हेवज्रसाधनम्
[[लेखकः :|]]



रत्नाकरशान्ति: भ्रमहरनाम हेवज्रसाधनम्


(१५७)
पदभरनमितोर्वीवेगविक्षिप्तसिन्धु
प्रलयघनसमानैराननैर्मुक्तनादम् ।
भुजवनपवनास्तप्रस्थबन्धं गिरीणां
भवतु भयहरं वस्ताण्डवं हेरुकस्य ॥
अष्टाननस्य रचयामि साधनं प्रतिमुखं त्रिनयनस्य ।
हेवज्रस्य चतुश्चरणचारिणः षोडशभुजस्य ॥

इह भावनाधिकृतो मन्त्री प्रातरुत्थाय हृदयार्कन्यस्तनिजबीजः कृतमुखशौचादिः

ओं रक्ष रक्ष हूं हूं हूं फट्स्वाहा

इति स्थानात्मयोगरक्षां कृत्वा गन्धपुष्पादिसुरभितां ध्यानभूमिं प्रविश्य, सुखासने पर्यङ्कमाभुज्य, अर्घं परिजप्य, हृन्मन्त्रकिरणाकृष्टमभिमुखमाकाशे सपरिवारं भगवन्तमवलोक्य, हृद्बीजनिर्गताभिर्गौर्यादिदेवीभिरष्टाभिः पूजयेत्. तत्र गौरी शशिनं बिभर्ति, चौरी रविं, वेत्ताली जलम्, घस्मरी पललम्, पुक्कसी चन्दनम्, शबरी मधु, चण्डाली डमरुकं वादयति, डोम्बी कण्ठलग्ना पुरुषायते. ततस्तस्यैव भगवतोऽग्रतः पापदेशनादिकमिति कुर्यात्-

(१५८)
सर्वमात्मनः पापं भगवतः पुरतः प्रतिदेशयामि, सर्वबुद्धबोधिसत्त्वार्यपृथग्जनानां सर्वकुशलमनुमोदे, सर्वं चात्मनः कुशलमनुत्तरायां सम्यक्संबोधौ परिणामयामि. एषोऽहमा बोधेर्बुद्धं भगवन्तं शरणं गच्छामि द्विपदानामग्र्यम्. धर्मं शरणं गच्छामि समग्रं महायानम्. संघं शरणं गच्छाम्यवैवर्तिकबोधिसत्त्वगणम्. अहो बताहमनुत्तरां सम्यक्संबोधिमभिसंबुधेय सर्वसत्त्वानामर्थाय हिताय सुखाय यावदत्यन्तनिष्ठे निर्वाणे बुद्धबोधौ प्रतिष्ठापनाय. एषोऽहमनुत्तरं बोधिमार्गमाश्रयामि यदुत वज्रयानम्.

ततः सर्वसत्त्वेषु दिव्यसुखोपसंहाराकारां मैत्रीम्, सर्वदुःखापनयनाकारां करुणाम्, दिव्यसुखावियोगनियमाकारां मुदिताम्, क्लेशप्रतिपक्षमार्गोपसंहाराकारामुपेक्षां च भावयेत्. ततः सर्वधर्मान्मनसालम्ब्य विचारयेत्ः चित्तमेवैतत्तेन तेनाकारेण भ्रान्तं प्रतिभासते यथास्वप्ने.

(१५९)
नास्ति चित्ताद्बाह्यं चित्तग्राह्यम्. ग्राह्याभावाच्चित्तमपि ग्राहकं न भवति. तस्माच्चित्तशरीराः सर्वधर्माः, तेषां ग्राह्यग्राहकशून्यता परमार्थ इति. एवमेकान्तेन निश्चित्य भ्रान्तिसमारोपितं भ्रान्तिचिह्नं सर्वधर्माणामाकारं विहाय तेषां प्रकृतिमेव केवलामद्वयविज्ञप्तिलक्षणां शुद्धस्फटिकसंकाशां शरदमलमध्याह्नगगनोपमामनन्तां पश्येत्. इदमुच्यते पारमार्थिकं बोधिचित्तं लोकोत्तरं शून्यताज्ञानं निष्प्रपञ्चं निर्विकल्पम्. ततस्तन्मन्त्रेणाधितिष्ठेत्

ओं शून्यताज्ञानवज्रस्वभावात्मकोऽहम्.

सैव भगवती प्रज्ञापारमिता, सैव परमा रक्षा.

ततस्तन्निष्यन्दभूतामाकारवतीं रक्षां शुद्धलौकिकज्ञानस्वभावां भावयेत्.

रेफेण सूर्यं पुरतो विभाव्य तस्मिन् रवौ हूंभवविश्ववज्रम् ।
तेनैव वज्रेण विभावयेच्च प्राकारकं पञ्जरबन्धनं च ॥

विश्ववज्रकिरणैः प्रलयानलदुःसहैः सर्वतः स्फरित्वा (१६०) घनीभूय रचितं तिर्यक्चतुरस्रंज्वलद्वज्रप्राकारम्, उपरिष्टाद्वज्रपञ्जरम्, अधस्ताद्वज्रमयीं भूमिमारसातलविरचितां पश्येत्. ततो रविविश्ववज्राभ्यां रश्मीभूय दिशि दिशि स्फरित्वा घनीभूय बहिर्दूरे सीमाबन्धः करणीय इति श्लोकार्थः.

ततस्तन्निष्यन्दतयैव विशुद्धानि पञ्च महाभूतानि चिन्तयेत्. तत्राकाशमहाभूतं धर्मोदयाख्यं महावज्रधरस्वभावं शरच्छशधरधवलमधः सूक्ष्ममुपरि विशालं त्रिकोणमन्तर्गगनस्वरूपमभ्यन्तरोद्गतविश्वदैअकमलकर्णिकावस्थितविपुलविश्ववज्रम्. तद्वेदिकायां चत्वारि महाभूतानि चतुर्मण्डलाकाराणि चतुर्देवीस्वभावान्युपर्युपरि पश्येत्. आदौ लंकारेण माहेन्द्रमण्डलं चतुरस्रं पीतं कोणेषु त्रिशूकवज्राङ्कम्. ततो वंकारेण वारुणं वर्तुलं सितं घटाङ्कम्. ततो रंकारेणाग्नेयं त्रिकोणं रक्तं कोणेषु रेफाङ्कम्. ततो यंकारेण वायव्यं धनुराकारं कृष्णं कोटिद्वये चलत्पताकाङ्कम्. भावकस्तु तदानीं तदेव लोकोत्तरज्ञानं (१६१) व्यापकत्वेन स्थितम्. ततो विश्ववज्रवेदिकामध्ये चतुर्महाभूतपरिणामजं परिशुद्धबुद्धक्षेत्रसंक्षेपरूपं महामोक्षपुरं वैरोचनस्वभावं नानारत्नमयं कूटागारमष्टाभिः श्मशानैः सर्वलोकधातुनैरात्म्यसूचकैः परिवृतं ध्यायात्.

चतुरस्रं चतुर्द्वारमष्टस्तम्भोपशोभितम् ।
चतुर्वेदीपरिक्षिप्तं चतुस्तोरणमण्डितम् ॥
हारार्धहारपट्टस्रग्वितानादर्शचामरैः ।
रुचिरं वज्रसूत्रैश्च स्फरद्बुद्धौघमंशुभिः ॥
चलच्चित्रपताकाग्रघण्टामुखरदिङ्मुखम् ।
परमैः पञ्चभिः कामैरुपहारैश्च हर्षणम् ॥
तस्य गर्भपुटे पद्ममष्टपत्रं सकेशरम् ।
चतुर्द्वारचतुष्कोणकर्णिकास्वासनानि तु ॥
ब्रह्मेन्द्रोपेन्द्ररुद्राश्च यमो यक्षाधिपस्तथा ।
नैऋतिर्वेमचित्री च मध्ये मारचतुष्टयम् ॥
उत्तरोत्तरमुत्तानं भीतं मारचतुष्टयम् ।
भानुनाक्रान्तहृदयं शशिनान्ये तु कातराः ॥

तत्र मध्यासनस्योपरि पञ्चदशभिः स्वरैश्चन्द्रमण्डलमादर्शज्ञानस्वभावम्, तदुपरि चतुस्त्रिंशद्व्यञ्जनैः सूर्यमण्डलं समताज्ञानस्वभावम्, तन्मध्ये अंकारहूंकारपरिणतौ (१६२) कर्त्तिकपालौ संयुक्तौ स्वबीजमध्यगतौ प्रत्यवेक्षणाज्ञानात्मकौ चिन्तयेत्. ततो बीजद्वयाद्योगिनीचक्राकारेण सर्वतथागतान् संस्फार्य, तान् संहृत्य, तैः सहैकीकृतं बीजं कृत्यानुष्ठानज्ञानम्, ततश्चन्द्रसूर्यचिह्नबीजपरिणामजं भगवन्तं वज्रसत्त्वं वक्ष्यमाणवर्णाकृतिचिह्नादिना श्रीहेरुकरूपेणाविर्भूतं तथैव नैरात्म्याश्लिष्टकन्धरं सुविशुद्धधर्मधातुज्ञानात्मकं पश्येत्. इति पञ्चाकाराभिसंबोधिः.

तस्यानन्दिन आस्येन द्विहोःकारविदर्भितम् ।
ज्वलद्बीजद्वयं रागात्पद्मान्तः प्रविशद्द्रवेत् ॥
ततो वज्री महारागाद्विलीय सह विद्यया ।
शरच्चन्द्रद्रवनिभां तिष्ठेन्मण्डलतां गतः ॥
अथोत्थानाय तं देव्यः स्थित्वा कोणासनेन्दुषु ।
चोदयेयुश्चतसृभिश्चतस्रो वज्रगीतिभिः ॥
उट्ठ भराडो करुणमणु पुक्कसि महुं परिताहि ।
(१६३)
महसुहजोएं काम महुं च्छड्डहि सुण्णसमाहि ॥
तोज्झ विहुण्णे मरमि हमुट्ठहि तुहुं हेवज्ज ।
च्छड्डहि सुण्णसहावडा सवरिह सिज्झ कज्ज ।
लोअ निमन्तिअ सुरअपहु सुण्णे अच्छसि कीस ।
हं चण्डाली विण्णममि त‹ विणु उहमि न दीस ॥
इन्दीआली उट्ठ तुहुं हं जाणमि तुहु चित्त ।
अंहे डोम्बी च्छेअ मणु मा करु करुणविच्छित्त ॥

अथ गीतिकानुरोधाच्चन्द्रद्रवसंहारजाभ्यां तत्कालजरविमण्डलस्थिताभ्यामंकारहूंकाराभ्यां देवतानां चिह्नदेहादिकमाकाशोपमं मायोपमं च निश्चित्य, तत्परिणामयोः कर्त्तिकपालयोः संयुक्तयोर्दृढसमाधिरूपयोर्गर्भे तदेव
(१६४) बीजद्वयं यथाभूतपरिज्ञानस्वभावं पश्येत्. तत एव स्फरणयोगेन योगिनीचक्राकारानन्ततथागतमयं चित्ताधीनं च विश्वं निरूप्य संहरणयोगेन सर्वं तन्मायोपमं गगनोपमं च परिज्ञाय द्वितीयरविचिह्नबीजपरिणामजं श्रीहेरुकमात्मानं पश्येत्.

आस्फालयन्तं चरणांस्तर्जयन्तं सुरासुरान् ।
क्रुद्धं वर्तुलरक्ताक्षं ललितं नवयौवनम् ॥
चतुश्चरणमष्टास्यं द्विरष्टभुजभूषितम् ।
चतुर्मारसमाक्रान्तमर्धपर्यङ्कताण्डवम् ॥
मुण्डमालामहाहारं रविस्थं भीमभीषणम् ।
विश्ववज्रधरं मूर्ध्नि कृष्णं सूर्यज्वलत्प्रभम् ॥
हूंकारस्फारिवदनं भस्मोद्धूलितविग्रहम् ।
मूलाननं महाकृष्णं दक्षिणं कुन्दसन्निभम् ॥
वामं रक्तं महाघोरं मूर्धास्यं विकरालिनम् ।
भ्र्ङ्गसन्निभशेषास्यं प्रतिवक्त्रं त्रिलोचनम् ॥
(१६५)
शृङ्गारवीरबीभत्सरौद्रहास्यभयानकैः ।
करुणाद्भुतशान्तैश्च नवनाट्यरसैर्युतम् ॥
पिङ्गोर्ध्वकेशवर्त्मानं पञ्चमुद्रैरलंकृतम् ।
चक्री कुण्डल कण्ठा च हस्ते रुचक मेखलम् ॥
हस्त्यश्वखरगावोष्ट्रमनुजशरभोतुकस्तथा ।
दक्षिणाष्टकपालेषु क्रमैर्ज्ञेया द्विपादयः ॥
पृथिवी वरुण वायुश्च तेजश्चन्द्रार्क एव च ।
अन्तको धनदश्चैव तद्वामाष्टकपालके ॥
नैरात्म्यया समापन्नः स्वाभया पञ्चमुद्रया ।
द्विभुजैकमुखी द्व्यङ्घ्रिः सा तु कर्त्तिकपालभृत् ॥

अथ भगवतो हृत्सूर्यस्थितकपालसूर्ये हूंकारम्, भगवत्यास्तु हृच्चन्द्रस्थितकर्त्तिमुष्टिचन्द्रे अंकारं चिन्तयेत्. ततोऽस्य श्रोत्रे नैरात्म्याम्, चक्षुषि वज्राम्, घ्राणे गुह्यगौरीम्, (१६७) जिह्वायां वारियोगिनीम्, कायेन्द्रिये वज्रडाकीम्, मनसि नैरात्म्यामधिमुञ्चेत्. एतदेव वज्रादिपञ्चकं यथाक्रमं रूपवेदनासंज्ञासंस्कारविज्ञानस्कन्धेषु, तथा मोहमात्सर्यरागेर्ष्याद्वेषेषु. रूपशब्दगन्धरसस्प्रष्टव्यधर्मायतनेषु बाह्यगौरी चौरी वेत्ताली घस्मरी भूचरी खेचरी, पृथिव्यप्तेजोवायुधातुषु पुक्कसी शबरी चण्डाली डोम्बी, कायवाक्चित्तेषु भूचरीखेचरीनैरात्म्याः, मांसे पुक्कसी, रुधिरे शबरी, शुक्रे चण्डाली, मज्जमेदयोर्डोम्बी, चर्मणि सप्त बोध्यङ्गानि, अस्थिषु सत्यचतुष्टयम्. एवं देवताभिः सकलीकृत्य तदपराः शुद्धीरधिमुञ्चेत्.

कृपया लोचने रक्ते कृष्णाङ्गो मैत्रचित्ततः ।
पादाः संग्रहवस्तूनि भुजाः षोडश शून्यताः ॥
मुखान्यष्टौ विमोक्षास्तु त्रिभिस्तत्त्वैस्त्रिलोचनः ।
पञ्च मुद्रा जिनाः पञ्च क्रुद्धो दुष्टानुशासनम् ॥
कण्ठहृद्भगमस्तेषु चतुश्चक्रं यथाक्रमम् ।
(१६७)
संभोगधर्मनिर्माणमहासुखमिति स्मृतम् ॥
षोडशाष्टचतुःषष्टिद्वात्रिंशद्दलमम्बुजम् ।
मध्ये मण्डितमोंकारहूंकाराकारहंकृतैः ॥

तदनु स्वहृद्बीजरश्मिस्फरणाङ्कुशैर्दशदिग्गतांस्तथागतानाकृष्य नभसि संस्थाप्य तानष्टमातृभिः संपूज्य

अभिषिञ्चन्तु मां सर्वतथागताः

इति प्रार्थयेत्. तैः श्रीहेरुकरूपापन्नैः पञ्चामृतभृतपञ्चतथागतात्मकैः कलशैरभिषिच्यते. अभिषिच्यमानस्य शिरसि भगवानक्षोभ्य उत्पद्यते, पुष्पवृष्टिः कुङ्कुमवृष्टिश्च भवति, दुन्दुभिशब्दश्च श्रूयते, रूपवज्रादिभिः संपूज्यते, वज्रगीत्या लोचनादिभिः स्तूयते.

इत्यादियोगो नाम समाधिः, स्वाभाविकश्च कायः.

अथ पद्माधिष्ठानम्.

ओं पद्म सुखाधार महाराग सुखंदद ।
चतुरानन्दभाग्विश्व हूं हूं कार्यं कुरुष्व मे ॥

(१६८)
अथ वज्राधिष्ठानम्.

ओं वज्र महाद्वेष चतुरानन्ददायक ।
खगमुखैकरसो नाथ हूं हूं कार्यं कुरुष्व मे ॥

ततः

ओं शी ३ ह ३ स्वाहा

इति रतिमारभेत्. ततः कमलोदरपतितचन्द्रद्रवबिन्दुपरिणामेन गंकारेण निष्पन्नां गौरीं कृष्णवर्णां कर्त्तिरोहितधरां पूर्वद्वारासनचन्द्रे चिन्तयेत्. तथा चंकारेण चौरीं माञ्जिष्ठवर्णां कृपीटशूकरधरां दक्षिणद्वारासनचन्द्रे, तथा वंकारेण वेत्तालीं कनकवर्णां कूर्मकपालधरां पश्चिमद्वारासनचन्द्रे, तथा घंकारेण घस्मरीं मरक्ताभाम्. भुजगयोगपात्रीधरामुत्तरद्वारासनचन्द्रे, तथा पंकारेण पुक्कसीमिन्द्रनीलनिभां केशरिपर्शुधरामैशानकोणासनचन्द्रे, तथा शंकारेण शबरीं चन्द्रकान्तनिभां भिक्षुखिक्खिरिकाधरामाग्नेयकोणासनचन्द्रे, (१६९)

तथा लंकारेण चण्डालीं नभःश्यामां चक्रलाङ्गलधरां नैऋतिकोणासनचन्द्रे, तथा डंकारेण डोम्बीं कर्बुरवर्णां वज्रतर्जनिकाधरां वायव्यकोणासनचन्द्रे ध्यायात्.

अर्धपर्यङ्कनाट्यस्था वृत्तरक्तत्रिलोचनाः ।
पिङ्गोर्ध्वकेशा द्विभुजाः पञ्चमुद्राधराश्च ताः ॥

अथ परितो निष्पन्नं मण्डलमवलोक्य हृद्बीजकिरणाङ्कुशैर्ज्ञानमण्डलमाकृष्य, पूर्वद्वाराभिमुखमन्तरीक्षेऽवस्थाप्य, अष्टाननहूंकारैर्विघ्नानुत्सार्य, अर्घपाद्यं दत्त्वा,

जः हूं वं होः

इत्येभिर्यथाक्रममाकर्षणप्रवेशनबन्धनवशीकरणानि कृत्वा, समयज्ञानमण्डलयोरेकलोलीभावं विभाव्य, हृन्मन्त्रकिरणैः सर्वतथागतानाकृष्य संपूज्य प्रार्थ्य तयोरभिषेकं दापयेत्. अभिषिच्यमानानामभिषेकजिनः शिरसि जायते. अत्र श्लोकौ:

पुक्कस्याद्याश्चतस्रस्तु गौर्याद्याश्च यथाक्रमम् ।
अक्षोभ्यबुद्धरत्नेशवागीशैरिह मुद्रयेत् ॥

कुलेशैः कायवाक्चित्तैर्भवनिर्वाणहेरुकान् ।
(१७०)
वज्राद्याः स्वकुलेशैस्तु जिनैरक्षोभ्यपञ्चकैः ॥

ततो देवतातत्त्वं मनसिकुर्यात्. इह सर्वधर्माः कायवाक्चित्तज्ञानैः संगृहीताः. तेषां कायादीनां या धर्मता विज्ञप्तिमात्रता द्वयशून्यता तस्याः प्रत्यवेक्षणं यथायोगं द्वारपालीनां तत्त्वम्. तस्या एव शून्यतायाः सम्यग्ज्ञानं निष्प्रपञ्चमनास्रवा प्रज्ञा वज्रयानमनुत्तरं यथायोगं पुक्कस्यादीनां चतसृणां तत्त्वम्. तस्यैव वज्रयानस्य फलं महावज्रधरपदं निरुत्तरा बोधिर्मण्डलाधिपतेस्तत्त्वम्.

ततः स्वहृद्बीजादष्टौ पूजादेवीः संस्फार्य तासां स्फरणमेघैर्गगनमापूर्य सनायकं मण्डलं पूजयेत्. ततो मायोपमान् सर्वधर्मानधिमुच्य गीतिद्वयेन भगवन्तं स्तूयात्.

विविधविचित्रविभ्रमालोकितैः प्रमोद्य
विविधविचित्रचुम्बनालिङ्गनैः प्रमोद्य ।
(१७१)
विविधविचित्रसुखभोजनैः प्रभक्ष्य
विविधविचित्रसंवरमहो प्रदर्शयस्व ॥
प‹स सम सव्वाआसु जोउ ।
भक्ख सअल सव्वाआसु लोउ ॥

अथान्तरीक्षे हूंकारेण वज्रं विचिन्त्य, तस्याधस्तादाःकारेण पद्मम्, तन्मध्ये प्रणवाङ्कितानि द्रव्याणि, वज्रपद्मसमायोगादग्निज्वालनम्, तेन तेषां तापनम्, पाकाद्द्रवीकृत्य ज्ञानसूर्यीकरणाद्द्योतनम्, तत्किरणैर्दशदिक्सर्वतथागतानां रूपदर्शनम्, तज्ज्ञानबीजेभ्यस्तैरेव किरणैराकृष्य ज्ञानामृतं तेषु संपात्य समरसीकुर्यात्. एवं तान्यमृतीकृत्य त्र्यक्षरेणाधिष्ठाय हूंकारेण जिह्वायां शुभ्रवज्रम्, हृत्सूर्ये च मण्डलमधिमुच्य, तैरमृतैरात्मानं मण्डलं च संतर्पयेत्.

मातृचक्रे पुरे रम्ये भावयेदीदृशं प्रभुम् ।
निस्तरङ्गसुखावाप्तं निस्तरङ्गस्वरूपिणम् ॥

(१७२)
इति मण्डलराजाग्री नाम द्वितीयः समाधिः, सांभोगिकश्च कायः.

ततो गौरीं चौरीं यावन्मण्डलाधिपतिं प्रत्येकमनुपूर्व्या दशसु दिक्षु निरन्तरं संस्फार्य, सत्त्वानामर्थं कृत्वा, तेष्वेव संहृत्य, कृतकृत्यं मण्डलं मण्डलाधिपतिं च निष्प्रपञ्चसुखसमर्पितं पश्येत्. तत्र गौरी कायस्य भूतप्रत्यवेक्षायां सत्त्वान् व्यवस्थापयति, चौरी चित्तस्य, वेत्ताली वाचः, घस्मरी ज्ञानस्य, पुक्कसी कायस्य सम्यग्ज्ञाने, शबरी चित्तस्य, चण्डाली वाचः, डोम्बी ज्ञानस्य. मण्डलेश्वरस्तु महावज्रधरपदे सत्त्वानवस्थापयति.

तदनन्तरं षडङ्गयोगेन समतां भावयेत्.

कृष्णं रक्तं ततः पीतं हरिन्नीलं सितं क्रमात् ।
सहजानन्दमात्रं च ध्यायाच्चक्रं सनायकम् ॥

इति कर्मराजाग्री नाम तृतीयः समाधिः, नैर्माणिकश्(१७३) च कायः. भावनाखिन्नो मन्त्रं जपेत्. समण्डलमात्मानं देवतारूपेणाविर्भूतं विचिन्त्य

ओं देव पिचुवज्र हूं ३ फट्स्वाहा

इति हृत्सूर्ये त्रयोदश मन्त्राक्षराण्यूर्ध्वशिरस्कानि प्रदीपवज्ज्वलन्ति मण्डलीभूतानि मनसाभिलिख्य, तान्येव वाचयन् वज्रवाचा क्रोधवाचा वा जपेत्. सर्वमुखेभ्यः सर्वदेवीमुखेभ्यश्च मन्त्रमुच्चरन्तमधिमुञ्चेत्. इयतैव स्वदेवताया अष्टगुणो जापः सर्वदेवीनां च मन्त्रजापः कृतो भवति.

ततः प्रणिधानं कुर्यात्.

सर्वस्वं सर्वबुद्धानां महावज्रभृतः पदम् ।
एभिर्लभेय कुशलैर्लम्भयेयं च तज्जगत् ॥
चर्या संबोधये या च संबुद्धानां च या पुनः ।
वर्णिता बोधिवज्रेण सा चर्यास्तु द्वयी मम ॥

ततः सनायकं मण्डलं पूर्ववत्संपूज्य, स्वहृन्मन्त्रे देवीरन्तर्भाव्य, आधारमण्डलमतिविस्तीर्णमधिमुच्य, (१७४) चत्वारि महाभूतानि पुक्कस्यादिस्वभावानि निश्चित्य, हेवज्राहंकरेणोत्थाय तथैव विहरेत्. मध्याह्नप्रदोषसन्ध्ययोर्ध्यानगृहं प्रविश्य पूर्ववदाधारमण्डलं तन्मध्यासने चात्मानं समापन्नाष्टाननहेवज्ररूपं झटिति दृष्ट्वा, हृद्बीजनिश्चारिताश्च देवीर्यथास्थानं निवेश्य, सर्वमण्डलमानन्दमयं ध्यात्वा, पूजास्तुत्यमृतास्वादं जापादिकं च कुर्यात्. निद्राकाले षडङ्गयोगं सहजानन्दयोगं वाभिमुखीकृत्य सुप्यात्. चतुर्देवीगीतिसंचोदितश्च निद्रात उत्तिष्ठेत्. उत्थाय सर्वं पूर्ववत्कुर्यात्. एवं प्रत्यहं यावत्सिद्धिनिमित्तानि पश्यति. तानि दृष्ट्वा यथातन्त्रमभिमतसिद्धेरुपायमनुतिष्ठेदिति.

गुरुगुणधनधाम्नः साधनं हेरुकस्य
भ्रमहरमभिधाय स्पष्टमष्टाननस्य ।

(१७५)
कुशलमिदमवाप्तं यन्मया जन्मभाजां निरवधिहितहेतुस्तेन वज्री जिनः स्याम् ॥�

"https://sa.wikisource.org/w/index.php?title=हेवज्रसाधनम्&oldid=368701" इत्यस्माद् प्रतिप्राप्तम्