सुहृद्भेदः

सम्पाद्यताम्

दमनकः कथयतिस्ति द्वारवत्यां पुर्यां कस्यचिद् गोपस्य वधूर्बन्धकी । सा ग्रामस्य दण्डनायकेन तत्पुत्रेण च समं रमते । तथा चोक्तम्

नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥११५॥

न दानेन न मानेन नार्जवेन न सेवया ।
न शस्त्रेण न शास्त्रेण सर्वथा विषमाः स्त्रियः ॥११६॥

यतः
गुणाश्रयं कीर्तियुतं च कान्तं
पतिं रतिज्ञं सधनं युवानम् ।
विहाय शीघ्रं वनिता व्रजन्ति
नरान्तरं शीलगुणादिहीनम् ॥११७॥

अपरं च्
न तादृशीं प्रीतिम् उपैति नारी
विचित्रशय्या शयितापि कामम् ।
यथा हि दूर्वादिविकीर्णभूमौ
प्रयाति सौख्यं परकान्तिसङ्गात् ॥११८॥

अथ कदाचित् सा दण्डनायकपुत्रेण सह रममाणा तिष्ठति । अथ दण्डनायकोपि रन्तुं तत्रागतः । तम् आयान्तं दृष्ट्वा तत्पुत्रं कुसूले निक्षिप्य दण्डनायकेन सह तथैव क्रीडति । अनन्तरं तस्य भर्ता गोपो गोष्ठात् समागतः । तम् अवलोक्य गोप्योक्तम्दण्डनायक ! त्वं लगुडं गृहीत्वा कोपं दर्शयन् सत्वरं गच्छ । तथा तेनानुष्ठिते गोपेन गृहम् आगत्य पृष्ठाकेन कार्येण दण्डनायकः समागत्यात्र स्थितः
सा ब्रूतेन्यं केनापि कार्येण पुत्रस्योपरि क्रुद्धः । स च मार्यमाणोप्यत्रागत्य प्रविष्टो मया कुसूले निक्षिप्य रक्षितः । तत्पित्रा चान्विष्यात्र न दृष्टः । अत एवायं दण्डनायकः क्रुद्ध एव गच्छति ।
ततः सा तत्पुत्रं कुषुलाद् बहिष्कृत्य दर्शितवती । तथा चोक्तम्

आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा ।
षड्गुणो व्यवसायश्च कामाश्चाष्टगुणः स्मृतः ॥११९॥

अतोहं ब्रवीमिुतपन्नेष्व् अपि कार्येषु इत्य् आदि ।
करटको ब्रूतेस्त्व् एवम् । किन्त्व् अनयोर्महानन्योग्न्यनिसर्गोपजातस्नेह कथं भेदयितुं शक्यः
दमनको ब्रूतेुपायः क्रियताम् । तथा चोक्तम्

उपायेन जयो यादृग् रिपोस्तादृङ् न हेतिभिः ।
उपायज्ञोल्पकायोपि न शूरैः परिभूयते ॥१२०॥

करटकः पृच्छतिकथम् एतत्
दमनकः कथयति

कस्मिंश्चित् तरौ वायसदम्पती निवसतः । तयोश्चापृत्यानि तत्कोटरावस्थितेन कृष्णसर्पेण खादितानि । ततः पुनर्गर्भवती वायसी वायस्म् आह्नाथ ! त्यज्यताम् अयं वृक्षः । अत्रावस्थितकृष्णसर्पेणावयोः सन्ततिः सततं भक्ष्यते । यतः <poem> दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः । ससर्पे च गृहे वासो मृत्युरेव न संशयः ॥१२१॥

वायसो ब्रूतेप्रिये ! न भेतव्यम् । वारं वारं मवैतस्य सोढः । इदानीं पुनर्न क्षन्तव्यः । वायस्य् आह्कथम् एतेन बलवता सार्धे भवान् विग्रहीतुं समर्थः । वायसो ब्रूतेलम् अनया शङ्कया । यतः

बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् । पश्य सिंहो मदोन्मत्तः शशकेन निपातितः ॥१२२॥

वायसी विहस्याहकथम् एतत् वायसः कथयति

"https://sa.wikisource.org/w/index.php?title=हितोपदेशः_११&oldid=23528" इत्यस्माद् प्रतिप्राप्तम्