दरिद्रति ॥२॥
अपरं च्
ब्रह्महापि नरः पूज्यो यस्यास्ति विपुलं धनम् ।
शशिनस्तुल्यवंशोपि निर्धनः परिभूयते ॥३॥
अन्यच्च
अव्यवसायिनम् अलसं दैवपरं सहसाच् च परिहीणम् ।
प्रमदेव हि वृद्धपतिं नेच्छत्य् अवगूहितुं लक्ष्मीः ॥४॥
किं च्
आलस्यं स्त्रीसेवा सरोगता जन्मभूमिवात्सल्यम् ।
सन्तोषो भीरुत्वं षड् व्याघाता महत्त्वस्य ॥५॥
यतः
सम्पदा सुस्थिरंमन्यो भवति स्वल्पयापि यः ।
कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ॥६॥
अपरं च्
निरुत्साहं निरानन्दं निर्वीर्यम् अरिनन्दनम् ।
मा स्म सीमन्तिनी काचिज् जनयेत् पुत्रम् ईदृशम् ॥७॥
तथा चोक्तम्
अलब्धं चैव लिप्सेत लब्धं रक्षेत् प्रयत्नतः ।
रक्षितं वर्धयेच् चैव वृद्धं पात्रेषु निक्षिपेत् ॥८॥
यतोलब्धम् इच्छतोर्थयोगाद् अर्थस्य प्राप्तिरेव । लब्धस्याप्यरक्षितस्य निधेरपि स्वयं विनाशः । अपि च, अवर्धमानश्चार्थः काले स्वल्पव्ययोप्यञ्जनवत् क्षयम् एति । नौपभुज्यमानश्च निष्प्रयोजन एव सः । तथा चोक्तम्
धनेन किं यो न ददाति नाश्नुते
बलेन किं यश्च रिपून् न बाधते ।
श्रुतेन किं यो न च धर्मम् आचरेत्
किम् आत्मना यो न जितेन्द्रियो भवेत् ॥९॥
यतः,
जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥१०॥
दानोपभोगरहिता दिवसा यस्य यान्ति वै ।
स कर्मकारभस्त्रेव श्वसन्न् अपि न जीवति ॥११॥
इति संचिन्त्य नन्दकसजीवकनामानौ वृषभौ धुरि नियोज्य शकटं नानाविधद्रव्यपूर्णं कृत्वा वाणिज्येन गतः कश्मीरं प्रति । अन्यच्च
अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य च सञ्चयम् ।
अवन्ध्यं दिवसं कुर्याद् दानाध्ययनकर्मभिः ॥१२॥
यतः
कोतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥१३॥
अथ गच्छतस्तस्य सुदुर्गनाम्नि महारण्ये सञ्जीवको भग्नजानुर्निपतितः । तम् आलोक्य वर्धमानोचिन्तयत्
करोतु नाम नीतिज्ञो व्यवसायम् इतस्ततः ।
फलं पुनस्तद् एव स्याद् यद् विधेर्मनसि स्थितम् ॥१४॥
किन्तु
विस्मयः सर्वथा हेयः प्रत्यूहः सर्वकर्मणाम् ।
तस्माद् विस्मयम् उत्सृज्य साध्ये सिद्धिर्विधीयताम् ॥१५॥
इति संचिन्त्य संजीवकं तत्र परित्यज्य वर्धमानः पुनः स्वयं धर्मपुरं नाम नगरं गत्वा महाकायम् अन्यं वृषभम् एकं समानीय धुरि नियोज्य चलितः । ततः संजीवकोपि कथं कथम् अपि खुरत्रये भरं कृत्वोत्थितः । यतः
निमग्नस्य पयोराशौ पर्वतात् पतितस्य च ।
तक्षकेणापि दष्टस्य आयुर्मर्माणि रक्षति ॥१६॥
नाकाले मिर्यते जन्तुर्विद्धः शरशतैरपि ।
कुशाग्रेणैव संस्पृष्टः प्राप्तकालो न जीवति ॥१७॥
अरक्षितं तिष्ठति दैवरक्षितं
सुरक्षितं दैवहतं विनश्यति ।
जीवत्य् अनाथोपि वने विसर्जितः
कृतप्रयत्नोपि गृहे न जीवति ॥१८॥
ततो दिनेषु गच्छत्सु संजीवकः स्वेच्छाहारविहारं कृत्वारण्यं भ्राम्यन् हृष्टपुष्टाङ्गो बलवन् ननाद । तस्मिन् वने पिङ्गलकनामा सिंहः स्वभुजोपार्जितराज्यसुखम् अनुभवन् निवसति । तथा चोक्तम्
नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः ।
विक्रमार्जितराज्यस्य स्वयम् एव मृगेन्द्रता ॥१९॥
स चैकदा पिपासाकुलितः पानीयं पातुं यमुनाकच्छम् अगच्छत् । तेन च तत्र सिंहेनाननुभूतपूर्वकम् अकालघनगर्जितम् इव संजीवकनर्दितम् अश्रावि । तच् छ्रुत्वा पानीयम् अपीत्वा सचकितः परिवृत्य स्वस्थानम् आगत्य किम् इदम् इत्य् आलोचयंस्तूष्णीं स्थितः । स च तथाविधः करटकदमनकाभ्याम् अस्य मन्त्रिपुत्राभ्यां दृष्टः । तं तथाविधं दृष्ट्वा दमनकः करटकम् आह्सखे करटक ! किम् इत्य् अयम् उदकार्थी स्वामी पानीयम् अपीत्वा सचकितो मन्दं मन्दम् अवतिष्ठते ।
करटको ब्रूतेमित्र दमनक ! अस्मन्मतेनास्य सेवैव न क्रियते । यदि तथा भवति तर्हि किम् अनेन स्वामिचेष्टानिरूपेणास्माकम् । यतोनेन राज्ञा विनापराधेन चिरम् अवधीरिताभ्याम् आवाभ्यां महद्दुःखम् अनुभूतम् ।
सेवया धनम् इच्छद्भिः सेवकैः पश्य यत् कृतम् ।
स्वातन्त्र्यं यच् छरीरस्य मूढैस्तद् अपि हारितम् ॥२०॥
अपरं च्
शीतवातातपक्लेशान् सहन्ते यान् पराश्रिताः ।
तद्अंशेनापि मेधावी तपस्तप्त्वा मुखी भवेत् ॥२१॥
अन्यच्च
एतावज् जन्मसाफल्यं देहिनाम् इह देहिषु ।
प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत् सदा ॥२२॥
अपरं च्
एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।
इति वित्रस्तसारङ्गनेत्रया को न वञ्चितः ॥२३॥
किं च्
अबुधैरर्थलाभाय पण्यस्त्रीभिरिव स्वयम् ।
आत्मा संस्कृत्य संस्कृत्य परोपकरणीकृतः ॥२४॥
किं च्
या प्रकृत्यैव चपला निपतत्य् अशुचावपि ।
स्वामिनो बहु मन्यन्ते दृष्टिं ताम् अपि सेवकाः ॥२५॥
अपरं च्
मौनान् मूर्खः प्रवचनपटुर्बातुलो जल्पको वा
क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः ।
धृष्टः पार्श्वे वसति नियतं दूरतश्चाप्रगल्भः
सेवाधर्मः परमगहनो योगिनाम् अप्यगम्यः ॥२६॥
विशेषतश्च्
प्रणमत्य् उन्नतिहेतोर्जीवितहेतोर्विमुञ्चति प्राणान् ।
दुःखीयति सुखहेतोः को मूढः सेवकाद् अन्यः ॥२७॥
दमनको ब्रूतेमित्र सर्वथा मनसापि नैतत् कर्तव्यम्, यतः
कथं नाम न सेव्यन्ते यत्नतः परमेश्वराः ।
अचिरेणैव ये तुष्टाः पूरयन्ति मनोरथान् ॥२८॥
अन्यच्च
कुतः सेवाविहीनानां चामरोद्धूतसम्पदः ।
उद्दण्डधवलच्छत्रं वाजिवारणवाहिनी ॥२९॥
करटको ब्रूतेतथापि किम् अनेनास्माकं व्यापारेण । यतोव्यापारेषु व्यापारः सर्वथा परिहरणीयः । पश्य्
अव्यापरेषु व्यापारं यो नरः कर्तुम् इच्छति ।
स एव निधनं याति कीलोत्पटीव वानरः ॥३०॥
दमनकः पृच्छतिकथम् एतत्
करकटः कथयति
कथा १
सम्पाद्यताम्अस्ति मगधदेशे धर्मारण्यसंनिहितवसुधायां शुभदत्तनाम्ना कायस्थेन विहारः कर्तुम् आरब्धः । तत्र करपत्रदार्यमाणैकस्तम्भस्य कियद् दूरस्फाटितस्य काष्ठखण्डद्वयमध्ये कीलकः सूत्रधारेण निहितः । तत्र बलवान् वानरयूथः क्रीडन्न् आगतः । एको वानरः कालप्रेरित इव तं कीलकं हस्ताभ्यां धृत्वोपविष्टम् । अनन्तरं स च सहजचपलतया महता प्रयत्नेन तं कीलकम् आकृष्टवान् । आकृष्टे च कीलके चूर्णिताण्डद्वयः पञ्चत्वं गतः । अतोहं ब्रवीमिव्यापरेषु व्यापारम् इत्य् आदि । दमनको ब्रूतेतथापि स्वामिचेष्टानिरूपणं सेवकेनावश्यं करणीयम् । करटको ब्रूतेसर्वस्मिन्न् अधिकारे य एव नियुक्तः प्रधानमन्त्री स करोतु । यतोनुजीविना पराधिकारचर्चा सर्वथा न कर्तव्या । पश्य् <poem> पराधिकारचर्चा यः कुर्यात् स्वामिहितेच्छया । स विषीदति चीत्काराद् गर्दभस्ताडितो यथा ॥३१॥
दमनकः पृच्छतिकथम् एतत् करटको ब्रूते