प्रमुखा विकल्पसूचिः उद्घाट्यताम्



श्रीः
श्रीमते रामानुजाय नमः
श्री वराहगुरुणाविरचितायां क्रियाकैरवचन्द्रिकायां प्रथमः परिच्छेदः
भूपरीक्षा विधिः

आदौ भूपरीक्षा विधिः उच्यते
श्रद्धावान् आस्तिको भक्तः धनधान्यौ समेधितः।
महोत्साहः शुचिः दक्षः कृतज्ञो लोभवर्जितः।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाप्यनुलोमजः।
इत्याद्युक्तैः समस्तगुणैः समेतः यजमानः
पाञ्चरात्रविदं शान्तं सिद्धान्तेषु कृतश्रमम्।
भगवद्वंशजं शुद्धं अलोलुपमदांभिकम्।
अपापमृजुमव्याधिमदृष्टपरमास्तिकम्।
इत्याद्युक्त लक्षणं आचार्यं प्रथमं वरयेत्। ततः आचार्यो यजमानश्च दैवज्ञेन सह शुभे दिने
ग्रामादिस्थापनाय आदौ निमित्तानि परीक्ष्य। शुभे निमित्ते ग्रामादीन् आरभेत।तदर्थं
रथकारेण सह आचार्यः भुवं परीक्षेत।
अथ भूमि लक्षणम् उच्यते-सुपद्मा, भद्रका, पूर्णा,धूम्रा च इति भूमि श्चतुर्विधा। सुपद्मा-
चंपकागरु खर्जूर कदंब तिलकार्जुन क्रमुक नारिकेल कुश काश कमल कुवलययुता
प्रागुदक्प्रवणा शुभतोयावृता।
भद्रका-नदीसागर पाश्र्वस्था तीर्थायतनम्- आश्रिता क्षीरवृक्ष फलवृक्षसमाकुला
उद्यानोपवनोपेता लतागुल्म यज्ञ वृक्ष कुशकाशव्रीहि क्षेत्रैः अधः जलेन च उपेता।
पूर्णा-कुलुत्थ कंकु निष्पाव कोद्रव श्यामाकान्विता आप्रभूतोदक गिरि पाश्र्वं गिरिशिखरं
वा आश्रिता।
  

धूम्रा- यववेणुस्नुहिश्लेष्मातक विभीतकार्कसंकीर्णं कठिन शर्करान्विता वायस श्येनगृध्र
गोमायुवृक संकुला ऊषरान्विता।
सुपद्मा शान्तिदा। भद्रका सुखदा। पूर्णा पुष्टिदा।धूम्रा क्षयदा।
भूमिम् एवं विधां ज्ञात्वा।तां दण्डमानेन विस्तारायामयोः सदृशं जानुदघ्नं खात्वा। पुनः
ताभिरेव मृद्भिः पूरिते समाधिके उत्तमाम्।समे मध्यमाम्। न्यूने अधमाम् ज्ञात्वा ।
अधमां वर्जयित्वा। अन्ययोः शालिमुद्ग यवादीनां बीजान्युप्त्वा परीक्षेत ।
त्रिरात्राभ्यन्तरे यद्यङ्कुराः समुद्भूताःतदा उत्तमा । पञ्चरात्राभ्यन्तरे चेत् मध्यमा, सप्त
रात्राभ्यंतरे चेत् अधमा।अङ्कुरेषु अप्ररूढेष्वपि अधमैव। अधमां वर्जयेत् । अन्ये
गृह्णीयात्। कुशपलाश हरिणाः यत्र विद्यंते सा अधमा अपि उत्तमा । मधुरेण रसेन युक्ता
उत्तमा।कटुका मध्यमा। आम्लाद्यन्य रसा अधमा। श्वेता उत्तमा। पीत लोहिता मध्यमा।
कृष्णा अधमा।संयक् एवं विचार्य पाञ्चरात्रवित् आचार्यः यजमानेन रथकारेण च
साकम्,वास्तुसीमनि नृत्तगीतवाद्य मंगलपाठ पूर्णकुम्भ दीपध्वज छत्रसमन्वितम्
सवेदाध्ययनं स्वस्तिवाचनेन सह प्रदक्षिणं परिक्रम्य। सर्वास्वपि दिक्षु विदिक्षु च प्रागादि
पिशाचादीनां पायसैः ब्रह्मस्थानांतं बलिकर्म कुर्यात् ।
भूताः पिशाचाः नागाश्च असुराः राक्षसाः ग्रहाः।
सर्वे ते व्यपगच्छन्तु बलितुष्टाः यथा तथम्।
देवानां च द्विजानां च स्थानं सम्यक् करोम्यहम्।
वासुदेवस्य देवस्य सर्व भूतात्मकस्य च
इति मंत्रं उदीरयन्, अस्त्र मन्त्रेण संसिद्धान् सिद्धार्थान् सर्वतः विकीर्य। यथाविधि
बलिंदत्वा। तत्रसूत्राणि निपात्य। सूत्रसंधिषु शंकून् संस्थाप्य। ततः यथाविधि वास्तुपूजां
कुर्यात्।
  

अधोमुखं प्राक्छिरसं कोणप्रसारित पाणि पादम् वास्तु पुरुषं विलिख्य आवाह्य अभ्यर्च्य।
वास्तुपुरुषस्य दक्षिणतः अग्नि कुण्डे स्थण्डिले वा विधिवत् संस्कृतम् अग्निं दीपयित्वा।
तस्मिन् तमावाह्य पञ्चोपनिषदा घृतेन आहुतीनां सहस्रं शतं वा अपामार्ग शमी
खादिराणां समिद्भिश्च तावत् हुत्वा।अग्निं यक्षरक्षः पिशाचानाम् पूर्वोक्ताभिः समिद्भिः
पूर्वोक्त संख्यया स्वयं हुत्वा। ततः मूलमंत्राभ्यां पृथक् अष्टोत्तरशताहुतीः वास्तुनाथ
मंत्रेण चरुणा आहुतीनां शतं च हुत्वा। पूर्णाहुतिं हुत्वा। अग्निस्थं उद्वास्य। अष्टासु दिक्षु
इन्द्रादीनां स्वस्वमन्त्रेण बलिंदद्यात्।
इति श्री वराहगुरुणा विरचितायां क्रियाकैरव चन्द्रिकायां
भूपरीक्षा विधिः नाम प्रथमः परिच्छेदः
       दानपालनयोर्मध्ये दानात् श्रेयोनुपालनम्।
दानात् स्वर्गमवाप्नोति पालनादच्युतं पदम्।
स्वदत्तां परदत्तां वा यो हरेत वसुंधराम्।
षष्टिवर्ष सहस्राणि विष्टया जायते कृमिः।
स्वदत्तात् द्विगुनंपुण्यं परदत्तानुपालनम्।
परदत्ताऽपहारेण स्वदत्तं निष्पलं भवेत्।
एकैव भगिनी लोके सर्वेषामेव भूभुजाम् ।
न भोज्या न कदा ग्राह्या विष्णुदत्ता वसुंधरा।(नीतिश्लोकम् )।


द्वितीयः परिच्छेदः

कर्षणम्
अथ कर्षण विधिः: उच्यते-
  

एवं ग्रामादि कल्पयित्वा, तन्मध्ये मन्दिरनिर्माणार्थं पूर्वोक्तां भूंमि प्रवेश बलिपूर्वकम्
आसाद्य तां प्रदक्षिणीकृत्य,
यक्षा: पिशाचा: नागाश्च येऽत्र तिष्ठन्ति सर्वदा।
सर्वे प्रयांतु तेऽन्यत्र विष्णो: स्थानं करोम्यहम्।
इति मंत्रेण अस्त्रमंत्रसंसिद्धान् सिद्धार्थान् सर्वत: दिक्षु विकीर्य, पूर्ववत् वास्तु पूजां होमं च
बल्यन्तम् कृत्वा। अनन्तरम् आचार्य: वक्ष्यमाणेन विधिना हलेन भूमिं
विलिखेत्।यजमान: ब्राह्मणश्चेत् अनङ्वाहौ गौरवर्णौ।यदिक्षत्रिय: लोहितौ। यदि वैश्य:
पीतौ। यदि शूद्र: मेचकौ। उक्तवर्णानां अलाभे कपिलौ गौरौ रक्तौ वा। तौ महान्तौ
बलशालिनौ वृषभौ क्षालयित्वा। खुर
शृङ्गादीनि कनकमयै: भूषणै: भूषयेत् ।
ब्राह्मणो यजमान: चेत् युगं हलं च पालाशम्, क्षत्रिय: यदि नैयग्रोधम्, यदि वैश्य:
प्लाक्षम्, सर्वेषां वर्णानां नैयग्रोध पैप्पले वा स्याताम्।सर्वेषां कौशिक: सौवर्णा योक्त्रं राजतं
ताम्रं वा।कुशा:, धनुज्र्या, वीरण्य:, काशाश्च यथावर्णम् क्रमात् रज्जु:। हलभूतमध्यौ
एकयोनिके।सर्वं एवं कृत्वा। तत: स्नात: नवांबरधर: सर्वालङ्कारसंयुक्त: आचार्य: पादौ
प्रक्षाळ्य। आचम्य। प्राणानायम्य. भूतशुद्धिं कृत्वा। ब्राह्मणै: अनुज्ञात: मन्त्रज्ञै: वैष्णवै:
सह पुण्याहं वाचयित्वा। तज्जलेन सर्वं द्रव्यजातं आत्मानं च प्रोक्ष्य। मूलमन्त्रेण
वृषस्कन्धे युगं संयोज्य। तेनैव मन्त्रेण हलं युगे संयोज्य। सुमुहूर्ते भेरी पटह शङ्खादिवाद्य
घोषपुरस्सरं शाकुन सूक्तादि वेदघोषसहितं प्राङ्मुखः गुरु: हृदयकमले नारायणं ध्यायन्।
पालाशादि दण्डं प्रवहणं कृत्वा। तत: तोदनं आदाय। हुंफडादिना आपीड्य। प्राङ्मुखः
मूलविद्यया प्रथमं कर्षयेत्। पौरुषेण सूक्तेन द्वितीयं, विष्णुसूक्तेन तृतीयं, विष्णु गाय र्त्या
तुरीयम्, नारायणानुवाकेन पञ्चमम्, पञ्चोपनिषन्मंत्रै: षष्टम्, भूसूक्तेन सप्तमम् कर्षणम्।
  

सर्वं प्रादक्षिण्य क्रमेण। दक्षिणोत्तरतश्च एवं कर्षयेत्। तत्काले निमित्तानि परीक्षेत्।
आचार्यस्यमनस्तुष्टि: मन्दिर यजमानयो: शर्मणे भवेत् । तद्विपर्ययश्च असुखाय।
अनडुहो: शयने, योक्त्रादिभेदने, व्यत्यासभ्रमणे, अन्यनिमित्तोदये च सर्व दोषशान्त्यर्थं
पञ्चोपनिषदा सर्पिषा शतमाहुतीनां जुहुयात्। तत: आचार्य: यजमानश्च ब्राह्मणान्
तोषयित्वा।तां भुवं महतायत्नेन समीकृत्य, पृथक् पृथक् आलवालानि जलकुल्यायुतानि
कारयित्वा। तोयेन आसिच्य। तत्र शाली मुद्ग यवादि बीजानि वापयेत्। तदभिवृद्ध्यर्थं
प्रतिदिनं महताजलेन संसिच्य। परिपाकावसानिकं रक्षेत्।तत: फलानि पक्वानि लूत्वा।
फलरहितं क्षेत्रं गाः समानीय चारयेत्। सस्य भूरिफले तद्धाम दीर्घकालं भविष्यति।
अल्पे तु अल्पतरं कालम्। हरे: सन्निधानं च पूर्ववदेव। फलहीने
प्रक्षीणधनधान्यकम्।तत्र सहस्रं शतं वा ब्राह्मणान् भोजयित्वा। तेभ्यश्च गो धनादि
दक्षिणान् वितीर्य। पञ्चगव्येन पञ्चोपनिषदा तत्क्षेत्रं संप्रोक्ष्य। कुद्दालै: खनित्रै: वा, यावंब:
तावत् भूमिं खनेत्। यावत् प्रथमावरण विस्तार: तावत् दण्डमात्रं वा क्षेत्रदोषानुरूप्येण,
मन्दिरोच्छ्रायानुगुण्येन वा, भूतले खन्यमाने ;भस्माङ्गार तुषदुष्ट सत्वक्रिमि कीटादि
दर्शने घृतादिना शान्ति होमं कृत्वा;ब्राह्मणेभ्य: यथाशक्ति सुवर्णादि दक्षिणां दद्यात्।
रत्नादि दर्शने धाम सदासमृद्धं भवेत्।खातात् बहि: चतुरश्रे स्थण्डिले अग्निं प्रतिष्ठाप्य,
मूलमन्त्रेण आज्येन नृसूक्तेन चरुणा गुग्गुलु तिल नीवारै: मूलमन्त्रेण च खातहोमं कृत्वा।
पुण्याहं वाचयित्वा प्रोक्ष्य। शालीन् खाते प्रक्षिप्य।तदुपरि वस्त्रसूत्रादि वेष्टितान्
लोहमयान् मृण्मयान् वा कुम्भान् नव संस्थाप्य।आधारशक्तिं सौवर्णीं मध्यकुम्भे
निक्षिप्य।प्राच्यां बीजानि आग्नेय्यां सर्वलोहानि, दक्षिणे सर्वधातून्, नैॠते पुण्यतीर्थमृदम्,
वारुणे मधु, वायवीये सर्पि:, उत्तरस्यां दिशि रत्नानि, ऐशाने शैलमृत्तिकां च निक्षिप्य।
पुनश्च मध्ये शालिक्षेत्र मृदम् आशोष्य ह्रदसंभूतां मृदम् वल्मीकमृदम् उत्पलकन्दानि च
  

प्राङ्मुखः स्थित्वा निक्षिप्य। तत्र लोहानि रत्नानि दर्भकूर्चं च निक्षिप्य शरावेण
पिदाय।मध्यकुम्भस्य उपरि अन्य कुंभम् निधाय, तस्मिन् सौवर्णं कूर्मकालाग्निं
निक्षिप्य।तस्य उपरि कुम्भं अन्यं निधाय।
तस्मिन् सौवर्णीं अनन्ताकृतिं निक्षिप्य। तदुपरि च अन्यं कुम्भं तस्मिन् सौवर्णीं वसुधां
तदुपरि च अन्यं कुंभं तस्मिन् सौवर्णे अंबुजं च निक्षिप्य।सर्वान् गन्धोदकेन
संपूर्य।पुण्याभिः खात मृद्भिः अदुष्टाभिः वालुकाभिश्च पूरयित्वा। जलै: खात भूतलं
संपूर्य। हस्तिपादैः धृडीकृत्य।पुन: जलेन परिपूरयेत्।
इति श्री वराहगुरुणा विरचितायां क्रियाकैरव
चन्द्रिकायां कर्षणविधिः नाम द्वितीयः परिच्छेदः


 
तृतीयः परिच्छेदः
बालालय प्रतिष्ठा विधिः
 
अथ बालालय प्रतिष्ठा विधिःउच्यते - आरभ्यमान प्रासादस्य इन्द्रेशानांऽतरे सोमेशयोः
इन्द्राग्न्योः यमनैॠत्योः निॠति वरुणयोः वरुण वाय्वोः वायुसोमयोः वा अन्तरे
स्वाभिमते देशे बालालयं प्रकल्पयेत्। तत्र सप्तभिः पञ्चभिः त्रिभिः वा हस्तैः बालालयं
कल्पयेत्।मूलमन्दिरस्य वलजं यस्यां दिशि तस्यामेव बालालयस्यापि निदध्यात्।
लोहजं शैलजं दारुजं वा चतुर्भुजं शङ्खचक्र गदापद्मधरं उत्सेधतोह्रासे पञ्चाङ्कुलं वृद्धौ
त्रयो विंशत्यङ्गुलं यजमान सुखावह मानानुगुणं वा बालबिम्बं कार्यम्।
मूलालयस्थाप्येषु मत्स्याद्यवतारेषु बालबिम्बं वा तथारूपं, विश्वरूपे तु चतुर्भुजं,
स्थित्यासन शयनेषु च तथैव (स्थित्यासन शयनरूपं) बालबिम्बं कारयित्वा।तदङ्कुरार्पण
  

पूर्वकं जले अधिवास्य।कुम्भस्थापनाधिवास होमादि कृत्वा। बालगेहस्य मध्ये दिव्येंशे वा
हस्तमात्रसमुच्छ्रितां मेखलात्रययुतां वेदिकां कल्पयित्वा। प्रभाते सुमुहूर्ते शक्तिन्यास
चतुर्थस्नपन वर्जम् तस्यां देवं यथाविधि संस्थाप्य। संप्रोक्ष्य। मन्त्रान् विन्यस्य संपूजयेत्।
ततः
आमूलधामप्रारम्भात् आसमाप्तेः हरे विभो।
पूजां गृह्णीष्व भगवन् अस्मिन् त्वं बाल मन्दिरे।
शमयन् मूलधिष्ण्यस्य विघ्नकृद्दैत्य संहितम्।
 
इति मन्त्रेण प्रार्थ्य।विज्ञाप्य प्रणम्य।चण्डप्रचण्ड क्षेत्रपाल खगेशान् द्वारे इन्द्रादि
लोकपालान् तत्तद्दिक्षु ईशान भागे सेनेशं नैॠते गणेशं च अशरीरिणः सर्वान् एतान्
बालमन्दिरस्य परितः हस्तमात्रातु मेखलात्रययुतासु वृत्तासु चतुरश्रासु वा वेदिकासु
स्थण्डिले वा तादृशे संपूज्य।सर्वान् कुमुदादिगणान् महापीठे अभ्यर्च्य। गुरुः एवं
बालालयं प्रतिष्ठाप्य। अन्ते ध्वजारोहणपूर्वकं पुष्पयागावसानिकं उत्सवं अथवा
एकाहोत्सवं कुर्यात्। बालबिम्बं लोहजं चेत् तेनैव सकलं नित्यादि कर्मकुर्यात्। उत्सवार्थं
न चेत् बिम्बं बालेनैव कुर्यात्। बालबिम्बं शिलादारुजमयं चेत् दारुसंग्रह शिलासंग्रह
पूर्वकं बालबिम्बं प्रतिष्ठापयेत्।
आलय निर्माण विधिः
पश्चात् रथकारः स्थपतिभिः सह मन्दिरनिर्माणमारभेत। तत्र मुख्य मध्यमाधम
सञ्चितासञ्चितोपसञ्चित कल्पन भेदं शिलेष्टकादार्वादिषु गर्भादि दोष लक्षणानि
देवतान्तरालयगतत्वादि दोषान् च सम्यक् ज्ञात्वा मूलमन्दिरं कल्पयेत् ।
खातभूतले जलेन समतां वीक्ष्य प्रकृतिं क्षितौ विन्यस्य। शास्त्र चक्षुषा प्रथमां
फलकामादाय । सुधया तां दृढीकृत्य। जलेन समतां वीक्ष्य । तस्योपरि उपपीठं तदुपरि
  

अधिष्ठानं उपपीठेनविना अधिष्ठानं वा परिकल्प्य । अधिष्ठानं वा यद्वा पूर्वमधिष्ठानं तदुपरि
उपानहं तदुपरि पादं ततः प्रस्तरं पश्चात् ग्रीवां तदनु शिखरं एवं यथाक्रमं एकतल
कल्पने यथावत्स्थूपि एवं कुर्यात् । द्वितल कल्पने तु अधिष्ठान चरण प्रस्तरकूटशाला
संस्थान पञ्जर प्रस्तर वेदिकाग्रीव शिखराणि एवं क्रमेण त्रितलादि आद्वादश तलमेवमेव।
ततः अधिकेषु उपानजगती कुमुदपट्टिका कण्ठपट्टिका महतीपट्टिका वाजन वेदिका
चरणतलोत्तर हंसमाला कपोत प्रतिप्रतिवेदिका कण्ठशिखराणि इति एवं अष्टादशा‘
कल्पनमिति यावत्स्थूपि यजमानानुगुण्येन वा कुर्यात्। पूर्वमेवं सर्वं यथाविधि पटादौ
निर्माय अनन्तरं मन्दिर निर्माणं च कुर्यात्।
 
इति श्री वराहगुरुणा विरचितायां क्रियाकैरव चन्द्रिकायां
बालालयप्रतिष्ठाविधिः नाम तृतीयः परिच्छेदः


अथ चतुर्थः परिच्छेदः
प्रथमेष्टका विधिः
अथ प्रथमेष्टका विधिः उच्यते-
आदौ तावत् आचार्यः शास्त्रोक्तवर्त्मना प्राचीपरीक्ष्य।प्राच्यादि विभागेन द्वाराणि
कल्पयित्वा। चतुर्विंशत्यङ्गुलायतं द्वादशाङ्गुलायतं वा अङ्गुष्टपरिणाहं शुभं ऋजुं क्षीरवृक्षजं
शङ्कुंसमानीय। प्रासादस्थान मध्यभागे मूलमन्त्रेण संस्थाप्य। शङ्कुद्विगुणमानेन परितः
मण्डलान्ते पूर्वापराङ्गयोः छायामालोक्य। छायान्तर्मण्डलान्ते पूर्वतः पश्चिमतः बिन्दुद्वयं
विलिख्य। तयोः मध्यतः पूर्वबिन्दुमारभ्य अपरबिन्दुपर्यन्तं सूत्रमापात्य।तयोरन्तरं यथा
कच्छपानन पुच्छवत् भवेत् तथा विधाय। तदन्वेवमेव उत्तरतः दक्षिणतश्च कृत्वा। एवं
  

चतसृषु दिक्षु च त्रि पञ्च सप्तहस्तं यथाभिमतंअधिकं वा सूत्रं निपात्य।दिक्सूत्रभ्रमणेनैव
यथा चतुरश्रं भवेत् तथासमालिख्य। दिक्षु अष्टासु यथान्यायं शङ्कून् संस्थापयेत्।
शङ्कुस्थापनवेलायां निमित्तानि परीक्षेत्। शुभानि चेत् शुभं फलं।विपरीतानि चेत्
शान्तिमाचरेत्।
स्थितासन शयन यान विश्वरूप बिंबानुगुण्येन चतुरश्र वृत्त वृत्तायत चतुरश्रायत भेदान्
ज्ञात्वा। यजमानः भुक्तिकामश्चेत् युग्मैःहस्तैः, मोक्षार्थी यदि अयुग्मैः एकहस्तमारभ्य
दशहस्त पर्यन्तं यथाभिमतं प्रासादं द्वादशाङ्गुलान्तं यथावित्तानुसारतः मानयित्वा।
तत्रविमानं च निर्माय प्रथमेष्टकां आरभेत्। इष्टका शिला काष्ट मृण्मयभेदेन
त्रिविधा।विमाने शैलजे शिलया, काष्ठजे काष्ठेन, पक्वेष्ठकामये सुपक्वेष्टकया, आमेष्टकामये
च आमेष्टकया, शैलाकाष्टमये शिलाकाष्ठमये च शिलया, इष्टकाकाष्ठमये धाम्नीष्टकया च
प्रथमेष्टकया कार्या। प्रतिमार्थं शिलासंग्रह कल्पेन शिलां संगृह्य ।तासु पुल्लिङ्गादिपरीक्षां
कृत्वा। पुल्लिङ्गशिलया पादादि स्थूप्यन्तं, स्त्रीशिलया प्रथमेष्टकां,नपुंसकशिलया मूर्धेष्टकां
च कुर्यात्।
दार्विष्टकाःअपि प्रतिमा दारुसंग्रहवत् ग्राह्याः। विपरीतकरणे महान् दोषः।
राजराष्ट्रक्षयश्च। छेदे कांस्य घण्टाध्वनिः मूर्ध्नि, मध्ये कांस्यध्वनिः, मूले तालध्वनिः
यस्यां सा पुंशिला।तस्मात् किंचिदूनध्वनिः स्त्री शिला। नादहीना नपुंसकशिलाभवति।
अथ मृण्मयेष्टकाविधिः - पूर्वमाचार्यः रथकारनिर्दिष्टं देशं समासाद्यंतत्रपुण्याह पूर्वकं
अग्निंप्रतिष्ठाप्य। ज्वलिते अस्मिन् मूलमन्त्रेण अष्टोत्तरशताहुतीः आज्येन चरुणा
पुरुषसूक्तेन षोडशाहुतीः समिद्भिः अष्टोत्तरशतसंख्यकाभिः भूयोपि च मूलमन्त्रेण हुत्वा।
चरुणा विष्णु पारिषदान् उद्दिश्य, क्षेत्रपालाय, भूतेभ्यः, वास्तुनाथाय,देवेभ्यः,
ऋषिभ्यः,देवगणाय इति च आज्येन स्वाहान्ताभिः भूरादि सप्तव्याहृतिभिश्च हुत्वा।
  

पूर्णाहुतिं च हुत्वा । पूर्वादिषु चतसृषु दिक्षु ‘‘विष्णु पार्षदेभ्यः सर्वभूतेभ्यः वास्तुनाथाय
क्षेत्रपालाय’‘ इति नमोन्तैः एतैः मन्त्रैः चरुणा बलिं च कृत्वा। अग्निमुद्वास्य। कुलालेन
इष्टकाः कारयेत्। तास्वपि च ऋजुः युग्मा रेखा यस्यां सा पुरुषेष्टका प्रथमा। तिरश्चीना
युग्मा रेखा यस्यां सा स्त्रीष्टका द्वितीया । नीरेखा पाश्र्वयोः वक्ररेखा वा नपुंसकेष्टका
तृतीया। प्रासादादिकरणे प्रथमा । पीठादिकरणे द्वितीया। प्रासाद गर्भाधानादि करणे
तृतीया । तदायामस्तु हस्तमानः चेत् उत्तमः। अष्टादशाङ्गुलायामः मध्यमः ।
षोडशाङ्गुलायामः अधमः। आयामार्धेन विस्तारः। विस्तारार्धेन घनम् । आयाम
समविस्तारास्यात् आच्छादनेष्टका । इदं महामानम्प्रासादतुल्यः विस्तारः।
तद्विगुणःआयामह इदम् अल्पमानम्। एवमिष्टकाः कारयित्वा।ताः पक्वाः शुभाःदृढाः
संपादयेत्। देवालये चतस्रः प्रथमेष्टकाः। मनुष्यालये पञ्च पक्वेष्टकामये धाम्नि पक्वा
प्रथमेष्टका इत्यादि वेद्यम्। ततः मण्डपं प्रपां वा कल्पयित्वा। वितानादिभिः अलङ्कृत्य।
तन्मध्ये सप्ततालायतां हस्तमात्रसमुच्छ्रितां वेदिकां कल्पयित्वा। मृत्संग्रहणपूर्वकं
अङ्गुरान् अर्पयित्वा। ततः वेदिकामध्ये शालीनां भारचतुष्टयेन तदुपरि तदर्धेन तण्डुलानां
तस्योपरि तदर्धेन तिलानां स्थण्डिलं कृत्वा। अन्तरान्तरयोगेन आहतैः वासोभिः
आच्छाद्य। तदुपरि सलक्षणान् सूत्रवस्त्रादिवेष्टितान् सरत्नहेमकूर्च पिप्पलदलान् कुम्भान्
नव विन्यस्य। तद्वेदिकोत्तरभागे पूर्ववत् धान्यपीठं परिकल्प्य। इष्टकाधिवासार्थं
दर्भानास्तीर्य। पुण्याहं वाचयित्वा। स्नपनार्थं पूर्वोक्तलक्षणयुक्तान् नव कलशान् धान्यपीठे
संस्थाप्य। ब्रह्मादि ईशानान्तं घृतक्षीर दधिगुड पञ्चगव्य फलरस गन्धलोह मधुभिः
संपूर्य। वस्त्रेण आवेष्ट्य। क्रमेण परवासुदेव पुरुष सत्याच्युत अनन्त केशव नारायण
माधव गोविन्दान् आवाह्यअभ्यर्च्य। चतस्रः स्त्रीलिङ्गेष्टकाः समादाय। पुण्याहपुरस्सरं
वासुदेवादीन् आवाह्यअभ्यर्च्य। पीठे संस्थाप्य। पयोव्रतसाम्ना पयसा, मधुवातेति गुडेन,
  

याःफलिनीरिति फलवारिणा, हिरण्यगर्भ मन्त्रेणलोहवारिणा,
दधिक्राविण्णेतिदध्ना,पञ्चवारुणिकेति पञ्चगव्येन,गन्धद्वारेति गन्धांबुना, मधुवातेति
मधुना, घृतस्नाते तिसाम्ना घृतेन च अभिषिच्य। पृथक् पृथक् इष्टकाः सदर्भेन वस्त्रयुग्मेन
संवेष्ट्य। पुण्याहं वाचयित्वा। प्रोक्ष्य। इष्टकाःशयनेअधिवास्य.पूर्वादिद्वारेषु तोरण कुम्भान्
संस्थाप्य। तत्तद्दैवतानि आवाह्यअभ्यर्च्य। पूर्वस्थापित मध्यकुम्भे परमात्मानं
उपकुम्भाष्टके विष्ण्वादीन् आवाह्य अभ्यर्च्य। पायसगुडोदनानि निवेद्य। तस्य पूर्वे उत्तरे
वा कुण्डौ स्थण्डिले वा अग्निमानीय। समिदाज्य चरुभिः यथाविधि च पुनः समिदाज्य
तिल पुष्पैः पृथक् अष्टोत्तरशताहुतीः च नृसूक्तेन चरुणा च हुत्वा। संपाताज्यं पात्रान्तरे
संगृह्य।तेन इष्टकाः स्पर्शमन्त्रेण संस्पृशेत्।
प्रतिसरः
अथ प्रतिसरबन्ध कर्मकरिष्ये इति संकल्प्य। प्रतिसरं पुण्याहजलेन प्रोक्ष्य।हेममयैः
कार्पासमयैः वा प्रतिसरैःअस्त्र मन्त्रेण संबध्य।‘ओं ह्रीं स्वं स्वप्नाधिपतये स्वाहा इति
मन्त्रेण सर्पिषा अष्टोत्तरशताहुतीः हुत्वा। ततः आचार्यः यजमानेन सह दर्भशय्यायां
स्वप्नार्थं शयीत। स्वप्ने शुभे शुभं फलम्। अशुभे शान्ति होमं कृत्वा। विभातायां विभावर्यां
शुभे मुहूर्ते ऋत्विग्भिः सह इष्टकाः समादाय। धामप्रदक्षिणी कृत्य। अन्तः प्रविश्य। क्लृप्त
द्वारदेशस्य दक्षिणतः पादमूले वेदघोषैः वाद्यघोषैः च सह निक्षिपेत्। प्रादक्षिण्येन इन्द्रादि
सोमान्तं इष्टकाः मूलमन्त्रेण श्रियःमन्दिरे श्री सूक्तेन निदध्यात्। दक्षिण पश्चिमयोः मूलं
पूर्वोत्तरयोः अग्रं च कुर्यात्।उपानत् विषमो यथा न भवेत् तथा निदध्यात्। सर्वं कर्मा
पुण्याहपुरस्सरं निदध्यात्। तदा यजमानः गुरवे वस्त्राभरणपूर्वां शतनिष्फपरिमितां
दक्षिणां तदर्धं ऋत्विग्भ्यः तदर्धं परिचारकेभ्यश्च दद्यात्।
  

इति प्रथमेष्टका विधिः नाम चतुर्थः परिच्छेदः


 
पञ्चमः परिच्छेदः
गर्भन्यासः
अथ गर्भन्यासविधिः उच्यते-
पूर्ववत् समध्यवेदिकं कल्पयित्वा। मध्यवेदिकां गोमयेन उपलिप्य। तस्यां
भारचतुष्टयपरिमितया व्रीह्या तदुपरि तदर्धेन तण्डुलेन तदुपरि तदर्धेनतिलेन च
अन्तरान्तरयोगेन वस्त्राच्छादन सहितं स्थण्डिलं कृत्वा। मध्ये वस्त्ररत्नलोह कूर्च
पिप्पलदलपिधानं महाकुम्भं परितः ताम्रजान् अष्टौ कुम्भान् च संस्थाप्य। गन्धोदकैः
आपूर्य। मध्यकुम्भे शङ्ख चक्र गदाखड्ग शार्ङ्ग मुसलानि सौवर्णानि निदाय। तस्मिन्‘‘ओं
ह्रीं वसुधायैनमः’‘ आगच्छ आगच्छ इति वसुधां आवाह्य। गन्धादिभिः अभ्यर्च्य।
कुम्भेषुअष्टासु च इन्द्रादीन् आवाह्य। अभ्यर्च्य। पर्वत ह्रद पुण्यतीर्थ वल्मीक
कर्कटाशयन नदी वृष वृषाणाग्र दन्तीदन्त पयोनिधि हल संस्थिताः मृत्तिकाः दश च
कुमुदारविन्द कशेरूत्पल नीलोत्पलानां पञ्च कन्दान् मनश्शिला हरितालाञ्जन श्याम
सीस सौराष्ट्र रोचन गैरिक पारदान् सप्तधातून्, वज्र वैदूर्य मौक्तिक स्फटिक पुष्यराग
चन्द्रकान्त महानील पद्मराग शङ्काभिधानानि नवरत्नानि, शालि नीवार कङ्गु प्रियङ्गु तिल
माष मुद्ग यव वैणवानि नव बीजानि हिरण्य रजत ताम्रायस त्रपु सीस सौवर्ण कूर्म शङ्क
चक्राणि नवैतानि च संगृह्णीयात्। सौवर्णं राजतं ताम्रमायसं वा गर्भपात्रं अलाभे दारुजं
वा षोडशाङ्गुलायतं द्वादशाष्ट चतुरङ्गुलान्यतम विस्तारं तदर्धोच्छ्रायं पदचतुष्टयेन उपेतं
तत्त्रितयेन वा सापिधानं वृत्तं चतुरर्धं वा तन्मध्य गर्तानां षोडशभिःनवभिर्वा कारयित्वा।
पुण्याहं वाचयित्वा। प्रोक्ष्य। पञ्चगव्येन प्रक्षाल्य। वेदिका संस्थित नवकुम्भ जलैः
  

वेदादिना अभिषिच्य। तस्यामेव वेदिकायां पूर्ववत् स्थण्डिलं कल्पयित्वा। सदर्भवस्त्रेण
तद्भाजनं आवेष्ट्य वेदिका मध्ये निदध्यात्। षोडशसु तद्गर्तेषु सुवर्णादीनि समुद्रमृदन्तानि
द्रव्याणि, तदभावे केवलं सुवर्णं वा विन्यसेत्। नवगर्त विधाने तु नवसुगर्तेषु च समुद्रिक
मृदं पूर्वं आपात्य। प्राचीन गर्ते पर्वतमृदुत्पलकन्द मनश्शिला वज्रशालि हिरण्यानि,
दक्षिणे तीर्थमृद कन्द हरिताल वैदूर्य नीवार राजतानि, पश्चिमे नदीमृत्मरतक
नीलोत्पलकन्दाञ्जनकङ्गु ताम्राणि, उत्तरे ह्रदमृत्कशेरु कन्द पुष्यराग प्रियङ्गु-अयांसि,
आग्नेयेकुलीराशय मृत्सीस स्फटिकमाषत्रपूणि, नैॠते वल्मीकमृत्सौराष्ट्र मौक्तिक
तिलकांस्यानि, मारुते हलमृत्तिका रोचनाचन्द्रकान्त मुद्ग सौवर्ण कूर्मप्रतिकृतीः, ऐशाने
दन्तिदन्तमृत्तिका महानीलगैरिक वेणुधान्य सौवर्ण शङ्खान्, ब्रह्मपदे वृषविषाणाग्र
मृत्तिका पद्मकन्द पद्मराग पारदयव सौवर्ण चक्राणि च मूलमन्त्रेण विन्यस्य। तत्पद्मं
विष्णुगाय र्त्या अभ्यर्च्य। कुण्डेस्थण्डिले वा अग्निं विधिवत् उपसमिध्य। समिद्भिः
सर्पिषा च विष्णुषडक्षरेण अष्टोत्तरशताहुतीः हुत्वा। पात्रान्तरे संपाताज्यं संगृह्य। चरुणा
नृसूक्तेन षोडशाहुतीःहुत्वा। अनन्तरं तिलाज्यमिश्र चरुणा. ‘इन्द्रादि लोकपालेभ्यः,
भुवनेभ्यः, पर्वतेभ्यः, समुद्रेभ्यः, आदित्येभ्यः, वसुभ्यः, मरुद्भ्यःऋषिभ्यः, वेदेभ्यः,
सर्वशास्त्रेभ्यः.पुराणेभ्यः, पातालेभ्यः, दिग्भ्यः,नागेभ्यः, गणेभ्यः, सर्वभूतेभ्यः,
नरेन्द्रेभ्यः, नक्षत्रेभ्यः, सर्वेभ्यः ग्रहेभ्यः इतिप्रणवादि स्वाहान्तं हुत्वा। पूर्वगृहीत
संपाताज्येन गर्भभाजनं‘‘ओं धीं नमः पराय लोहितवर्णाय स्पर्शतन्मात्रात्मने’‘ इति
संसिच्य। पूर्णाहुतिं हुत्वा। रजन्यां सुमुहूर्ते सवेद वाद्यघोषं तद्भाजनमादाय। देवागारं
प्रदक्षिणी कृत्य। गर्भगेहम् प्रविश्य। द्वारस्य अन्तर्मुखस्य दक्षिण पाश्र्वं त्रिभागी कृत्य।
भागद्वयं विसृज्य। द्वारनिकटस्येकभागे पादपाश्र्वे देवानां पट्टिकायां ब्राह्मणःयजमानश्चेत्,
  

राजा चेत् कुमुदोपरि, वैश्यः यदि कुमुदाधः, शूद्रः यदि जगतौ गर्भन्यासं कुर्यात्।
उक्तविपर्ययन्यासे महान् दोषः भवति। तस्मात् स्थानभ्रंशं न कारयेत्।
तदा आचार्यः भूमण्डलं सपर्वत द्वीप समुद्रदिग्गजं शेषफणीन्द्र फणामण्डलस्थितं
ध्यात्वा। द्विभुजं श्यामां सर्वाभरण भूषितां ऋतुस्नातां वसुधां आत्मानमपि
सर्वभूषणभूषितं केशवं ध्यात्वा।गर्भभाजन स्थानगर्तं गोमूत्रेण अनुलिप्य।
सर्वभूतधरे कान्ते पर्वतस्तन मण्डिते।
समुद्रपरिधानीये देवी गर्भं समाश्रय।’‘
 
इति मन्त्रेण तस्मिन् गर्ते गर्भभाजनम् विन्यस्य। विधानेन पिधाय।
सुधया धृढीकृत्य। समन्ततः रक्षां कुर्यात्। तदा गर्भस्य स्खलने दुर्निमित्ते च पूर्ववत्
प्रायश्चित्तं कुर्यात्। गर्भ न्यासम् अकृत्वा ग्रामं प्रासादं वा कुर्यात् यदि, तदा नचिरादेव
उभौक्षयं यायाताम्।तदानीं यजमानः गुरवे पूर्वोक्त संख्यया दक्षिणां दद्यात्।
इति गर्भन्यास विधिःनाम पञ्चमः परिच्छेदः


अथ षष्ठः परिच्छेदः
मूर्धेष्टका (कवाटस्थापन) विधिः उच्यते-
पूर्वे मण्डपं प्रपां वा मध्ये वेदिकाद्वयेन सह कल्पयित्वा। मध्यवेदिकायां पूर्ववत् व्रीहि
शालि तण्डुल तिलैः सवस्त्राच्छादनं स्तण्डिलं कृत्वा। तस्मिन् पूर्वोक्त लक्षणयुतान्
नवकुम्बान् पुण्याहपूर्वकं संस्थाप्य। इष्टकाधिवासार्थं द्वितीय वेदिकायां च स्थण्डिलं
पूर्ववत् कृत्वा। दर्भान् आस्तीर्य। मूर्धेष्टका शुद्ध्यर्थं स्नपनकर्मकरिष्ये। इति संकल्प्य।
पुण्याहं वाचयित्वा। तत्र नवकलशान् सलक्षणान् संस्थाप्य। तान् च पूर्वोक्त
  

विशेषेणविशिष्टान् विधाय।ब्रह्मादि ईशानान्तं पूर्ववत् घृतादि द्रव्यैः आपूर्य। तेषु पूर्ववत्
तदधिदैवतानि आवाह्य अभ्यर्च्य। नपुंसकेष्टकाः चतस्रः संगृह्य। पुण्याहं वाचयित्वा।
प्रोक्ष्य। तेषु वासुदेवादीन् आवाह्य अभ्यर्च्य। पीठे संस्थाप्य। नवकलशैः तत्तन्मन्त्रेण ताः
क्रमेण पृथक् अभिषिच्य। सदर्भ नव वासोभिः पृथक् पृथक् संवेष्ट्य। पुण्याहं वाचयित्वा।
प्रोक्ष्य।पूर्वकृत द्वितीयवेदिका स्थण्डिलोपरि ताः शाययित्वा।पूर्ववत् द्वारतोरण कुम्भान्
संस्थाप्य।तत्तद्दैवतानि आवाह्य अभ्यर्च्य।मध्यवेदिकाकुम्भेषु मध्ये परमात्मानं
उपकुम्भाष्टके विष्ण्वादीन् आवाह्य अभ्यर्च्य।पायसान्नं निवेद्य।वेदिकायां चतसृषु दिक्षु
अधिवासहोमं धाम्नः अष्टसु दिक्षु शान्ति होमं च कृत्वा।संपाताज्यं संगृह्य।तेन
स्पर्शमन्त्रेण ताः स्पृष्ट्वा।पूर्ववत् संकल्पादि पूर्वसूत्रैः प्रतिसरं बध्नीयात्।ततःपञ्चविंशति
कलशस्नपन कर्मकरिष्ये।इति संकल्प्य।पुण्याहं वाचयित्वा।प्रोक्ष्य।पूर्वायतानि दश
उदकायतानि तावन्ति सूत्रानि निपातयेत्।तदाकृते एकोत्तराशीति पदानि भवन्ति।तेषु
मध्यपद नवके कुम्भ नवकं तत्परितः द्वेद्वे पङ्क्तिं वीध्यर्थं परिमाज्र्य। तद्बहिः
पूर्वादिसोमान्तं दिक्षु त्रीणि त्रीणि आग्नेयादीशानान्तं एकैकं कुम्भानां व्रीहि तण्डुल
तिलकृतस्थण्डिलोपरि विन्यस्य। मध्यकुम्भनवकं घृतोष्णोदक नवरत्न फलसप्तलोह
मार्जन गन्धाक्षत यवैःब्रह्मादीशानान्तं क्रमेण आपूर्य।पूर्वादि दिक्स्थमध्य कुम्भान्
चतुरः क्रमेण पाद्य अर्घ्य आचमन पंचगव्यैः आग्नेयादि कोणस्थितान्चतुरः दधिक्षीर मधु
कषायैः पाश्र्वस्थित कुम्भाष्टकं शुद्धोदकेन च आपूर्य।पूर्वोक्त विशेषेण विशिष्टान् आधाय।
द्रव्यकुम्भेषु परवासुदेवादि दामोदरान्तान् शुद्धोदक कुम्भेषु नारायणं च
आवाह्य।अभ्यर्च्य। ततः यजमानः आचार्यः स्नात्वा वस्त्राङ्गुलीयकादिभूषणैः भूषितः
उपोषितः। तत्र दर्भान् आस्तीर्य। परमपुरुषं ध्यायन् शायीत।श्वभूते सुमुहूर्ते कृतकृत्यः
गुरुः इष्टकाः पञ्चविंशतिकलशैः मूलमन्त्रेण महाकुम्भतोयेन च स्नापयित्वा
  

अभ्यर्च्य।मूलेन जलैः वासोभिः वेष्टयित्वा। सर्वालङ्कृतानां ऋत्विजां मूध्र्नि विन्यस्य।
सवेदवाद्यघोषं धामप्रदक्षिणी कृत्य।विमानोपरितले इष्टकाः आरोप्य। पुण्याहं
वाचयित्वा।आचार्यः प्राङ्मुखः हृदयकमले नारायणं ध्यायन् पूर्वादि दिक्रमेण प्रणवेन
इष्टकाः स्थापयेत्। तदानीं पापरोगयुतान् प्रतिलोमजान् अपि बहिः निर्वासयेत्।तदनु
यजमानः शिरसा गुरुं प्रणम्य।गो भू हिरण्य भूषणदासीदास वाहन छत्र चामर
पादुकादीन् महादक्षिणां च दद्यात्।रथकारं च तथा वस्त्रान्नधनदान्यादिभिः तोषयेत्।
अत्र स्थूपिकाकील विधिः उच्यते ।
सौवर्ण राजतं ताम्रं वा दारुजं वा वक्र ग्रन्थि वर्जितं स्थूपिका कीलं मूर्धभूम्यङघ्रि प्रमाण
विस्तारायामं भवेत्।तदग्रमङ्गुली प्रमाणं विमान कण्ठतुल्य प्रमाणं अध्यर्ध प्रमाणं द्विगुण
प्रमाणं वा वृत्तं चतुरश्रं पञ्चाश्रं वा कल्पयेत् । वृत्तायते चतुरश्रायते च विमाने
स्थूपिकाकीलानि युग्मानि स्युः;इतरेषु विमानेषुअयुग्मानि।विंशति यावत्
युग्मानि;एकोनविंशतिं यावत्अयुग्मानि चतुरश्र षडश्राष्टाश्र वृत्तेषु धामसु स्थूपिकाकीलं
एवमेवस्यात् एवं कीलं कृत्वा। आचार्यः तस्य मूर्धेष्टका विधिवत् अधिवास स्नपनादि
आरोपणान्तं सर्वं कर्म कृत्वा।कीलं विमानाग्रं प्रापय्य।
ततः आचार्यः तत्र पुण्याहं वाचयित्वा। स्थूपिका गर्ते नवरत्नानि धातु लोहबीजानि च
यथाविधि निक्षिप्य। स नववस्त्र उत्तरीयः धृत पञ्चाङ्ग भूषणः प्राङ्मुखः मूलमन्त्रेण
स्थूपिका कीलं गर्ते संस्थाप्य। सुधया धृढीकृत्य। ततः विमानदिग्देवता कल्पनं
कुर्यात्।तदनु यजमानः यथावित्तं आचार्यं मूर्तिपानां दक्षिणां दद्यात्
अथ शिखाकुम्भं
  

सौवर्णं राजतं ताम्रं पैत्तलं मृण्मयं वाशिखाकुम्भं वृत्तेधाम्निवृत्तं अश्रे अश्रं संस्थाप्य। तं
नानारत्नैःलोहैः च आपूर्य।तदग्रं मुकुळाकृतिं दीपाकृतिं वा कल्पयित्वा।ततः विकच
कमलाकृतिं कुर्यात्।
अथ विमानदिग्देवता कल्पन विधिः
 विमानस्य ऐन्द्र्यां श्यामलं इन्द्रं रक्तं कुमारं वा दक्षिणस्यां रक्तवर्णं उमापतिं दक्षिणामूर्तिं
वा प्रतीच्यां श्वेतवर्णं नृहरिं श्रीधरं वा उदीच्यां कनकवर्णं ब्रह्माणं धनपतिं वा अथवा पुरुष
सत्य अच्युताऽनन्तान् यद्वा श्याम रक्त कनकश्यामळ वर्णान् वासुदेव संकर्षण प्रद्युम्न
अनिरुद्धान् यदिवा नर नारायण हरि कृष्णान् आहोस्वित् वराह नृसिह्म श्रीधर हयवक्त्रान्
एतान् चतुर्भुजान् शंखचक्रधरान् ब्रह्माद्यान् अपिस्वायुध धरान् ध्रुव भेरेस्थिते स्थितान्
आसीने आसीनान् शयिते तु स्थितान् आसीनान् वा यानारूढे यानारूढान् स्थितान् वा
विश्वरूपे विश्वरूपान् स्थितान् वा चतुर्भुजान् इन्द्रादीन् च सर्वेष्वपि प्राकारेषु आसीनान्
विमाने शैलजे शैलजान् कुर्यात्।तेषां जलाधिवासादि शयनाधि वासान्तं कर्मं यथाविधि
कृत्वा।
सुमुहूर्ते स्वस्व स्थानेषु संस्थाप्य।वर्णलेपनं कुर्यात्।इष्टकामये धाम्नि तु शूलानां
जलाधिवासादि शयनाधिवासान्तं कर्म कृत्वा।स्वस्वस्थानेषु संस्थाप्य।त्रिवस्तुकमयं
कृत्वा।यस्य यः वर्णःविहितः तेनैव रञ्जयेत्।ते सर्वे भित्तिमागस्ताः सपद्मविष्टरः
अर्धचित्राः आभास चित्राः वा कल्पनीयाः।
एक नासायुते धाम्नि दिङ्मूर्तिरपि एकैव । नासिकाहीने तु दिङ्मूर्तिः न इष्यते ।
चतुरश्रायते वृत्ते वृत्तायते च धाम्नि आग्नेयादिषु विदिक्षु क्रमेण वीरसेन सुषेण भद्र
सुभद्रका बाहुभिः चतुर्भिः सद्मधारिणः स्थाप्याः।चतुरश्रायते धाम्नि दक्षिणोत्तरतः
  

नासिका द्वययुते पूर्णपुष्फरौ शंखचक्र धरौ यवनिकां स्पर्शि हस्तौ कल्पनीयौ।विमानस्य
प्रतितलं नृत्यतः सुरविद्याधरान् किन्नरोरगान् वीणा पणवधारिणश्च सर्वत्र भगवदवतारान्
च वृत्तेः उपरि कण्ठस्य अधस्तात् कोणेषु चतुर्षु कनक वर्णं गरुडं सिह्मं वा
कण्ठमात्रोन्नतं पादमात्रोन्नतं अध्यर्धोन्नतं त्रिपादमात्रोन्नतं वा कल्पयेत्।अधस्तात्
विमानाधिष्टाने आग्नेये स्थितं हस्ति वदनं दक्षिणस्यां शोणमीशं ऋषिभिः सेवितं
दक्षिणामूर्तिं वा प्रतीच्यां विश्वरूपं उत्तरे कमलासनं कनक वर्णं ऐशान्यां महिषासुरमर्दिनीं
अथवा पूर्ववत् सर्वाऽपि दिङ्मूर्तिः तस्य अधस्तात् उपपीठेऽपि पूर्ववत् अथवा
तत्कर्तोपेतान् प्रादुर्भावान् प्रकल्पयेत्।
पाषाण शर्करा तक्रसुधया त्रिप्रकारया त्रिफलांम्भोभिःत्रिवारं द्विवारं एकवारं वा पिष्टया
खादिरार्जुन शाल्मली क्षीरशाखिनांकषायांभोभिः तथा कृतया घटे भूयः पिष्टया
माषीयत्वक्वात मिश्रया गुडपाकरसैः सैकतैः च पुनः भृशंकुट्टितयाधाम स्थूल सूक्ष्मरूप
पराख्येन त्रिविधेन क्रमेण लिम्पेत्।एवं कृतेधाम चिरस्थायी भवति।पाषाण
शर्करातक्रसुगन्धचूर्णं द्विगुणवालुकया युक्तं संयक् पिष्ट्वा कुर्यात्।एकवारं क्षुण्णं
स्थूलं,द्विवारं क्षुण्णं सूक्ष्मं,त्रिवारं क्षुण्णं परम्।एवं क्रमेण लेपनक्रमःतद्धाम पञ्चवर्णैः
यथाविधि शोभितं कृत्वा। उपानदादि स्थूप्यन्तं कनकादिभिः भूषयेत्।
अथ कवाट स्थापन विधिः उच्यते
कवाटद्वार शाखाः समानीय।‘‘ओं लां नमः पराय सर्वात्मने’‘इति संक्षाळ्य। पुण्याहं
वाचयित्वा।कवाटद्वारशाखाः चतस्रः पञ्चोपनिषन्मन्त्रेण अद्भिः संप्रोक्ष्य।अहतैः
वासोभिः आच्छाद्य। पूर्ववत् धान्यराशिं कृत्वा।तत्र कवाटद्वार शाखाः
संस्थाप्य।कुम्भस्थापनार्थं च पूर्ववत् स्थण्डिलं कृत्वा।तत्र सरत्नलोह
कूर्चाऽश्वत्थपल्लवापिधानं सकरकं महाकुम्भं मध्ये तत्परितः तादृश विशेषण विशिष्टं
  

कलशाष्टकं च क्रमात् विन्यस्य।द्वारतोरण कुम्भेषु तत्तद्दैवतानि आवाह्य।
अभ्यर्च्य।पुण्याहवाचन पुरस्सरं अधिवासहोमं कृत्वा।प्रभाते गुरुः कवाट
आधारशिलागर्तयोः पूर्ववत् रत्नन्यासं विधाय। तदुपरि कवाटाधारशिले
संस्थाप्य।पुण्याहं वाचयित्वा। आधारशिले पञ्चगव्येन प्रक्षाळ्य।सुलग्ने कवाटे
संस्थाप्य। महाकुम्भस्त कूर्चेन कवाटयोः देवता विन्यासं कारयेत्। तत्क्रमः-
अधश्शाखायां शान्तिं दक्षिण शाखायां वाग्देवीं उपरि श्रियं औत्तर शाखायां रतिं दक्षिण
कवाटे विश्वदृग्भूतनाथौ उत्तरे विश्ववक्र प्रतापवन्तौ च । तत्रस्थाःमत्स्यादि दशमूर्तिः
स्वस्व विद्यया प्रोक्ष्य।वेत्रेषु वेदशास्त्र पुराणानि नाराचेषुत्रयस्त्रिशत् देवताः कीलेषु ऋषीन्
कवाट पट्टिकायां भूतनाथं कवाटकन्द पट्टे विश्वभावनं च प्रणवादि नमोन्तैः स्वस्व मन्त्रैः
महाकुम्भजलैःन्यसेत्। ततःआचार्यादिभ्यः यथाविभवं दक्षिणां दद्यात्।
इति मूर्धेष्टका (कवाटस्थापन) विधिः नाम षष्टः परिच्छेदः


अथ सप्तमः परिच्छेदः
शिला दारु संग्रह विधिः
 
शिलादारु संग्रहविधिः उच्यते
प्रतिमा रत्न लोह शिला मृद्दारु प्रकृति द्रव्य भेदेन षड्विधाः। आद्या माणिख्य रत्नकृत
करचरणाद्यवयवयुता चित्ररूपा अर्धचित्ररूपा वा पटल त्रासादिदोषरहिता समर्चने
सर्वकाम फलप्रदा। लोहजास्तु सुवर्ण रजत ताम्र रूप प्रकृति द्रव्य भेदतःत्रिविधाः।
आद्या सर्व संपत्करी।द्वितीयावित्त यशो विजय विज्ञानकरी।तृतीया ऋद्धि शान्ति
सौभाग्य दायिनी।शिलाश्च सित पाटलपीत कृष्ण भेदेन चतुर्विधाः। आद्या ब्राह्मणस्य,
  

द्वितीया क्षत्रियस्य,तृतीया वैश्यस्य,तुरीया शूद्रस्य। यथाक्रमं मुख्याः उदीरिताः। अथवा
एतः चतस्रः ब्राह्मणस्य।राज्ञः पाटल पीत कृष्णाः वैश्यस्य पीत कृष्णेः, तुरीयस्य
कृष्णमात्रमिति गौणःअयं विधिः।शङ्ख चक्र गदा पद्म शक्ति वन्दनमालिका सिह्म मातङ्ग
सारङ्ग वराहाङ्गुश कुण्डिका श्रीवत्स चामर छत्र ध्वज मत्स्य विहङ्गमतिल तण्डुल
वालुकाः यासु दृश्यन्ते ताः शुभदाः। तासु गर्भवत्यः शिलाः अग्राह्याः। गर्भः तु अन्तः
अवस्थितः दोषाः। माहिषं नवनीतं मेषश्रृङ्गचूर्णं कुरुविन्दचूर्णयुतं गोक्षीरेण सम्पेष्य
शिलायां दारौ च लिम्पेत्। तदा गर्भः दृश्यते। वेदिका मण्डलावर्तकानि यासु
शिथिलःध्वनिः स्पर्शे सत्यौष्ण्यं वा जायते ताः गर्भवत्यः इति मन्तव्यः। तं यत्नेन
निरीक्ष्य उत्पाटयेत्। तस्यां मण्डले पाटले दृष्टे तत्र पाटलाः पांसवः पाटले श्वेतपङ्कजे
श्वेताः पांसवः कपिलवर्णे स्निग्धे च कमठः (कालायाम समये वर्णे स्निग्धे च तत्र कमठः)
कपोत वर्णें गौली मञ्जिष्टवर्णे लोहित दर्दुरः पाण्डर वर्णं शुक्ल दर्दुरः रक्तपीते कच्छपः
कुसुम्भ पीतवर्णं पीतो वर्षाभूः शुक्ल हेम वर्णं क्षुद्र विहङ्गमःकालावससमे वर्णे गोधा
गुडवर्गे पाषाणः मधुवर्णे खद्योतः सारङ्ग वर्णे वृश्चिकः खड्गसन्निभं सलिलं नीले
शलभःरक्षे फेनं कपिले मूषिकः कृष्णे कृष्णाहिः बालतृण सन्निभं मत्स्यःइति एवमादयः
दृश्यन्ते। एवं गर्भं निश्चित्य रथकारः गर्भमुद्धरेत्। मोहात् लोभात् वा सगर्भ शिला
दारुभ्यां प्रतिमाः यदि कृता तदाराजराष्ट्र यजमानानां विनाशःभवति । कृतेगर्भोद्धारे
तद्दोष परिहाराय स्थापकः यथा विधि शांतिं कृत्वा ब्राह्मणान् भोजयित्वा। आशिषः
वाचयित्वा।तेभ्यः दक्षिणां दध्यात्।यदि शीतळशिलया बिंबकरणं तदा तत्र देवस्य
सान्निध्यं अचिरादेव भवति। शिलाच्छेदे तु यच्चिरःप्रदेशे कांस्य घण्टा ध्वनिः मूले च
तालध्वनिः सा पुंशिला । किञ्चित् न्यून ध्वनिः यदि सा स्त्री शिला।नादहीना
नपुंसकशिला भवति। बिंबं पुंशिलया पीठं स्त्रीशिलया कुर्यात्। रत्नन्यासं नपुंसक
  

शिलायां कुर्यात्। श्रियादि देवीनां विदानं तु स्त्रीशिलया पीठं पुम्शिलया च कुर्यात्।
रत्नन्यासं नपुंसक शिलायां कुर्यात्। सौम्या शीतला वैष्णवी महाफलप्रदा। कृष्णा
आग्नेयी रौद्री रोगप्रदा। सौम्याग्नेयो भयात्मिका। ब्राह्मी वृष्टिकरी। धर्मकाले शीतळा
प्रावृषि च उष्णा एकवर्णा शुद्धा शिला प्रतिमाविधौ ग्राह्या। संकीर्णा अनेक
वर्णादुःखदा।प्रतिमा कृते प्रशस्त पर्वतेषु शिला ग्राह्या। तत्रापि भूगतां वर्जयेत्। या
कुसुम वन संकीर्ना जलाशय समावृता सा भूः वारुणी तत्रत्य शिला कामदा। यस्याश्च
उत्तरतः जलं दक्षिणे सस्य समृद्धानि क्षेत्राणि पश्चिमे क्षीर वृक्षः सा भूः माहेन्द्रि। तत्रत्या
पुष्टिदा।बहुफलप्रदा च। यस्यां पूर्वतः दक्षिणतः च खदिर काश्मर्यादि भूरुहाः झिल्लिका
टिट्टिभ गृद्र वराह आपदादयश्च यस्यांअन्तर्गतं अल्पजलं सा आग्नेयी।तत्रत्यास्वल्प
विभवदा। या विभीतका द्विपादापमृगसिंह्ययुत त्यक्तोदका तृणकण्ठ खद्रुम
संवृतसावायवी. तत्रत्याशिला शून्यदा. नदीह्रद तटभूति भूमि चतुष्पाद ग्राम श्मशान
वल्मीक लवणोदकामेध्य भूमिशबर चण्डालाधिष्टित शर्करोसरसंबाध निस्तृण जलवर्जित
देवतालय समीप वातातप तप्तदेशेभ्यः शिलाः न ग्राह्याः।
पुण्यक्षेत्रे शुभे देशे बृह्म वृक्ष निरन्तरे।
कुश काशोदक युते कृष्णमृग निषेविते।
पद्मोत्पलसमाकीर्णे व्रीहिक्षेत्र निरन्तरे।
हिन्ताल पूगपुन्नाग नालिकेर समावृते।
तपस्वि जनसंबद्धे देशे ग्राह्याशिला भवेत्।
 
एवं वर्ज्यावर्ज्य गुणदोषादिकं विदित्वा । देश भू लिङ्ग वर्ण भेदाच जानीयात्। अथ
आचार्यः यजमनानुगुणे शुभे दिने तेन साकं ब्राह्मणान् भोजयित्वा। तेभ्यः दक्षिणां च
वितीर्य। रथकारेण स्थपतिभिः च शिलासंग्रह देशं समासाद्य। तत्र प्रपां कारयित्वा।
  

तत्र विधिवत् अङ्कुरार्पणं च कृत्वा।तन्मध्ये वेदिकामुत्पाद्य।तस्यां व्रीहितण्डुल तिलैः
स्थण्डिलम् च निर्माय। तस्मिन् मध्ये महाकुम्भं, तद्दक्षिणे करकं, तत्परितः कलशाष्टकं
च ससूत्र वस्त्र वेष्टनं संस्थाप्य।‘‘ओं षौं नमः परायपरमेष्ट्यात्मने नमः’‘ इति सरत्न
लोहाश्वत्थपल्लव कूर्चापिधानं विधाय। सहस्रारहुंफट् इति सिद्धार्थान् विकीर्य।पुण्याहं
वाचयित्वाप्रोक्ष्य। चक्रमुद्रां प्रदश्र्य। अञ्जलिना प्रणम्य।मूलमन्त्रेण महाकुम्भे देवं,
करकेसुदर्शनं, उपकुम्भेषु विष्ण्वादि मूर्तींश्च आवाह्य। परमान्नं निवेद्य। चतसृषु दिक्षु
कुण्डेषु स्थण्डिलेषु वा पालाश समित्पुष्प फलाज्यद्रव्यैः पञ्चभिः मूलमन्त्रेण पृथक्
अष्टोत्तरशताहुतीः चरुणा नृसूक्तेन षोडशाहुतीश्च हुत्वा । प्राचीन कुण्डे सर्पिषा
ॐ वनदेवताभ्यः स्वाहा, ओं पर्वतेभ्यः स्वाहा, ओं गरुडशैलेभ्यः स्वाहा,
 ओं तटेभ्यः स्वाहा, ओं श्रृङ्गेभ्यः स्वाहा, आं निर्झरेभ्यः स्वाहा,
ॐ समुद्रेभ्यः स्वाहा, ओं वृक्षेभ्यः स्वाहा, ओं ओषदीभ्यःस्वाहा,
ॐ वनस्पतीभ्यः स्वाहा, ओं जरायुजेभ्यः स्वाहा, ओं अण्डजेभ्यः स्वाहा, ओं
स्वेदजेभ्यः स्वाहा, ओं उद्बीजेभ्यः स्वाहा, ओं सर्वेभ्यः भूतेभ्यः स्वाहा, ओं भूर्भुवस्सुवः
स्वाहा इति हुत्वा । संपाताज्यं संगृह्य । पूर्णाहुतिं च हुत्वा । संपाताज्यम् शिलायां
स्पर्शमन्त्रेण विस्राव्य । पलल रजनी चूर्ण लाजापूप करम्भत्वग्भिः गन्धद्रव्याणि
संयोज्य। ओं सर्वेभ्यो भूतेभ्यः नमः इति भूतबलिंदत्वा । स्वप्नाधिपति मन्त्रेण आज्येन
अष्टोत्तर शताहुतीः हुत्वा । अग्निमुद्वास्य । निशि सवेदवाद्यघोषं आचार्यः उपोषितः
अष्टोत्तरशत संख्यया स्वप्नाधिपति मन्त्रं जपित्वा । दर्भशय्यायां स्वापम् कुर्यात् । ततः
स्वप्ने यदि पर्वतं समुज्ज्वलं पश्येत् । प्रातः एव उत्थाप्य । आचार्यः तत्र शिला संग्रहणं
विधिवत् कुर्यात् । स्वप्नादर्शने दुस्वप्न प्रदर्शने वा शांतिं कुर्यात् । तदनु सुमुहूर्ते शिलां
वीक्ष्य अस्त्रमन्त्रेण संसिद्धान् सिद्धार्थान्।
  

यक्षाः पिशाचाः नागाः च ये अत्र तिष्ठन्ति नित्यशः।
सर्वे ते व्यपगच्छन्तु सन्निधत्तां सदा हरिः।
इति मन्त्रेण तत्र विकीर्य । पुनः अपि ओं लां नमः पराय सर्वात्मने नमः। सर्वभूतेभ्यः
बलिं ददामि इति प्रतिदिशं । बलिंदत्वा । ततः पुण्याहं वाचयित्वा । प्रोक्ष्य । ओं यां
नमः पराय पुरुषात्मने नमः इति शिलां सम्स्पृश्य । मूलमन्त्रेण अर्घ्यं दत्वा ।
अष्टोत्तरशत संख्याकं मूलमन्त्रं जपेत् । प्रासाद प्रतिमानुगुण्येन सूत्रं निपात्य।रथकार
अनुज्ञया स्थपतयः शिलाःच्छिन्द्यः । साशिला पूर्व दक्षिण पश्चिमोत्तर दिक्षु यत्र शिरसा
पतति तद्दिमेण जय शान्ति श्री पुष्टिप्रदा स्यात्। यदि कोणेषु तां वर्जयेत्।
अथवा धाम्नो मुखं यस्यां तस्यांऽ यदि, साच ग्राह्या। एव संवीक्ष्य, शिलां उद्धृत्य, वेदिका
कलशतोयैः। ।पुरुषसूक्तेन अभिषिच्य। करकजलेन परिषिच्य। देवीनां अपि बिम्ब
सिद्ध्यर्थं पूर्ववत् पृथक् कुम्भान् अधिवास्य। मध्यकुम्भे त्रैलोक्यमातरं श्रियं। उप
कुम्भाष्टके वागीश्वरि, क्रिया, कीर्ति, लक्ष्मि, सृष्टि, प्रह्वी, सत्या, ब्राह्माख्याः अष्टौ शक्तीः
वर्धन्यां सुदर्शनं च आवाह्य।पूर्ववत्‘ ‘ओं श्रीं श्रियैस्वाहा’‘इति मन्त्रेण
समिदाज्यचरुभिःहुत्वा। स्त्रीलिङ्गशिलां संगृह्य। कुम्भजलैःश्रीसूक्तेन अभिषिच्य। वर्धनी
जलेन ‘ओं सहस्रार हुं फट् इति परिषिच्य। परिवार देवता कल्पनार्थं एवमेव तत्तन्मन्त्रेण
शिलाः ससंगृह्य। शकटादिकं आरोप्य धाम नयेत्। तदनु रथकारानुज्ञया स्थपतयः
यथाविधि प्रतिकृतिः कुर्युः।
दारु संग्रहः
अथ दारु संग्रहण विधिः उच्यते।
वृश्चिकादिमिथुनान्तेषुमासेषुअष्टेषु दारुसंग्रहणं कुर्यात्। शिलासंग्रहणं तु सर्वदैव।
संग्रहयोग्य वृक्षः तु चंदन अगरु काश्मर्यं हरिचन्दन केसर खदिरकुरवकासन मधुक
  

देवदारु, जाति बिल्व शमीशाक कदम्भ तिलक मेरु फलिनि सुरभि चंपक शिंशुपा
क्षीरिका सालबीजक कुरुविन्द तिनिश स्यंदन चूत तमाल सरळार्जुन कुटज कङ्कोळी
सप्तपर्ण मधुष्टीलूरण निचुळ पुन्नाग खदिरा राजवृक्षादयःप्रशस्ताः। सारवद्भिः सर्वदोष
विवर्जितैः घनोपेतैरेवदारुभिःप्रतिमां कारयेत्।स्वयं शुष्फ दग्ध भग्न हत त्वग्वक्रगुणक्षत
कोटर पक्षिसेवित शाश्वच्चण्डालाद्यधमसेवित प्रतिलोमज सेवितनिवासभूत चैत्यस्य
देवताधिष्टित स्मशानस्थ मार्गस्य देवतालय कूप तटाकसमीपस्थ विकृताद्याः वृक्षाः
वर्जनीयाः।
दारु संग्रहस्य अपि शिलासंग्रहवत् पूर्वं ब्राह्मणभोजनाशीर्वादानुग्रह दक्षिणा वितरण
मृत्संग्रहणाङ्कुरार्पणादिकं कर्म सकलं कृत्वा। आचार्यः दारुसंग्रहदेशं आसाद्य। तत्र
षोडशस्तंभयुता समध्यवेदिकां प्रपां कारयित्वा। मध्यवेदिकायां धान्यराशौ सलक्षणं
सकरकं सकलशाष्टकं महाकुम्भं सगन्धोदकं सूत्रवस्त्रादि वेष्टितं निधाय। परमेष्टिमनुना
सरत्नलोहाश्वत्थ पल्लव कूर्चापिधानं विधाय। पूर्ववदस्त्रमन्त्रेणसिद्धार्थान् विकीर्य। पुण्याहं
वाचयित्वा, प्रोक्ष्य। चक्रमुद्राप्रदश्र्य। अञ्जलिना प्रणम्य। कुम्भ करककलशेषु च
आधारादि पद्मान्तं पीठं परिकल्प्य। तेषु पूर्ववत् देवताः आवाह्यअभ्यर्च्य। परमान्नं
निवेद्य। चतुर्दिुण्डेषु अग्निमुपसमिध्य। वासुदेवादिकान् आवाह्य।अभ्यर्च्य।
पलाशसमित्पुष्पफलाज्यपल्लवैः मूलेन अष्टोत्तरशताहुतीः,चरुणा नृसूक्तेन षोडशाहुतीः
हुत्वा। पूर्ववत् प्राचीनकुण्डे सर्पिषाओं वनदेवताभ्यःस्वाहा, ओं गरुडशैलेभ्यःस्वाहा, ओं
शिलादेवताभ्यः स्वाहा, ओं तटदेवताभ्यः स्वाहा, ओं श्रृ‘देवताभ्यः स्वाहा, ओं
समुद्रेभ्यःस्वाहा, ओं वृक्षेभ्यःस्वाहा, ओं ओषधिभ्यः स्वाहा,ओं वनस्पतीभ्यःस्वाहा, ओं
जरायुजेभ्यः स्वाहा, ओं अण्डजेभ्यःस्वाहा, ओं स्वेदजेभ्यः स्वाहा, ओं उद्बीजेभ्यः
स्वाहा, ओं सर्वेभ्यो भूतेभ्यः स्वाहा’‘इति हुत्वा। उत्थाय। वृक्षमूलं प्रक्षाल्य।
  

नवेनवाससा मूलमन्त्रेण आवेष्ट्य। तेनैव(तैरेव)दर्भैःआच्छाद्य। तदनु केशवादि,
दामोदरान्तं मत्स्यादि कल्क्यान्तं च प्रणवादि स्वाहान्तैः तत्तन्मन्त्रैः हुत्वा। संपाताज्यं
संगृह्य।‘‘ओं भूःस्वाहा,ओं भुवःस्वाहा,ओं सुवःस्वाहा,ओं भूर्भुवस्सुवः स्वाहा’‘इति च
हुत्वा।
ॐ सप्तते अग्ने समिधः सप्तजिह्वाः सप्त ऋषयः सप्तहोत्रास्सप्तधामप्रियाणि।सप्तधात्वा
यजन्ति सप्तयोनीरावृणस्वाघृतेन स्वाहा इति पूर्णाहुतिं हुत्वा। सम्पातेन स्पर्शमन्त्रेण वृक्षं
संस्पृश्य।
कर्मणा पूर्ववृक्षेण स्थावराकारमाश्रिता।
वृक्षोभिः विष्णोःकर्मार्थं सर्वसंपत्करं तव।
स्थावरत्वादितो गच्छ दिव्यरूपमनुत्तमम्।
भुङ्क्ष्व भोगान् विपुलान् वासुदेवप्रसादतः।
हिनस्मिनाहं त्वां वृक्ष किन्तु मुञ्चामि जन्मतः।।
इति पादपं उपस्थाय। रक्षासूत्रेण मूलमन्त्रेणवेष्टयित्वा। पलल रजनीचूर्ण
करम्भलाजचरुगव्यैः‘‘ओंसर्वेभ्यःभूतेभ्यःनमः’‘इति भूतबलिं दत्वा। स्वप्नाधिपति मन्त्रेण
पूर्ववत् हुत्वा।अग्निमुद्वास्य।सवेदवाद्य घोषं स्वप्नार्थं‘
ॐ ह्रीं नमः स्वप्नाधिपतये सुस्वप्नं मम कुरु स्वाहा’‘इति मन्त्रं अष्टोत्तर शतवारम्
जपित्वा। आचार्यः दर्भशय्यायां शायीत। स्वप्ने दारौ प्रज्वलिते प्रातः एव
आचार्यःस्नात्वा। दारुसंग्रहणं विधिवत् कुर्यात्। अदर्शने दुस्वप्न दर्शने चकृत्वा
शान्तिहोमम्। ततः गुरुः सुमुहूर्तेवृक्षंपश्यन् यक्षाः पिशाचाः इति गाथां
उदीर्य।अस्त्रमन्त्रेण सिद्धार्थान् विकीर्य। भूतेभ्यः बलिंदत्वा। पुण्याहं वाचयित्वा। प्रोक्ष्य।
पुरुषमन्त्रेण वृक्षं संस्पृश्य। मूलमन्त्रेण अर्घ्यं प्रदाय। तमेव मनुं अष्टोत्तरशतवारं
  

जप्त्वा।प्राङ्मुखः गुरुः कुठारेण स्वयं वृक्षं छिन्द्यात्। ततः गुर्वनुज्ञया रथकाराः छेदनं
कुर्युः। यदिप्राच्या मुदीच्यां वा पतितः तदा अभ्युदयावहः। ततः गुरुः छिन्नं वृक्षं
हरिस्वरूपं ध्यायन् मूलमन्त्रेण वेदिकासंस्थित कुम्भतोयेन अभिषिच्य। वर्धनीवारिणा
परिषिच्य। आलयं नीत्वा। तेन बालबिम्बादि प्रतिकृतौ कारयेत्।तदनु यजमानः गुरवे
पञ्चा‘भूषणं निष्फशतं च तदर्धं ऋत्विजां च दक्षिणां दद्यात्।
असंस्कृतेन तरुणायथोक्तविधिना यदि।
कुर्यात् मोहात् प्रतिकृतिं तदनर्थाय कल्पते।
यथोक्त विधिना ब्रह्मन् कुर्यादभ्युदयावहम्।
इति शिलादारु संग्रह विधिः नाम सप्तमः परिच्छेदः


अथ अष्टमः परिच्छेदः
प्रतिष्ठाविधिः
प्रतिष्ठाविधिः उच्यते
नूतन प्रतिष्ठा कर्म सिद्ध्यर्थं तत्कर्मारम्भ दिनात् अर्वाक् द्वादशाहे नवाहे सप्तमाहे पञ्चमे
अथ तृतीये अहनि वा पालिका घटिकाशरावेषु यथोक्त विधिना अङ्कुरान् अर्पयेत्
पालिकादि लक्षण तेषां लक्षणानि क्रमेण वक्ष्यन्ते।
पालिकाः तावत् साङ्गुलहस्तोत्सेदाः। षोडशाङ्गुल विस्तारमुखाः सप्ताङ्गुल
बिलयुताःअष्टाङ्गुल पाद पीठ विस्ताराः धुत्तूरकुसुमसमाः अम्भोजसदृक्षमुखाः।
घटिकास्तु द्वाविंशत्यङ्गुलोत्सेधयुताः पञ्चवदनाः मध्ये घटिकाकाराः चतुर्दिक्षु चतुरङ्गुल
विस्तीर्णवदन चतुष्टया मध्यभागविलसत्शडङ्गुल विस्तीर्ण वदनयुताःच ।
शरावास्तुविंशत्यङ्गुलोत्सेधाःद्वादशाङ्गुलविस्ताराश्च। यथाविभवविस्तरं
  

हेमादि लोहजाः मृण्मयाः वा शरावघटपालिकाः संपादनीयाः। मुख्यक्लृप्तौ तेषां
प्रत्येकशः षट्त्रिंशत्यदि तदा अष्टोत्तरशतंभवति। जगन्यक्लृप्तौ पृथक् षोडश यदि तदा
अष्टाचत्वारिंशत् भवति । यद्वा द्वादश द्वादश अष्टौ अष्टौ चत्वारि चत्वारि वा ग्राह्याः।
यद्वा सर्वार्थेऽपि पालिकाः एव षोडशाष्टौ चतस्रः वा ग्राह्याः। ते च दैवे कार्यें सर्वेनापि
प्रकारेण युग्माः एव भवेयुः। मानुषे तु अयुग्माः।
मृत्सङ्ग्रहण विधिः
 तदनु अङ्गुरावापनार्थं शुभे विविक्ते अभिमतेदेशे षोडशस्तंभयुतं चतुर्दिक्चतुद्र्वारं मण्डपं
कल्पयित्वा। तं गोमयेण अनुलिप्या। वन्दन मालिकादर्भमालिका मुक्तादामक्षौमवितान
दीपमालाक्षत सुदाचूर्णाद्यैः अलङ्कृत्य। ततः मृत्स‘◌्रहणार्थं आचार्यः स्नात्वा।
अलङ्कृतः धृतोद्र्वपुण्ड्रः प्रक्षालितपाणिपादः त्रिःआचम्य। खनित्रमानीय अद्भिः प्रक्षाल्य।
नवेन वाससा आच्छाद्या पुष्पैः अलङ्कृत्य स्नातं अलङ्कृतं ऋत्विजमाहूय। तन्मूध्र्नि
निक्षिप्य तं गजस्कन्धं रथमश्वं वा आरोप्य। सध्वजच्छत्रपताकावाद्यवेद घोषं शाकुन
सूक्तपाठकैः साङ्कुरपालिका बहु दीपैः भक्तैः भागवतैः साकं प्राचीमुदीचीं वा दूरात्
मनोहरां दिशं गत्वा।तत्र प्रपां कल्पयित्वा अलङ्कृत्या। तत्र आसने प्राङ्मुखः उपविश्य।
प्रतिष्ठाकर्म सिद्ध्यर्थं मृत्सङ्ग्ररहण कर्म करिष्ये इति स‘ल्प्य। प्राणानायम्य। आत्मशुद्धिं
मानसयागान्तं कृत्वा। गलन्तिकायां
ॐ नमो भगवते सुदर्शनाय चक्रराजाय ज्वालामालिनेहुंफट् स्वाहा आगच्छ आगच्छ
इति आवाह्य अभ्यर्च्य पुण्याहं वाचयित्वा,
तज्ज्लेन सहस्रारहुंफट् इति धरणीं विष्णु गाय र्त्या प्रक्षालितं खनित्रं च संप्रोक्ष्य। तत्र ऊद्र्व
वक्त्रां ऐशाने न्यस्त मौलिकां नैॠते न्यस्त पादां भुवं नव ताल मानेन आलिख्य। दर्भैः
परिस्तीर्य।
  

ॐ भूमिः भूम्ने इति सूक्तेन भुवं कूर्चेन स्पृशन् वराहं ध्यात्वा । अभिमन्त्य तत्र ओं भूं भूम्यै
नमः आगच्छ आगच्छ इति आवाह्या, ओं भां ज्ञानाय हृदयाय नमः इति षडङ्ग न्यासं
कृत्वा कलार(कल्हार) मुद्रां प्रदश्र्य। भूमन्त्रेणैव अघ्र्यादिभिः अभ्यर्च्य। खनित्रं दर्भैः
परिस्तीर्य। तस्मिन् ओं नमो भगवते हुं वराहाय आगच्छ आगच्छ इति आवाह्य ओं ह्रां
ह्रीं इत्यादि षडङ्गन्यासं कृत्वा । वराह मुद्रां प्रदश्र्य। अर्घ्यादिभिः अभ्यर्च्य। पूर्वादि दिक्षु
इन्द्रादीन् आवाह्या अभ्यर्च्य । सर्वेभ्यः निवेद्य । भूम्यां मुख बाहु ऊरुस्थल स्तन जठर
मध्यजघनाङ्क्रिषु सर्वे सवाद्यघोषं वराहमन्त्रेण मृदंखात्वा । लोहजे वेत्रजे वा भाजने
मूलमन्त्रेणसंगृह्य। अस्त्रमन्त्रेणअहतवाससा आच्छाद्या । पश्चात् एवमेव नद्याः
गोकुलाच्च वालुकां गोकरीषं च संगृह्य । पृथक् पृथक् भाजनयोः निक्षिप्य। वासोभ्यां
पिधाय । गुरुः स्वयं भाजनत्रयमपि वहन् गजं वा स्यन्दनं वा आरुह्य। सवेद वाद्यघोषं
ग्रामं प्रदक्षिणी कृत्य। अङ्कुरार्पण मण्डपं प्रविशेत् ।इति श्रीवराहगुरुणा
विरचितायांक्रियाकैरव चंद्रिकायां मृत्संग्रहणविधिः नाम अष्टमः परिच्छेदः


नवमः परिच्छेदः
अङ्कुरार्पण विधिः
अथ अङ्कुरार्पण विधिः उच्यते ।
आचार्यः स्नातः नूतन क्षौमपरिधान उत्तरीयःउष्णीष गन्धमाल्य पवित्र कुण्डल हार
कटकादि भूषा विशेषालङ्कृतः मूर्तिपैरपि एवं विधैःसाकं आदौआजानुवामणिबंधात्
हस्तौच प्रक्षाळ्य। आचम्य। अङ्कुरार्पण मण्डपं पुण्याह जलेनप्रोक्ष्य।
तत्रचन्दनाद्र्राणिसूत्राणि प्रागायतानि द्वादश उदगायतानि पञ्चदशच पातयित्वा। तत्र
  

चतुःपञ्चाशदुत्तर शतपदेषु ब्रह्मादीशानान्तं द्वादश द्वादश पदानि पालिका घटिका शराव
स्थापनार्थं संगृह्य। शेषाणि षट्चत्वारिशत्पदानि संमृज्य।
ब्रह्मेन्द्र वरुणस्तानेषु घटिकाः.आग्नेय यम नैऋत स्थानेषु पालिकाः,मारुत सौम्य रौद्रेषु
शरावान् च पृथक् पृथक् एवं अष्टोत्तर शत संख्यया स्थापयेत्।
प्रत्येकं षोडशग्रहणविधाने तु प्रागायतानि नव उदगायतानि द्वादश सूत्राणि निपात्य।
तेषु अष्टोत्तर अशीति पदेषु पूर्वादि पश्चिमांतेषु स्थानेषु चत्वारि चत्वारि पदानि एवं षोडश
आग्नेयादि नैऋतांतेषु चतुर्षुस्थानेषु चत्वारि चत्वरि एवंच षोडश रौद्रादि वायव्यांतेषु
चतुर्षु च चत्वारि चत्वारि एवमपि षोडश एवं अष्टचत्वारिंशत पदानि
पात्रस्थापनार्थंसंगृह्य। शेषाणि चत्वारिंशत्पदानि संमृज्य । पूर्वोक्त विधिना पात्राणि
स्थापयेत्। त्रिविधपात्राणां प्रत्येकं द्वादश ग्रहण विधौ तु प्रागायतनि नव उदगायतानि च
नवसूत्राणि निपात्य । तेषु चतुष्षष्टि पदेषु बाह्यतः द्वे द्वे पङ्क्ती विभज्य। अन्तरान्तरा एकां
पङ्क्तिं विसृज्य च ।
ऐशानेन्द्राग्नेय नैऋत वारुण मारुत भागेषु चत्वारि चत्वारि पात्रानि स्थापयेत्। द्वादश
पात्रस्थापन विधाने तु प्रागायतानि चत्वारि उदगायतानि पञ्च सूत्राणि विधज्य । द्वादश
पदेषु चतस्रः पालिकाः चतस्रःघटिकाः चतस्रः शरावाश्च स्थाप्याः । अथवा परितः
सोमकुम्भं षोड्श अष्टौ चतस्रः वा पालिकाः एव स्थाप्यः । एवं कृत्वा पालिकादीनि
पात्राणि विष्णुगाय र्त्या प्रक्षाल्य।
तेषां कण्ठेषु सहदेवी दूर्वाऽश्वत्थ पल्लवानि बध्वा । कुश काशतृणैः बिलमूलानि
अवरुध्य। तानि प्रथमं मृद्भिः,अनन्तरं वालुकाभिः तदनु करीष चूर्णैश्च पूरयित्वा। तेषु
कूर्चं निधाय। पालिकादि स्थानेषु प्रतिपदं शालि तण्डुल तिलैः क्रमेण आढक तदध
प्रस्थपरिमितैः वृत्तं चतुरश्रं वा
  

ॐ रां नमः पराय विश्वात्मने नमः इति पीठंकृत्वा । तदुपरि पद्ममालिख्य । प्राङ्मुखः
उदङ्मुखः वा ओं षौं नमः पराय परमेष्ट्यात्मने नमः
इतिवारुण्यादि ऐन्द्रान्तं घटिका. ओं यां नमः पराय पुरुषात्मने नमः इति नैऋत्यादि
आग्नेयान्तं पालिकाः, ओं रां नमःपराय विश्वात्मने नमः इति वायव्यादि ऐशानान्तं
शरावान् अपिसंस्थाप्य।
ततः दर्भैः परिस्तीर्य। सोमकुम्भमुद्धृत्य।
इन्द्रं नत्वावाजिन मां बृहतायां तृषुभाजनो योगानां ब्राह्मणादीनां इति मन्त्रेण
तन्तूनावेष्टितानां अन्तरालं यवान्तरं अर्धाङ्गुलान्तरं वा यथाभवेत् । तथा तन्तुना
आवेष्ट्य। पालिकादीनां पश्चिमे प्रदेशे धान्यपीठं व्रीहि तण्डुल तिलैः कल्पयित्वा। तत्र
पद्मम् विलिख्य। तस्मिन् सोमकुम्भंविन्यस्य। पालिकादीनिप्रत्यग्रैःवासोभिः अशक्तौ
प्रतिव्यूहं वा सोमकुंभं च नवाभ्यांवासोभ्यं युवासुवासा इति मन्त्रैः संवेष्ट्य। तं गन्धोदकेन
आपूर्य। सरत्नकूर्चापिधानाश्वत्थपल्लवं कृत्वा। दर्भैः परिस्तीर्य।
नीवार शालि मुद्ग माष प्रियङ्गु यव तिल गोधूमादीन् याज्ञिकान् धान्यजातान् नूतने पात्रे
निक्षिप्य। तत् परिचारक मूर्धनि निधाय। स तूर्यघोषं धाम प्रदक्षिणीकृत्य। यागमण्डपं
प्रविश्य। पालिकादीनां पूर्वभागे द्रोण शाल्यादि धान्य कल्पित पीठे विन्यस्य। तानि
बीजानि गोक्षीरैः विष्णु गाय र्त्या प्रक्षळ्य । दर्भैः परिस्तीर्य।
  ओं यवाधि दैवताय ब्रह्मणे नमः। ओं सर्षपाधि दैवतायरुद्राय नमः। ओं
प्रियङ्वाधि दैवताय सुब्रह्मण्याय नमः। ओं निष्पावाधि दैवताय वायवे नमः। ओं मुद्गाधि
दैवताय विष्णवे नमः। ओं शाल्याधि दैवतायै श्रियै नमः। ओं गोधूमाधि दैवताय यमाय
नमः। ओं माषाधि दैवताय यक्षाय नमः। ओं तिलाधि दैवताय जलादिपाय नमः। ओं
  

वेणुधान्याधि दैवताय विनायकाय नमः। इति तत्तद्बीजाधिदैवतानि आवाह्यअभ्यर्च्य।
नवेन वाससा आच्छाद्य।
सोमकुम्भे च आधारादि पद्मान्तं पीठं परिकल्प्य। अभ्यर्च्य तस्मिन्, सों सोमाय नमः
आगच्छ, आगच्छ इति सोममावाह्य। ओें सा इत्यादि षडङ्गन्यासं कृत्वा।
अर्घ्यादिभिः अभ्यर्च्य।पुनः पुण्याहं वाचयित्वा।प्रोक्ष्य।बहिः शङ्कभेर्यादि वाद्यानि
आघोष्य।
घटिकासु ओं कं ब्रह्मणे नमः आगच्छ आगच्छ इति ब्रह्माणं,
पालिकासु ओं अं विष्णवे नमः आगच्छा आगच्छ इति विष्णुं च,
शरावेषु ओं ईशानाय नमः आगच्छा आगच्छेति ईशानं आवाह्य अभ्यर्च्य।
द्वारावरण ध्वजकुम्भ देवता पूजनं करिष्ये,इति संकल्प्य,
पूर्वादि द्वारेषु चतुर्षु धान्यपीठं परिकल्प्य।तत्तत्तोरण ध्वजान् इदं विष्णु इति कुम्भानपि
संस्थाप्य।
पूर्वे ऋग्रूपे सुशोभन नाम्नि अश्वत्थ तोरणे ओं लं इन्द्राय नमः तत्पाश्र्वस्थित रक्त
ध्वजयोः, कुमुदाक्षाय नमः तत्र कुम्भयोः प्रवाळं, पद्मरागं च क्रमेण निक्षिप्य। तयोः ओं
पूर्णाय नमः, ओं पुष्फराय नमःइत्यावाह्य, गन्धादिभिः अभ्यर्च्य।
दक्षिणे यजुरूपे सुभद्र नाम्नि औदुंबर तोरणे ओं यमाय नमः, तत्पाश्र्वस्थित
पीत ध्वजयोः ओं पुण्डरीकाय नमः, ओं वामनाय नमः, तत्र कुम्भयोः क्रमेण वज्र
वैडूर्ययोः ओं आनंदाय नमः, ओं नन्दाय नमः, इत्यावाह्य अभ्यर्च्य।
पश्चिमे साम रूपे सुबन्ध नाम्नि न्यग्रोधतोरणे ओं वं वरुणाय नमः, तत्पाश्र्वस्थित
नीलध्वजयोः ओं शंकु कर्णाय नमः, ओं सर्व नेत्राय नमः, तत्र कुम्भयोः क्रमेण
सपुष्यराग नीलयोः‘‘ओं वीरसेनाय नमः, ओं सुषेणाय नमः, इत्यावाह्य अभ्यर्च्य ।
  

उत्तरे अथर्वरूपे सुहोत्रनाम्नि प्लक्षतोरणे ओं सं सोमाय नमः, तत्पाश्र्वस्थित
पाण्डरध्वजयोः ओं सुमुखाय नमः, ओं सुप्रतिष्ठाय नमः, तत्र कुम्भयोः क्रमेण समुक्ता
स्फटिकयोः ओं सम्भवाय नमः, ओं प्रभवाय नमः, इत्यावाह्य अभ्यर्च्य। सर्वान् पिधाय।
द्वारतोरणकुम्भान् प्रत्येकं नवैः वासोभिः आच्छाद्य।पालिकाधि देवताः सोमकुम्भं च
पुनः अपि संपूज्य। पायसान्नं शुद्धान्नम् वा निवेद्य। ततः कुण्ड स्थण्डिलं वा विधिवत्
अग्निप्रतिष्ठादि अग्नि मुखान्तं कृत्वा। अग्निमध्ये आधारादि पद्मान्तं पीठं होमेन परिकल्प्य
। तस्मिन् पूर्ववत् सोममावाह्य। ध्यात्वा अभ्यर्च्य। अर्घ्यादि नैवेद्यान्तंघृतेन दत्वा ।
तत्तन्मन्त्रेण सर्पिषा अष्टोत्तरशताहुतिः, पलाश खादिर अश्वत्थबिल्व समिद्भिःमूलमन्त्रेण
अष्टोत्तरशताहुतीः, नृसूक्तेन चरुणाषोडशाहुतीश्च, पुनः सर्पिषा सोममन्त्रेण अष्टोत्तर
शताहुतीश्च हुत्वा। संपदाज्यं संगृह्य। स्पर्शमन्त्रेण हस्ताभ्यांपालिकादि पात्रेषु अवशिष्टं
बीजपात्रे च निक्षिप्य।पूर्णाहुतिं कृत्वा।
अग्निस्थं सोममुद्वास्य । सोममन्त्रं शतवारं जप्त्वा । पुण्याहं वाचयित्वा, प्रोक्ष्य। आचार्यः
स्वस्थमनाः सुमुहूर्ते सदस्यैः वैष्णवैः अनुज्ञातः द्वादशाक्षर विद्यया पालिकादि पात्रेषु
बीजावापं कृत्वा । मूर्द्धानं दिवो अरतिं’ इति मन्त्रेण मृद्भिः आच्छाद्य।
इमं मे इति आरभ्य प्रमोषीः इत्यंतेन सोमकुम्भ जलेन संसिच्य।
पिधानैःआच्छाद्य। रक्षिभ्यः कुमुदादिभ्यः बलिंदध्यात्।
एवं यावत्कर्मावसानं अहर्निशं सोमकुम्भ पूजन परमान्ननिवेदन। दीपारोपण
बलिप्रदानानि कुर्वन् हरिद्रा जलेन अङ्कुराभिवृद्ध्यर्थं संसिच्य।सुगुप्ते स्थले संस्थाप्य।
रक्षेत्। यजमानःगुरूण् ऋत्विजश्च वित्त तांबूल फलादिभिः तोषयेत्।
इति क्रियाकैरवचन्द्रिकायां अङ्कुरार्पण विधिः नाम नवमः परिच्छेदः।
 
  


दशमः परिच्छेदः
प्रतिष्ठा उपकरण विधिः
 
अथ तावत् प्रतिष्ठा उपकरण विधिः उच्यते।
तत्र कुण्ड लक्षणम्-प्रासादस्य अग्रभागे प्रथमद्वितीय तृतीयावरणेषु योग्यावकाशेषु एतेषु
अष्टासु आशासु अभिमते देशे दशभिःहस्तैः विस्तीर्णायामयुतम् चतुर्दिक्षु चतुद्र्वार
मण्डपं कल्पयित्वा। तन्मध्ये मानांतराङ्गुल वशेन पञ्चहस्तायामविस्तारां
एकहस्तोच्छ्रिताम् चतुरश्रां वेदिमिष्टकया कल्पयित्वा।
तस्याः त्रितलात् बहिः पूर्वदेशे मुष्ट्यङ्गुलवशेन चतुर्विंशत्यङ्गुलायाम विस्तारं चतुरश्रं
विंशत्यङ्गुल प्रकृतिमानं भूतलं खात्वा। खातभूतलात् बहिः द्व्यङ्गुलं विसृज्य। ततः
तालमानां चतुरङ्गुलविस्तारां सात्विकीं प्रथम मेखलां, तत्परितः अष्टाङ्गुलमानां चतुरङ्गुल
विस्तारां राजसीं द्वितीय मेखलां, तत्परितः चतुरङ्गुलमुन्नतां तावत् विस्तारां तामसीं
तृतीय मेखलां च इति क्रमेण यथाविधि इष्ठकयैव कुण्डानुगुण्येन मेखलात्रयं कुर्यात्।
वेदिकायाः च आग्नेये पूर्ववत् चतुर्विंशत्यङ्गुलायाम विस्तारं सूत्रं चतुरश्रं निपात्य।
पश्चिमभागागमे नैऋतवायव्य कोणाभ्यां पञ्च पञ्च अङ्गुलीः हित्वा। ततः प्रतीच्यागमे
शङ्गुमारभ्य दक्षिणोत्तर सूत्रभ्रमणं कृत्वा। ततः पूर्वागम शङ्कुपर्यन्तं दक्षिणोत्तर सूत्रे
निपात्य। योन्याकारं कृत्वा। शेषं संमार्ज्य। विंशत्यङ्कुल प्रकृत्युच्छ्रायं खात्वा। तस्मात्
द्वयङ्गुलं विसृज्य।पूर्ववत् कुण्डानुगुण्येन मेखलात्रयं कुर्यात्। बहिः शङ्कुं संस्थाप्य।
अष्टादशाङ्गुल सूत्रं शङ्कोः पूर्वतःपश्चिमतः च तथा निपात्य।अष्टादशाङ्गुलं सूत्रं पूर्वमारभ्य
पश्चिमान्तं भ्रामयेत्। तदा चापाकारंभवति।
  

प्रकृतिं तथैव विंशत्यङ्गुलं खात्वा।तस्मात् द्व्यङ्गुलं विसृज्य।
पूर्ववत् कुण्डानुगुण्येन मेखलात्रयं कुर्यात्। तस्याः नैॠते शङ्कुंसंस्थाप्य। भुवन
संख्याङ्गुल वशेन सूत्रं परिभ्राम्य। वृत्तं कृत्वा। वृत्तं चतुर्विंशत्यङ्गुल वशेन षोढा विभज्य।
शङ्कुं निधाय। पूर्व पश्चिम शङ्कुभ्यां सूत्रं निपातयेत्। एवमेव सूत्रनिपाते कृते,अष्टाङ्गुल
निरन्तरं षडश्र कुण्डं भवति।तथा विंशत्यङ्गुलं प्रकृतिं खात्वा। खातभूतलात् द्व्यङ्गुलं
हित्वा। कुण्ड वशेन मेखलात्रयं कुर्यात्। तस्मात् पश्चिमे तालत्रयात् बहिः शङ्कुंसंस्थाप्य।
पक्षाङ्गुल वशेन सूत्रवत्र्मना चक्रवत् वृत्तं कृत्वा। पूर्ववत् प्रकृतिं कुण्डानुगुण्येन
मेखलात्रयं च कुर्यात्।
अस्य मेखलास्थाने द्वादश अष्टौ वा दलानि कल्पितानि चेत् पद्म कुण्डं भवति।
मेखलास्थाने अराणि कल्पितानि चेत् चक्रकुण्डं भवति। तस्याः च मारुते शङ्कुंसंस्थाप्य।
सार्धगोलकाचलाङ्गुल सूत्रपातेन वृत्तं कृत्वा। सूत्रागमं पञ्चधा विभज्य।शङ्कुं निधाय।
पञ्चकोण वशेन सूत्राणि निपात्य।
कुण्डानुगुण्येन प्रकृतिं मेखलात्रयं च कुर्यात्। तस्याः च उत्तरे तालत्रयात्
बहिःषण्णवत्यङ्गुलमानं वेदनाग वशेनविभज्य। तन्मानं त्रिकोणं यथासूत्रं निपात्य। तथा
विंशत्यङ्गुलंखात्वा। कुण्डानुगुण्येन पूर्ववत् मेखलात्रयं कुर्यात्। तस्याश्च ऐशाने शङ्कुं
निधाय। सैकाग्नि वेदाङ्गुलवशेन सूत्रवत्र्मना वृत्तं कृत्वा। सूत्राङ्गुलं कलशाङ्गुल वशेन
अष्टधा विभज्य। शङ्कुं निधाय।कोणमध्यं यथा षडङ्गुलं भवति तथा अष्ट सूत्रं निपात्य।
पूर्ववत् कुण्डानुगुण्येन मेखलात्रयं च कुर्यात्। कुण्डानां मध्ये अष्टदलपद्मं कुण्डानां
पश्चिमायां तलोत्सेध मेखलोपरि पक्षाङ्गुलायामं अङ्गुलैः दशभिः षड्भिःद्व्यङ्गुलेन एकेन
अङ्गुलेन वा मूलमारभ्य। क्रमेण विस्तीर्णां निम्नां मेखलाग्रे चतुरङ्गुलायत त्र्यङ्गुलनहन
षडङ्गुल मुखयुतां नालवत्तया काहलाकारवत् अश्वत्थ पत्ररूपेण योनिं कुर्यात्। पद्म
  

कुण्डे पद्मं,योनिकुण्डे योनिं च वर्जयेत्। होता चेत् उदङ्मुखःयमस्य दिशि वा योनिं
कल्पयेत्। मोक्षार्थी चेत् योनिं विना कुण्डं कुर्यात्।
यावत् प्रमाणा रज्जुः स्यात् तावानेव आगमो भवेत्।
आगमार्धं तु शङ्कुः स्यात् अन्तरर्थे निरञ्जनम्।
षण्णवत्यङ्गुलायामा सर्व कुण्डस्य कर्णिका।
  इति वचन लक्षणानि सम्यक् ज्ञेयानि। एकमूर्ति विधाने अयुग्मानि एव, अथवा
युग्मानि कुण्डानि कारयेत्। मध्यवेदिकायाः पूर्वे दक्षिणे वा भागे सलक्षणं
शयनाधिवासार्थं पूर्ववत् वेदिकां कारयेत्।
अथ तावत् स्रुक्स्रुव विधिः उच्यते
सुवर्णादिलोहैः वा पालाशादि यज्ञवृक्षैः वा स्रुक् स्रुवौ कारयेत्। स्रुक्दण्डं तु बाहुदण्ड
समायतं सांगुलद्वितालायतं वा सर्वतः षडङ्गुल विस्तारं कृत्वा। तं गुणसंख्यया विभज्य।
उपर्यंशं द्वेधाविभज्य। तयोः उपर्यंशं च भूतांशं कृत्वा। तत्र आद्यमंशं हित्वा।
उपरिस्थितवेदांशैः वराहवदनवत् अग्रं एकांगुलानाहं विधाय। अधोविसृष्टैकांशेन सह
स्वतृतीयांशावशिष्टार्ध भागेन संयोजिते, तदा विस्तारायाम समं चतुरश्रं षडंगुलमितं
भवति। एवं गलं कल्पयित्वा। तदधः नालं द्व्यंगुलविस्तारं, तत्रपाश्र्वयोःअर्धांगुलायाम
विस्तार निम्नयुतं कृत्वा। अन्यत् सूत्रपातात् बहिः स्थितं शेषेण हित्वा।
गलाधोवशिष्टांशं वृत्तं चतुरश्रंवा कल्पयित्वा। गलमध्ये तृतीयभाग संमितं
विस्तारायामसमं गाध सदृशं गर्तं वृत्तं वा कृत्य।गर्त बाह्यं त्रेधा विधाय। प्रथमवलये
दलाष्टकं कृत्वा। मध्यांशं चतुर्धा विभज्य। आद्यं नाभिमण्डलं तस्य बहिः नेमिमण्डलस्य
मध्ये, मण्डलद्वयं च एकी कृत्य। तस्मिन् षट् वा दश वा इन्दीवरदलवत् अराणि
कल्पयित्वा। अवशिष्टेन एकभागेन नेमि मण्डलं निर्माय।तत्कोणेषु चतुर्षु शंख़ान् कृत्वा।
  

बहिः मेखलां यवोन्नतां कृत्वा। चतुर्यवप्रमाणेन गर्तं आरभ्य।अग्रान्तं सर्पिषः विवरं
कृत्वा। तत्पृष्ठ भागं कमठपृष्ठसदृशं कूर्मपृष्ठसदृशंवा चतुरश्रं विधाय। आधारंविना अन्त्यं
वलयत्रयाङ्कितं वृत्तं चतुरश्रं अष्टाश्रं वा कृत्वा।तदग्रं च यथापुरं कमलाकारं कल्पयेत्।
स्रुवस्य तु दण्डं हस्तमानं कृत्वा। तदग्रं द्व्यंगुल विस्तारं तन्मध्ये नासिकापुटवत्
अर्धांगुलविस्तारायामं वृत्तं गर्तद्वयमापाद्य। तदधः गर्तद्वयस्य मध्ये रेखिकां यवोन्नतां
तयोःपरितश्च अवशिष्टेन एकांगुलेन गलं च विधाय।परिशिष्टेन गोलांगुलाकृतिं कृत्वा।
मूलं द्व्यंगुल विस्तीर्णं कारयेत्।
मण्डपस्य द्वाराणां चतुष्टयेपि प्रागादिक्रमेण अश्वत्थ, उदुम्बर,प्लक्ष,वटवृक्षैः तेषु एकेन वा
यथोक्तालाभे चन्दनद्रुमेण वा तोरणानि कुर्यात्। तत्पादान् सप्तभिः पञ्चभिः वा
अयुग्मैःहस्तैः आयतान् द्वाविंशांगुलघनान् वृत्तान् चतुरश्रान् वा कृत्वा।
तदुपरि तदर्धेन आयताः तादृशानाहयुताः तथाविधाश्च पट्टिकाः कल्पयित्वा। प्रति पट्टिकं
द्वितालमानानि अष्टांगुलानाहयुतानि त्रीणि त्रीणि कीलानि च निधाय। तोरणानां पादेषु
पूर्णकुम्भ दक्षिणावर्तशङ्ख चक्र ध्वज पटह कार्मुकनागान् च चित्रयेत्।
अथ अष्ट मङ्गल विधिः
यथाविभवं हेमादि लोहजानि वा याज्ञीय वृक्षजानि वा क्रमेण द्वाविंशाङ्गुल तदद्र्ध
द्वयङ्गुलैः आयामविस्तृति घनयुतानि सपीठानि फलकानि कल्पयित्वा।तेषु श्रीवत्स
पूर्णकुम्भ भेरी दर्पणमण्डल मत्स्ययुग्म शङ्खचक्राणि, पद्मासनस्थितं गरुडं
च,द्वाविंशाङ्गुल मानेन कल्पयित्वा। तेषां पाश्र्वयोः मूर्धनि च चामर प्रदीप छत्राणि
लाञ्छयेत्। बिंबप्रमाणानुगुण्येन औदुंबरस्नानपीठं नयनोन्मीलनपीठ
जलाधिवासनासनादीन् च आचार्य मूर्तिपासन पादुकाः च उपकुम्भ कलश करकमणिक
दीपस्तम्भ घृतादि स्नपनद्रव्य चन्दनादि सुगन्ध विविधवस्तु समित् पुष्प कुश विविध
  

धान्य सुवर्णादिलोह रत्न सवत्सगोप्रभृतीन् अन्यान् च संभारान् पूर्वं संपाद्य। तदनु
आचार्यः यथाविधि प्रतिष्ठामारभेत्।
इति क्रियाकैरवचन्द्रिकायां प्रतिष्ठा उपकरण विधिःनाम
दशमः परिच्छेदः


क्रियाकैरवचन्द्रिकायां एकादश परिच्छेदः
छायाधिवास जलाधिवासविधिः
पूर्वं शिल्पिभिः शास्त्रोक्त वत्र्मना बिम्बे मान-उन्मान प्रमाण-परिमाण-उपमान-
लम्बमान-अभिध लक्षणयुते निर्मिते, स्थूलसूक्ष्मेषु प्रतिंमाङ्गेषु सुकृतेषु, कर्मार्चा
पीठिकायां रत्नादि न्यासं कृत्वा। शिल्पिनैव नयनेच उन्मीलिते,ततः गुरुः यजमानेन सह
रथकारं शिल्पिनः च आभरण वस्त्राद्यैः वस्तुभिः तोषयेत्। तेषु च निर्गतेषु
सदनमन्तर्बहिः च मार्जनालेपनादिभिः संशोध्य, दर्भपुञ्जैःप्रज्वालितैः पर्यग्निकरणं च
कृत्वा। प्राकार गोपुर मण्डपानि च मार्जनालेपनादिभिः संशोध्य। पञ्चगव्यैः पवमानादि
सूक्तैः सम्प्रोक्ष्य। गोघृतेन सर्वत बहून् दीपान् उद्दीप्य। कालागरुप्रभृत धूपद्रव्यैः सर्वतः
धूपयित्वा। दूर्वाक्षत सुधाचूर्णैः धाम सलंकृत्य। ततः अपराङ्घ समये, गुरु
बिम्बस्य‘‘मानादिन्यूनातिरेक शान्त्यर्थं शान्ति होमं करिष्ये’‘इति संकल्प्य।पुण्याहम
वाचयित्वा। विधिवत् अग्निं संस्कृत्य। साक्षतैः शमीपल्लवैः‘‘ ओंभूस्वाहा’‘
‘‘ओंभुवस्वाहा’‘ , ‘‘ओं सुवःस्वाहा’‘,‘‘ओं महःस्वाहा’‘,‘‘ओं जनःस्वाहा’‘,‘‘ओं
तपःस्वाहा’‘,‘‘ओं सत्यंस्वाहा’‘,इति प्रत्येकं शतमाहुतीः चरुणा नृसूक्तेन षोडशाहुतीः
च,‘‘ओं षौं नमः परायपरमेष्ट्यात्मने स्वाहा’‘,‘‘ओं यां नमः परायपुरुषात्मने
  

स्वाहा’‘,‘‘ओं रां नमः पराय विश्वात्मने स्वाहा’‘,‘‘ओं वां नमः परायनिवृत्यात्मने
स्वाहा’‘,‘‘ओं लांनमः परायसर्वात्मने स्वाहा’‘,इतिप्रतिमासन्निधौ हुत्वा तदनु
नमस्तुभ्यं भगवते जात वेदस्वरूपिणे।
नारायणाय हव्यस्य कव्यस्य च यथातथम्।
भोक्त्रे यष्टव्यदेवानां आत्मने परमात्मने।
सन्निधत्स्व चिरं देव प्रतिमायां हिताय नः।
इति मन्त्रेण,अधोक्षजमग्निस्थं देवं देवं प्राञ्जलिः सन् उपस्थाय। अग्निं प्रणिपत्य ।
सदर्भेन नवेन वाससा मूलमन्त्रेण प्रतिमामाच्छाद्य।तेनैव उत्तरीयं च वितीर्य। विष्णु गाय
र्त्या अघ्र्य पाद्याचमनीय गन्ध पुष्पधूपदीपाद्यैः अभ्यर्च्य।श्री भूम्योस्तु ओं श्रीं श्रियै नमः,
ॐ ह्रीं भूम्यै नमः इति तत्तन्मन्त्रैः वस्त्राच्छादनादि दीपान्तैः अभ्यर्च्य । ब्रह्मादि
परिवाराणां च स्वस्व मन्त्रेण तथा कृत्वा। छायाधिवास सिद्ध्यर्थं रक्षा बन्धन
कर्मकरिष्ये, इति सङ्कल्प्य । सुवर्णादि पात्रे, खारिद्रोण तण्दुलवति षष्ट्युत्तरक्रमुक
तच्चतुर्गुण नागवाल्लीदल तदर्ध कदल्यादि फलयुते, निष्फप्रमाण स्वर्ण सूत्राणि यद्वा
सप्तभिः,पञ्चभिः वा तन्तुभिः कृतानि क्षौममयानि कार्पासमयानि वा सूत्राणि निधाय।
अहतेन वाससा आच्छाद्य।
तत् परिचारक मूध्र्नि विन्यस्य। चामर व्यजनछत्रनृत्तगीत बृहद्दीपैः साकम्
धामावरणानि ग्रामं वा प्रदक्षिणी कृत्य। बिम्बस्य पुरतः चतुरश्रं भूमिं गोमयेन
अनुलिप्य। तत्र धान्यभारेण पीठं कृत्वा।तदुपरि तत्पात्रं निधाय। पुण्याहं वाचयित्वा।
प्रोक्ष्य। सहस्रार हुं फट् इति मन्त्रेण सूत्राणि सप्तवारमभि मन्त्य। संपूज्य। बिंबं सम्पूज्य।
हस्तयोः अङ्गुष्टानामिकाभ्यां तानि गृहीत्वा। त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनं।
  

उर्वारुकमिव बन्धनात् मृत्योः मुक्षीय मामृता इति मन्त्रेण चन्दनक्षोदेन(घृष्ट
चन्दनेन)अनुलिप्य।
 विश्वेत्ताते सवनेषु प्रवाच्या याचकर्थमघवन्निन्द्रसुन्वते पारावतं यत् पुरसंभृतं
वश्वपावृणोच्छरभाय ऋषि बन्धवे इति मन्त्रेण मूलमन्त्रेणवा देवस्य दक्षिणे, देव्याः वामे च
हस्ते बद्ध्वा। अस्त्रमन्त्रं शतवारंजप्त्वा । यो ब्रह्माब्रह्मण उज्जहार इति घृतसूक्तेन अभिमन्त्य
। बृहत्सामक्षत्रभृत् eइति धूपपात्र भस्मना रक्षां कृत्वा। अर्घ्यादिभिः देव देव्यौ च
अभ्यर्च्य। महापूपं निवेद्य। आचार्यः स्वस्यदक्षिण हस्ते कौतुकं बद्ध्वा। देवं द्विषट्काक्षर
विद्ययाप्रणम्य। संस्तुत्य। देवस्य पुरतः भूमौ छायाधिवासार्थं धान्यपीठे सुवर्णादि
लोहजां मृण्मयीं वा जलद्रोणीं तादृशं कटाहं वा संस्थाप्य। गालितेन गन्धोदकेन आपूर्य।
दर्भैः परिस्तीर्य। पुण्याहं वाचयित्वा। प्रोक्ष्य। पूर्ववत् द्वारतोरण कुम्भान् अभ्यर्च्य।
जलद्रोण्यादि जलं ‘‘ओं यां नमः पराय पुरुषात्मने नमः’‘ इति मन्त्रेण संशोध्य।‘‘ओं रां
नमः पराय विश्वात्मने नमः’‘ इतिमन्त्रेण दग्ध्वा।‘‘ओं वां नमः परायनिवृत्यात्मने
नमः’‘इति अयुतचन्द्रसमप्रभं निवृत्ति मन्त्रं ध्यात्वा। तद्विनिसृतैः अमृतैःपूरितां जलद्रोणीं
विचिन्त्य। तस्मिन् आधारादि पद्मान्तं योगपीठंसंकल्प्य। अष्टाविंशति दर्भकृत कूर्चे
संहारक्रमं स्मरन् मूलमन्त्रेण हरिमावाह्य।अभ्यर्च्य। कूर्चं जलद्रोण्यन्तर्जले,प्राक्छिरस्कं
संहारक्रमेण शाययित्वा।‘‘सशराय शार्‘◌ाय नाराचाय हुंफट् सुदर्शनाय स्वाहा’‘इति
मन्त्रेण चक्रमुद्रां प्रदश्र्य। श्री भूम्योः त्रयोविंशति दर्भकृतकूर्चं, रुद्र वेधसोः पञ्चविंशति
दर्भकृतं, अन्येषां देवानां द्वाभ्यां कृतं कूर्चं, पूर्ववत् यथाविधि तत्तन्मन्त्रेण सम्हारक्रमेण
शाययित्वा। तद्दक्षिणे शालितण्डुलैःपीठं परिकल्प्य।तस्मिन् स्वर्णादि लोहमयं सकरकं
महाकुंभं उपकुंभाष्टकं च मृण्मयंचेत् ससूत्रवेष्टनं विन्यस्य। सरत्न वस्त्रकूर्चाश्वत्थ
पल्लवपिधानं कृत्वा। दर्भैः परिस्तीर्य। मध्यकुम्भे ब्रह्माणं, करके सुदर्शनं, उपकुम्भाष्टके
  

च इन्द्रादीन् आवाह्य। अभ्यर्च्य। सर्वाणेन नव वाससा प्रतिमां सम्यक्
आच्छाद्य।’‘‘‘रक्षोहण‘ इतिमन्त्रेण सिद्धार्थान् दिक्षु समन्ततः विकीर्य।
तत्रदीपमनिर्वाणमारोप्य। तत्रब्राह्मणेषु वेदेतिहास पुराणादीन् पठत्सु, गुरुः
मन्दिरद्वारेषु‘‘ओं सुदर्शनाय नमः’‘इति अभ्यर्च्य। मूर्तिपैः सह आलयं प्रदक्षिणीकृत्य।
बहिः निष्क्रमेत्। यस्य बिम्बस्य साक्षात् जलाधिवासः न युज्यते तस्य छायाधिवासः
विहितः। दारु लोह शिलामयानां तु बिम्बानां साक्षादेव जलाधिवासः। तेष्वपि लोहजस्य
बिंबस्य पीठसंयोजनानन्तरं जलाधिवासं कुर्यात्।
ततः गुरुः संकल्प्य। पीठसंयोजनार्थं शालिभारं वृत्ताकारं विधाय। तदुपरि तदर्धं
तण्डुलं, तदुपरि तदर्धं तिलं च सान्तरान्तर वस्त्राच्छादनं विन्यस्य। तस्योपरि अष्टपत्र
पद्ममालिख्य। तस्मिन् दर्भान् आस्तीर्य। प्रत्यग्र प्रागग्र वाससा आच्छाद्य।तस्मिन् सपद्मं
केवलं वा पीठं विन्यस्य।दर्भैः परिस्तीर्य।तस्मिन् रत्नानि लोहानि च विष्णुगाय र्त्या
निक्षिप्य।विधिवत् अग्निं उपसमिध्य।विष्णु गाय र्त्या आज्येन अष्टोत्तरशतं
आहुतीः,चरुणा नृसूक्तेन षोडशाहुतीः च हुत्वा।ततःपुण्याहं वाचयित्वा, प्रोक्ष्य।स्वस्थ
मानसः परवासुदेवं ध्यायन्, मूलमन्त्रेण पीठे देवं समारोप्य।‘‘प्रतिष्ठासि’‘ इति मन्त्रं पठन्
स्थापयित्वा।तेनैव नयनोन्मीलनं च कारयित्वा।तं च महता धनेन तोषयित्वा।ततः
मानादि लक्षण न्यूनादि दोष शान्ति होमं पूर्ववत् कृत्वा।‘‘नमस्तुभ्यं’‘इति गादामुदीर्य।
नमस्तुभ्यं भगवते जातवेदस्वरूपिणे।
नारायणाय हव्यस्य कव्यस्य च यथा तथम्।
भोक्त्रे यष्टव्यदेवानामात्मने परमात्मने।
सन्निधत्स्व चिरं देव प्रतिमायां हिताय नः।
स्वागतं देवदेवेश विश्वरूप नमोस्तुते।
  

शुद्धोऽपि त्वदधिष्ठाने शुद्धिंकुर्म क्षमस्व ताम्।।’‘
पुण्याहं वाचयित्वा।बिम्बशुध्यर्थं धान्यपीठे ससूत्रकूर्च पल्लवपिधानं गोघृतापूरितं कुंभं
विन्यस्य। तस्मिन् द्विषट्काक्षरविद्यया देवमवाह्य अभ्यर्च्य। तेन बिम्बं मूलमन्त्रेण
संस्नाप्य।ततः बिम्बं हरिद्रामलकादि चूर्णैः उद्वत्र्य। पुरुषसूक्तेन उष्णोदकेन
स्नापयित्वा।सदर्भ नववाससा मूलमन्त्रेण प्रतिमां संवेष्ट्य।तेनैव उत्तरीयं च दत्वा।
अर्घ्यादिभिः अभ्यर्च्य।‘‘जलाधिवासार्थं रक्षाबन्धन कर्मकरिष्ये’‘इति संकल्प्य। पूर्ववत्
प्रतिसरबन्धं कृत्वा। देवं ‘‘उत्तिष्ठ ब्रह्मणस्पते’‘इति मन्त्रेण उत्थाप्य। ‘‘भद्रं
कर्णेभिः’‘‘‘इति रथादिकं यानमारोप्य।बृहद्रथन्तर पुरुषसूक्त नारायणानुवाक शाकुन
रक्षोघ्न सूक्तानि पठद्भिः अन्यैः वेदविद्भिः पाण्डरातपत्र सितचामर चीनांशुकछत्र
बर्हबर्हिमय ध्वज कल्याणव्यजन बहुविधान नृत्तगीतवाद्या विशेषादि नानाविधोपचारैः च
साकं ग्राम धामादिकं प्रदक्षिणी कृत्य,जलाधिवास देशान्तमासाद्य।जलसमीपे प्रपां
कल्पयित्वा।तत्र प्रतिमां प्राङ्मुखमुदङ्मुखं वा आसने विनिवेश्य।जल मध्ये बहुस्तंभप्रपां
कल्पयित्वा।चतुद्र्वारयुतां चतुर्वन्दन मालिकावितान ध्वज दर्भमाला मुक्तादाम स्रक्दीप
नानाफलांलंकृतां विधाय।
‘‘जलाधिवास कर्म करिष्ये’‘ इति संकल्प्य। पूर्ववत् पुरुषमन्त्रेण तज्जलं संशोष्य।विश्व
मन्त्रेण दग्ध्वा। निवृत्ति मन्त्रेण अमृतकल्पं विचिन्त्य।पुण्याहं वाचयित्वा ।
प्रोक्ष्य।तस्मिन् चतुरश्रं सास्तरणं सोपधानं नवं महापीठं विन्यस्य। तस्मिन् आधारादि
पद्मान्तं योगपीठं संकल्प्य। अभ्यर्च्य।तत्र द्वार तोरणकुंभान् संस्थाप्य। विधिवत्
सम्पूज्य।शाकुन सूक्त पाठकैः ब्राह्मणैः मूर्तिपैःच साकं आचार्यः,‘‘उत्तिष्ठ’‘इति मन्त्रेण
बिंबमुद्धृत्य।‘‘भद्रं कर्णेभिः’‘ इति जल स्थित पीठे निवेश्य। संहारक्रमं स्मरन् बिम्बं
उदङ्मुखं प्राक्चिरसं तस्मिन् शाययित्वा। पूर्ववत् धान्यपीठे रक्षार्थं कुम्भ करक कलशान्
  

सलक्षणान् संस्थाप्य। तेषु पूर्ववत् ब्रह्म सुदर्शनेन्द्रादीन् आवाह्य। अभ्यर्च्य। तानपि बिम्ब
दक्षिणे जले यथाक्रमं निवेश्य।
‘‘ओं सशराय शार्ङ्गाय नाराचाय हुंफट् सुदर्शनाय स्वाहा’‘ इति मन्त्रेण चक्र मुद्रां ‘‘ओं
नमो भगवते रं प्रळय कालानलाय हुंफट्‘‘‘इति मन्त्रेण अग्नि प्राकार मुद्रां च प्रदश्र्य।
पूर्वादि दिक्षु ऋगादीन् चतुरः वेदान् कोणेषु इतिहास पुराणानिच ब्राह्मणेषु पठत्सु
अनिर्वाणान् दीपान् आरोप्य।तीरे नानावाद्यानि आघोषयेत्। एवं त्रिरात्रं वा एकरात्रं
यामार्धं वा जले अधिवासयेत्।तदारभ्य बिंबोत्थापनान्तं तस्मिन् जले स्नानपानादिकं कर्म
नकिञ्चिदपि कार्यम्। गृहार्चास्थापनेतु सद्य एव कुर्यात्। जलाधिवास नयनोन्मीलन
शयनाधिवासानां च न कालः विधीयते। महाप्रतिष्ठायांतु प्रदोषे जलाधि वासं महानिशि
शयनं दिवाप्रतिष्ठांच कुर्यात्।
नदीषु दीर्घिकायांवा तटाकेनिर्झरेपिवा।
जलाधिवासनं कुर्यात्प्रसन्ने सलिलं तथा।
अल्पतोये श्मशानांते लवणोदक दूषिते।
 कषाये कटुकेचैव तिक्ते फेनश्च दूषिते।
चैत्यवृक्षसमीपे च नीचेरध्यासते तथा।
ऊषरे शैवलयुते वर्णान्तरयुते तथा।
एवमादिषु दुष्टेषु प्रतिमां नाधिवासयेत्।
नद्याद्यभावे बिम्बस्य जलाधिवसनं भवेत्।
जलद्रोण्यां कटाहे वा समुद्धृत्य महज्जलम्।
यथासंभवमन्यस्मिन् मृण्मयादौ तदिष्यते।
सद्यो वा तोयवासंच पुरस्तादधिवासनात्।*
  

 
इति क्रियाकैरवचन्द्रिकायां
जलाधिवास, छायाधिवासविधिःनाम एकादश परिच्छेदः


द्वादश परिच्छेदः
वास्तुयाग नयनोन्मीलन विधिः
तत्र वास्तुहोमः-
एवंप्रतिमां विधिवत् अधिवास्य। प्रभाते कृतकृत्यो गुरुः यजमानेन सह मण्डपं
प्रविश्य।तस्मिन् दक्षिणे पाश्र्वे विस्रस्तां वास्तुनाथं विलिख्य परिस्तीर्य।‘‘वास्तु होमं
करिष्ये’‘इति संकल्प्य।पुण्याहं वाचयित्वा। प्रोक्ष्य। दर्भसप्तकृतं कूर्चंनिक्षिप्य।
‘‘ओं वं वास्तुपुरुषाय नमः आगच्छागच्छ’‘इति आवाह्य। वास्तुनाथं गन्धादिभिः
अभ्यर्च्य। वास्तु नाथस्य शिरसि ‘‘ओं अंशुमालिने नमः’‘दक्षिणतः बाहु मूले ‘‘ओं
झषध्वजायनमः’‘कूर्परे‘‘ओं कुमारायनमः’‘ हस्ते‘‘ओं विनायकाय नमः’‘पादयोः‘‘ओं
अश्विनीदेवताभ्यां नमः’‘ मध्ये‘‘ओं चन्द्रमसे नमः’‘सव्यतःहस्ते‘‘ओं दुर्गायै
नमः’‘कूर्परे‘‘ओं सप्त मातृभ्यः नमः’‘बाहुमूले‘‘ओं स्थाणवे नमः’‘हृदये‘‘ओं विष्णवे
नमः’‘नाभौ‘‘ओं ब्रह्मणे नमः’‘तत्परितश्च अष्टसुदिक्षु क्रमेण‘‘ओं लं इन्द्राय नमः’‘‘‘ओं
रं अग्नये नमः’‘‘‘ओं हं यमाय नमः’‘‘‘ओं षं नैॠतये नमः’‘‘‘ओं वं वरुणाय नमः’‘
‘‘ओं यं वायवे नमः’‘‘‘ओं सं सोमाय नमः’‘‘‘ओं शं शंकराय नमः’‘वास्तुनाथस्य
उत्र्तरे ‘ओं क्षं क्षेत्रपालायनमः’‘इत्यावाह्य अभ्यर्च्य। वास्तुनाथस्य पश्चिमे देशे विधिवत्
अग्निं उपसमिध्य।तस्मिन् तं आवाह्य।पञ्चोपनिषन्मन्त्रैः सर्पिषा सहस्रं शतं वा आहुतीनां
हुत्वा।ततः‘‘ओं वास्तुनाथाय स्वाहा’‘इति सहस्रं शम्यपामार्ग खादिर समिद्बिः आज्येन
प्रत्येकं, चरुणा नृसूक्तेन षोडशाहुतीश्च हुत्वा।तदनु‘‘ओं अंशुमालिने स्वाहा’‘‘‘ओं
  

झषध्वजायस्वाहा’‘ ओं कुमारायस्वाहा’‘‘‘ओं विनायकाय स्वाहा’‘ओं अश्विनीदेवताभ्यां
स्वाहा’‘‘‘ओं चन्द्रमसे स्वाहा’‘ ओं दुर्गायैस्वाहा ,ओं सप्तमातृभ्यःस्वाहा ‘‘‘‘ओं स्थाणवे
स्वाहा’‘ओं विष्णवे स्वाहा’‘‘‘ओं ब्रह्मणे स्वाहा’‘इति चरुणा आज्येन च,सकृत् सकृत्
हुत्वा।‘‘ इन्द्रादिदेवेभ्यः क्षेत्रपालाय च नमोन्तैःस्वस्व मन्त्रैः बलिंदत्वा।
वास्तुनाथमुद्वासयेत्।
अनर्चिते वास्तुदेवे कृतं कर्म आसुरं भवेत्।
तस्मात् सर्वप्रयत्नेन वास्तुनाथं समर्चयेत्।
नयनोन्मीलनम्-
अथ मण्डपं मार्जनालेपन प्रोक्षणादिभिः संशोध्य। सुधाचूर्णादिभिः तद्भुवमलङ्कृत्य।
अस्त्राभिमन्त्रितान् सिद्धार्थान् सर्वतः दिक्षु विकीर्य। ततः नास्तिक भिन्नमर्याद
देवब्राह्मणनिन्दक पापरोगयुतानि निन्दित पिशुन पाषण्ड हीनवृत्ति प्रतिलोम समत्सर
लुब्ध मूर्खाद्यान् अविदुषः म र्त्यान् च बहिः निर्वास्य। स्तंभवेष्टनवितान मुक्तादामतोरण
दर्भमाला फलपुष्पाक्षताद्यैः मण्डपमलङ्कृत्य।तत्र चतुर्दिक्षु तोरणस्थापनार्थं द्वितालमवटं
खात्वा। प्राच्यामश्वत्थ तोरणं,याम्ये औदुम्बरं,पश्चिमे न्यग्रोधजम्,उत्तरे प्लाक्षं च तोरणं
सम्स्थाप्य।सर्वतः दिक्षु आनद्ध ततसुषिरघनाभिध चतुर्विध वाद्यविशारदैः अन्यैः
वेदविद्भिः ब्राह्मणैः च मुखरितं, बहुप्रदीप साङ्कुर पालिका चन्दनागरु कर्पूर धूपालङ्कृतं
मण्डपं कारयित्वा। ततः अपराह्णे गुरुः स्वयमुदकात् बिम्बमुत्थाप्य। तीर विष्टरे प्राङ्मुखं
विन्यस्य। कुम्भकलशान् च जलात् उद्धृत्य। तत्तद्देवताः उद्वास्य.बिम्बं वारिभिः
प्रक्षाल्य। लोहजं चेत् तिन्त्रिणीफल रसेन सम्शोध्य। प्रक्षाल्य। वस्त्राभरण गन्धाद्यैः
अलङ्कृत्य। यथापूर्वं बिम्बे यानमारोप्य। सतूर्य म‘लघोषं याग मण्डपं प्रापय्य। तत्रोत्तर
भागे विष्टरे विनिवेशयेत्। तदनु मूर्तिपैः साकं आचार्यः गर्भगेहं प्रविश्य। पूर्वाधिवासितं
  

कूर्चं कटाहादि जलात् समुद्धृत्यकुम्भदेवताश्च उद्वास्य कूर्चस्थं बिम्बे विचिन्त्य।तस्मात्
वस्त्राभरणमाल्यानिव्यपोह्य।
‘‘नयनोन्मीलनं करिष्ये’‘इति सङ्कल्प्य । पुण्याहं वाचयित्वा। नयनोन्मीलनोपकरणानि
प्रोक्ष्य। वक्ष्यमाणेन विधिना ध्रुवबेरस्य, शय्यादीनां च पृथक् नयनोन्मीलनं कृत्वा। अष्ट
धान्यानि गाः कन्यकाश्च दर्शयित्वा। साक्षात् स्नपनकरण योग्यविषये वक्ष्यमाण विधिना
सप्तदशकलशान् घृतादि द्रव्यपूरितान् संस्थाप्य। तत्तद्देवताः आवाह्यअभ्यर्च्य। सकूर्चे
दर्पणे देवमावाह्य।तैः सम्स्नाप्य। शय्यादीनां तु पृथक् नवभिः कलशैः, ब्रह्मेशयोः
सप्तभिः,ऋषीणां पञ्चभिः,देवानां त्रिभिः, एकेन वा स्नपनं कृत्वा। दर्पणस्थं बिम्बे
विचिन्त्य। वस्त्रादि नीराजनान्तैः उपचर्य। ध्रुवबेर हृदये दीप्रं मणिप्रभं द्विषडर्णं
अनुध्यायन् विन्यस्य। शय्या दीनां च एवं विधाय। ध्रुवबिम्बं शय्यादि देवीश्च
कम्बलैःआच्छाद्य। तस्य पुरतः धान्य पीठे सौवर्णं राजतं च पात्रयुग्मं आढकपरिपूर्यं पूर्व
पश्चिमं विधाय। क्रमेण मध्वाज्यपूरितं कृत्वा।तादृशौ शलाकिके च अष्टाङ्गुले तयोः
विन्यस्य। नवैः वासोभिः आच्छाद्य। स‘ल्प्य। पुण्याहं वाचयित्वा। तत्सर्वं प्रोक्ष्य।
मधुपात्रे‘‘ओं हं सूर्याय नमः’‘इति, आज्यपात्रे‘‘ओं सं चन्द्रमसे नमः’‘इति च आवाह्य।
अभ्यर्च्य।‘‘मधुवातेति’‘मधु ‘‘सविराजं पर्येति’‘इति वा‘‘शुक्रमसीति’‘वा आज्यं च
अभिमन्त्य। तत्परितः नीवार शालि मुद्ग श्यामाक प्रियंगु यव तिल गोधूमानि पृथक्
पात्रेषु ताम्बूल नारिकेल कदलीफलानि च, पुरतः गाः कन्यकाः,च संस्थाप्य।सवेद
वाद्यघोषं मध्वक्तमुखया सौवर्ण शलाकया‘‘चित्रं देवानां’‘इति दक्षिणं सर्पिरक्तमुखया
राजत शलाकया,‘‘तच्चक्षुः’‘इति वामं च लोचनमुन्मील्य। आच्छादन पटं व्यपोह्य।
गुरवे पात्रयुग्मं शलाकिकं अष्टधान्यानि गाःच ‘‘गोविन्दःप्रीयतां’‘इति दत्वा। पुनः अपि
जीवजीवात्मकैः धनैः तोषयेत्।
  

इति वास्तुयाग नयनोन्मीलन विधिः नाम द्वादश परिच्छेदः


क्रियाकैरवचन्द्रिकायां त्रयोदशः परिच्छेदः
कर्माङ्गस्नपन विधिः
अथ तावत् बिम्बशुद्ध्यर्थं‘‘स्नपन कर्मकरिष्ये’‘इति सङ्कल्प्य। पुण्याहं वाचयित्वा।प्रतिसर
कर्मंच पूर्ववत् विधाय। अधमाधम स्नपनोपयुक्त घृतादि कषायांत स्नपनद्रव्याणि पूर्वं
संपाद्य। बिम्बस्यपुरतः चतुरश्रं गोमयेण अनुलिप्य. तत्र चंदनाद्र्राणि सूत्राणि
प्रागायतानि उदगग्राणि च षट् निपात्य।तेषु पञ्चविंशति पदेषु मध्ये नवपदानि तत्परितः
च अष्ट दिक्षु पदाष्टकं च कुम्भस्थापनार्थं विसृज्य। शेषां संमृज्य। कुम्भाष्टक सप्तदशकोष्टेषु
प्रत्येकमाढकं तदर्धं प्रस्थंवा व्रीहीणां तत्तुर्यांशानि तण्डुलानि तत्तुर्यांशानि तिलानि च
उपर्युपरि क्रमेण विन्यस्य। तेषु पद्मानि विलिख्य। द्वे द्वे दर्भाग्रे निक्षिप्य। सौवर्णान्
राजतान् ताम्रान् वा यथाविभव विस्तरं मृण्मयान् वा द्रोण परिपूरकान् कुम्भान् विष्णुगाय
र्त्या कुम्भान् प्रक्षाळ्य। मृण्मयान्‘‘इन्द्रन्नत्वेति’‘तंतुना आवेष्ट्य। कलशस्थापन मेदिन्याः
पश्चिमे भागे कलशाधिवासार्थं धान्यपीठं विधाय। तस्योपरि विश्व मन्त्रेण प्रागग्रान्
उदगग्रान् वा कुशान्आस्तीर्य। तेषुप्राङ्मुखःउदङ्मुखो वा कुम्भान् ओं इत्यधोमुखान्
विन्यस्य। तेषु परमेष्टिमन्त्रेण त्रीन् त्रीन् दर्भान् आस्तीर्य।पुरुष मन्त्रेण अघ्र्यजलेन प्रोक्ष्य।
विश्वमन्त्रेण अक्षतान् विकीर्य। निवृत्ति मन्त्रेन तान् उत्थानि कृत्व।‘ ‘स्नपनार्थं होष्ये’‘इति
संकल्प्य। विधिवत् अग्निं संसाद्य। तस्मिन् विष्णु गाय र्त्या आज्येन अष्टोत्तर शताहुतीः
हुत्वा। अवशिष्टाज्येनस्नपन द्रव्याणि संसिच्य। कलश स्थापन वेधिका मध्ये कोष्टेषु कुम्भ
स्थानेषु मध्यमं कुम्भं घृतेन आपूर्य। विष्णु गायत्र्या विन्यस्य। तत्पूर्व कुम्भं उष्णोदकयुतं
तदाग्नेय माणिक्य पद्मराग नीलवज्र पुष्य प्रवाळ मौक्तिक मरकत वैडूर्य रत्नपूरितं कुम्भं।
  

घृतकुम्भस्य याम्ये तथा विध दाडिम चूतामलक बिल्व नारिकेल पनस मातुल‘ फलैः
भिन्नैर्युतं कुम्भं । घृतस्य नैऋत दिशि सुवर्ण रजत ताम्र सीस त्रपु कम्स्य अयस्सारैः
प्रत्येकं निष्फमात्रैः पूरितं कुम्भं घृतस्य पश्चिम दिशि रजनी सूर्यवर्तिनी सहदेवि शिरीषा
सदाभद्रा कुशाग्रामिद मार्जन द्रव्यैः पृथक् मुष्टिमात्रैर्युतं कुम्भं. घृतस्य मारुत दिशि
चन्दन कुष्ट कुङ्कुमागरु उशीर ह्रीभेर गिरिसंभव मांसी मुराख्य गन्ध द्रव्यैः प्रत्येकं
फलमात्रैः युतं कुम्भं। घृतस्य उत्तरे नीवार वेणु शालि प्रियङ्गु यव कङ्गु षाष्टिक गोधूम
तण्डुलैः पृथक् मुष्टि मात्रैः द्रव्यैःपूरितं कुम्भं। घृतस्य ऐशान दिशि यव व्रीहिभिः पृथक्
कुडुपमानैः युतं कुम्भं च सं स्थाप्य।
ब्रह्मस्थान स्थितं कुम्भ नवकस्य प्राच्यां दिशि तुळसी पद्म दूर्वाक्षत श्यामाक विष्णु पर्णी
बिल्वपत्रैः मुष्टि मात्रैः चन्दनेन फलमात्रेण च युतं पाद्य कुम्भं, तद्दक्षिणे सिद्धार्थ अक्षत
कुशाग्र फल तिल पुष्पैः पृथक् मुष्टि मात्रैः त्रिनिष्फ मात्र चन्दनेन च युतं अघ्र्यकुम्भं।
तत्पश्चिमे तोल चंपक मुकुल कर्पूर जाति फलैर्येलालव‘ त्वक्चन्दन पुष्पैः पलार्ध
प्रमाणैःयुतं उपस्पर्शन कुम्भं। तदुत्तरे पञ्चगव्यैर्युतं कुम्भं
 ( पञ्चगव्यानि तु स्नपने
 
दधि द्विगुणमाघारात् पीयूषं त्रिगुणं ततः।
षड्गुणं मूत्रमेतस्मात् शकृद्वारि चतुर्गुणम्।।
 
इति प्रमाणेन गव्यानि पञ्च पृथक् मृद्भाजने गृहीत्व। शकृण्मूत्र दधि घृत पयांसि परमेष्टि
पुरुष विश्व निवृत्ति सर्वमन्त्रैः यथाक्रमं यथा सर्वमपि द्रोण मानं तदर्धं आढकं वा भवेत्।
तथा आनीय कुम्भे सर्वं एकीकृतं) संस्थाप्य। मध्य नवकस्याग्नेये दधि कुंभं, नैऋते
क्षीरकुम्भं, वायव्ये मधुकुम्भं, ऐशाने शमी पलाश खादिर बिल्वाश्वत्थ वितत न्यग्रोध
  

त्वग्भिः पलाद्र्ध परिमाणाभिः पूरितं, कषायकुम्भं च संस्थाप्य। सप्तविंशति दर्भकृत
कूर्चं घृत कुंभे सप्तभिः पञ्चभिः त्रिभिर्वा दर्भैः कृतान् कूर्चान् उपकुम्भेषु अवागग्रं
यथाकण्ठमानं विन्यस्य।‘‘ओ नमश्चक्र राजाय’‘इति शरावैः पिधाय।‘‘युवासुवासा’‘
इति मन्त्रेण अहत वस्त्रैः तेषां कण्ठवेष्टनं कृत्वा।दर्भैःपरिस्तीर्य। तेषु घृतोष्णोदक फल
मार्जनाक्षत रत्न लोह गन्ध पाद्यार्घ्या◌ाचमनकषाय कुंभेषु परवासुदेव पुरुष सत्य अच्युत
अनंत केशव नारायण माधव गोविंद विष्णु मधुसूदन त्रिविक्रम वामन श्रीधर हृषीकेश
पद्मनाभ दामोदरान् स्वस्व मन्त्रेणावाह्य। संपूज्य। पूर्व संपादिताग्नौ मूलेन कलश
संख्यया आज्याहुतीः चरुणा नृसूक्तेन षोडशाहुतीः पुनराज्येन कलशदेवता मन्त्रैः पृथक्
सह्स्रं शतमष्टाविंशतिरष्टौवा आहुतीर्हुत्वा। संपादाज्यं स्पर्श मन्त्रेन कुम्भेषु संसिच्य।
अग्निस्तमुद्वास्य। आचार्यः मूर्तिपैः वेदपारगैः ब्राह्मणैश्च बिम्बस्य अन्तिकं गत्वा ‘उत्तिष्ठ
ब्रह्मणस्पते ‘‘‘‘ इति मन्त्रेण बिम्बं उत्थाप्या। ‘भद्रं कर्णेभिः’‘‘‘ इति स्नानासन वेदिकायां
प्राङ्मुखं विनिवेश्य। तदनु पुण्यक्षेत्र नदीतीर पर्वत पुलिन ह्रद निर्झर संग्रम शोष्य
वेदिकोर्वर शालिक्षेत्र वेदखात वृषशृ‘ हस्तिदन्त वराहघृष्ट वल्मीक कुलिरावसत नलिनि
दीर्धिका सुस्थिताः एकोनविंशति मृत्तिकाः पृथक् पात्रे समानीय पुण्याहं वाचयित्वा
प्रोक्ष्य। बिम्बं अर्घ्यादि उपचारैःउपचर्य । पुण्यक्षेत्रजैकोनविंशति मृत्तिकाभिः
‘मूर्धानंदिवो’‘‘‘ इति मन्त्रेण बिम्बं मूर्धादि पादान्तं आलिप्य। शुद्धोदकेन ‘इमंमेवरुण’‘‘‘
इति मन्त्रेन प्रक्षाल्या। अनन्तरं बिम्बं अर्घ्यादिभिः उपचर्य।
 
‘इदं विष्णुः’‘‘‘ इति पाद्य कुम्भेन,
‘आपो हिष्ठा ‘‘‘‘इति अघ्र्य कुम्भेन,
‘इमंमेवरुण’‘‘‘ इति उपस्पर्शनेन,
  

‘पवित्रं ते’‘‘‘ इति पञ्च गव्येन,
‘दधिक्राविण्णो’‘‘‘ इति दध्ना,
‘पयोव्रत’‘‘‘ साम्ना पयसा,
‘मधुवाता’‘‘‘ इति मधुना,
‘यज्ञायज्ञ’‘‘‘ इति कषायाम्बुना,
‘मानस्तोके’‘‘‘ इति उष्ण तोयेन,
‘वषट् ते विष्णोः’‘‘‘ इति मणिवारिणा,
‘याः फलिनीः’‘‘‘इति फलाम्बुना,
‘हिरण्यगर्भ समवर्तत’‘‘‘इति लोहवारिना,
‘शन्नोदेवीः’‘‘‘इति मार्जनांभसा,
‘गन्ध द्वारा’‘‘‘इति गन्धांभसा,
‘त्रातारमिन्द्रं’‘‘‘ इति अक्षतवारिणा,
‘इदं विष्णोः’‘‘‘ इति यवांभसा,
‘घृतस्नात’‘‘‘ इति घृतनेच
एतैः मन्त्रैः एतैःकलशैःपाद्यपूर्वं घृतान्तं प्रति द्रव्य घटाप्लवं उपस्नान प्लोतवस्त्रोत्तरीयाघ्र्य
पाद्याचमन गन्ध पष्प धूप दीप प्रदान सहितं
अभिषिच्य । अनन्तरं पुरुष सूक्तेन सहस्रधारया शुद्धोदकेन अभिषिच्य। वस्त्रादि
अलङ्कृत्य।अर्घ्यादिभिः उपचर्य। फलादिकं निवेद्य। तांबूलंच समर्पयेत्।घृतस्य उपस्नानं
उष्णोदकेन।
इति क्रियाकैरवचन्द्रिकायां त्रयोदशः परिच्छेदः


  

चतुर्दशः परिच्छेदः
 
शयनाधिवास -कुम्भस्थापनविधिः
 
अथतावत् आचार्यः मण्डपमध्ये वेदिकायां चक्राब्ज मण्डलं वर्तयित्वा। तत्पूर्व दक्षिण
वामभागे शय्यावेदिं कृत्वा। द्वादशार्णमनुना गन्धोदकेन प्रोक्ष्य। तस्यां प्रागग्रान्
उदगग्रान् वा दर्भान् आस्तीर्य। तत्र व्रीहीणां पञ्चभारं तण्डुलानां तदर्धं, तिलानां तदर्धं च
अन्तरान्तर प्रत्यग्राच्छादनान्तरितं विस्तीर्य। तिलोपरि पद्मं विलिख्य। तदुपरि पूर्ववत्
दर्भान् आस्तीर्य। तस्योपरि क्रमेण वैयाघ्रचर्म मृद्वास्तरण तूलिकारत्नकम्बल
क्षौमचित्रवस्त्र शुक्लवसनानि तदुपरि शयनाङ्गानि उपधानानि सपाद गण्डुकानि निधाय।
दर्भैःपरिस्तीर्य। तां कस्तूरिकादि गन्धद्रव्याधिवासितां सुगन्धपुष्प मालादि
नानालङ्गारशोभितां कृत्वा।
आचार्यः पुरुषसूक्तादि पाठकैः ब्राह्मणैः ऋत्विग्भिः च तूर्यघोषपुरस्सरं बिम्बं ‘‘उत्तिष्ठ’‘
इति मन्त्रेण तस्मात् उत्थाप्य। बहिः कुण्डं यथा प्रादक्षिण्येन शनैः शय्यावेदिभुवं, तस्यां
आधारादि पद्मान्तं पीठं सङ्कल्प्य। अभ्यर्च्य।‘‘यद्वैष्णवं’‘ इतिमन्त्रं,‘‘विश्वतश्चक्षुः’‘इति
मन्त्रं च उच्चरन् प्राक्शिरो दक्षिणाननं मन्दिराननं दक्षिणाशाशिरस्कं वा बिम्बं शय्यायां
शाययित्वा। ‘‘युवासुवासाः’‘ इतिमन्त्रेण कम्बलैः वस्त्रैः वा सर्वतः प्रतिमां आच्छादयेत्।
तदनु द्वार तोरणपूजां करिष्ये इति स‘ल्प्य।द्वारतोरण ध्वजकुम्भेषु पूर्ववत् यथाविधि
तत्तद्दैवतानि आवाह्य अभ्यर्च्य। पूर्वादिदिक्षु ऋगादीन् वेदान् अन्यान् च ब्राह्मणेषु
पठत्सु,सर्वत्र तुर्यघोषेषु प्रवर्तितेषु,समाहितमनाः आचार्यः हृदयकमले भगवन्तं ध्यायन्
पुण्याहं वाचयित्वा।
  

चक्राब्जमण्डले साङ्गं सपरिवारं वासुदेवं यथाविधि संपूज्य। शय्यावेदिं त्रिभागी कृत्य।
मध्य दक्षिणभागयोः बिंबे अधिवासिते सति उत्तरभागे देवस्य पश्चिमोत्तरे शालि तण्डुल
तिलैः पीठं स वस्त्रास्तरणं कृत्वा ।
तदुपरि पद्ममालिख्य । तस्मिन् सवस्त्र कूर्चाश्वत्थ पल्लवरत्नापिधानं द्रोणमान
गन्धोदकपूरितं लोहजं मृण्मयं वा महाकुम्भं,तन्निकटे दक्षिणे तादृशं करकं च शायितबिंब
स्थापितकुम्भयोः परितः अष्टसु धान्यपीठेषु तादृक्लक्षणयुतं मूर्तिकुम्भाष्टकं च संस्थाप्य
परिस्तीर्य।
तेषु शङ्खचक्र गदापद्म ध्वज श्रीवत्स गरुडकमठान् प्रत्येकं निष्फमात्र जांबूनदकृतान्
निक्षिप्य। मूर्तिकुम्भानां मध्ये पूर्वोक्त लक्षणयुतानि अष्टौ फलकानि सुवर्णादि लोहजानि
याज्ञीयदारुजानि वा संस्थाप्य। परितः साङ्कुराः पालिकाश्च निधाय.‘कुम्भपूजां
करिष्ये’‘‘‘इति सङ्कल्प्य। कुम्भजलानां पृथक् शोषणादिकृत्वा। तस्मिन् जले पीठं
आधारादि पद्मान्तं स‘ल्प्यअभ्यर्च्य।एवं अष्टास्वपि कृत्वा। ततः पूर्वादिषुकुम्भेषु
विष्ण्वादि दामोदरान्तान् देवान् स्व स्वमन्त्रेणावाह्यऽभ्यर्च्य। तदानीं पायसान्नेन
भगवन्मयान् ब्राह्मणान् द्वादशाधिकान् भोजयित्वा। तेभ्यः अपि गो तिल वस्त्र सुवर्णानि
दद्यात्।
 
इति श्री वराहगुरुणा विरचितायां क्रियाकैरव चन्द्रिकायां
शयनाधिवास कुम्भस्थापनविधिर्नाम चतुर्दशः परिच्छेदः


 
 
  

पञ्चदशःपरिच्छेदः
गोदोहनविधिः तत्वन्यासहोमः,प्राणप्रतिष्ठा विधिः
 
 अथ तावत् गोदोहन विधिरुच्यते। तत्र गोःआह्वानमन्त्रः। पूषासि उपसृष्टां मे प्रब्रूतात्।
संप्रेष्यति। उपसृजामि’‘। इत्यामन्त्रयते।
‘‘अयक्ष्मावःप्रजया संसृजामि रायस्पोषेण बहुला भवन्तीः’‘‘‘।
‘‘गां चोपसृष्टां’‘ ‘‘विहारंचान्तरेण मासंचरिष्ट’‘उपसीदामि, ‘‘अयक्ष्मावह
प्रजयासंसृजामि रायस्पोषेण बहुळा भवन्तीः ऊर्जंपयः पिन्वमाना घृतंच जीवो जीवन्तीः
उपवः सदेयं’‘
‘‘द्यौश्चेमं यज्ञं पृथ्वी च सन्दुहातां धातासोमेन सहवातेन वायुः यजमानाय द्रविणं
दधातु’‘
‘‘उत्सन्दुहन्ति कलशं चतुर्बिलं इडांदेवीं मधुमतीं सुवर्विदं तदिन्द्राग्नीं जिन्वतँ सूनृतावत्
तद्यजमानं अमृतत्वे दधातु, एताभ्यां दोहनम्।
‘‘ओं नमोभगवते वासुदेवाय गङ्गां, यस्यां देवानां मनुष्याणां पयोहितं,सा विश्वायुः,
‘‘देवस्यत्वा सवितापुनातु वसोःपवित्रेण शतधारेण सूपुव,
‘हुतः स्तोकोर्हतोद्रप्सोग्नये बृहते नाकायस्वाहा’‘अग्नये बृहते नाकाय इदं नमम,
द्यावापृथिवीभ्यॉं स्वाहा।पृथिवीभ्यां इदं नमम’‘।
एवंद्वितीयां सरस्वतीं इति, तृतीयां गोदां इति चतुर्थीं यमुनां इति दोहयित्वा।
वत्सेभ्यः मनुष्येभ्यःपुनः दोहाय कल्पताम्वाचंविसृज्य अन्वारभ्य तूष्णिं उत्तराः चतस्रः
दोहयित्वा।
‘‘संपृच्यध्वमृतावरी रूर्मिणीर्मधु मत्तमा मन्द्राधनस्य सातये’‘
  

कुम्भाभ्यां संक्षाळनं आनीय अविष्यन्दयन् सुश्रितानि करोति।
‘‘दृगँ ह गा दृगँ हगोपतिं मा वो यज्ञपतिरिषत्ङ्क’‘‘‘वत्र्मकुर्वन् प्राक् उद्वासयति।
सायं दोहं दोहयति।सायं दोहवत् प्रातः-दोहंदोहयति। प्रातर्दोहपयः
गृहीत्वा.‘‘सोमेनत्वातनच्मि’‘‘आपो हविषि जागृत यथा देवेषु जागृथ एवं अस्मिन् यज्ञे
यजमानाय जागृत।
अयस्पात्रे, दारुपात्रे वा अपः आनीय‘‘अदस्त्वमसि विष्णवेत्वा यज्ञायापि दधाम्यहं
अद्भिररिक्तेन पात्रेण याः पूताःपरिशेरते’‘तेनापि दधाति।‘‘अमृन्मयं देवपात्रं यज्ञस्यायुषि
प्रयुज्यतां तिरः पवित्रमतिनीताः आपोधारयमातिगुः’‘‘‘आचार्यः जपति।
यदि मृण्मयेनापि दध्यात् तृणं काष्ठं वापिधाने अनुप्रविद्ध्येत्।
‘‘विष्णो हव्यंरक्षस्व’‘ प्रज्ञातं निदधाति।एवं गोदोहनादि यथाविधि कुर्यात्।।
अथ होमः-
अथ मूर्तिपाः गुर्वाज्ञया वक्ष्यमाण विधिना होमं आरभेत्।
अरणीं अश्वत्थ शमीगर्भाभ्यां संपाद्य।द्वादशाक्षर मन्त्रेण मथित्वा।ततः अग्निं उत्पाद्य।तं
वा सूर्यकान्ताश्मनःजातं वालौकिकं वा उपादाय।प्रोक्ष्य।दिव्याग्निं ध्यात्वा।प्रत्युण्डस्य
पश्चिमे दक्षिणेवा त्रीन् दर्भान् संस्तीर्य।तदुपरि कूर्मासनं निवेद्य।तत्र
उपविश्य।भूतशुद्ध्यादि मानस यागान्तं कृत्वा।कुण्डान्तः दर्भमुष्टिभिः पर्यग्निकरणं
कृत्वा।एवमेव सर्वेषां कुण्डानां विधाय।प्रत्युण्डे अग्निसंस्कारं वैष्णवीकरणं च कृत्वा।
तस्मादेव इतरेषु अग्निमुद्धरेत्।चतुरश्रादि सर्वकुण्डाग्नि मध्येषु आधारादि पद्मान्तं
तत्तन्मन्त्रेण आज्येन हुत्वा,अभ्यर्च्य। चतुरश्र कुण्डाग्नि मध्यस्थ पद्ममध्ये ओं
नमोभगवतेवासुदेवाय आगच्छागच्छ,गोक्षीर वर्णं पीतांबरं चतुर्भुजं क्रमेण पद्मचक्र शङ्ख
गदाधरं श्रीपुष्टि तुष्टि युतं वासुदेवमावाहयामि। इत्यावाह्य अभ्यर्च्य।
  

चापकुण्डे ओं नमो भगवते सङ्कर्षणाय आगच्छागच्छ,बालसूर्य निभं पीतांबरं चतुर्भुजं
क्रमेण मुसलचक्र शङ्खपद्मधरं श्रीपुष्टियुतं संकर्षणमावाहयामि।इत्यावाह्य अभ्यर्च्य।
वृत्तकुण्डे ओं नमो भगवतेप्रद्युम्नाय आगच्छागच्छ,मरकतवर्णं पीतांबरं चतुर्भुजं क्रमेण
कौमोदकीपद्म शङ्ख चक्रधरं (श्रीपुष्टि सहितं) प्रद्युम्न मावाहयामि।इत्यावाह्य अभ्यर्च्य।
त्रिकोणकुण्डेओंनमोभगवतेअनिरुद्धायआगच्छागच्छ,नीलजीमूतनिभं पीतांबरं चतुर्भुजं
क्रमेण अभय चक्र शङ्ख गदाधरं (श्रीपुष्टि सहितं) अनिरुद्धमावाहयामि।इत्यावाह्य
अभ्यर्च्य।
श्रीवत्सादि गरुडान्तंच तत्तन्मन्त्रेण तेभ्यः सकृत् सकृत् अर्घ्यादि दीपान्तं आज्येन
जुहुयात्। इतोऽधिकेषु युग्मेषु अयुग्मेषु वा कुण्डेषु वासुदेवादिकान् यजेत्।
प्रागादिषु कुण्डेषु पालाश खादिर बिल्व उदुम्बर समिद्भिः आग्नेयादि चतुष्र्वपि पिप्पल
प्लक्ष न्यग्रोध काश्मर्य समिद्भिश्च क्रमेण होमः कार्यः।भूयसां परिकल्पने उक्ताभावेऽपि
पालाशिभिरेव कार्यः।
चरुश्रपणार्थं-
चतस्रोधेनवस्थाप्याः दक्षिणद्वार्युदङ्मुखः।
गङ्गा सरस्वतींगोदा यमुनारूपधारिणी।
दुग्धैः तदीयैःश्रपणं चरुणामाहुतिस्तथा।
सायन्तन समय एव मन्त्रवदोहनं कृत्वा।
श्रपयेत् पयसापूर्वे शालितण्डुलमाढकम्।
कृसरंदक्षिणात्येऽग्नौ पाश्चात्ये गुडमिश्रितम्.
उदीच्येग्नौ हरिद्रान्नं दुग्धान्नमितराग्निषु।
  

इति विधाय चतुरश्रमुखेषु कुण्डेषु क्रमेण वासुदेवादिभिः मन्त्रैः समिद्भिः आज्यैः पृथक्
अष्टोत्तरशतं आहुतीनां चरुणापुरुषसूक्तेन षोडशाहुतीश्च पुनराज्यैः पूर्वोक्त मन्त्रैः तथा
इतरकुण्डेषु च तिलैः सर्वत्र तैः वा आचार्यैः स्वयं हुत्वा। ततः सोत्तरीयवसनाभरणैः
मूर्तिपैः यथाविधि होमं कारयेत्। एवं मूर्तिपेषु जुह्वत्सु आचार्यः सर्वालंकारयुतः
महाकुम्भस्यपश्चिमे पूर्वाभिमुखमासने सम्यगुपविश्य। महाकुम्भजलस्य शोषणादि
कृत्वा। तस्मिन् आधारादि पद्मान्तंपीठं संकल्प्य अभ्यर्च्य। तत्परितश्च यथाविधि ब्रह्मादि
नारदान्तं देवान् आवाह्य अभ्यर्च्य। अस्मद्ग ुरुभ्यो नमः इति गुरून् ध्यात्वा। तस्मिन्
परंज्योतिः चैतन्यघनं अक्षरंसर्वगंवासुदेवं ध्यायन्, द्वादशाक्षर विद्यया समावाह्य,ध्यात्वा।
प्रणवेन अर्घ्यादि दत्वा। तदनु योगासनाब्ज पत्रेषु श्रीवत्साद्याश्च आवरणत्रयेषु व्याप्त्यादि
गरुडान्तान् च आवरणदेवान् अभ्यर्च्य। करकेच पूर्ववत् योगपीठं कृत्वा, तस्मिन्
‘‘सहस्रारहुंफट् आगच्छागच्छ सहस्रादित्यभास्वरं सहस्रारं सहस्रज्वालावृतं सुदर्शनं
आवाहयामि’‘इत्यावाह्य,तन्मन्त्रेण अर्घ्यादिभिः अभ्यर्च्य निवेदयेत्।
तत्र आचार्यः बिंब समीपे स्वस्तिकासनं बद्ध्वा उपविश्य। बिंबं पञ्चभूतमयं ध्यात्वा।
वक्ष्यमाणेन विधिना तत्व संहारन्यासं कुर्यात्।
ॐ ङम् नमः पराय चतुरश्राय पीतवर्णाय घ्राणोपस्थेन्द्रिययुताय शब्दस्पर्शरूप
रसगन्धगुणयुताय पृथिवीतत्वात्मने नमः-पादादि जान्वन्तं,
ॐ घं नमःपराय स्फटिकवर्णाय अर्धचन्द्राकाराय रसना पाय्विन्द्रिययुताय
शब्दस्पर्शरूप रसगुणयुताय अप्तत्वात्मने नमः-जान्वादि गुह्यान्तं,
ॐ गं नमःपराय रक्तवर्णाय त्रिकोणाय दृष्टि चरणेन्द्रिययुताय शब्दस्पर्शरूपगुणयुताय
अग्नितत्वात्मने नमः-गुह्यादि नाभ्यन्तं,
  

ॐ खं नमःपराय धूम्रवर्णाय वृत्ताय त्वरेन्द्रिययुताय शब्दस्पर्शगुणयुताय
वायुतत्वात्मने नमः-नाभ्यादि नासिकान्तं,
ॐ कं नमःपराय जलदवर्णायनिराकारायवाक् श्रोत्रेन्द्रिययुताय शब्दगुणयुताय
आकाशतत्वात्मने नमः-नासादि मूर्धान्तं,
 
ॐ पं नमःपराय सितासित वर्णायमनस्तत्वात्मने नमः-हृदि,
ॐ फं नमःपराय पाटलवर्णाय अहंकारात्मने नमः-हृदि,
ॐ बं नमःपराय स्फटिकाभासाय बुद्धितत्वात्मने नमः-हृदि,
ॐ भं नमःपराय सित वर्णायप्रकृत्यात्मने नमः-हृदि,
ॐ मं नमःपराय स्फटिकाभासायजीवतत्वात्मने नमः-हृदि,।
इति बिंबस्य संहारन्यासं कृत्वा।
तदनु चतुरश्रकुण्ड समीपं गत्वा। आसने संयगुपविश्य। तत्वहोमं करिष्ये‘ इति
संकल्प्य। अग्निं ‘‘अदितेनुमन्यस्व’‘‘‘ ‘‘‘‘इत्यारभ्य ‘‘देवसवितः प्रसुव’‘‘‘ ‘‘‘‘इत्यन्तेन
परिषिच्य। वक्ष्यमाणैः मन्त्रैः हुत्वा।
प्रतिमन्त्राहुति पात्रान्तरम् संपाताज्यं संगृह्य। देवस्यतत्तदङ्गेषु तत्तन्मन्त्रैरेव नमोऽन्तैः
कूर्चेन न्यसेत्।
तत्वन्यासः-(सृष्टिक्रमः)
ॐ मं नमःपराय स्फटिकाभासाय जीवतत्वात्मने स्वाहा-
ॐ भं नमःपराय सित वर्णाय प्रकृत्यात्मनेस्वाहा नमः-
ॐ बं नमःपराय स्फटिकाभासाय बुद्धितत्वात्मनेस्वाहा
ॐ फं नमःपराय पाटलवर्णाय अहंकारात्मने स्वाहा-
  

ॐ पं नमःपराय सितासित वर्णायमनस्तत्वात्मने स्वाहा-हृदि,
ॐ नं नमःपराय शुकवर्णाय शब्दतन्मात्रात्मने स्वाहा-श्रोत्रयोः,
ॐ धं नमःपराय लोहितवर्णाय स्पर्शतन्मात्रात्मने स्वाहा-प्रतिमायां त्वचि,
ॐ दं नमःपराय ज्योतिर्वर्णाय रूपतन्मात्रात्मने स्वाहा-नेत्रयोः,
ॐ थं नमःपराय पाण्डरवर्णाय रस तन्मात्रात्मने स्वाहा-तालुनि,
ॐ तं नमःपराय सितवर्णाय गन्धतन्मात्रात्मने स्वाहा-नासिकायां,
ॐ णं नमःपराय पाटलवर्णाय श्रोत्रेन्द्रियात्मने स्वाहा-श्रोत्रयोः,
ॐ ढं नमःपराय हेमवर्णाय त्वगिन्द्रियात्मने स्वाहा-त्वचि,
ॐ डं नमःपराय कृष्णवर्णाय नेत्रेन्द्रियात्मने स्वाहा-नेत्रयोः,
ॐ ठं नमःपराय गौरवर्णाय जिह्वेन्द्रियात्मने स्वाहा-जिह्वायां,
ॐ टं नमःपराय सितवर्णाय घ्राणेन्द्रियात्मने स्वाहा-नासिकायां,
ॐ ञं नमःपराय सितवर्णाय वागिन्द्रियात्मने स्वाहा-वाचि,
ॐ झं नमःपराय रक्तवर्णाय पाणीन्द्रियात्मने स्वाहा-करयोः।,
ॐ जं नमःपराय रक्तवर्णाय पादेन्द्रियात्मने स्वाहा-पादयोः,
ॐ छं नमःपराय रक्तवर्णाय पाय्विन्द्रियात्मने स्वाहा-अपाने,
ॐ चं नमःपराय हेमवर्णाय मेहनेन्द्रियात्मने स्वाहा-मेहने,
 
ॐ कं नमःपराय जलदवर्णायनिराकारायवाक् श्रोत्रेन्द्रिययुताय शब्दगुणयुताय
आकाशतत्वात्मने स्वाहा।-मूर्धादिनासान्तं,
ॐ खं नमःपराय धूम्रवर्णाय वृत्ताय त्वरेन्द्रिययुताय शब्दस्पर्शगुणयुताय
वायुतत्वात्मने स्वाहा।-नाभ्यादि नासिकान्तं,
  

ॐ गं नमःपराय रक्तवर्णाय त्रिकोणाय दृष्टि चरणेन्द्रिययुताय शब्दस्पर्शरूपगुणयुताय
अग्नितत्वात्मने स्वाहा।-नाभ्यादि गुह्यान्तं,
ॐ घं नमःपराय स्फटिकवर्णाय अर्धचन्द्राकाराय रसनापाय्विन्द्रिययुताय शब्दस्पर्शरूप
रसगुणयुताय अप्तत्वात्मने स्वाहा।-गुह्यादि जान्वन्तं,
ॐ ङम् नमः पराय चतुरश्राय पीतवर्णाय घ्राणोपस्थेन्द्रिययुताय शब्दस्पर्शरूप
रसगन्धगुणयुताय पृथिवीतत्वात्मने स्वाहा।-जान्वादि चरणान्तं,
एभिः मन्त्रैः प्रत्येकं अष्टोत्तर शताहुतीः अष्टाविंशतिः अष्टौवा आज्येन हुत्वा। संपाताज्येन
प्रतिमाङ्गेषु न्यसेत्।
 
अथ प्राणादि दशवायु न्यासः-
ॐ नाभिकन्दात् ब्रह्मरन्द्रावधिस्थितायां सुषुम्नायां स्थिताय प्राणाय स्वाहा।
ॐ कन्दात् वामनासापुटावधि इडायां स्थिताय अपानायस्वाहा।
ॐ कन्दात् दक्षिणनासापुटावधि पिङ्गळायां स्थिताय व्यानाय स्वाहा।
ॐ कन्दात् वामदृगन्तं उत्थितायां गान्धार्यांस्थिताय उदानाय स्वाहा।
ॐ कन्दात् दक्षिणदृगन्तं उत्थितायां हस्तिजिह्वायां स्थिताय समानाय स्वाहा।
ॐ कन्दात् वामश्रोत्रान्तं उत्थितायां पूषायां स्थिताय नागाय स्वाहा।
ॐ कन्दात् दक्षिणश्रोत्रान्तं उत्थितायां यशस्विन्यां स्थिताय कूर्माय स्वाहा।
ॐ कन्दात् पायुमूलावधि स्थितायां अलंबुसायां स्थिताय कृकराय स्वाहा।
ॐ कन्दादारभ्य मेढ्रान्तं अधोगतायां कुहूनायां स्थिताय देवदत्ताय स्वाहा।
ॐ कन्दादारभ्य पादाङ्गुष्ठान्तं अधोगतायां कौशिन्यां स्थिताय धनञ्जयाय स्वाहा ।एवं
पूर्ववत् होमः न्यासश्च।
 
  

अथ प्राणप्रतिष्ठा
 
अस्य श्री प्राणप्रतिष्ठा महामन्त्रस्य। ब्रह्म विष्णु महेश्वराः ऋषयः। ऋग्यजुस्सामाथर्वाणि
छन्दांसि, सकलजगत्सृष्टि स्थिति संहारकारिणी परा प्राणशक्तिः देवता। आं ह्रीं क्रों
बीजं,स्वाहा शक्तिः, ओं कीलकं,बिम्ब प्राणप्रतिष्ठार्थे विनियोगः।
 
१ आं ह्रीं क्रों यरलवशषह ओं हम्सः,अं ङं घं गं खं कं पृथिव्यप्तेजो वाय्वाकाश
प्राणात्मने क्रों ह्रीं आं आं हृदयाय नमः। स्वाहा।
 
२ आं ह्रीं क्रों यरलवशषसह ओं हम्सः,इं नं धं दं थं तं शब्दस्पर्शरूपरस गन्धापानात्मने
क्रोंर्ह्रीं आं इं शिरसेस्वाहा स्वाहा।
 
३ आं ह्रीं क्रों य र लवशषसह ओं हम्सः,उं ञं झं जं छं चं वाक्पाणि पाद
पायूपस्थव्यानात्मने क्रों ह्रीं आं ऊं शिखायै वषट् स्वाहा।
 
४ आं ह्रीं क्रों य र लवशषसह ओं हम्सः,एं णं दं डं ठं टं श्रोत्रत्वक्चक्षुर्जिह्वा
घ्रानोदानात्मने क्रो ह्रीं आं ऐं कवचाय हुं स्वाहा।
५ आं ह्रीं क्रों य र लवशषसह ओं हम्सः,ओं पं फं बं भं मं मनोऽहंकार बुद्धि प्रकृतिजीव
समानात्मने क्रों ह्रीं आं औ ं नेत्राभ्यां वौषट् स्वाहा।
 
६ आं ह्रीं क्रों य र लवशषह ओं हम्सः,अं यं रं लं वं शं षं सं हं लं क्षं वचना गमनानन्द
विहरणोत्सर्गानंद नाग कूर्म कृकरदेवदत्त धनञ्जयात्मने क्रों ह्रीं आं अः अस्त्रायफट्
स्वाहा।
 
  

ध्यानम्
रक्तांबोधिस्थपोतोल्लसदरुणसरोजाधिरूढाकराब्जैः।
पाशंकोदण्डं इक्षूत्भवं अलिगुणमपि अङ्गुशं पञ्च बाणान्।
बिभ्राणा सृपालं त्रिनयन सहिता पीनवक्षोरुहाड्या।
देवीबालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः।
 
मूलमन्त्रम् ओं आं ह्रीं क्रों य र लवशषसह ओं हम्सः,अमुष्यप्राण इहप्राणः आं ह्रीं क्रों
य र लवशषसह ओं हम्सः, अमुष्यजीव इहस्थितः, आं ह्रीं क्रों य र लवशषसह ओं
हम्सः, अमुष्य सर्वेन्द्रियाणि मनोहंकारबुद्धिप्रधान पृथिव्यप्तेजो वाय्वाकाश श्रोत्रत्वक्चक्षु
र्जिह्वाघ्राण वाक्पाणिपाद पायूपस्थ त्वक्चर्म मांस रुधिरमेधोस्थि मज्जाशुक्ल
प्राणाऽपानव्यानोदान समानाः इह आयान्तु सुखं चिरं तिष्ठन्तु स्वाहा ओं इति। पूर्ववत्
होमः न्यासश्च । श्रियादिदेवीनां ब्रह्मादिपरिवाराणांच एवमेव कुर्यात्।
अथ आयुधन्यासः-ओं चक्राय स्वाहा, ओं शङ्खय स्वाहा, ओं गदिने स्वाहा, ओं पद्माय
स्वाहा, ओं शार्ङ्गाय स्वाहा,। एवं होमः न्यासश्च। अथ भूषणन्यासः-ओं किरीटाय
स्वाहा, ओं श्रीवत्साय स्वाहा, ओं कौस्तुभाय स्वाहा, ओं वनमालायै स्वाहा, ओं
वैनतेयाय दर्पणरूपाय स्वाहा ।।एवं होमः न्यासश्च।
 
इति तत्व न्यास होमः नाम पञ्चदशः परिच्छेद:


 
 
  

क्रियाकैरवचन्द्रिकायां षोडशपरिच्छेदः
षोडशन्यास विधिः
अथ प्रणवन्यासः
ॐ अं नमः पराय विष्णवे स्वाहाहृदये ।
ॐ उं नमः पराय ब्रह्मणे स्वाहादक्षिणोरसि।
ॐ मं नमः पराय शंकरात्मने स्वाहा वामोरसि।
ॐ नमः पराय त्रिमू र्त्यात्मने वासुदेवाय स्वाहा हृदये।इति होमः न्यासश्च.
अथ व्याहृतिन्यासः
ॐ नमः पराय भूलोकाय स्वाहापादयोः।
ॐ नमः पराय भुवर्लोकाय स्वाहाहृदि।
ॐ नमः परायसुवर्लोकाय स्वाहाशिरसि। इति होमः न्यासश्च.।
अथ अक्षर न्यासः
ॐ अं नमः पराय रसनात्मनेस्वाहा जिह्वायाम्।एवमुत्तरत्र।
ॐ आं नमः पराय मुखात्मनेस्वाहा।
ॐ इं नमः पराय दक्षिणलोचनात्मनेस्वार्हा।
ॐ इं नमः पराय वामलोचनात्मने स्वाहा।
ॐ उं नमः पराय दक्षिणकर्णात्मने स्वाहा।
ॐ ऊं नमः पराय वामकर्णात्मने स्वाहा।
ॐ ऋं नमः परायदक्षिणनासापुटात्मने स्वाहा।
ॐ ॠंनमः पराय वामनासापुटात्मनेस्वाहा।
ॐ लृं नमः परायदक्षिणगण्डात्मने स्वाहा।
  

ॐ लॄं नमः परायवामगण्डात्मने स्वाहा।
ॐ एं नमः पराय उत्तर दन्तपङ्क्त्यात्मने स्वाहा।
ॐ ऐं नमः पराय अधो दन्तपङ्क्त्यात्मने स्वाहा।
ॐ ओं नमः पराय उत्तरोष्टात्मने स्वाहा।
ॐ औ ं नमः पराय अधरोष्टात्मने स्वाहा।
ॐ अं नमः पराय ललाटात्मने स्वाहा।
ॐ अःनमः पराय ताल्वात्मने स्वाहा।
 ओं यं नमः पराय त्वगात्मने स्वाहा।
ॐ रं नमः पराय चक्षुरात्मने स्वाहा।
ॐ लं नमः पराय नासिकात्मने स्वाहा।
ॐ वं नमः पराय दशनात्मने स्वाहा।
ॐ शंनमः परायश्रोत्रात्मने स्वाहा।
ॐ षं नमः पराय उदरात्मने स्वाहा।
ॐ सं नमः पराय कट्यात्मने स्वाहा।
ॐ हं नमः पराय हृदयात्मने स्वाहा।
ॐ लं नमः पराय नाभ्यात्मने स्वाहा।
ॐ क्षं नमः पराय मेहनात्मनेस्वाहा।
ॐ कं नमः पराय अङ्गुष्टाभ्यांस्वाहा।
ॐ खं नमः पराय तर्जनीभ्यां स्वाहा।
ॐ गंनमः पराय मध्यमाभ्यां स्वाहा।
ॐ घं नमः परायअनामिकाभ्यां स्वाहा।
  

ॐ ङं नमः पराय कनिष्टिकाभ्यां स्वाहा।
ॐ चं नमः पराय दक्षिणोरुमूलात्मने स्वाहा।
ॐ छंनमः पराय दक्षिणोरुमध्यात्मने स्वाहा।
ॐ जं नमः परायदक्षिणजान्वात्मने स्वाहा।
ॐ झं नमः पराय दक्षिण जङ्घात्मने स्वाहा।
ॐ ञं नमः पराय दक्षिणपादात्मने स्वाहा।
ॐ टं नमः पराय वामोरुमूलात्मने स्वाहा।
ॐ ठं नमः पराय वामोरुमध्यात्मने स्वाहा।
ॐ डंनमः पराय वामजान्वात्मने स्वाहा।
ॐ ढं नमः पराय वामजान्वात्मने स्वाहा।
ॐ णं नमः पराय वामपादात्मने स्वाहा।
ॐ तं नमः पराय दक्षिणभुजमूलात्मने स्वाहा।
ॐ थं नमः पराय दक्षिणभुज मध्यात्मने स्वाहा।
ॐ दं नमः पराय दक्षिणभुज सन्ध्यात्मने स्वाहा।
ॐ धंनमः पराय दक्षिणभुज कूर्परात्मने स्वाहा।
ॐ नं नमः पराय दक्षिणकरतलात्मने स्वाहा।
ॐ पं नमः पराय वामभुजमूलात्मने स्वाहा।
ॐ फं नमः पराय वामभुजमध्यात्मने स्वाहा।
ॐ बं नमः पराय वामभुज सन्ध्यात्मने स्वाहा।
ॐ भंनमः पराय वामभुजकूर्परात्मने स्वाहा।
ॐ मं नमः पराय वामकरतलात्मने स्वाहा। इति होमः न्यासश्च।
  

अथ नक्षत्र न्यासः
ॐ नमः पराय रोहिण्यात्मने हृदयाय स्वाहा।
ॐ नमः पराय मृगशिरात्मने शिरसे स्वाहा।
ॐ नमः पराय आद्र्रात्मनेकेशाय स्वाहा।
ॐ नमः पराय पुनर्वस्वात्मने ललाटायस्वाहा।
ॐ नमः परायपुष्यात्मने वदनाय स्वाहा।
ॐ नमः पराय आश्लेषात्मने नासिकायै स्वाहा।
ॐ नमः पराय मघात्मन्यः दन्तेभ्यःस्वाहा।
ॐ नमः पराय पूर्वफल्गुन्यात्मभ्यांश्रोत्राभ्यांस्वाहा।
ॐ नमः पराय उत्तरफल्गुन्यात्मने दक्षिणभुजायस्वाहा।
ॐ नमः पराय हस्तात्मने वामभुजायस्वाहा।
ॐ नमः पराय चित्रात्मने दक्षिणहस्ताय स्वाहा।
ॐ नमः पराय स्वात्यात्मने वामहस्ताय स्वाहा।
ॐ नमः पराय विशाखात्मनेदक्षिणस्तनाय स्वाहा।
ॐ नमः पराय अनुराधात्मने वामस्तनायस्वाहा।
ॐ नमः पराय ज्येष्ठात्मने उदराय स्वाहा।
ॐ नमः पराय मूलात्मिन्यै कट्यैस्वाहा।
ॐ नमः पराय पूर्वाषाढात्मने मेहनायस्वाहा।।
 ओं नमः पराय उत्तराषाढात्मनेवृषणाय स्वाहा।
ॐ नमः पराय श्रवणात्मने पायवे स्वाहा।
ॐ नमः पराय धनिष्टात्मने दक्षिणोरवे स्वाहा।
  

ॐ नमः पराय शतभिषगात्मने वामोरवे स्वाहा।
ॐ नमः पराय पूर्वभाद्रात्मिन्यै दक्षिणजङ्कायैस्वाहा।
ॐ नमः पराय उत्तरभाद्रात्मिन्यै वामजङ्कायै स्वाहा।
ॐ नमः पराय रेवत्यात्मने दक्षिणपादायस्वाहा।
ॐ नमः परायअश्विन्यात्मने वामपादाय स्वाहा।
ॐ नमः पराय भरण्यात्मने दक्षिणपाश्र्वायस्वाहा।
ॐ नमः पराय कृत्तिकात्मने वामपाश्र्वाय स्वाहा।इति होमः न्यासश्च।।
अथ ग्रहन्यासः
ॐ नमः पराय सूर्यात्मने दक्षिण नेत्राय स्वाहा।
ॐ नमः पराय चन्द्रात्मने वामनेत्राय स्वाहा।
ॐ नमः पराय अहंकारात्मने उदराय स्वाहा।
ॐ नमः पराय बुधात्मिन्यै बुद्धये स्वाहा।
ॐ नमः पराय बृहस्पत्यात्मने वागिन्द्रियाय स्वाहा।
ॐ नमः पराय शुक्रात्मभ्यःइन्द्रियेभ्यः स्वाहा।
ॐ नमः पराय शनैश्चरात्मने ललाटाय स्वाहा।
ॐ नमः पराय राह्वात्मने पादाय स्वाहा।
ॐ नमः पराय केत्वात्मने केशाय स्वाहा।
ॐ नमः पराय ध्रुवात्मिन्यै नाभ्यै स्वाहा।
ॐ नमः पराय सप्तष्र्यात्मभ्यः पादादिसर्वगात्रेभ्यः स्वाहा। इति होमः न्यासश्च।
कालन्यासः
 ओं नमः परायशरीरात्मने शरीराय स्वाहा।
  

ॐ नमः परायचैत्रात्मने शिरसे स्वाहा।
ॐ नमः परायवैशाखात्मने मुखाय स्वाहा।
ॐ नमः परायज्येष्ठात्मने हृदयाय स्वाहा।
ॐ नमः पराय आषाडात्मनेदक्षिणस्तनाय स्वाहा।
ॐ नमः पराय श्रावणात्मने वामस्तनाय स्वाहा।
ॐ नमः पराय भाद्रपदात्मने उदराय स्वाहा
ॐ नमः पराय आश्वयुजात्मिन्यै कट्यै स्वाहा।
ॐ नमः पराय कार्तिकात्मने दक्षिणोरवे स्वाहा।
ॐ नमः पराय मार्गशीर्षात्मने वामोरवे स्वाहा।
ॐ नमः पराय पौषात्मिन्यै दक्षिणजङ्घायै स्वाहा।
ॐ नमः पराय मखात्मिन्यै वामजङ्घायै स्वाहा।
ॐ नमः पराय फाल्गुनात्मभ्यां पादाभ्यां स्वाहा।
ॐ नमः पराय वत्सरात्मने वाममुख्यबाहवे स्वाहा।
ॐ नमः पराय पर्वात्मभ्यः सर्वपर्वभ्यःस्वाहा।
ॐ नमः परायसर्वाङ्गस्वरूपेभ्यः ऋतुभ्यः स्वाहा।
ॐ नमः परायषष्ट्युत्तरात्रात्मभ्यःसर्वसन्धिभ्यः स्वाहा।
ॐ नमःपराय त्रुटि लव कला काष्ठा क्षण निमेषात्मभ्यः
रोमभ्यःस्वाहा।
ॐ नमः परायकृतयुगात्मनेमुखाय स्वाहा।
ॐ नमः पराय त्रेतायुगात्मने हृदयायस्वाहा।
ॐ नमः परायद्वापरयुगात्मिन्यै कट्यैस्वाहा।
  

ॐ नमः परायकलियुगात्मभ्यां पादाभ्यां स्वाहा।
ॐ नमः परायस्वायंभुव मन्वन्तरात्मने स्वाहा।
ॐ नमः पराय स्वरोचिषमन्वन्तरात्मनेस्वाहा।
ॐ नमः परायउत्तममन्वन्तरात्मने स्वाहा।
ॐ नमः परायतामसमन्वन्तरात्मने स्वाहा।
ॐ नमः परायरैवतमन्वन्तरात्मने स्वाहा।
ॐ नमः पराय चाक्षुषमन्वन्तरात्मने स्वाहा।
ॐ नमः पराय वैवस्वतमन्वन्तरात्मने स्वाहा।दक्षिणभुजे।
ॐ नमः पराय सूर्यमन्वन्तरात्मने स्वाहा।
ॐ नमः परायदक्ष मन्वन्तरात्मने स्वाहा।
ॐ नमः परायब्रह्ममन्वन्तरात्मने स्वाहा।
ॐ नमः परायधर्म मन्वन्तरात्मने स्वाहा।
ॐ नमः परायरुद्रमन्वन्तरात्मने स्वाहा।
ॐ नमः पराय सावर्णिमन्वन्तरात्मने स्वाहा।
ॐ नमः परायरौद्रभूतिमन्वन्तरात्मने स्वाहा।वामभुजे।
ॐ नमः पराय प्रथमपरार्धात्मिन्यैदक्षिणजङ्कायै स्वाहा।
ॐ नमः पराय द्वितीयपरार्धात्मिन्यै वामजङ्कायै स्वाहा।
ॐ नमः पराय महाकल्पात्मने शिरसे स्वाहा।
ॐ नमः पराय उत्तरायणात्मने दक्षिण पादाय स्वाहा।
ॐ नमः परायदक्षिणायनात्मने वामपादाय स्वाहा।तत्तत्स्थानेषु।
इति होमः न्यासश्च।।
  

अथ ब्राह्मणादि वर्णन्यासः-
 ओं नमः परायब्राह्मणात्मने मुखाय स्वाहा।
ॐ नमः पराय क्षत्रियात्मभ्यां बाहुभ्यांस्वाहा।
ॐ नमः परायवैश्यात्मभ्यां ऊरुभ्यां स्वाहा।
ॐ नमः परायशूद्रात्मभ्यां पादाभ्यां स्वाहा।
ॐ नमः परायसंकरात्मभ्यःपादाङ्गुलीभ्यः स्वाहा।
ॐ नमः पराय गवात्मने मुखाय स्वाहा।
ॐ नमः पराय अजाविकात्मभ्यां बाहुभ्यां स्वाहा।
ॐ नमः पराय अजाविकात्मभ्यां ऊरुभ्यां स्वाहा।
ॐ नमः परायग्रामारण्यपश्वात्मभ्यां पादाभ्यां स्वाहा। एवं होमः न्यासश्च।।
अथ तोयन्यासः
 ओं नमः पराय मेघात्मभ्यः केशेभ्यः स्वाहा।
ॐ नमः परायकूपात्मने रोमकूपाय स्वाहा।
ॐ नमः परायवाप्यात्मभ्यां पादाभ्यां स्वाहा।
ॐ नमः परायनिर्झरात्मभ्यां जङ्काभ्यां स्वाहा।
ॐ नमः परायनद्यात्मभ्यः सर्वावयवेभ्यः स्वाहा।
ॐ नमः पराय समुद्रात्मिन्यै कुक्ष्यै स्वाहा। इति होमः न्यासश्च।
अथ निगमन्यासः
ॐ नमः परायऋग्वेदात्मने शिरसे स्वाहा।
ॐ नमः पराय यजुर्वेदात्मने दक्षिणभुजायस्वाहा।
ॐ नमः पराय सामवेदात्मने वामभुजाय स्वाहा।
  

ॐ नमः पराय सर्वोपनिषदात्मने हृदयाय स्वाहा।
ॐ नमः पराय इतिहासात्मिन्यै दक्षिणजङ्कायै स्वाहा।
ॐ नमः परायपुराणात्मिन्यै वामजङ्कायै स्वाहा।
ॐ नमः पराय अथर्वा‘रि◌सात्मिन्यै स्वाहा।
ॐ नमः पराय कल्पसूत्रात्मभ्यां पादाभ्यां स्वाहा।
ॐ नमः परायव्याकरणीत्मने वक्त्राय स्वाहा।
ॐ नमः परायतर्कशास्त्रात्मने कण्ठाय स्वाहा।
ॐ नमः परायमीमांसानिरुक्तात्मने हृदयाय स्वाहा।
ॐ नमः पराय छन्द आत्मने दक्षिण नेत्राय स्वाहा।
ॐ नमः परायज्योतिषात्मने वामनेत्राय स्वाहा।
ॐ नमः पराय शिक्षात्मिन्यै कुक्ष्यै स्वाहा।
ॐ नमः परायगारुडतन्त्रात्मने दक्षिणकर्णात्मने स्वाहा।
ॐ नमः पराय भूततन्त्रात्मने वामकर्णात्मने स्वाहा।
ॐ नमः परायधनुर्वेदात्मने दक्षिणहस्ताय स्वाहा।
ॐ नमः पराय आयुर्वेदात्मने वामहस्ताय स्वाहा।
ॐ नमः पराययोगशास्त्रात्मने हृदयाय स्वाहा।
ॐ नमः परायनीतिशास्त्रात्मभ्यां पादाभ्यां स्वाहा।
इति होमः न्यासश्च।
अथ देवता न्यासः
ॐ नमः परायब्रह्मणे शिरसे स्वाहा।
ॐ नमः परायसरस्वत्यात्मिकायै जिह्वायै स्वाहा।
  

ॐ नमः परायइन्द्रात्मने दक्षिणभुजाय स्वाहा।
ॐ नमः परायमहाबलात्मने वामभुजाय स्वाहा।
ॐ नमः पराय विश्वकर्मात्मने दक्षिणस्तनाय स्वाहा।
ॐ नमः परायप्रह्लादात्मने वामस्तनाय स्वाहा।
ॐ नमः परायनारदात्मिन्यै दक्षिणकुक्ष्यै स्वाहा।
ॐ नमः पराय अनन्ताद्यात्मिन्यै वामकुक्ष्यैस्वाहा।
ॐ नमः परायवरुणात्मभ्यःअस्थिभ्यः स्वाहा।
ॐ नमः पराय पित्रात्मभ्यां पादाभ्यां स्वाहा।
ॐ नमः परायविश्वेदेवाभ्यां ऊरुभ्यां स्वाहा।
ॐ नमः परायऋष्यात्मभ्यां जानुभ्यां स्वाहा।
 ओं नमः पराय यक्षात्मभ्यांजङ्काभ्यां स्वाहा।
ॐ नमः पराय राक्षसात्मभ्यां गुल्फाभ्यां स्वाहा।
ॐ नमः परायविद्याधरात्मिन्यै पाष्र्णये स्वाहा।
ॐ नमः परायनवग्रहात्मने पादतलाय स्वाहा।
ॐ नमः परायपूतनाजृंभकात्मकेभ्यः नखेभ्यः स्वाहा।
ॐ नमः पराय सुभ्रह्मण्यात्मने दक्षिणकटिपाश्र्वायस्वाहा।
ॐ नमः पराय गन्धर्वात्मने ओष्टाय स्वाहा। इति होमः न्यासश्च।
अथ वैराजन्यासः
ॐ नमः परायस्वर्लोकात्मने मस्तकाय स्वाहा।
ॐ नमः परायसूर्यात्मनेदक्षिणनेत्राय स्वाहा।
ॐ नमः परायचन्द्रात्मने वामनेत्राय स्वाहा।
  

ॐ नमः परायवाय्वात्मिन्यै नासिकायै स्वाहा।
ॐ नमः पराय दिगात्मभ्यां बाहुभ्यां स्वाहा।
ॐ नमः परायऋष्यात्मने हृदयाय स्वाहा।
ॐ नमः परायव्योमात्मने वपुषे स्वाहा।
ॐ नमः पराय देवात्मने अन्तरात्मने स्वाहा।
ॐ नमः पराय मेघात्मभ्यःकेशेभ्यःस्वाहा।
ॐ नमः परायनक्षत्रात्मकेभ्यः भूषणेभ्यः स्वाहा।
ॐ नमः पराय अग्न्यात्मने मुखाय स्वा हा।
 ओं नमः परायसरस्वत्यात्मिन्यै वाचे स्वाहा। इति होमः न्यासश्च।
अथ क्रतुन्यासः
ॐ नमः पराय अश्वमेधात्मने शिरसे स्वाहा।
ॐ नमः पराय नरमेधात्मने ललाटाय स्वाहा।
ॐ नमः पराय राजसूयात्मने मुखायस्वाहा।
ॐ नमः पराय गोसवात्मने कण्ठाय स्वाहा।
ॐ नमः पराय एकादशात्मिन्यै नाभ्यैस्वाहा।
 ओं नमः पराय अग्निष्टोमात्मने लिङ्गाय स्वाहा।
ॐ नमः पराय अतिरात्रात्मने वृषणाय स्वाहा।
ॐ नमः पराय आप्तोर्यामात्मभ्यां ऊरुभ्यां स्वाहा।
ॐ नमः पराय षोडशाहात्मभ्यां जानुभ्यां स्वाहा।
ॐ नमः पराय उक्थ्यस्वरूपायै दक्षिणजंघायै स्वाहा।
ॐ नमः पराय वाजपेयस्वरूपायै वामजंघा यै स्वाहा।
  

ॐ नमः पराय चातुर्मास्यात्मने बाहवे स्वाहा।
ॐ नमः पराय सौत्रामण्यात्मने हस्ताय स्वाहा।
ॐ नमः पराय पश्विष्ट्यात्मभ्यः अङ्गुलीभ्यः स्वाहा।
ॐ नमः पराय दर्शात्मने दक्षिणनेत्राय स्वाहा।
ॐ नमः पराय पौर्णमासात्मने वामनेत्राय स्वाहा।
ॐ नमःपराय इष्टिदर्भयूपस्वाहाकारवषट्कारात्मभ्यां स्तनाभ्यां स्वाहा।
ॐ नमः परायपञ्चमहायज्ञात्मकेभ्यः अङ्गुलीभ्यः स्वाहा।
ॐ नमः पराय दक्षिणात्मने हृदयाय स्वाहा।
ॐ नमः पराय स्तोमात्मकेभ्यःकेशेभ्यः स्वाहा।
ॐ नमः पराय आहवनीयात्मने मुखाय स्वाहा।
ॐ नमः पराय गार्हपत्यात्मने मुखाय स्वाहा।
ॐ नमः पराय दक्षिणाग्न्यात्मिन्यै नाभ्यै स्वाहा।
ॐ नमः पराय आवसथ्यात्मभ्यां पादाभ्यां स्वाहा।
ॐ नमः पराय सभ्यात्मने हृदयायस्वाहा।
ॐ नमः पराय प्रवग्र्यात्मकेभ्यः भूषणेभ्यः स्वाहा। इति होमः न्यासश्च।
अथ गुणन्यासः
 ओं नमः पराय सत्वगुणात्मने शिरसे स्वाहा।
ॐ नमः पराय रजोगुणात्मने हृदयाय स्वाहा।
ॐ नमः पराय तमोगुणात्मभ्यां पादाभ्यां स्वाहा।इति होमः न्यासश्च।
अथ मूर्ति न्यासः
 ओं नमः पराय मत्स्यमूर्त्यात्मने शिरसे स्वाहा।
  

ॐ नमः पराय कूर्ममूर्त्यात्मभ्यां पादाभ्यां स्वाहा।
ॐ नमः पराय वराहमूर्त्यात्मभ्यां जंघाभ्यां स्वाहा।
ॐ नमः पराय नृसिह्म मू र्त्यात्मने ललाटाय स्वाहा।
ॐ नमः पराय वामनमूर्त्यात्मने मुखाय स्वाहा।
ॐ नमः पराय भार्गवरामात्मनेहृदयाय स्वाहा।
ॐ नमः पराय कार्तवीर्यात्मभ्यां कराभ्यां स्वाहा।
ॐ नमः पराय दाशरथिरामात्मने हृदयाय स्वाहा।
ॐ नमः पराय बलरामात्मने हृदयाय स्वाहा।
ॐ नमः पराय कृष्णात्मने हृदयाय स्वाहा।
ॐ नमः पराय बुद्धात्मने गुह्याय स्वाहा।
ॐ नमः पराय कल्क्यात्मभ्यां जानुभ्यां स्वाहा।इति होमः न्यासश्च।
अथ शक्तिन्यासः
 ओं नमःपराय लक्ष्म्यात्मने ललाटाय स्वाहा।
ॐ नमः पराय सरस्वत्यात्मने मुखाय स्वाहा।
ॐ नमः पराय रत्यात्मने स्वाहा।
ॐ नमः पराय प्रीत्यात्मने कर्णाय स्वाहा।
ॐ नमः पराय की र्त्यात्मने चक्षुषे स्वाहा।
ॐ नमः पराय शान्त्यात्मने हृदयाय स्वाहा।
ॐ नमः पराय तुष्ट्यात्मने उदराय स्वाहा।
ॐ नमः पराय पुष्ट्यात्मभ्यः सर्वगात्रेभ्यः स्वाहा।इति होमः न्यासश्च।
अथ षड्गुणन्यासः
  

 ओं नमः पराय ज्ञानाय हृदयायनमः स्वाहा।
ॐ नमः पराय ऐश्वर्याय शिरसेस्वाहा स्वाहा।
ॐ नमः पराय शक्त्यैशिखायै वषट् स्वाहा।
ॐ नमः पराय बलाय कवचाय हुं स्वाहा।
ॐ नमःपराय तेजसे नेत्राभ्यां वौषट् स्वाहा।
ॐ नमः पराय वीर्याय अस्त्रायफट् स्वाहा।इति होमः न्यासश्च।
अथ लोकन्यासः
 ओं नमः पराय अतलात्मभ्यां पादतलाभ्यां स्वाहा।
ॐ नमः पराय वितलात्मभ्यां पादाभ्यां स्वाहा।
ॐ नमः पराय सुतलात्मभ्यां गुल्फाभ्यां स्वाहा।
ॐ नमः पराय नितलात्मभ्यां जंघाभ्यां स्वाहा।
ॐ नमः पराय महातलात्मभ्यां जानुभ्यां स्वाहा।
ॐ नमः पराय रसातलात्मभ्यां ऊरुभ्यां स्वाहा।
ॐ नमः पराय तलातलात्मिन्यै कट्यै स्वाहा।
ॐ नमः पराय भूलोकात्मभ्यां पादाभ्यां स्वाहा।
ॐ नमः पराय भुवर्लोकात्मने मेहनाय स्वाहा।
ॐ नमः पराय स्वर्लोकात्मने उदराय स्वाहा।
ॐ नमः पराय महर्लोकात्मने हृदयाय स्वाहा।
ॐ नमः पराय जनोलोकात्मने कण्ठाय स्वाहा।
ॐ नमः पराय तपोलोकात्मने मुखाय स्वाहा।
ॐ नमः पराय सत्यलोकात्मने शिरसे स्वाहा। इति होमः न्यासश्च।
  

जंघमेषु बिंबेषु षोडशन्यासं न कुर्यात्।
 
इति क्रियाकैरवचन्द्रिकायां षोडशन्यासविधिर्नाम षोडशपरिच्छेदः


क्रियाकैरवचन्द्रिकायां सप्तदशपरिच्छेदः
शान्तिहोमः
एवं षोडशन्यासं कृत्वा ततः शान्तिहोमं कुर्यात्।
प्राचीनकुण्डे‘ओंभूःस्वाहा’‘‘‘इति मधुना अष्टोत्तरशताहुतीः हुत्वा।सम्पातेन देवस्य
पादौस्पृशेत्। दक्षिणे अग्नौ ‘ओं भुवः स्वाहा’‘‘‘इति पयसा तथा हुत्वा।संपातेन देवस्य
जठरं, पश्चिमे अग्नौ ‘ ओं सुवः स्वाहा’‘‘‘इति दध्ना तथाहुत्वा। उत्तरे अग्नौ ‘ओं भूर्भुवः
सुवः स्वाहा’‘‘‘इति आज्येन तथा हुत्वा। संपातेन देवस्य शिरः,सर्वैः संपातैः सर्वाङ्गं च
स्पृशेत्। तत्रैव गुडाज्यमधुभिः विष्णुगाय र्त्या प्रत्येकं तथा हुत्वा। संपातेन देवस्य मुखं
सर्वाङ्गं च स्पृशेत्।
(शाखाप्रोक्षण विधिः
तदनु आचार्यः वेदिकोपरि कोणभागस्थकुम्भजलैः विष्णुगाय र्त्या वेतस शाखया प्रतिमां
सिञ्चेत्। मूर्तिपाश्च पालाश खदिराश्वत्थ बैल्व शाखाभिः पवमानादिभिः मन्त्रैः
वेदिकोपरिस्थित दिुम्भजलैः प्रतिमां सिञ्चेयुः।)लोहशिला दारुमयेषु एषः विधिः।
बहुबेरं तु सदने अन्तः प्रविश्यैव संहारोत्पादनादिकं शान्तिहोमावसानिकं कर्म
कुर्यात्।शय्यादिषु अन्तः परिवारेषु ब्रह्मादिषु च एवं पूर्वोक्तरीत्या तत्वन्यासः होमश्च
कर्तव्यः। सर्वेषां प्राणप्रतिष्ठा होमन्यासकाले अर्घ्यादिभिः उपचारैः उपचर्य। चतुर्विधं
अन्नं प्रणवेन निवेदयेत्। भोगिभोगे आसीने शयाने वा अनन्तस्यापि एवं एव कुर्यात्।
  

ततः प्रतिष्ठा कर्म सिद्ध्यर्थं ‘रक्षाबन्धनकर्म करिष्ये’‘‘‘इति संकल्प्य। मूलभेरे यथाविधि
रक्षाबन्धनं कृत्वा। अभिनवैः कम्बलैःवस्त्रैश्च ‘युवा सुवासाः’‘‘‘इतिप्रतिमां आच्छाद्य।
द्वारि‘ओं नमः सुदर्शनाय चक्रराजाय ज्वालामालिने हुं फट् स्वाहा’‘‘‘ इति मन्त्रेण
सुदर्शनं आवाह्यअभ्यर्च्य। चक्रमुद्रां प्रदश्र्य। तत्र बलिंच निक्षिपेत्।
महाप्रतिष्ठा विधाने तु इन्द्रादि परिवारेषु स्वस्वस्थानेषु स्थाप्येषु देवेन साकं यथायोग्यं
जलाधिवास छायाधिवास नयनोन्मीलन स्नपनादिकं कर्म कृत्वा. तत्तत्स्थानस्य पुरतः
भूमौ पूर्ववत् धान्यपीठान् कृत्वा। शयनसामग्रीसंपूर्णेषु तेषु चण्डादि द्वारपाल गरुड
विष्वक्सेनावरणदेवान् महापीठादि पंचावरण बलिपीठान् च अधिवास्य तत्तत्स्थानानां
पुरतः। कुण्डेषु स्थण्डिलेषु वा परिवारहोमं कुर्यात्। प्रत्यावरणं अष्टाशा-कुण्डेषु यथाक्रमं
पलाश खादिराश्वत्थ प्लक्ष न्यग्रोध बिल्वोदुम्बर काश्मर्य समिदः स्युः। एताभिः समिद्भिः
आज्येन चरुणा च वक्ष्यमाणैः मन्त्रैः प्रतिदैवतं अष्टोत्तरशताहुतीः गरुड विष्वक्सेन
चण्डादीनां पलाशया आज्य चरुभ्यां पूर्व संख्यया वक्ष्यमाणैः मन्त्रैः पृथक् वृतैःब्राह्मणैः
होमं कारयेत्।
गर्भगृहद्वारे ‘‘ओं च्रों चण्डाय स्वाहा’‘‘‘ओं प्रों प्रचण्डाय स्वाहा’‘अर्ध मण्डपद्वारे‘‘ओं शं
शङ्खिणेस्वाहा’‘‘‘ओं चं चक्रिणे स्वाहा’‘ अधिष्ठाने गजाननादयः, वासुदेवादयः
पुरुषादयः वा, आग्नेयां ‘‘ओं गजाननाय स्वाहा’‘ ऐशान्यां ‘‘ओं अंबिकायै स्वाहा’‘
गोपुरोत्तरसाले सूर्यगाय र्त्या, दक्षिणे ईशाय दक्षिणामूर्तये वा, प्रतीच्यां उत्तरसाले
सूर्याय, दक्षिण साले ओं चन्द्रमसे, अन्तर्मण्डप द्वारे ओं जयाय, विजयाय
इत्यावरणदेवताः। आग्नेयां‘ओंकामाय’‘याम्यां‘‘ओं ब्रह्मणे’‘ नैॠते‘‘ओं
गजाननाय’‘वारुण्यां‘‘ओं षण्मुखाय’‘वायव्ये‘‘ओं दुर्गायै’‘ उत्तरे‘‘ओं धनाधिपतये’‘
ऐशाने‘‘ओं श‘राय स्वाहा’‘ तत्रैव‘‘ओं क्षेत्रपालाय’‘ उत्तरे ब्रह्मणे, ऐशाने‘‘ओं
  

महिषासुर मर्दिन्यै’‘‘‘ नृत्तार्धमण्डपाग्रे मूलबेराभिमुखं‘‘ओं वक्रतुण्डाय विद्महे
सुवर्णपक्षाय धीमहि। तन्नो गरुडः प्रचोदयात् स्वाहा’‘तत्रांगणे नैऋते‘‘ओं श्रीं श्रियै
‘‘अङ्कणे स्वस्वाथानेषु इन्द्रादयः,
इन्द्रस्य‘‘ओं त्रातारमिन्द्रं अवितारमिन्द्रं हवे हवे सुहवँ शूरमिन्द्रं हुवेन शक्रं पुरुहूतमिन्द्र
स्वस्तिनो मघवाधात्विन्द्रः स्वाहा’‘
अग्नेः‘‘ अयाश्चाग्नेस्यनभिशस्तीश्च सत्यमित्वमया असि अयसा मनसा धृतोयसा
हव्यमूहिषे अयानोधेहि भेषजं स्वाहा’‘
यमस्य‘‘यदुलूको यदि मोघमेतत् यत् कपोतः पदमग्ने कृणोति यस्यदूतः प्रहित एतत्
तस्मै यमाय नमो अस्तु मृत्यवे स्वाहा’‘
निॠते,‘‘असुन्वन्तमयजमानमिच्छस्तेनस्येत्यां तस्करस्यान्वेषि अन्यमस्मदिच्छ सात
इत्यनमो देवि निॠतेतुभ्यमस्तु स्वाहा’‘
वरुणस्य ‘‘इमम्मे वरुण’‘इत्यारभ्य आयुः प्रमोषीः स्वाहा.इत्यन्तेन
वायोः‘‘ आनोनियुद्भिश्शतिनीभिरध्वरं सहस्रिणीभिः उपयाहियज्ञं वायो अस्मिन्
हविषिमादयस्व यूयंपात स्वस्तिभिः सफ्दा नः स्वाहा’‘
सोमस्य‘‘संतेपयांसिसमुयन्तुवाजाःसंवृष्णियान्यभिमातिपाहःआप्यायस्व अमृताय
सोमदिवि श्रवांस्युत्तमानिधिष्व स्वाहा’‘
ईशानस्य ‘‘तमीशानं जगतस्स्तस्थुषस्पतिं धियं जिन्वमवसेहूमहेवयं पूषानो यथा
वेदसामसद्वृधेरक्षितापायु रधस्थःब्वस्तये स्वाहा’‘इदं एकावरण मात्रविषयम्।
अन्तर्हारोपेते धाम्नि तु अन्तर्मण्डल नाम्नि प्रथमावरणे गोपुरोत्तरसाले ‘‘ओं पुरुषाय
स्वाहा’‘दक्षिणसाले सत्याय, आग्नेये हयग्रीवाय, दक्षिणस्यां संकर्षणाय, नैऋते वराहाय,
वारुण्यां प्रद्युम्नाय, वायव्ये अनन्ताय, उत्तरस्यां अनिरुद्धाय, ऐशान्यां नृसिह्माय, अङ्गणे
  

इन्द्रादि पीठिकास्थानेषु ‘‘ओं चक्रिणे स्वाहा’‘‘‘ओं मुसलिने स्वाहा’‘‘‘ओं शङ्खिणे
स्वाहा’‘‘‘ओं खड्गिने स्वाहा’‘‘‘ओं हलिने स्वाहा’‘‘‘ओं गदिने स्वाहा’‘‘‘ओं पाशिने
स्वाहा’‘‘‘ओं वज्रिणे स्वाहा’‘अन्तर्हार धाम्नि द्वितीयावरणे गोपुरोत्तर साले सूर्याय,
दक्षिणे चन्द्रमसे, आवरणे आग्नेय कामाय, याम्यां ब्रह्मणे, नैऋते गजाननाय, वारुण्यां
षण्मुखाय, वायव्ये दुर्गायै, सौम्यायां धनाधिपतये, ऐशाने शराय, तदावरण गोपुर
चतुष्टय द्वारपालाः-
पूर्वद्वारे पद्मधराय,गदाधराय,दक्षिणे खड्गधराय, शार्ङ्गधराय, पश्चिमे वज्रधराय,
मुसलधराय, उत्तरे पाशधराय, अङ्कुशधराय,अङ्गणे पीठिकास्थानेषु
इन्द्रादयः,मध्यान्तर्हारनाम्नि तृतीयावरणे गोपुरचतुष्टयद्वारपालाः-धात्रे, अर्यम्णे, विधात्रे,
मित्रावरुणाय, भगाय, विवस्वते, पूष्णे, त्वष्ट्रे
अग्नियममध्ये-ओं धराय,ध्रुवाय,सोमाय अद्भ्यः,अनलाय,प्रत्यूषाय,प्रभासाय,यम
निॠतिमध्ये-कव्यवाहे,अनलाय,सोमाय,अग्निष्वात्ताय,सोमपे बर्हिषदाय,
निॠतिवरुणमध्ये- रुद्राय,अग्नये,विष्णवे,वरुणवायु मध्ये आवहाय, विवहाय, उद्वहाय,
संवहाय, निवहाय, अनुवहाय, व्यवहाय,
वायुकुबेरमध्ये-वसिष्टाय,वामदेवाय,जाबालये,काश्यपाय,भृगवे,जमदग्नये,भरद्वाजः
कुबेरेशानयोःमध्ये-मृगाय,व्याधाय,शर्वाय,निॠतये,ध्वजाय, एकपदे, अहये बुद्ध्न्याय,
पिनाकिने, यवदाय, स्थाणवे, भगाय, कपालिने, तत्रैव- क्षेत्रपालाय,
प्रांगणे इन्द्रादि पीठिकास्थानेषु कुमुदादयः, मध्यमायां पूर्वादि सालगोपुरद्वारपालाः, पूर्वे
दुर्जयाय, प्रबलाय,दक्षिणे-विश्वभावनाय,पुष्फराय,पश्चिमे-संभवाय, प्रभवाय, उत्तरे-
सुशोभनाय, सुभद्राय। आवरण देवतास्तु-पूर्वे अनलाय,रवये,पुरन्दराय,अग्नये, अद्भ्यः,
आग्नेय, आदित्यादि नवग्रहेभ्यः याम्ये, अग्नये,वायवे,प्रजायै,सक्तये,निॠते अश्विभ्यां,
  

वारुणेलक्ष्म्यै, सरस्वत्यै, विघ्नाय, वायव्येइन्द्रादयः, उत्तरस्यां वासुदेवाः, ओंब्रह्मणे
मरीचये,अत्रये,विवस्वते पृथिवीश्वराय, चित्राय, अपवत्साय,संधात्रे,सवित्रे,
रुद्राय,रुद्रराजाय, इन्द्राय, इन्द्रजयाय, ईशानाय, पर्जन्याय,जयन्ताय,महेन्द्राय,भानवे,
सत्याय, भृषाय, अन्तरिक्षाय, अग्नये, पूष्णे, कुशाय, भानवे, गृहक्षताय, वमाय,
गन्धर्वाय, भृङ्ग राजाय, मृगाय, सुग्रहाय, पुष्पदन्तकाय, वरुणाय, भृगवे,
श्यावाय,यक्ष्मणे, मनोजवाय,रोगाय,नागाय,मृत्यन्ताय,फल्लाटाय,सोमाय, अदितये,
वास्तुनाथाय, ऐशाने, सप्तविंशतिनक्षेत्रभ्यः, इन्द्रादि पीठिकासु, उपेन्द्राय, प्राकृताय,
पुण्याय, पुष्फराय, विश्वभावनाय, असुरघ्नाय, कृतांताय, भूतनाथाय, महामर्यादाय,
गोपुरद्वारपालाः, कुमुदादयः, आवरणे पूर्वाद्याशासु सिद्धेभ्यः, ॠषिभ्यः, नागेभ्यः,
असुरेभ्यः राक्षसेभ्यः यक्षेभ्यः विद्यादारेभ्यः सौरभेयीभ्यः गुह्यकेभ्यः गन्धर्वेभ्यः
अप्सरोभ्यः प्रजापतिभ्यः अङ्गने इन्द्रादि पीठिकासु विश्वेश्वराय, विश्वकृते, विश्वाय,
विश्वात्मने, विश्वलोचनाय, विश्वपादाय, विश्वभुजाय, विश्वकर्मकृते, ‘ओं महापीठे
सर्वेभ्यः विष्णुपार्षदेभ्यः स्वाहा ‘‘‘‘ ।
  एतत् प्रथमावरणादि पञ्चमावरनान्तम्।एवं परिवार होमं प्रणवादि स्वाहान्तं स्वस्व
मन्त्रेण पूजायां नमोन्तेन च ब्राह्मणैः कारयित्वा। तेभ्यश्च दक्षिणां दद्यात्।
ततः व्रीह्यादिभिः धान्य पीठं विदाय। तस्मिन् दर्भान् आस्तीर्य। परिस्तीर्यच। तस्मिन्
लक्ष्मी रूपां पिण्डिकां आधारशक्तिरूपां आधार शिलां च अधिवास्य पृथक् नवेन वाससा
आच्छाद्य। पूर्ववत् स्थण्डिलं कृत्वा। तस्मिन् बहुबीज दातु लोह रत्नानि भाजने निक्षिप्य।
तद्वाससा आवेष्ट्य तत् निक्षिप्य। पूर्वं शय्यावेदिकायां शयनां प्रतिमां अभिनिकेतमुत्थाप्य।
अर्घ्यादिभिः अभ्यर्च्य। पायसादि चतुर्विधं अन्नं निवेद्य। महाकुंभं च तथा संपूज्य। ततः
पललचूर्ण लाज दधि सक्तुभिः बल्यन्नं संयोज्य।
  

 
आद्याश्च कर्मजाश्चैव ये भूताः प्राक्दिशस्थिताः।
प्रसन्नाः परितुष्टास्ते गृह्णन्तु बलिकाङ्क्षिणः।।
वृक्षेषु पर्वताग्रेषु ये विदिक्षु च संस्थिताः।
 भूमौ व्योम्नि स्थिताये च बलिंगृङ्घन्तु तेऽपि च।।
विनायकाः क्षेत्रपालाः ये चान्ये बलिकाङ्क्षिणः।
पूषाद्याः पार्षदाश्चैव प्रति गृह्णन्त्विमं बलिम्।।
चण्डाद्याः कुमुदाद्याश्च ये भूताः सर्वतः स्थिताः।
आगच्छन्तु पदे सर्वे गृह्णन्तु ते इमं बलिम्।।
 
 
इति गाथया सर्वतः दिक्षु बलिंदत्वा। ततः ओं नमो भगवते स्वप्नाधिपतये सुस्वप्नं
ममकुरुस्वाहा’‘‘‘ इतिमन्त्रेण आज्येन अष्टोत्तरशताहुतीः हुत्वा। अनन्तरं
‘‘प्रतिष्ठार्थं’‘रक्षाबन्धन कर्मकरिष्ये इति सङ्कल्प्य, पुण्याहं वाचयित्वा, देवस्य देव्याश्च
दक्षिणवामकरेषु क्रमेन हेममयं प्रतिसरंबद्ध्वा, बालबिंबस्य पुरतः व्रीह्यादिभिः
धान्यपीठिकां विधाय। तस्यां सलोहरत्नाश्वत्थ पल्लव कूर्चसोपकुंभाष्टकं सकरकं महाकुम्भं
संस्थाप्य। उपकुंभाष्टके इन्द्रादीन् आवाह्य। अभ्यर्च्य। बालबिम्बं सम्पूज्य।तच्छक्तिं
महाकुम्भे करके सुदर्शनं च आवाह्य। अभ्यर्च्य।तदनु मूर्तिपैः प्रतिकुण्डं पूर्णाहुतिश्च
कारयेत्। तदानीं होमधूमः कमलकुवलयगन्धो यदि हुतवहः रत्नश्वेत वर्णः दक्षिणावर्त
ज्वालावान् यदि च तदानीं अत्यन्तं शुभाय कल्पते। तदा सवेद वाद्य घोषं ‘सुस्वप्न
सिद्यर्थं स्वापं करिष्ये’‘‘‘ इति सङ्कल्प्य। भूमौ प्राचीनान् दर्भान् आस्तीर्य। तेषु आचार्य
मूर्तिपयजमानाः स्वप्नार्थं शयिरन् ।
  

इति क्रियाकैरवचन्द्रिकायां शान्तिहोमविधिर्नाम सप्तदशपरिच्छेदः


क्रियाकैरवचन्द्रिकायां अष्टादशपरिच्छेदः
पीठस्थापनम्
अथ प्रभाते कृतकृत्यः आचार्यः रात्रौ सुस्वप्ने सति अविचारयन्। देवस्य प्रतिष्ठां
आरभेत्। दुस्वप्ने शान्तिहोमं पूर्ववत् कृत्वातदन्वारभेत्। एकबेरे तु द्वारस्य दक्षिणे पूर्ववत्
वास्तुहोमं कृत्वा। तदनु आचार्यः गर्भगृहं प्रविश्य। तन्मध्ये चतुरश्रां वृत्तां वा हस्त मात्र
विस्तारायामयुतां निम्नचतुरावरणं शिलां विन्यस्य। वास्तु होमाग्नौ समिदाज्यचरुभिः
विष्णुगायर्त्या प्रत्येकंशताहुतीः हुत्वा।
तच्छिलागर्तेषु प्रथमावरणे पूर्वादिषु यवव्रीहि निष्पाव प्रियङ्गु तिलमाष नीवार शालीनां
अष्टानां बीजानि ।
द्वितीयावरणे वज्रमौक्तिक,वैडूर्य,स्फटिक,पुष्पराग,पद्मराग,चन्द्रकान्त,नीलानि अष्टौ
रत्नानि।
तृतीयावरणे मनश्शिला हरितालाञ्जन श्याम सीस सौराष्ट्र रोचन गैरिकधातून् अष्टौ।
चतुर्थावरणे सुवर्ण रजत ताम्रायस्त्रपुस्वर्णनिर्मित कूर्म शङ्ख चक्राणि एतानि मद्यगर्ते
शालि बीज पारद ब्रह्मराग काञ्चनानि च निक्षिप्य। स्त्रीशिलया श्रीसुक्तेन पिधाय। सुधया
दृढीकृत्य।
ततः पुण्याहं वाचयित्वा। स्त्रीशिलां संप्रोक्ष्य। स्त्रीशिलापद्ममद्ये प्रणवं। कर्णिकायां
अकारादीनि षोडशवर्णानि पूर्वादिषु दलेषु कादिक्षान्तानि च वर्णानि विन्यस्य।
  

तेषु दलेषु पूर्वादिषु - ओं विमलायै नमः, ओं उत्कर्षिण्यै नमः, ओं ज्ञानिन्यै नमः, ओं
क्रियायै नमः, ओं योगात्मिकायै नमः, ओंप्रह्व्यै नमः, ओं सत्यायै नमः, ओं ईशान्यै
नमः।
कर्णिकायां - ओं अनुग्रहशक्त्यै नमः, इति नवशक्तीः आवाह्य। गन्धादिभिः अभ्यर्च्य ।
पिण्डिकायां - ओं श्रीं श्रियै नमः इति आवाह्य। अभ्यर्च्य। नवेन वाससा आच्छाद्य। द्वारे
पूर्ववत् सुदर्शनं अभ्यर्च्य। चक्रमुद्रां प्रदश्र्य। बहिः निर्गत्य।
शय्यावेदिस्थं देवं यथाविधि संपूज्य। द्वारतोरण कुंभस्थान् देवान् उद्वास्य। कुण्डस्थानपि
उपरिष्टात्तन्त्रपूर्वकं देवस्य हृदये समारोप्य। महाकुंभोपकुंभान् अष्टम‘लानि च उद्धृत्य।
वहद्भिः मूर्तिपैः सह आचार्यः स्वयं करकं गृहीत्वा।
अविच्छिन्नगलन्तिनिर्गलितवारिधारया अग्रे मार्गं सिञ्चन् गेहं प्रदक्षिणी कृत्य, गर्भमन्दिरं
प्रविश्य। तत्र धान्य पीठे कुंभान् क्रमेण संस्थाप्य। पुनः शय्यावेदिस्थ देवनिकटं
आसाद्य।
ब्राह्मणानुज्ञानुपूर्वकं देवं हस्ताभ्यां ‘उत्तिष्ट ब्रह्मणस्पते’‘‘‘इत्युत्थाप्य। छत्र ध्वज
पताकाद्यैः अखिल वाद्यघोषैः ब्रह्मघोषैः अनूचानैः ब्राह्मणैः वैष्णवैः अधीयानैः मूर्तिपैश्च
साकं आचार्यः षड‘न्यासादिकं कृत्वा। गेहं प्रदक्षिणी कृत्य। मूलमन्दिरं प्रविश्य। तत्र
गर्भगृहद्वारि देवं अर्घ्यादिभिः संपूज्य। अन्तः प्रवेश्य। पिण्डिकां प्रदक्षिणी कृत्य।
सुमुहूर्ते ‘प्रतिष्ठासि’‘‘‘ इति साम ‘ आत्वाहार्षं ‘‘‘‘इति,‘ध्रुवाद्यौः’‘‘‘ इति मन्त्रान्
गुर्वनुज्ञया। मूर्तिपेषु पठत्सु। आचार्यः देवस्य पुरतःस्थित्वा।‘‘ओं लां नमःपराय
सर्वात्मने नमः’‘इतिमन्त्रेण पिण्डिकायां देवं संस्थाप्य। देवस्य स्थिते समतां ऊर्ध्व लंबित
सूत्रेण निश्चित्य। पिण्डिकानालरन्द्रं लाक्षासर्जरससिक्त कुरुविन्दगुग्गुलु गैरिक गुडतैल
  

दृडपेषण जनितेन अष्टबन्धनेन दृढीकृत्य। पुण्याहं वाचयित्वा। प्रोक्ष्य। अनन्तरं देवं
आवाहयेत्।
आवाहयामि तं देवं तमसः परमव्ययम्।
आनन्दं सर्वगं नित्यं व्योमातीतं परात्परम्।
मरीचि चक्रमध्यस्थं वासुदेवमजं विभुम्।’‘इति ध्यात्वा।
द्विषट्कमनुना देवमावाह्य। ब्रह्मरन्ध्रेण प्रतिमां प्रविष्टं ध्यात्वा। कुम्भस्थं देवं प्रतिमायां
मूलेन संयोज्य। देवस्य तेनैव न्यासं कृत्वा। सान्निध्यं प्राथ्र्य। पूर्वोक्तविधानेन परिवार
कल्पने च विधाय। देवं अर्घ्यादिभिःअभ्यर्च्य। पायसान्नं निवेद्य। प्रत्यग्रैः वसनैः कम्बलै
र्वा ‘‘युवा सुवासाः’‘इति मन्त्रेण परिवेष्ट्य। दिनत्रयं गर्भमन्दिर द्वारं कवाटेन बन्धयेत्।
तदा ब्राह्मणानपि वित्त गो भोजनादिभिः तोषयेत्।
चतुर्थे अहनि प्राप्ते प्रातरेव कवाटं उद्घाट्य। देवस्य स्नपनं यथाविधि कृत्वा। तद्दिने
ध्वजारोहणं कृत्वा। अयं विधिः एकबेरमात्रमेव कार्यः।
बहुभेरविधाने तु बिम्बं चित्रादिकं चेत् रत्नन्यासःशूलस्थापन वेलायामेव कार्यः। प्रतिष्ठा
समये गर्भगेहं प्रविश्य। मार्जनालेपनादिभिः संशोध्य। तत्र चन्दनाद्र्रानि सूत्राणि
प्रागुदङ्मुखानि अष्टौ अष्टौ निपात्य।तेषु एकोनपञ्चाशत्कोष्ठेषु मध्यभागः ब्राह्मः। द्वितीयः
दैवः,तृतीयः मानुषः,तुर्यःपैशाचः। ब्राह्मे अर्चनापीठः,दैवे स्थितिः, मानुषे
परिवारः,पैशाचे आयुधानि, किंचित् मानुषाश्रित्य दैवे आसनं, दिव्य मानुषयोःशय्या,
पैशाचे यानं दैवे देव्यः, आसीने देवे आसीनाः, स्थिते स्थिताः पाश्र्वे,शयाने यानारूढे च
देवे देव्यः यथाभिमतं कल्पनीयाः।
यद्वा- उदङ्मुखानि दश प्राङ्मुखानि तावन्ति सूत्राणि निपात्य। तेषु एकोत्तराशीति कोष्ठेषु
मध्यमः भागः ब्राह्मः द्वितीयः दैवः,तृतीयः पैतृकः, तुरीयः मानुषः,पञ्चमः पैशाचः,इति
  

भागान् कृत्वा। एकबेरस्य ब्राह्मो भागः, बहुभेरस्य दैविकः, दैव मानुषयोः आसनं,
दैवमानुष पैतृकेषु शयनं, मानुष पैशाचयोः यानं इति वा कुर्यात्। उक्तस्थानविपर्यये
राजराष्ट्रं विनश्यति। तस्मात् यथाशास्त्रं साधयेत्।
नपुंसक शिलायां पूर्ववत् रत्न न्यासः। स्थितस्य पादमूले च अन्येषां आसनादीनां पूर्वं
रत्नानि भाजने अधिवास्य। पृष्टतः एव रत्न न्यासं कुर्यात्। कर्माद्यर्चाः तु
महाकुम्भोपकुम्भकरकैः साकं समुद्धृत्य मूत्र्तिपैः साकं स्वयं आचार्यः करकं गृहीत्वा। स
वेद वाद्यघोषं देवस्य अग्रे अविच्छिन्नया गलन्तिकागलत वारिधारया मार्गं सिञ्चन् स्वस्य
बिंबस्य च अन्तरा पथि कश्चिदपि यथा न गच्छेत्। तथा देवागारं प्रादक्षिण्येन प्रविश्य।
तत्र द्वारिदेवं अर्घ्यादिभिः अभ्यर्च्य। अन्तः प्रविश्य। कर्मार्चां अर्चनापीठे नृसूक्तेन
निवेश्य।
उत्सवाद्यर्थ बिम्बानि च तत्पाश्र्वयोः निवेश्य। धारावशिष्टं गलन्तिकोदकं शरावे
निक्षिप्य। शलाकिका मात्रया धारया मूलमन्त्रेण बिंबानां परिषेचनं कृत्वा। देवस्याग्रे
धान्यराशिषु कुम्भान् निक्षिप्य। वक्ष्यमाणेन विधिना आवाहयेत्।
आचार्यः सुमुहूर्ते मूलबेरस्य पुरतः स्थित्वा। पद्मासनम् बद्ध्वा।
प्राणानायम्य। सनातनं ब्रह्मम् ध्यायेत्।
वासुदेवमजं शान्तं उज्ज्वलं सन्ततोदितम्।
अनादिमध्यनिधनं एकं व्याप्याचलं स्थिरम्।
चिद्गनं परमानन्दं तमसः परमव्ययम्।
ज्ञानशक्ति बलैश्वर्य वीर्यतेजस्समन्वितम्।
अपादपाणि अस्पृश्यं अचक्षुश्श्रवणादिकम्।
सर्वत्र करवाक्पादं सर्वतोक्षिशिरोमुखम्।
  

सदागतिविनिर्मुक्तं रविकोटि समप्रभम्।
चैतन्यं सर्वगं नित्यं व्योमातीतं तदद्भुतम्।
चित्सामान्यं जगत्यस्मिन् मूलमन्त्रात्मकं परम्।
एवं विधं सदाविष्णुं आह्लादं प्रणवात्मकम्।।एवं सम्यक् ध्यात्वा।
सदाविष्णुं महाविष्णौ नियोज्य।महाविष्णौ विष्णौ नियोज्य। विष्णुं स्वहृदयकमले,‘‘ओं
यां नमः पराय पुरुषात्मने नमः’ ‘इत्यावाह्य। अञ्जलिंकृत्वा। अञ्जलिमध्ये पद्मासनं
विचिन्त्य। तद्भद्रासनं ध्यात्वा। तस्मिन् स्वहृदयकमल स्थितं विष्णुं
‘‘ओं रां नमः पराय विश्वात्मने नमः’‘इत्यावाह्य।तं अञ्जलिस्थं ‘‘ओं यां नमः पराय
निवृत्यात्मने नमः’‘इति प्रतिमायां ब्रह्मरन्द्रमार्गेण प्रविष्टं विचिन्त्य।‘‘ओं लां नमः पराय
सर्वात्मने नमः’‘इति बिंबं सर्वतः व्याप्य स्थितं स्मृत्वा। महाकुम्भगतां शक्तिं,
कुम्भावाहित बालकौतुक शक्तिं, मूर्तिकुम्भगताः शक्तिश्च तत्तत्कुम्भगत जलस्थितकूर्चैः
मूलेन देवेन संयोज्य। बिम्बब्रह्मरन्ध्रं प्रणवेन पिधाय। आवाहन स्थापन मुद्रे प्रदश्र्य।
‘जितं ते’‘‘‘ इति स्तुत्वा। प्रतिमामुद्रां प्रदश्र्य। देवं आत्मनः अभिमुखं ध्यात्वा। प्रणम्य
उत्थाय। सन्निधान सन्निरोधन, साम्मुख्य, प्रार्थनामुद्राः प्रदश्र्य। ‘‘स्वागतंभगवतः’‘
इत्युक्त्वा स्वागतमुद्रां प्रदर्श्य । देवस्य मूलमन्त्रेण यथाविधि न्यासं कुर्यात्। स्थितौ
स्थितिन्यासः, आसने सृष्टिन्यासः संहार शयने संहृतिन्यासः,सृष्टिशयने सृष्टिन्यासः,
भोगशयने योगशयने विश्वरूपे च स्थितिन्यासः। यानारूढे न्यासत्रयम्। यद्वा
आसनादिषु सर्वत्र स्थितिन्यासः एव कार्यःश्यादिदेवीनां ब्रह्मादीनां च महाकुम्भजलेन
स्वस्वनाम मन्त्रेण प्रोक्ष्य। शय्यादीनां षडङ्ग न्यासं, ब्रह्मणः सृष्टिन्यासः रुद्रस्य
संहारन्यासं च कुर्यात्। चण्डप्रचण्ड गरुड विष्वक्सेनादि सर्व परिवारान् स्वे स्वे स्थाने
संस्थाप्य। आचार्यः स्वयमेव महाकुम्भं गृहीत्वा। तज्जलेन कूर्चेन चण्डादि परिवाराणां
  

प्रणवादि नमोन्तेन स्व स्व मन्त्रेण तत्क्षणे एव प्रोक्षणं कृत्वा। अवशिष्टं महाकुम्भजलं
बलिपीठे संसिच्य। महानसाग्नि कुण्डे अधिश्रपणे च गार्हपत्याग्निं संस्थाप्य। आचार्यः
यजमानेन सह देवस्य पार्श्वं आसाद्य। प्रणम्य। उत्थाय। अञ्जलिं बद्ध्वा। इमां गाथां
उदीरयेत्।
भक्तवत्सल भक्तामभिप्रेतार्थ साधक।
प्रार्थये त्वामहं देव! मदनुग्रहकाम्यया।।
सन्निधत्स्व चिरंस्थाने कल्पिते श्रद्धया मया।
प्रसीददेव देवेशपूजामपि गृहाण मे।
ग्रामस्य राज्ञः राष्ट्रस्य प्रजानां इन्दिरावर।
देहि पुष्टिं च तुष्टिं च गतिं च परमां तथा।
 
इति विज्ञाप्य। देवाय मधुपर्कं निवेदयेत्। तदानीमेव आचार्यानुज्ञया यजमानः
भक्तिनम्रेणशिरसा देवस्य दक्षिण हस्ते तोयपूर्वं यथावित्तानुसारतः गो भू हिरण्यादि
पूजोपकरणानि आत्मानं पुत्रपौत्रदारादीन् हस्त्यादि वाहनानि दासीदासान् च सर्वस्वं
देवस्य पाश्र्वतः आनीय (आचार्येण)दद्यात्। एवं आचार्यमपि पूजयेत्।
ततः आचार्यः स्वर्णादिपात्रं विष्णुगायर्त्या प्रक्षाल्य। देवस्य पुरतः धान्यराशौ तत्
‘अस्मद्ग ुरुभ्यो नमः’‘‘‘ इति संस्थाप्य। गन्धोदकेन आपूर्य। तस्मिन् परमात्मानं
आवाह्य। वेदादिना गन्धादिभिः अभ्यर्च्य। यजमानं आहूय,देवस्य अभिमुखं
स्थापयित्वा। तस्य अञ्जलिंसपुष्पेण अर्घ्यजलेन संपूर्य।इमां गाथां उदीरयेत्।
 
त्वया विना नमे किञ्चित् मां विना तवकस्तथा।
तस्मान्मामात्मसात्कर्तुं प्रसीद परमेश्वर।
  

भूमौ स्खलितपादानां भूमिरेवावलंबनम्।
त्वयि विप्रतिपन्नानां त्वमेव शरणं विभो।
 
इत्याचार्यः देवं विज्ञाप्य। द्वादशाक्षरमन्त्रेण यजमानस्य आत्मानं अञ्जलिस्थ
पुष्पाघ्र्यजलेन सह देवपादपङ्कजे, ‘अस्मद्ग ुरुभ्यो नमः’‘‘‘इति समर्पयेत्। प्रतिष्ठान्ते
नृत्तगीतवाद्यघोष नानाविधस्तोत्रादिभिः उपचारैः देवं तोषयित्वा। चतुर्विधं अन्नं
विधिवत् निवेद्य। महानसे अग्नियमयोःमध्ये चतुरश्रकुण्डे नित्याग्निं प्रतिष्ठाप्य।
संस्कृत्य। समिदाज्यचरुभिः मूलमन्त्रेण यथाविधि पूर्णाहुत्यन्तं हुत्वा। बलिपीठान्
संस्कृत्य। तत्तदावरणेषु प्रतिष्ठाप्य। तेषु नित्यं यथाविधि बलिं दद्यात्। बहुबेर प्रतिष्ठायां
तु कवाटबन्धनं न कुर्यात्। चतुर्थे दिवसे प्राप्ते उत्तमत्रितयेन, मध्यमत्रितयेन वा देवं
चतुस्स्थानार्चनपूर्वकं कलशैः यथाविधि सम्स्नाप्य। तदन्ते ध्वजारोहण पूर्वकं उत्सवं
कारयेत्।
तदनु यजमानः तस्मिन् समये सुवर्णकुसुम वस्त्र अङ्गुलीयक कुण्डलक्षेत्रारामगृह
दासीदास शिबिका गज तुरगादिभिः जीवाजीव धनैः च,आचार्यं तोषयित्वा। तस्मै च
आत्मानं पुत्रदारादि निरपेक्षः सन् निवेद्य। गुरुं मातृत्वेन पितृत्वेन च संभाव्य।
प्रणम्य.तस्मैधेनूनां सहस्रं, अथवा निष्फानां उत्तमां दक्षिणां,तदर्धं वा, अर्धार्धं वा
दद्यात्।
अत्र श्रियादिदेवीनां देवेन साकं कल्पने विवाहकर्म न कुर्यात्। पृथक् चेत् उद्वाहकर्म
अङ्कुरपूर्वकं यथाविधि कुर्यात्।
कर्षणादिप्रतिष्ठान्तं अङ्गत्वेन यदाहृतम्।
तदिष्टशिष्टं सकलं गुरोरेव धनं भवेत्।
  

इति वचनात् सर्वमपि गुरवे दत्वा.मूर्तिपानां परिचारकाणां अन्येषां नृत्तगतिरतानां
सदस्यानां च यथावित्तानुसारतः दक्षिणाम दत्वा। तदनु देवं स्तुत्वा। प्रणम्य। देवेन
अनुग्रहीतः यजमानः गुरुणा सह कन्यका गो भू हिरण्यादीनि दानानि देवसन्निधौ
द्विजेभ्यः दत्वा। बहिः निर्गत्य कृतकृत्यः देवं आचार्यं च नमस्कृत्य। गुरुं शिभिकादिकं
आरोप्य। वाद्यघोष पुरस्सरं ग्रामं प्रदक्षिणी कृत्य। तद्वेश्म प्रवेशयेत्।
 
स्थापकः देवदेवस्य यः पूर्वं देशिकोत्तमः।
तेनैवाराधनं कार्यं तद्वंश्यैरपि निर्गुणैः।
पूजा प्रीतिकरी सैव देवस्य कमलासन।
आदौ विभूति विस्तारः यादृशः परिकल्पितः।
संकोचमन्तरेणैव कुर्यात् तादृशसंपदः।
देवभूत्यनुसारेण रचेत् देवोपजीविनः।
न क्लेशयेत् भागवतान् तथैव परिचारकान्।
इति श्री वराहगुरुणा विरचितायां क्रियाकैरव चन्द्रिकायां
प्रतिष्ठाविधिः नाम अष्ठादश परिच्छेद:


अथ एकोनविंशः परिच्छेदः
मत्स्यादिमूर्ति प्रतिष्ठा विधिः
अथ विभवमूर्तिस्थापनविधिः उच्यते-
मत्स्यादिमूर्तीनां महाप्रतिष्ठायां इव अधिवासादिकं सर्वमपि कुर्यात्।अत्र तु विशेषः
कथ्यते।
  

मत्स्यमूर्तिः वारुण साम्ना नृसूक्तेन महाकुम्भं अभिमन्त्य। तस्मिन् ‘‘ओं नमोभगवते म्यूं
मत्स्यरूपाय’‘‘‘ इति वा मूलमन्त्रेण वा समावाह्य। आचार्यः कुम्भजलेन प्रोक्ष्य।
मीनात्मने नमस्तुभ्यं वेदरक्षाविधायिने।
प्रलयार्णव दुर्वारवारिपूरविहारिणे।.’‘इति मन्त्रेण उपतिष्ठेत।
कूर्मस्य, वारुणसूक्तेन महाकुम्भं अभि मन्त्य।अष्टाक्षर विद्यया समावाह्य।कर्मावसाने,
‘‘तुभ्यं नमस्क्रियां कुर्मः कूर्मरूपाय वेधसे।
धारिणे मन्दरस्याद्रेः विबुधानन्ददायिने।’‘इत्युपतिष्ठेत।
वराहस्य,वराहरूपिणं महाकुम्भे पुरुषसूक्तेन आवाह्य।कर्मावसाने,
क्रोडात्मने नमस्तुभ्यं यज्ञदेहाय(वज्ररूपाय)वेधसे।
दंष्ट्राग्र विधृताशेष धरणीधरणीधर।’‘इति उपतिष्ठेत।
नृसिह्मस्य,नृसिह्मरूपिणं महाकुम्भे,‘‘युञ्जते’‘इति अनुवाकेन समावाह्य।कर्मावसाने,
निशातनखदंभोलिदलितासुरवक्षसे।
दर्शिताश्रितवात्सल्य नृसिह्मवपुषे नमः।’‘इत्युपतिष्ठेत।
वामनस्य,वामनंमहाकुम्भे‘‘युञ्जते’‘इतिअनुवाकेनसमावाह्य।कर्मावसाने,
‘‘बलिद्विषे नमस्तुभ्यं परित्रातवलद्विषे।
वामनाय महाकाय वञ्चिताशेषमानव।’‘इति उपतिष्ठेत।
भार्गवरामस्य,जामदग्न्यंमहाकुम्भे पौरुषेणसूक्तेन आवाह्य,कर्मावसाने,
त्रिसप्तकृत क्षत्राणां निहन्त्रे तिग्मतेजसे।
नमस्तुभ्यं भगवते परश्वथविधारिणे।’‘इति उपतिष्ठेत।
राघवस्य,रामं सीतालक्ष्मणादिभिःसहितं वा महाकुम्भे पौरुषेनसूक्तेन
आवाह्य,कर्मावसाने,
  

नमस्तुभ्यं भगवते राघवाय महात्मने।
रावणादि जगद्द्वेषि निबर्हणमहौजसे।।’‘इति उपतिष्ठेत।
रामप्रतिष्ठा पृथक् चेत् परिवारात्मनःहनूमत्प्रमुखान् च प्रतिष्ठापयेत्।
प्रथमावरणे प्राच्यां भरतं, दक्षिणे जानकीं, प्रतीच्यां जाम्बवन्तं, उदीच्यां लक्ष्मणं,
आग्नेयादिविदिक्षु सुग्रीव, विभीषण, नल,शत्रुघ्नान्च संस्थाप्य।द्वितीयावरणे पूर्वादिदिक्षु
वसिष्ठ, वामदेव, जाबालि,गौतम, भरद्वाज, कौशिक, वाल्मीक, नारदान्,
तृतीयावरणे इन्द्रादिलोकपालान्,गरुडस्थाने हनूमन्तं,विष्वक्सेनस्थाने नीलं गुहं वा
स्थापयेत्। उत्सवे तु ध्वजपटे गरुडं हनूमन्तं वा लिखित्वा ध्वजारोहणं कुर्यात्।
बलरामस्य,बलरामं पूर्ववत् कुम्भे समावाह्य।कर्मावसाने,
 
बलिने बलबद्राय नमः शेषमहाहये।
तुभ्यं मालेव महती धरा येन शिरोधृता।’‘इति उपतिष्ठेत।
कृष्णस्य,कृष्णं भगवद्बिम्बवत् संस्थाप्य।कर्मावसाने,
 वृष्निवर्याय कृष्णाय नमस्तुभ्यं मधुद्विषे।
भूभार भूतकंसादि महासुरनिघातिने।।’‘
 
इति उपतिष्ठेत।रुक्मिणीसत्यभामादीनां श्रियादीनामिव उद्वाहकर्मकुर्यात्।
कल्किविष्णोः पूर्ववत् कृत्वा।कर्मान्ते,
 
म्लेच्छानामुपसंहत्र्रे साधूनां स्थितिहेतवे।
नमस्तुभ्यं भगवते भूसुरान्वय जन्मने।।’‘इति उपतिष्ठेत।
 
  

मत्स्यादि दशमूर्तीनां षोडशन्यासः न इष्यते। लोहबिंबानां च।
तासां शिलामयीनां वर्णचित्रणं यदि, अधिवासादिकं कर्म पूर्वं कृत्वा पश्चात् वर्णलेपनं
विधाय। अनन्तरं आवाहनादिकं कुर्यात्। ध्रुवबिंबस्थितेः भिन्नकाले कर्माद्यर्चास्थापनं
यदि, तासां पृथगेव शयनादिकं कुर्यात्। ब्राह्मेकर्मार्चां, याम्ये उत्सवकौतुकं, उत्तरे
तीर्थस्नपनबिंबे, दक्षिणे शयनोत्थापन बिंबे, बलिबिंबं च अन्यानि लोहबिंबानि लौकिकानि
इष्टभूमिषु च स्थापयेत्।
यद्वा उत्सवार्थबिंबानि द्वारपाश्र्वयोः वा, अभिषेकमण्डपे वा दक्षिणाभिमुखानि स्थापयेत।
जलाधिवासयोग्यानां तु छायाधिवासनं कूर्चादर्शमण्डल स्नपनं कूर्चद्वारा शयनाधिवासं च
कृत्वा, सर्वं अवशिष्टं षोडशन्यास चतुर्थस्नपनवर्जितं पूर्ववत् कुर्यात्।
वटपत्रशायिनस्तु गर्भमन्दिरोदरे अभितः वारिधं विलिख्य। तद्दले शयानं श्यामलं
कोमलाकृतिं बालवपुषं देवं चित्राभासेन कल्पयित्वा। द्वारपाश्र्वयोः मार्कण्डेयं महीं च
विलिख्य चित्राभासोक्तविधिना प्रतिष्ठा कर्म कुर्यात्।
अथ लक्ष्म्यादीनां प्रतिष्ठाविधिः उच्यते
देवस्यदेवीनां च स्थापनं यदिसमानकालीनं तदा देव्याः सहैव शयनम्।कालभेदे तु
पृथगेव कुर्यात्। पूर्ववत् समध्यवेदिकं मण्डपं कल्पयित्वा। तस्मिन् वेदिकायां
शाययित्वा। प्रागादि तोरणेषु बलाकिनी वनमालिनी विभीषिका शा‘रीः,द्वारकुम्भेषु
द्वन्द्वशः ज्येष्ठाविद्या श्रद्धा कान्ति श्री तुष्टि क्षमा वृद्धिः। पूर्वादि ध्वजेषु द्वन्द्वशः, धृति
लज्जा जया माया सावित्री क्षमा शुद्धि श्रद्धाश्च संपूज्य। प्रागादि होमकुण्डेषु
लक्ष्मी,सरस्वती,पुष्टि,तुष्टिश्च आवाह्य। स्वस्व मन्त्रेण होमः कार्यः। कलश देवतास्तु
वागीश्वरी क्रिया कीर्ति लक्ष्मी सृष्टि प्रह्वी सत्या ब्राह्म्यः। महाकुम्भे श्रीदेवी। एवं विधिवत्
संपूज्य। षोडशन्यासरहितं शेषं कर्म पूर्ववत् कुर्यात्।
  

एषः विधिः अस्वातन्त्ये,स्वातन्त्ये तु ग्रामे वा नगरे वा पत्तने वा आलये श्रियः स्थापनं
ग्रामाभिमुखं कल्पयित्वा। विमानोपरि चतसृषु दिक्षु तुष्टि पुष्टि सावित्री वाग्देवीः,कोणेषु
सिह्मं वैनतेयं वा कल्पयित्वा। तत्र ब्राह्मे स्थाने शिलादिमयीं प्रतिकृतिं स्थापयित्वा।
स्वस्वस्थानेषु परिवारान् द्वार पार्श्वयोः चण्डीं प्रचण्डीं अर्धमण्डप द्वारे दक्षिणे बलाकिनीं,
उत्तरे वन्यमालिनीं, प्रथम गोपुरद्वारे विभीषिकां शाङ्करीं, द्वितीय गोपुरद्वारे शङ्ख
पद्मनिधीं, तृतीयगोपुरद्वारे नलकूबर जृंभलौ, चतुर्थगोपुरद्वारे शिभिकुण्डल मणिभद्रौ,
पञ्चमगोपुरद्वारे जयां विजयां विष्वक्सेन स्थाने चतुर्भुजां वामेन वेत्रं, इतरेणहस्तेन तर्जनं
च कुर्वतीं। अपराभ्यां हस्ताभ्यां पद्मे दधानां, पीतवर्णं सुमुखीं स्थापयित्वा।
प्रासादमुखमण्डपे वैनतेयं। आदिमूर्तेरिव परिवारां च कल्पयित्वा। स्वातंत्र्ये एवं
कल्पयित्वा। चतुर्थे अहनि स्नपनं कृत्वा। तद्दिने ध्वजमुत्थाप्य महोत्सवं कुर्यात्।
इति श्री वराहगुरुणा विरचितायां क्रियाकैरव चन्द्रिकायां
विभवमूर्ति श्रीदेवी प्रतिष्ठाविधिः नाम एकोनविंशः परिच्छेदः


अथ विंशः परिच्छेदः
पाणिग्रहण विधिः
अथ श्रियादि देवीनां पाणिग्रहण विधिः उच्यते-यथोक्तदिवसे अङ्कुरार्पणं कृत्वा।
आचार्यः उद्वाहदिवसे शुभे मुहूर्ते देवस्य देव्याश्च संकल्प पूर्वकं पृथक् उद्वाहकौतुकं
यथाविधि बद्ध्वा। देवं क्षौमवस्त्रोत्तरीय किरीटहारकुण्डलाद्याभरण गन्धपुष्पाद्यैः
अलङ्कृत्य। वैवाहिक सदनं प्रवेश्य।तत्रदेवं अर्घ्यादिभिः अभ्यर्च्य। स्थण्डिलं
कल्पयित्वा।उल्लिख्य अग्निं प्रतिष्ठाप्य। आचार्यः देवेन सह अन्तर्गर्भगृहं
प्रविश्य।देवमासने विनिवेश्य। देवीम्नूतनेन वाससा ‘‘युवासुवासाः’‘ इतिमन्त्रेण प्रदक्षिणं
  

परिधाप्य। आचमय्य। आभरणपुष्पाद्यैः अलङ्कृत्य।आचार्यः स्वयंदेवीं देवेन वेदादिना
संयोज्य। तदनु यजमानः प्राणानाम्य। संकल्प्य। जगत्कारणभूताय देवाय मदीयां
गोत्रजां कन्यकां प्रजासहत्वकर्मभ्यः प्रतिपादयामि’‘‘‘इति देवीं
सर्वाभरणसुवर्णगोभूसहितं सहिरण्योदकं देवाय दद्यात्। ततः गृहीतपाणिं देवं देवीं च
मन्दिरात् कल्याणमण्डपं प्रापय्य। आचार्यः देवं देवीं च आसने विनिवेश्य।स्वयं
उत्तराशाभिमुखः सन् प्रानानायम्य।संकल्प्य। पूर्वोक्तवङ्घौ परिस्तीर्य।पुरस्तात्तन्त्रम् कृत्वा
विध्युक्तवत्र्मना क्रमेण आधार होमम् नृसूक्तेन समिद्भिः षोडशाहुतीः चरुणा विष्णुगाय
र्त्या चतुर्विंशत्याहुतीः, श्रीसूक्तेन घृतेन पञ्चाशताहुतीश्च जुहुयात्।
श्रीभूम्योः युगपत् उद्वाहकर्म यदि उभयोरपि अङ्कुरादिकं सर्वं पृथगेव कुर्यात्।एककृत्वे
एककालीनत्वे च सति श्रीभूम्योः अङ्कुरादिकं सर्वं पृथगेव।एकस्मिन् काले पर्यायेण यदि
तत्रापि भिन्नमाचरेत्। आनुपूर्वावशेनापि कर्म विभक्तमेव स्यात्।
यद्वा मुहूर्ते भिन्ने तु वैवाहिकं कर्म भिन्नमेव। मुहूर्तयोः यौगपद्ये क्रियां आनुपूव्र्या कुर्यात्।
श्रीभूम्योः भिन्नकर्तृत्वे यौगपद्योद्वाहेऽपि श्रीभूम्योः प्रतिसरः पृथगेव। देवस्य तु एक
एव।तयोरपि एकाग्नौ भिन्नाग्नौ वा यथाभिमतं उल्लेखनादि पुरस्तात्तन्त्रम् कृत्वा।श्रीभूम्योः
अपि पारतन्त्ये सर्वाः क्रियाः प्रतिव्यक्ति पृथगेव पूर्वं श्रियै पश्चात् भूम्यै च पर्यायेण
कुर्यात्।
भूमेस्तु उद्वाहे भूमिमन्त्रेण समिद्भिः षोडशाहुतीः विष्णुगाय र्त्या चरुणा
चतुर्विंशत्याहुतीः पुरुषसूक्तेन घृतेन षोडशाहुतीश्च हुत्वा। ततः विष्णुसूक्तेन लाजहोमं
कृत्वा। अग्निं प्रदक्षिणी कृत्य। आचार्यः लाजशेषं प्रणवेन सकृत् हुत्वा।‘‘‘‘‘इमं मे
वरुण’‘‘‘तत्वायामि’‘‘‘त्वन्नो अग्ने’‘‘‘सत्वन्नो अग्ने’‘‘‘त्वमग्ने अयासि’‘इति पञ्चवारुणिकैः
  

घृतेन हुत्वा।पञ्चोपनिषण्मन्त्रैः प्रायश्चित्ताहुतीः द्वादशाक्षरमन्त्रेण पूर्णाहुतिं च
हुत्वा।ब्राह्मणान् तोषयित्वा। देवं अर्घ्यादिभिः अभ्यर्च्य। घृतारोपणं आचरेत्।
घृतारोपणं यथा-घृतदूर्वाङ्कुरचन्दन शालितण्डुलानि पात्रे निधाय।हस्ताभ्यां तत्
आदाय।आचार्यः देवस्य, देव्याश्च अङ्गेषु‘‘सुमङ्गलं’‘‘‘ इति दूर्वां, पादयोः ‘‘सुशोभनं’‘
इति घृतम्कट्यां ‘सुभद्रं’‘‘‘ इति चन्दनं मूध्र्नि‘ सुमङ्गलम् इति शालितण्डुलानि च
क्षिप्त्वा।सर्वैः सभ्यैः अपि यथा कारयित्वा। ‘रसेनास्मि’‘‘‘ इति मधुपर्कम्
निवेद्य।लक्ष्मीपतिं च आभरणाद्यैः अलङ्कारैः प्रसाध्य।यथार्हैः माल्यानुलेपनाद्यैः अपि
अलङ्कुर्यात्।यजमानः देवं प्रणम्य।तस्मै धेनुः गुरवे यथावित्तानुसारतः दक्षिणाम्
दद्यात्।ततः आचार्यः हरेः नीराजनं दत्वा। दिक्षु पिण्डिकाक्षेपणं कृत्वा।
लौकिकेनमार्गेण अन्यत् सर्वमपि विधाय। श्रीभूमि सहितं देवं ग्रामधाम प्रदक्षिणम्
कारयित्वा।मण्डपे देवं देव्यौ च आरोप्य।राजोपचारैः उपचर्य। महाहविः निवेद्य। अन्ते
ब्राह्मणान् भोजयेत्। एवं दिवसे दिवसे स्नपनम्,अहर्निशं पूर्ववत् होमम् उत्सवम् च
कृत्वा। तुरीयादिनापररात्रौ समिदाज्यचरुभिः लाजेन च मूलमन्त्राभ्यां पृथक्
अष्टोत्तरशताहुतीः हुत्वा। ततः पञ्चोपनिषदैः अपि हुत्वा।पञ्चमेदिवसे देवम् देव्यौ च
तैलेन अभ्यर्च्य। विधिवत् सुस्नाप्य।महाहविः निवेद्य।ग्रामे महोत्सवं कुर्यात्। ततः
आरभ्य श्रीभूमि सहितं देवं मन्दिरे अभ्यर्चयेत्।इतरासां देवीनां च एतादृशाःएव
विधिः।जामदग्न्यादि देवीनां उद्वाहं स्मार्तवत्र्मना कुर्यात्।
 
इति श्रियादि देवीनां पाणिग्रहणविधिः नाम विंशः परिच्छेदः


 
 
  

अथ एकविंशः परिच्छेदः
विमानप्रतिष्ठाविधिः
अथ विमान प्रतिष्ठाविधिः उच्यते-
महाप्रतिष्ठायां इव विमानस्य पुरतः मण्डपमध्ये चतुहस्तमायतम् एकहस्तोत्सेधं
मध्यवेदिकायुतं चतुर्भिः अष्टभिः वा कुण्डैः युतं कल्पयित्वा। तत्र प्रतिष्ठोपयुक्तानि
पालिकाघटिका शरावाष्टधान्यकुम्भ कलशकरक शालितण्डुल तिल नववस्त्र नवरत्न
तोरण ध्वजाष्टम‘ल स्नपनद्रव्य स्रुक्स्रुव समिद्दर्भकुसुम घृतदीपस्तंभासनादीनि अन्यानि च
द्रव्याणि सम्पाद्य।आचार्यः यजमानानुज्ञया मूर्तिपैः सह कर्मारंभदिनात् पूर्वं द्वादशाहे,
नवाहे, सप्ताहे,पञ्चमेऽहनि,तृतीये अहनि वा ब्राह्मणान् आहूय, आशिषः
वाचयित्वा,दक्षिणां च वितीर्य तेभ्यः अनुज्ञां प्राप्य,मृत्संग्रहणार्थं प्राचीं उदीचिं वा दिशं
गत्वा। तत्र पालिकादिषु पात्रेषु यथाभिमतं पूर्ववत् अङ्कुरान् अर्पयित्वा। शिल्पिना
विमानदिग्देवतानां नयनेषु उन्मीलितेषु तं च वस्त्राभरणाद्यैः तोषयित्वा। तस्मिन् निर्गते
सति सदनं मार्जनालेपन पर्यग्निकरण पञ्चगव्य प्रोक्षणादिभिः शोधयित्वा, पुण्याहं
वाचयित्वा। अब्लिंगैः मन्त्रैः गर्भगृहम् अन्तः बहिश्च संप्रोक्ष्य. गोघृत
दीपिकालागरुप्रमुख गन्धद्रव्य धूप सुधार्चूर्ण दूर्वाक्षतैः सदनं सर्वतः समलङ्कृत्य। ततः
अपराह्णसमये मानादीनां न्यूनातिरेक दोषशान्त्यर्थं प्रासादाग्रे यथाविधि शान्तिहोमं
कृत्वा।‘ नमस्तुभ्यं भगवते’‘ इति उपस्थाय। सदर्भैः नववस्त्रैः मूलमन्त्रेण प्रासादान्तर्गत
प्रतिमाः आच्छाद्य। उत्तरीयं च दत्वा। विष्णुगायर्त्या, अर्घ्यादिभिः संपूज्य।
छायाधिवासार्थं विमानस्य तद्गतदेवतानां स्वस्य च रक्षाबन्धनं कृत्वा.विमानं द्वादशाक्षरेण
अभ्यर्च्य। तस्यपुरतः छायाधिवासार्थं व्रीहि,तण्डुल तिलैः स्थण्डिलं कृत्वा।तस्मिन्
स्वर्णादिलोह निर्मितं कटाहं, तादृशीं जलद्रोणीं वा संस्थाप्य। गन्धोदकेन
  

आपूर्य।पुण्याहंवाचयित्वा। द्वारतोरण कुम्भान् संस्थाप्य। जलस्य शोषणादि कृत्वा।
क्षीरार्णवं ध्यात्वा। तस्मिन् आधारादि पद्मान्तं पीठं कल्पयित्वा। अष्टाविंशति दर्भकृतकूर्चं
मूलविद्यया विमानं आवाह्य। अभ्यर्च्य। आचार्यः संहारक्रमं स्मरन्। तस्मिन् तं
प्राक्छिरसं शाययित्वा। चक्रमुद्रां प्रदश्र्य। विमानगतदेवतानां अपि द्वाविंशतिदर्भकृतकूर्च
द्वारा पृथक् पृथक् स्वस्वपुरतः भाजनेषु यथाविधि छायाधिवासं कृत्वा। पूर्वस्थापित
जलद्रोण्याः याम्यायां दिशि यथोक्तधान्यकृतस्थण्डिले सलक्षणं सकरकोपकुम्भाष्टकं
सम्स्थाप्य। परिस्तीर्य। पुण्याहं वाचयित्वा,प्रोक्ष्य। मध्यकुम्भे ब्रह्माणं करके सुदर्शनं
उपकुम्भाष्टके इन्द्रादीन् च आवाह्य. अभ्यर्च्य. प्रत्येकशः सर्वांगीणैः नवैः वासोभिः
विमानं तद्गतप्रतिमाश्च आच्छाद्य।‘रक्षोहण’‘‘‘ इतिमन्त्रेन सर्वतः सिद्धार्थान्
विकीर्य.दिग्बन्धनं कृत्वा.दीपान् उद्दीप्य। चतसृषु दिक्षु,वेदान् उद्घोष्य. द्वारेसुदर्शनं
आवाह्यअभ्यर्च्य। चक्रमुद्रां प्रदश्र्य। प्रादक्षिण्येन सदनात् निष्क्रम्य।
आचार्यःसर्वालंकारयुतः मूर्तिपैः वेदविद्भिः ब्राह्मणैः साकं पूर्वोक्तमण्डपे, यथाविधि
पूर्ववत् वास्तुहोमं कृत्वा। ततः मण्डपं मार्जनालेपनादिभिः संशोध्य। वितानस्तंभवेष्टन
मुक्तादाम स्रक्दर्भमाला तोरण फलपुष्पबहुदीपागरुधूप पताकानारिकेल कदलीभिः
अलङ्खृत्य। द्वारतोरण ध्वजकुम्भान् सम्स्थाप्य। यथाविधि वस्त्राद्यः संयुक्तान्
विधाय.ततः गुरुः अन्तः प्रविश्य छायाधिवासितान् देवान् विमानं च उद्वास्य।
विमानस्थितवस्त्रादीनि अपनीय। तेषु यथाविधि पूर्वोक्तवत्र्मना नयनानि उन्मील्य। ततः
सप्तदशकलशैः घृतादिद्रव्ययुतैः हरिद्राचूर्णैश्च, विमानस्य दिग्देवतानां च पृथक् पृथक्
तथैव मृदालेपनपूर्वकं सर्वं◌ं स्नपनकलापं सकूर्चे दर्पणे कृत्वा। पुनः आवाह्य।
विमानादिकं नवैः वासोभिः आच्छाद्य. प्रतिष्ठाविधिवत् मध्यवेदिकोपरि शय्यां कृत्वा।
तस्यां कूर्चद्वारेण विमानदेवताः आवाह्य। शाययित्वा, तत्र व्रीह्यादिधान्य कल्पित
  

स्थण्डिलोपरि, स्वर्णादि लोहजं मृण्मयं वा ससूत्रवेष्टनं सकरकोपकुम्भाष्टकं महाकुम्भं
संस्थाप्य। गन्धोदकैः आपूर्य. तान्सरत्नलोह वस्त्र कूर्चपिप्पल दलापिधानान्कृत्वा.
पुण्याहंवाचयित्वा। द्वारतोरण ध्वज कुम्भेषु यथाक्रमं तत्तद्देवताः आवाह्य। अभ्यर्च्य।
महाकुम्भे आधारादिपद्मान्तं पीठं संकल्प्य। तस्मिन्,
 
 
सहस्रशीर्षं पुरुषं सहस्राक्षं सहस्रपम्।
सहस्रकुन्तलोपेतं सहस्रमकुटान्वितम्।
सहस्रादित्यसंकाशं सहस्रेन्दुनिभाननम्।
सहस्रवाहनैः युक्तं सर्व दिङ्नासिकान्वितम्।
शंखचक्रगदापाणिं सर्व प्रहरणान्वितम्।
प्रासादरूपिणं देवं ध्यात्वैवावाहयेत् गुरुः।।’‘इति ध्यात्वा।
‘ओं नमोभगवते विमानाधिदैवताय नारायणाय आगच्छागच्छ’‘‘‘ इत्यावाह्य अभ्यर्च्य।
करके सुदर्शनं उपकुम्भाष्टके विष्ण्वादिमूर्तींश्च आवाह्य अभ्यर्च्य। विमानं च तथा
ध्यात्वा। अभ्यर्च्य। चतुर्विधं अन्नं निवेद्य। ब्राह्मणान् भोजयित्वा। आशिषः वाचयित्वा।
तेभ्यः अपि दक्षिणां वितीर्य। कुण्डेषु अग्निं यथाविधि उपसमिध्य। पुरस्तात्तन्त्रपूर्वकं
मूर्तिहोमादिकं कृत्वा। धाम हेमादिनिर्मितं रत्नखचितं ध्यात्वा।
 
“तत्र जीवमपि ध्यायेत् व्यापकं तदुपादिकम्।
बुद्धिं च पिण्डिकां पादान् अहकारं तथैव च।
पादौ पाद शिला जंघे गर्भगेहं तथोदरम्।
स्तम्भान् बाहून् कटिं चापि तथैव कटिमेखलाम्।
  

जिह्वां वर्णां तथा नेत्रं प्रतीपद्वाश्च मेहनम्।
अपानं जलनिर्याणं नासिकां नासिकां तथा।
गवाक्षमक्षि ग्रीवां च ग्रीवं स्कन्धं कपोलकौ।
शिरश्च कलशं मांसं प्रलेपं स्पर्शनं सुधाम्।
अस्थीनि च शिलास्तस्थाः स्नायुं दारुशिखाध्वजान्।
केशरोमाणि कूर्चं च ध्यात्वा धाम पुराकृतिं ।’
 
इति विमानं पुरुषाकृतिं ध्यात्वा। तदनु जीव तत्वहोमं प्रणवादि स्वाहान्तं पृथक्
अष्टोत्तरशतं अष्टाविंशति अष्टौ वा आज्येन हुत्वा। संपाताज्यं संगृह्य। विमानस्य
तत्तदङ्गेषु तत्तन्मन्त्रैरेव संस्पृशेत्।‘‘ओं मं नमः पराय स्फटिकाभासाय जीवतत्वात्मने
स्वाहा’‘धामनि.
‘ओं भं नमःपरायसितवर्णाय प्रकृत्यात्मने स्वाहा’‘,धामनि(तत्रैव)।‘
ॐ बं नमः पराय स्फटिकाभासाय बुद्धि तत्वात्मने स्वाहा’‘,धामनि(तत्रैव)।‘ओं फं नमः
पराय पाटलवर्णाय अहंकारात्मने स्वाहा’‘,पिण्डिकायां।‘ओं पं नमः पराय सितवर्णाय
मनस्तत्वात्मने स्वाहा’‘,पिण्डिकायां(तत्रैव)।‘ओं नं नमः पराय शुक्लवर्णाय
शब्दतन्मात्रात्मने स्वाहा’‘,क्षुद्रनासिकायां।‘ओं धं नमः पराय लोहितवर्णाय
स्पर्शतन्मात्रात्मने स्वाहा’‘,सुधालेपे।‘ओं दं नमः पराय ज्योतिर्वर्णाय रूपतन्मात्रात्मने
स्वाहा’‘,गवाक्षे।
‘ओं थं नमः पराय पाण्डरवर्णाय रसतन्मात्रात्मने स्वाहा’‘,वर्णे।
‘ओं तं नमः पराय सितवर्णाय गन्धतन्मात्रात्मने स्वाहा’‘ महानासिकासु।
‘ओं णं नमः पराय पाटलवर्णाय श्रोत्रेन्द्रियात्मने स्वाहा’‘ ,पाश्र्वनासिकासु।
  

‘ओं ढं नमः पराय हेमवर्णाय त्वगिन्द्रियात्मने स्वाहा’‘,सुधालेपे।‘
ॐ डं नमः पराय कृष्णवर्णाय नेत्रेन्द्रियात्मने स्वाहा’‘,गवाक्षे।
‘ओं ठं नमः पराय गौर वर्णाय जिह्वेन्द्रियात्मने स्वाहा’‘,वर्णे।
‘ओं टं नमः पराय सितवर्णाय घ्राणेन्द्रियात्मने स्वाहा’‘,महानासासु।
‘ओं ञं नमः पराय सितवर्णाय वागिन्द्रियात्मने स्वाहा’‘,वर्णे।
‘ओं झं नमः पराय रक्तवर्णाय पाणीन्द्रियात्मने स्वाहा’‘,पादेषु।
‘ओं जं नमः पराय रक्तवर्णाय पादेन्द्रियात्मने स्वाहा’‘,पादशिलायां।
‘ओं छं नमः पराय रक्तवर्णाय अपानेन्द्रियात्मने स्वाहा’‘,जलनिर्याणे।
‘ओं चं नमः पराय हेमवर्णाय मेहनेन्द्रियात्मने स्वाहा’‘,मेहने।
‘ओं कं नमः पराय जलदवर्णाय निराकाराय आकाशतत्वात्मने स्वाहा’‘ ,नासिकादि
शिखाकुम्भान्तम्।
‘ओं खं नमः पराय धूम्रवर्णाय वेदिकाकाराय वायुतत्वात्मने स्वाहा’‘,गर्भगेहादि
नासान्तम्।
‘ओं गं नमः पराय लोहित वर्णाय त्रिकोणाकाराय अग्नितत्वात्मने स्वाहा’‘,गर्भगेहे।
‘ओं घं नमः पराय स्फटिकवर्णाय अर्धचंद्राकाराय अप्तत्वात्मने स्वाहा’‘,उपपीठादि
जलनिर्याणान्तम्।
‘ओं ङं नमः पराय पीतवर्णाय चतुरश्राय पृथिवीतत्वात्मने स्वाहा’‘,उपपीठपादेषु।
एवं तत्व न्यासं च कृत्वा। ततः शक्तिहोमं न्यासं च कुर्यात्।
‘ओं प्रकृत्यै स्वाहा, अपाने,‘ओं शान्त्यै स्वाहा, जगत्यां,‘ओं पृथिव्यै स्वाहा, कुमुदे,‘ओं
वागीश्वर्यै स्वाहा,गले,‘ओं रत्यै स्वाहा, पट्टिकायाम्। एवं पञ्चा‘युक्त विमाने।
  

द्वादशा‘ कल्पने तु,‘ओं कीत्र्यै स्वाहा,महापट्टिकायाम्,‘ओं पुष्ट्यै स्वाहा, गले,‘ओं
माहीशक्त्यै स्वाहा, वाजने,‘ओं तुष्ट्यै स्वाहा, पट्यां(वेद्यां),‘ओं सृष्ट्यै स्वाहा,अङ्ग्रिषु,‘ओं
मायायै स्वाहा,कपोतेषु,‘ओं मोहिन्यै स्वाहा,भूतमालासु,
अष्टादशा‘ कल्पने तु- ओं महालक्ष्म्यै स्वाहा, कूटेषु,
ॐ वसुधायै स्वाहा,पञ्जरेषु,ओं अतिमोहिन्यै स्वाहा, प्रस्तरेषु,
ॐ स्वाहाशक्त्यै स्वाहा, वेद्याम् ओं श्रियै स्वाहा,धाम्नि।
इति शक्तिहोमं न्यासं च कुर्यात्।
अनन्तरं पूर्ववत् शान्तिहोमं स्पर्शहोमं च। तदनु दिङ्मूर्तीनाम् तत्वहोमं न्यासं च पृथक्
पृथक् कृत्वा। सहस्रं शतं वा ब्राह्मणान् भोजयित्वा। तेभ्यः अपि दक्षिणां दत्वा।
विमानस्य प्रतिष्ठार्थं पञ्चविंशति तन्तुभिः पट्टिकायां दिङ्मूर्तीनां सौवर्णेन च रक्षाबन्धनं
विधिवत् कृत्वा। तदनु पलल रजनीचूर्न लाज दधि सक्तुभिः बल्यन्तं सम्योज्य।तेन,
आद्याश्च कर्मजाश्चैव ये भूताः प्राग्दिशिस्थिताः।
प्रसन्नाः परितुष्टास्ते गृह्णन्तु बलिकांक्षिणः।।
वृक्षेषु पर्वताग्रेषु ये विदिक्षु च संस्थिताः।
भूमौव्योम्नि स्थिताः ये च बलिंगृह्णन्तु तेऽपि च।।
विनायकाः क्षेत्रपालाः ये चान्ये बलिकांक्षिणः।
पूषाद्याः पार्षदाश्चैव गृह्णन्तु बलिमद्य ते।।’‘
 
इति मन्त्रैः सर्वतः दिक्षु बलिदानं कृत्वा। तदनु प्रभाते सुमुहूर्ते सर्वालंकारयुतः गुरुः
महाकुम्भ मूर्तिकुम्भान् समादाय। अग्रे गलन्तिकागलत् वारिधारया परिषिञ्चन्
धामप्रदक्षिणी कृत्य।विमानाग्रे धान्यकृतस्थण्डिले तान् निधाय। आचार्यः उदङ्मुखस्सन्
  

महाकुम्भस्यशक्तिं विमाने मूलमन्त्रेण मूर्तिकुम्भगतश्शक्तीः मूर्तिपेषु च विन्यस्य। विमानं
सहस्रशीर्षं पुरुषं ध्यात्वा। महाकुम्भं समादाय। दिङ्मूर्तीः स्व स्वमन्त्रैः प्रोक्ष्य।तथैव
अन्यान् विमानस्थदेवान् च प्रोक्ष्य। ततःविमानं तद्गतदेवताश्च अर्घ्यादिभिः अभ्यर्च्य।
महाहविः निवेदयेत्। तदनु यजमानः गुरुं प्रणिपत्य। जीवजीवात्मकैः धनैः मूर्तिपान्
अन्यान् च यथावित्तानुसारतः तोषयेत्।
 
इति विमानप्रतिष्ठाविधिः नाम एकविंशः परिच्छेदः


द्वाविंशः परिच्छेदः
मण्डपप्रतिष्ठाविधिः
 अथ मण्डपप्रतिष्ठाविधिःउच्यते-
पूर्ववत्वेदिकां निर्माय।आलयविशोधनादि ध्यानान्तं सकलं कर्मजालं विमानप्रतिष्ठोक्त
विधिना कृत्वा। आचार्यः,
मण्डपं विश्वकर्मीयं सर्वरत्न परिष्फृतम्
सौवर्णैः बहुभिः स्तम्भैः नवरत्नविराजितैः।
उत्तंभितं सर्वशक्तिमयं ध्यायेद्ग ुरुः स्वयम्।’‘
 
इति ध्यात्वा। विधिवत् अग्निं पुरस्तात्तन्त्रपूर्वकं संस्कृत्य। ततः शान्तिहोमं कृत्वा.
सम्पाताज्येन मण्डपस्य तत्तस्थानेषु न्यसेत्।
 
‘‘ओं प्रकृत्यै स्वाहा’‘‘‘ अपाने,‘‘ओं वसुधायै स्वाहा’‘‘‘ जगत्याम्,‘‘ओं क्रियायै
स्वाहा’‘‘‘ वप्रे,‘‘ओं मोहिन्यै स्वाहा’‘कंपे,‘‘ओं रत्यै स्वाहा’‘वाजने,‘‘ओं मायायै
  

स्वाहा’‘‘‘ग्रीवायाम्, ‘‘ओं वागीश्वर्यै स्वाहा’‘‘प्रातकंपे,‘‘ओं इष्टाशक्त्यै स्वाहा’‘‘‘
कुमुदे,‘‘ओं क्षमायै स्वाहा’‘‘‘ पट्टिकायां,‘‘ओं ब्राह्म्यै स्वाहा’‘‘‘ स्तम्भपादशिलायाम्,‘‘
ॐ वैष्णव्यै स्वाहा’‘‘‘ स्तम्भे,‘‘ओं कमलायै स्वाहा’‘‘‘ कपोते,‘‘ओं शान्त्यै
स्वाहा’‘उत्तरे,‘‘ओं पद्मायै स्वाहा’‘‘‘ तुलायाम्,‘‘ओं ऐशान्यै स्वाहा’‘‘‘ सोपानपङ्क्तिषु,
चतुर्षुमण्डपद्वारतोरणेषु अधः‘‘ओं शान्त्यै स्वाहा’‘‘‘ दक्षिणशाखायां,,ओं वाग्देव्यै
स्वाहा उपरि,ओं श्रियै स्वाहा उत्तर शाखायाम्, ओं रत्यै स्वाहा’‘‘‘इति संपातेन न्यस्य।
 
शान्तिहोमावसानिकं सर्वं कर्म पूर्ववत् निर्वर्त्य। ततः प्रभाते सुमुहूर्ते गुरुः स्वयं महाकुम्भं
समादाय पूर्वोक्ताः शक्तीः स्वस्वमन्त्रेण नमोन्तैः आगच्छपदसंयुक्तैः मण्डपे
पूर्वोक्तस्थानेषु न्यस्य। व्यापकरूपेण विचिन्त्य। तत्रस्थानि चित्राणि चित्राभासानि च
कुम्भस्थवारिणा कूर्चेन स्वस्वमन्त्रेण यथापूर्वं प्रोक्षयेत्। तदनु यजमानश्च पूर्ववत् गुरवे
दक्षिणां दद्यात्।
 
 
आस्थान मण्डपप्रतिष्ठा
आस्थानमण्डपादीनाम तु मण्डपशोधन पर्यग्निकरण पञ्चगव्य प्रोक्षण वास्तुहोम
पुण्याहवाचन बलिकुम्भस्थापनादिकं कृत्वा। एकस्मिन् कुण्डे आहुतीश्च हुत्वा। आचार्यः
सुमुहूर्ते महाकुम्भ जलेन पूर्ववत् प्रोक्षयेत्। सर्वमपि कर्म सद्यः वा कुर्यात्। गुरवे दक्षिणा
च पूर्ववत्।
गोपुरप्रतिष्ठा गोपुरप्रतिष्ठां विमानप्रतिष्ठावत् कुर्यात्। प्राकारप्रतिष्ठायां तु अङ्कुरार्पणादिकं
सर्वं यथापूर्वं विधाय। गुरुः वर्ममन्त्रेण प्राकारं प्रोक्षयेत्। दक्षिणा च पूर्ववत्।
  

द्वारशाखाकवाटप्रतिष्ठे तावत् आदौ एव उक्ते। अत्रापि तथैव कुर्यात्।
इति श्री वराहगुरुणा विरचितायां क्रियाकैरव चन्द्रिकायां मण्डप आस्थान मण्डप गोपुर
प्राकार द्वारशाखा कवाट प्रतिष्ठा विधिः नाम .द्वाविंशः परिच्छेदः


अथ त्रयोविंशः परिच्छेदः
बलिपीठनिर्माण प्रतिष्ठे
 
अथ बलिपीठनिर्माण विधिः उच्यते-
बलिपीठिकां गर्भमन्दिरसमायाम विस्तारां, तदर्धां, तुरीयांश समां वा, यद्वा गर्भमन्दिरं
पञ्चधा विभज्य। तद्व्यंशां एकांशां वा अथवा नवसु एकभागसमां यद्वा हस्तवशेन
एकहस्तावरां, पञ्चहस्तपरां वा विस्तार द्विगुणोत्सेधां, त्रिगुणोत्सेधां, अर्धार्धिकां,
विस्तारतुल्योत्सेधां वा, पञ्चाङ्गकल्पनोपेताम्, कपोतभूतमाला हंसमालादि विराजितां
निर्माय, तदग्रविस्तृतिं त्रेधा विभज्य, द्वाभ्यां पंकजं विधाय।
पीठिकाकोणेषु गरुडान् सिह्मान् वा प्रागादिषु विघ्नराडीशपक्षीश दुर्गाः यथोन्नति पार्श्वे
सोपानपङ्क्तीश्च कल्पयेत्।
 
बलिपीठप्रतिष्ठा विधिः उच्यते-
 
एवं पीठिकां गोपुरास्थानमण्डपयोः मध्ये कल्पयित्वा। यथायोगं अष्टसु दिक्षु बलिपीठानि
तालद्वयेन विस्तारायामयुतानि प्रत्येकं चतुरङ्गुलोन्नत मेखलात्रययुतानि, तन्मध्ये
वृत्ताकारेण चतुरश्राकारेण वा चतुरङ्गुलायाम विस्तारकर्णिकायुतानि च कृत्वा।
गेहस्यपरितः पूर्वाद्यासु संस्थापयेत् । माहापीठस्य पश्चिमभागे ध्वजस्तंभस्य
पीठं च निर्मिमीत। प्रासादाभिमुखः स्तंभः कल्पनीयः। यथा
  

पूर्वाभिमुखे देवे प्रत्यङ्मुखः, पश्चिमाभिमुखे देवे पूर्वाभिमुखः, सर्वं संस्थाप्य। आचार्यः
वास्तुहोमाङ्कुरावापनादिकं सर्वं क्रियाकलापं शान्तिहोमावसानिकं मन्दिरस्य इव कृत्वा।
ततः प्रभाते सुमुहूर्ते मूलविद्यया महाकुम्भजलेन पीठं कूर्चेन सम्प्रोक्ष्य। तस्मिन् प्राच्यां
विघ्नराजाय नमः,दक्षिणे ओं ईशानाय नमः,पश्चिमे ओं पक्षिराजाय नमः,उत्तरे ओं दुर्गायै
नमः, मध्यकर्णिकायां ओं सर्वेभ्यः विष्णुपार्षदेभ्यः नमः इति प्रोक्ष्य। अष्टास्वपि दिक्षु
कुमुदादिगणेशान् स्वैः स्वैः अनुचरैः सह, स्वस्वमन्त्रेण आवाह्यसान्निध्यं प्राथ्र्य। तेषु
नित्यं बलिं दद्यात्। यजमानः यथाशक्ति ब्राह्मणान् भोजयित्वा। तेभ्यः दक्षिणां वितीर्य।
आचार्याय शतनिष्फां दक्षिणां दद्यात्।
 
अथ महानस प्रतिष्ठाविधिः-
 
आचार्यः तत्र वास्तुहोमादिकं सर्वं कृत्वा।धान्यराशौ सलक्षणं कुम्भं एकं विन्यस्य।
तस्मिन् मूलेन आवाह्य, अभ्यर्च्य। अग्निं संसाध्य। समिदाज्य चरुपायसैः प्रतिद्रव्यं
मूलमन्त्रेण अष्टोत्तरशताहुतीः हुत्वा। तत्रस्थानां देवानां चण्डप्रचण्ड क्षेत्रपालरुद्र गणेश
जृंभल मणिभद्र शिभिकुण्डल धर्म अधर्म धातृविधातृ लक्ष्म्याद्यानां होमपूर्वं
तत्वन्यासादिकं कर्म कृत्वा। चुल्लीषु ‘‘अग्निमीले इति मन्त्रेण अग्निं निदधीत। तत्र
पायसादीनां हविषां श्रपणं परिचारकाःकुर्युः।नित्यहोमार्थं कुण्डे अग्निं पुरस्तात्तन्त्रपूर्वकं
यथाविधि स्थापयित्वा। तदनु महाकुम्भजलेन चण्डादीनां न्यसनं कुर्यात्।
 
महानस द्वारे- ओं चण्डाय नमः, ओं प्रचण्डाय नमः,
दक्षिण पार्श्वे -ओं क्षेत्रपालाय नमः,ओं ईश्वराय नमः,उत्तरे-ओं गणपतये नमः,ओं
जृंभलाय नमः,पश्चिमे ओं मणिभद्राय नमः, ओं शिबिकुण्डलाय नमः, अन्येषु द्वारेषु
  

सत्सु, प्रासादद्वारवत् लक्ष्म्यादीनां कल्पनं चरेत्। चुल्याः वामे ओं धर्माय नमः,ओं
अधर्माय नमः,पृष्ठतःओं धात्रे नमः,अग्रेओं विधात्रे नमः, तत्रैव चुल्ल्याभिमुखं महालक्ष्म्यै
नमः, दीर्घचुल्यास्तु उभयोः पार्श्वयोः,धर्माऽधर्मौ कल्पयेत्।सर्वान् तान् अभ्यर्च्य। तत्र
स्थानि सकलानि पात्राणि कुम्भजलेन श्रीसूक्तेन प्रोक्षयेत्।गुरवे दक्षिणा च पूर्ववत्।
 
धान्यागार प्रतिष्ठा-
धान्यागार धनागार सारस्वतगृह मज्जनशाला पुष्पवाटिकासदन तांबूलकल्पन गृहतैल
स्थानादीनां धाम्नाम् शिल्पिभिः कल्पितानां आचार्यः शास्त्रोक्तेन विधिना वास्तुहोमादि
प्रोक्षणान्तं सर्वं मण्डपस्य इव कुर्यात्। दक्षिणाच यथावसु देया।
 
अथ वापीकूप तटाकप्रतिष्ठा-
तेषां भागे पश्चिमे चतुर्हस्तायामं एकहस्तोच्छ्रितां वेदिकां कल्पयित्वा। सुवर्णेन
अल्पकायं जलाधिदैवतं निर्माय। सुवर्णादिलोहजान् मृण्मयान् वा कलशान् सरत्न
लोहकूर्चापिधानान् नव धान्यराशौ संस्थाप्य।यथाविधि आवाह्य अभ्यर्च्य। तैः
जलाधिदैवतं विधिवत् स्नापयित्वा। तदनु वेदिकायां सलक्षणायां शाययित्वा। तत्र
महाकुम्भं संस्थाप्य। तस्मिन् जलाधिदैवतं आवाह्य अभ्यर्च्य। चतुर्षु कुण्डेषु एकस्मिन्
वा अग्निं उपसमिध्य।तत्र तं आवाह्य। तद्दैवत्यैः मन्त्रैः समिदाज्य चरुभिः पृथक्
अष्टोत्तरशताहुतीः हुत्वा। भूसुरैः वारुणसूक्तानि पाठयित्वा। ततः प्रभाते सुलग्ने पुण्याहं
वाचयित्वा। वाप्यादीन् प्रोक्ष्य। आचार्यः अमृतवारिभिः पूरितान् विचिन्त्य। ततः
सुवर्णादि लोहकृतानि मत्स्यकूर्मादीनि जलाधिदेवताप्रतिमां महाकुम्भं च वाप्यादिषु
निक्षिप्य।तत्र गङ्गादिसर्वसरितः स्वस्वमन्त्रैरेव आवाहयेत्। यजमानः गुरवे यथावसु
दक्षिणां दत्वा। तत्र ब्राह्मणान् भोजयित्वा। तेभ्यः अपि यथाशक्ति दक्षिणां दद्यात्।
 
  

इति श्री वराहगुरुणा विरचितायां क्रियाकैरव चन्द्रिकायांबलिपीठनिर्माण तत्प्रतिष्ठा-
महानसधान्यागार-वापीकूप तटाकप्रतिष्ठा- विधिः नाम त्रयोविंशः परिच्छेदः


 
अथ चतुर्विंशः परिच्छेदः
प्रभाप्रतिष्ठा
अथ प्रभादीनां प्रतिष्ठाविधिः उच्यते-
कालांतरे चेत् प्रभादीनां प्रतिष्ठा, जलाधिवासाद्यखिलं कर्म यथापूर्वं कृत्वा। गुरुः
ज्वालामालासहस्राड्यां विद्युत्संघातसन्निभां प्रभां ध्यात्वा। संस्पृश्य।
अग्नौसमिदाज्यचरुभिः मूलमन्त्रेण प्रत्येकं अष्टोत्तरशतं आहुतीनां हुत्वा। सर्पिषा शान्ति
होमं च हुत्वा। संपातेन प्रभां संस्पृश्य। प्रभाते कुम्भवारिणा मूलेनप्रोक्ष्य। प्रभां सुमुहूर्ते
देवेन संयोज्य। महोत्सवं कुर्यात्। गुरवे दक्षिणा च पूर्ववत्।
पीठस्थापनम्।पीठस्थापने तु गुरुः तत्र पीठम् सम्स्थाप्य। योगासनमन्त्रैः आधारादि
पद्मान्तैः अग्नौ हुत्वा। संपातेन पीठं संस्पृश्य. पद्म पीठं सुमुहूर्ते देवेन योजयेत्। दक्षिणा
च पूर्ववत्।
अथ घण्टा प्रतिष्ठा उच्यते
घण्टां पञ्चगव्येन पञ्चवारुणिकैः मन्त्रैः संस्नाप्य। नववाससा आवेष्ट्य। शालितण्डुलतिलैः
स्थण्डिलं कृत्वा. तदूध्र्वे नववस्त्रं सदर्भं विन्यस्य। तत्र घण्टां तन्मन्त्रेण शाययित्वा। नवेन
वाससा आच्छाद्य। तत्रसलक्षनं कुम्भं एकं सम्स्थाप्य। तस्मिन्‘‘शब्दब्रह्मस्वरूपिण्यै ओं
घण्टायै नमः’‘ इति आवाह्य अभ्यर्च्य। कुण्डेस्थण्डिले वा तन्मन्त्रेण समिदादिभिः पृथक्
अष्टोत्तरशतं आहुतीनां, चरुणा नृसूक्तेन षोडश च हुत्वा। तां शब्दब्रह्ममयीं ध्यात्वा।
  

शान्तिहोमं कृत्वा। संपातेन घण्टां सम्स्पृश्य। प्रभाते कुम्भतोयेन प्रोक्ष्य। ततः घण्टां
देवस्य सर्वकर्मसु चालयेत्।गुरवे दक्षिणा पूर्ववत्।
धूप दीपप्रतिष्ठा
धूपदीपयोस्तु पूर्ववत् सर्वं कर्म कृत्वा।‘‘ओं धूपपात्राधिदैवताय पावकाय नमः’‘ इति
धूपं, ओं दीपपात्राधिदैवताय भास्कराय नमः’‘ इति दीपं च होमानन्तरं महाकुम्भ
जलेनप्रोक्षयेत्। दक्षिणा च पूर्ववत्।
भेर्यादि प्रतिष्ठा-भेर्यादीनां पञ्चगव्येन शुद्धिंकुर्यात्।
रथादीनां छत्रादीनां च प्रतिष्ठा
रथादियानानां तु शुद्धिं पूर्ववत् कृत्वा। स्वस्वदेवतामन्त्रेण महाकुंभजलेन प्रोक्षणं कुर्यात्।
छत्रादीनामपि पूर्ववत्.सर्वत्र ब्राह्मणान् भोजयित्वा. पुण्याहपूर्वकं यथाविधि सर्वं
कर्मकुर्यात्। यजमानश्च गुरवे वित्तानुसारतः दक्षिणां दद्यात्।
अक्षमला प्रतिष्ठाविधिः
अथ अक्षमालाप्रतिष्ठा विधिः उच्यते
सुवर्ण रजत ताम्र त्रपु सीस कांस्यायस्फटिक सूर्यकान्त चन्द्रोपल पुत्र जीवेन्द्राक्षी
विभीतिका निंब पद्म सितअंभोज कमलाक्ष रुद्राक्ष शङ्ख जलज कुशग्रन्त्यादिषु जप्तुः
अभिमत कर्मानुगुणान् मणीन् अष्टोत्तरशतसंख्याकान् तदर्धान् सप्तविंशति संख्याकान्
वा अक्षास्थि तुल्यान् धात्रीफलास्थिसदृशान् बदरास्थि समानान् वा संपाद्य.तान्
दोषवर्जितान् निरीक्ष्य। पञ्चवारुणिकैः पञ्चोपनिषत् मन्त्रैश्च पञ्चगव्यैः संक्षाल्य। तान् हेमै
राजते वा सूत्रे त्रिगुणीकृते केशादि दोषवर्जिते कार्पाससूत्रे वा पृष्ठेन पृष्ठं मुखेन मुखं
परस्परं यथा न संबध्येत। तथा अन्तरांतरा सुवर्णेन वा सूत्रेणवा मध्यबन्धयुतान्
आरोप्य। तां मालां कटकाकारं कृत्वा।
  

तन्मालौमहत्तरं अन्यं मणिं निधाय। एवं अक्षमालिकां कृत्वा। तां पुण्याहजलेन प्रोक्ष्य।
पद्मदलेसंस्थाप्य। कुंकुमाद्यैःविलिप्य। शालितण्डुलैः, भारादिप्रमाणयुतैः स्थण्डिलं
कृत्वा। तत्र चक्रपद्मं विलिख्य। कुशैः नववस्त्रैश्च आच्छाद्य। हेमवस्त्रयुतं महाकुम्भं
धान्यपीठे निक्षिप्य। तस्मिन् ‘ओं नमो अक्षमालिकाधि दैवताय मन्त्रपुरुषाय नमः’‘ इति
मन्त्रेण आवाह्य अभ्यर्च्य कुण्डेस्थण्डिले वा अग्निं उपसमिध्य। समिच्चरुघृतैः तन्मन्त्रेण
पृथक् अष्टोत्तरशतं आहुतीनां हुत्वा। तस्याः शोषणादि कृत्वा। तां अण्डमयीं
ध्यात्वा।तन्मध्येपुरुषं ध्यायेत् बद्धाञ्जलिमवस्थितम्।
चतुर्भुजं वलर्क्षाभं वरदाभयहस्तकम्।
अक्षमालां च बिभ्राणं शिखाग्रे कटकाकृतिम्।
इति ध्यात्वा।तदनु शान्तिहोमानन्तरं संपातेन तां संस्पृश्य। सुमुहूर्ते तस्यां सृष्टिक्रमेण
तत्वानि विन्यस्य। आचार्यः स्वहृदयकमले मन्त्ररूपिणीं अभिन्नां तेजसा आदित्यसंकाशां
वैष्णवींशक्तिं ध्यात्वा। तां ब्रह्मरन्ध्रात् अक्षमालिकायां तन्मन्त्रेण आवाह्य। महाकुम्भ
जलेन प्रोक्ष्य।
सन्निधत्तां भवान् देव मन्त्रमूर्ते जनार्दन।
जपाक्षमालावलये भक्तानुग्रहकाम्यया।।
इति गाथां उदीर्य, तत्र मन्त्रविग्रहं अक्षमालां बिभ्राणं चतुर्भुजं वलक्र्षाभं देवं ध्यात्वा।
अभ्यर्च्य। गुरुः यजमानाय दद्यात्। पूर्वं गुरुः अक्षमालायां यं मन्त्रं स्थापितवान् तमेव
गणयेत्। यथावित्तं गुरवे दक्षिणा देया।
 
इति श्री वराहगुरुणा विरचितायां क्रियाकैरव चन्द्रिकायां प्रभापीठ घण्टाधूपदीपभेर्यादिवाद्य रथादियान
छत्रादिपरिबर्हाक्षमालाप्रतिष्ठा विधिः नाम चतुर्विंशः परिच्छेदः


  

अथ पञ्चविंशः परिच्छेदः
गृहार्चाप्रतिष्ठा
अथ गृहार्चा प्रतिष्ठाविधिः उच्यते-सुवर्णादिलोहजां,यद्वा चन्दनाऽगरु देवदारु बिल्व
सरल तमाल चूत बदरी पनस क्षीरिणी सप्तलाजाति स्पन्दन तिमिश कदंब कुरवक
तिलक मधूकासन जंबू पुन्नाग कनद खदिर निंब विभीतिक शाल्मल्यादि वृक्षजां
यजमानाभीष्ट कर्मानुरूपां ब्राह्मणस्य चेत् हस्तमानमितां, क्षत्रियस्यचेत्
एकविंशाङ्गुलमानां वैश्यस्य चेत् एकोनविंशाङ्गुलां, शूद्रस्य सप्तविंशाङ्गुलां, लोहजां चेत्
ब्राह्मणस्य द्वादशाङ्गुलमानेन, क्षत्रियस्य नवाङ्गुलमानेन, विशः सप्ताङ्गुलमानेन, शूद्रस्य
पञ्चाङ्गुलेन कृतां प्रतिमां रत्नजां मणिजां वा श्रीभूमिभ्यां श्रियावा युतां केवलां वा प्रभा
पीठादियुतां सलक्षणां संहारशयनमात्ररहितां यथाविधि शिल्पिना कारयित्वा। गृहस्य
मारुत्यां दिशि स्थापयेत्।
तत्प्रतिष्ठार्थं सर्वान् संभारान्संभृत्य। यजमानःस्वयं आचार्यवरणं कृत्वा ।
 अंगणे नदीतीरे वा, यद्वा सुपूजिते क्षेत्रे प्रपां समध्यवेदिकां सचतुष्फुण्डां सैककुण्डें वा
निर्माय, आचार्येण प्रतिष्ठां कारयेत्।
आचार्यः पूर्वं अङ्कुरान् अर्पयित्वा। तदनु जलाधिवास नयनोन्मीलन पाद्यादि
द्रव्यकलशस्नपन शयनाधिवास कुम्भावाहनादिकं यथापूर्वं प्रतिष्ठायामिव कृत्वा। कुण्डे
अग्निं उपसमिध्य। पुरस्तात्तन्त्रपूर्वकं तत्वहोमादि शान्तिहोमावसानिकं हुत्वा। पूर्ववत्
संपातेन संस्पृश्य।
सुमुहूर्ते प्रतिमास्थापनस्थाने रत्नन्यासं कृत्वा। तत्र यथाविधि संस्थाप्य।
आवाहनादिकं कर्म कुर्यात्। जङ्घमस्य चेत् आवाहनादिकं अभिप्रेत
  

वेदिकायां कृत्वा। तदनु स्थाने स्थापयेत्। द्वारे चण्ड प्रचण्ड क्षेत्रपाल विघ्नेश वास्तुनाथ
दुर्गा गुह विष्वक्सेन शङ्ख पद्मनिधीश्च आवाह्य अभ्यर्चयेत्।तदनु यजमानः च
आचार्याचोदितः भूमौ दण्डवत् प्रणम्य इमां गाथां उदीरयेत्।
‘ दासोस्मि तव देवेश सपुत्रगणबान्धवः।
सन्निधत्स्व गृहे यावत् अन्ववायो महाच्युत।
पूजां मयां यथाशक्ति विहितां विकलामपि।
गृह्णीष्व भगवन् भक्तजनानुग्रह काम्यया।’‘
 
इत्थं आचार्यसन्निधौ भगवन्तं याचयित्वा। गुरवे मूर्तिपेभ्यश्च यथाशक्ति दक्षिणां वितीर्य।
ब्राह्मणान् भोजयित्वा तेभ्यः अपि दक्षिणां दद्यात्।
श्रीवत्सप्रतिष्ठाः-
 
अथ श्रीवत्सप्रतिष्ठा विधिः उच्यते-
श्रीवत्सं अग्रे शालिभारे सशाटिके निवेश्य। पुण्याहादिपूर्वकं सर्वं कर्म कृत्वा।तत्वानि
विन्यस्य। कुम्भे च आवाह्य अभ्यर्च्य। पद्मकुण्डे अग्निं उपसमिध्य। श्रीवत्समन्त्रेण
समिदाज्य चरुभिः प्रत्येकं अष्टोत्तरशतं आहुतीनां हुत्वा। तत्वहोमं शान्तिहोमं च
कृत्वा।संपातेन स्पृष्ट्वा।
कुम्भजलेन प्रोक्ष्य। सुमुहूर्ते विष्णोः वक्षसि निवेशयेत्।गुरवे दक्षिणाच पूर्ववत्।
कौस्तुभ प्रतिष्ठाः-
कौस्तुभं तु यथापूर्वम् स्वमन्त्रेण स्थण्डिले स्थापयित्वा। सुवर्ण प्रतिमां कौस्तुभाकारेण
कारयित्वा। महाकुम्भे विन्यस्य. पूर्ववत् सर्वं कर्म कुर्यात्।
वनमाला प्रतिष्ठाः-
  

वनमालां सुवर्णमयीं नानारत्न परिष्फृतां पूर्वोक्तविधानेन स्वमन्त्रेण प्रतिष्ठाप्य. सुमुहूर्ते
विष्णोःकण्ठे लंबयेत्।
अथ किरीट प्रतिष्ठाः-
शुद्धकार्तस्वरमयं रत्नचितं वा किरीटं भगवद्योग्यं कृत्वा। पाद्यादि घृतान्तैः
सप्तदशकलशैःकिरीटमन्त्रेण संस्नाप्य। सवस्त्रधान्यकृत स्थण्डिले निधाय। कुम्भे
तन्मन्त्रेण आवाह्यअभ्यर्च्य। कुण्डचतुष्टये वा एकस्मिन् कुण्डे वा समिदाज्यचरुभिः
तन्मन्त्रेण पृथक् अष्टोत्तरशताहुतीनां हुत्वा। शान्तिहोमं हुत्वा। संपातेन किरीटं संस्पृश्य।
सुमुहूर्ते कुम्भजलेनस्वविद्यया प्रोक्ष्य। तदनु भद्रासने समासीनं देवं राजवत्
उपचर्य.संस्नाप्य। अलंकृत्य आराध्य। वेदघोषैः वाद्यघोषैः सर्वोपचारैः सह आचार्यः
मूर्तिपैः साकं पञ्चोपनिषन्मन्त्रैः देवस्य मूर्धनि किरीटं आरोप्य। देवं यानं आरोप्य।
तूर्यघोष पुष्पवृष्ट्याद्युपचारपुरस्सरं ग्रामं प्रदक्षिणी कृत्य मन्दिरे विनिवेश्य अर्चयेत्। गुरवे
दक्षिणा देया।
भूषणादि प्रतिष्ठाः-
हारादि नूपुरान्तं भूषणजालं द्वादशाक्षरेण गन्ध जलेन संक्षाल्य। धान्यराशौ संस्थाप्य।
अग्नौ स्वविद्यया हुत्वा। तत्तद्भूषणं ध्यात्वा। द्वादशाक्षरमनुं जपन् तत्तन्मन्त्रेण तैस्तैः
भूषणैः भूषयेत्।
 
चक्राद्यायुध प्रतिष्ठाः-
 
अथ चक्राद्यायुधानां प्रतिष्ठाविधिः उच्यते।-
 
चक्रं तु हस्तमानेन यद्वा सप्तदशांगुलम्।
  

अष्टादशांगुलं यद्वा विंशत्यंगुलसंमितम्।
चतुर्दशांगुलं वापि षोडशांगुलमेव वा।
द्वादशांगुलमानं वा स्वलक्षण परिष्फृतम्।
मूलबिम्बाननसमं सहस्रारं समुज्वलम्।
यद्वा शतारमथवा चतुर्विंशत्यरान्वितम्।
षोडशारमथाष्टारम् अथवा षडरं वरम्।
सहस्रज्वालमथवा षड्ज्वालं नाभिमण्डितम्।
त्रिलोहनिर्मितं चक्रं नालपीठ समन्वितम्।
कृत्वा करण्डमकुटं बिभ्राणं वा सुदर्शनम्।
चतुर्भुजधरं क्रुद्धं भ्रुकुटी कुटिलाननम्।
पुरुषं द्विभुजं यद्वा दक्षिणेनापि तर्जनम्।
स्पृशन्तं कटिमन्येन च इतराभ्याम् कृताञ्जलिम्।
मुख्याभ्यां कराभ्यां तु सुस्थितं पद्मविष्टरे।’‘
 
 
एवं रूपयुतं चक्रं कल्पयित्वा। पूर्ववत् अङ्कुरार्पणजलाधिवास नयनोन्मीलन स्नपन
शयनाधिवासद्वारतोरणकुम्भपूजानां अनन्तरं महाकुम्भे सुदर्शनं तन्मन्त्रेण आवाह्य।
अभ्यर्च्य।
 
अत्युग्रं पुरुषं ध्यायेत् द्विभुजं रक्त वाससम्।
रक्तदंष्ट्राननम् नाभौ सुस्थितं चक्रनायकम्।‘’
 
  

इति ध्यात्वा। चतुष्फुण्डेषु यद्वा एकस्मिन् समिदाज्य चरुभिः तन्मन्त्रेण पृथक्
अष्टोत्तरशतं आहुतीनां हुत्वा। चक्रं शोषणादिभिः संशोष्य। शान्तिहोमावसाने संपातेन
नाभ्याद्यवयवान् संस्पृश्य। सुमुहूर्ते स्वविद्यया प्रोक्ष्य। सम्पूजयेत्।
शङ्खादि प्रतिष्ठाः-
शङ्खादीनां चतुर्णाम् यथा पूर्वं आचार्यः स्वस्वमन्त्रैः प्रतिष्ठां कृत्वा। यथाविधि पूजयेत्।
गुरवे दक्षिणां च पूर्ववत्।
चण्डादिद्वारपाल प्रतिष्ठाः-
चण्डादिद्वारपालानां जलाधिवासनयनोन्मीलन स्नपन शयनाधिवास एक कुम्भपूजन
तत्वहोमन्यास शान्तिहोम(सम्पात)स्पर्शनादिकर्म कृत्वा।आचार्यः तत्तन्मन्त्रेण
बीजयुक्तेन कुम्भजलेन प्रोक्षयेत्।गुरवे दक्षिणा च पूर्ववत्।
गरुड प्रतिष्ठाः-
अथ वैनतेयप्रतिष्ठा विधिः उच्यते-
अङ्कुरावापनादि कर्मं यथाविधि पूर्ववत् कृत्वा। आचार्यः पूर्वादिषु चतुर्षु कोणेषु क्रमेण
सत्य सुपर्ण गरुड तार्क्ष्यान् आवाह्य। तेषु क्रमेण बृहत्साम, सुपर्णमनु ,रथन्तर,
गरुडगायत्री मन्त्रैः प्रत्येकं प्रतिद्रव्यं अष्टोत्तरशतं आहुतीनां हुत्वा। परस्तादुपरिष्टाश्च शिष्टं
कर्म यथापूर्वं कुर्यात्। गुरवे दक्षिणा च देया।
आदित्यप्रतिष्ठाः-
आदित्यप्रतिष्ठायां तु स्व गायर्त्याराधनम्। तथैव होमः। ‘बिभ्राडि’ त्यनुवाकेन सावि र्त्या
च स्थापनं सूर्यविद्यया कुम्भप्रोक्षणं च कुर्यात्।
 
ब्रह्मादीनां च सर्वेषां देवानां च यथा पुरम्।
  

स्वतन्त्रे परतन्त्रे च स्वैः मन्त्रैः स्थापनं भवेत्।
दुर्गा च मातरः सप्त याः कश्चित् देवताः स्त्रियः।
तासां प्रतिष्ठा लक्ष्मीवत् स्वैः स्वैः मन्त्रैः विशिष्यते।
विष्वक्सेन प्रतिष्ठाः-
विष्वक्सेनस्य भगवत्बिंबस्येव सर्वकर्माणि कृत्वा। स्वमन्त्रेण स्थापनं कुर्यात्। सर्वत्र
दक्षिणा च पूर्ववत्।
भक्तप्रतिष्ठा विधिः-
भक्तानां प्रतिकायं स्वतन्त्रं स्वामितन्त्रं वा शिलादिभिः यथालाभं कृताञ्जलिपुटं सौम्यं
स्थितं आसीनं यथावर्ण रूपं यथाश्रमधर्मं यथावयोरूपधरं पद्मपीठे प्रतिष्ठितं
कर्मानुरूप्येण वा प्रतिष्ठितं शिल्पिना कल्पयित्वा। शुभेदिने गुरुः आदौ अङ्कुरान्
युग्मास्वेव पालिकासु अर्पयित्वा। वेदिकाधिवासन कुम्भाष्टकरहितं सर्वं अन्यत् कर्मजालं
पूर्ववत्। द्वारतोरणयजन पूर्वकं प्रणवेन अन्यैः मन्त्रैश्च यथाविधि कृत्वा। कुम्भप्रोक्षणं
तन्मन्त्रेणैव कुर्यात्। तेषां स्वातन्त्ये सिह्मदिङ्मूर्ति वर्जितं मन्दिरं कुर्यात्।
   
  

 
दीक्षा गुरु प्रतिष्ठाः
आचार्यः मन्त्रसिद्धये दीक्षागुरोः प्रतिमां कृत्वा। पुण्याहपूर्वकं सर्वं कर्मजालं भक्तानामिव
कृत्वा। ब्राह्मणान् भोजयित्वा। तेभ्यःदक्षिणां च वितीर्य। तत्र स्वाध्यायाऽध्ययनादिविप्रैः
कारयित्वा। स्वयं च कुर्यात्। तेषां स्वातन्त्ये ध्वजारोहण होमबलि तीर्थयात्रारहितमुत्सवं
कुर्यात्। पारतन्त्ये भगवता साकं भगवत्प्रीतये कुर्यात्। गुरवे दक्षिणा च पूर्ववत्।
इति श्री वराहगुरुणा विरचितायां क्रियाकैरव चन्द्रिकायां गृहार्चा ,श्रीवत्स, कौस्तुभ,
वनमाला, किरीट, भूषण, चक्राद्यायुध, चण्डादिद्वारपाल, गरुडः आदित्य भक्ता,
दीक्षागुरुप्रतिष्ठाविधिःनाम पञ्चविंशः परिच्छेदः
 


 
 
इति क्रियापाद प्रयोगः
 

  • अथ चर्यापादप्रयोगः*



 

 
श्री:
श्रीमतेरामानुजाय नमः
श्री वराहगुरुणा विरचितायां क्रियाकैरव चन्द्रिकायां
षड्विंशः परिच्छेदः
दीक्षा विधिः
अथ तावत् दीक्षाविधिः उच्यते।
दीक्षामण्डपं प्रतिष्ठामण्डपवत् समध्यवेदिकं कल्पयित्वा। वेदिकायाः पश्चिमे तालत्रयात् बहिः,
ब्राह्मणस्यचेत् दीक्षा तालद्वय सम्मित चतुरश्रंकुण्डं, क्षत्रियस्य यदि गोकर्णयुग्मेन वृत्तं,
यदिवैश्यस्य वितस्तिभ्यां चतुरश्राकारं, पादजस्य प्रादेशद्वयेन त्रिकोणं च कुण्डं कल्पयित्वा ।
स्रुक्स्रुवौ च एवमेव वर्णानुपूर्वेण, एवं अन्यानि पात्राणि समिदादीन् यागसंभारान् च दशंयां
संपाद्य।तदनु एकादश्यां सायाह्ने दीक्षाचार्यः मण्डपे सर्वालङ्कारयुते पूर्ववत् द्वारतोरण
कुम्भादीन् संस्थाप्य.पूर्ववत् अङ्कुरावापनं कृत्वा।पुण्याहजलेन मध्यवेदिकां प्रोक्ष्य।
प्राणायामपूर्वकं तस्यां चन्दनार्द्राणि सूत्राणि प्रागायतानि सप्तदश तावन्ति उदगायतानि च
निपात्य । तेषु षट्पञ्चाशदुत्तरद्विशतपदेषु मध्ये षट्त्रिंशत् कोष्टानि संमृज्य।तन्मध्ये शङकुं
संस्थाप्य । वृत्तानि समानि पञ्चबिंबानि यथा स्युः तथा भ्रामयित्वा। तेषु प्रथमं बिम्बं
कर्णिकाक्षेत्रं। द्वितीयं त्रेधा विभज्य। तथा कृतेषु प्रथमं केसरान्तवलयं, द्वितीयं दलान्तवलयं,
तृतीयं नाभिमण्डलं ।
 
तन्नाभिमण्डलमपि त्रेधा विभज्य। तद्बहिः शिष्टेषु बिंबेषु अरक्षेत्रं द्वाभ्यां । तद्बहिः एकेन
नेमिमण्डलं च कल्पयित्वा । तद्बहिः अष्टाविंशति पदैः पीठिकां, तद्बहिः पङ्क्तिद्वयेन अशीतिपदैः
वीथिकां च कल्पयेत्।
तद्बहिः पङ्क्तिद्वितयेन द्वादशाधिकशतपदैः द्वयोः पङ्क्तयोः चतुरश्रं कृत्वा। तन्मध्ये पूर्वादि
उत्तरान्तं चतुश्चतुष्पदैः चतुर्द्वाराणि आग्नेयादिषु कोणेषु अपि तथैव च कृत्वा। द्वारपार्श्वयोः
बाह्यरथ्यायां द्वे द्वे अवान्तररथ्यायां एकैकं च परिमार्जयेत्। एवं चेत् अर्धशोभाः भवन्ति।
अर्धशोभयोः मध्ये बहिः पङ्क्तौ एकैकं आन्तर पङ्क्तौ त्रीणि च एवं चतुर्भिः पदैःशोभाः भवन्ति।

 

 
एवं चतसृषुदिक्षु शोभानां अष्टकं, अर्धशोभानां षोडशकं च कृत्वा। ततः वर्णकलापपरिपूरणं
कुर्यात्।
पञ्चरत्नैः धातुभिः वा तेषां चूर्णैः वा पञ्चवर्णैः पुष्पैः वा मण्डलपदानां परिपूरणंकुर्यात्।सितस्य
शाल्यादि तण्डुलपिष्टं, कृष्णस्य पुटदग्धं श्यामस्य क्षुण्णशुष्फपत्रचूर्णं, रक्तस्यकौसुम्भं,
पीतस्य हरिद्राचूर्णं, सर्वत्र वर्णानां इति अनुषङ्काः। पीतेनकर्णिकां, शुक्लैः बिन्दून् ।
कर्णिकारेखाः पाटलैः केसरावलिं द्विधाकृत्वा । श्वेतेन पूर्वभागं, उत्तरं पीतेन, केसराणि शुक्लेन,
बिन्दून् रक्तेन, अष्टदलानि श्वेतेन। दलान्तानिरक्तैः दलान्तवलयं रक्तेनश्वेतेन वा
नाभिमण्डलत्रयं श्यामेन, पीतेन, रक्तेन, अरान्त वलयं कृष्णेन, द्वादशाराणि रक्तेन,
नेम्यन्तमेदिनीं सितेन, नेमिं द्वेधा कृत्वा। कृष्णेनपूर्वभागं, उत्तरंसितेन, अन्तरालानि
श्यामेन।कृष्णेन पूर्वभागं, उत्तरं सितेन, अन्तरालानि श्यामेन कृष्णेन वा तद्बहिः पीठं पीतेन
पाटलेन श्वेतेन वा, तद्बहिः वीथिकां सितेन लतावितानयुतां, शोभाष्टकं रक्तेन, अर्धशोभाः
षोडश पीतेन, उत्तरादि द्वार चतुष्टयं क्रमेण शुक्ल. रक्त. पीत. कृष्णैः, कोणान् कृष्णेन च वर्णेन,
सर्वत्र अन्तरालानि कृष्णेन श्यामेन वा वर्णेन आपूर्य। चतुर्षुकोणेषु श्वेतेन शङ्कान् कृत्वा।ततः
मण्डलाराधनं कुर्यात्।
कर्णिकायां मन्त्राध्वानं अर्चयेत्।तत्सवरूपं तु द्वादशाक्षर अष्टाक्षर बलमन्त्र, विष्णुगायत्री,
सुदर्शनमन्त्र, पवित्रन्त्र, चतुर्मूर्तिमन्त्र, नृसिंहमन्त्र, राममन्त्र, कृष्णमन्त्र, वराहमन्त्रान् उच्चार्य
अर्चयेत्।
केसरेषु तत्वाध्वा अर्चनम्-जीवप्राणमनोबुद्धि-अहङ्कार शब्दस्पर्श रूप रस गन्ध श्रोत्र त्वक्चक्षु
जिह्वा घ्राण वाक्पाणिपादपायूपस्थ पृथिव्यप्तेजो वाय्वाकाशरूपाणि जीवतत्वानि धातृ विधातृ
मित्रावरुण भग विवस्वत्पूष सवितृ रवि त्वष्टृ विष्णु वीरभद्र , शंभु गिरीशशर्वोमापतीशान
हरस्थाणु भव शिव शूल्यादि रूपतत्वानि च प्रणवादि चतुर्थ्यन्तानि अर्चयेत्।
दलेष्वर्णाध्वाऽर्चनम्- ॐ कं नमः पराय इत्यारभ्य क्षं नमं पराय इत्यन्तेन नाभिभागे
पदाध्वाऽर्चनम्। तत्र केशवादीन् सप्तऋषीन् च, प्राच्यादिषु आदिवराह नारसिंह श्रीधर हयवक्त्र
भार्गवराम राघव वामनवासुदेवान् च, कुमुदादिसुप्रतिष्ठान्तांश्च, जयविजय चण्डप्रचण्ड भद्र
सुभद्र धातृ विधातृ सूर्यचन्द्र काम ब्रह्म विनायक षण्मुख दुर्गा कुबेर शंकरान्,

 

 
च,विमलोत्कर्षणी, ज्ञान, क्रिया, योगि प्रह्वी, सत्या, ईशाना अनुग्रहशक्तीश्च,
आदित्यादिकेत्वन्तान् च, लक्ष्मी सरस्वती रति शान्ति तुष्टि पुष्टि क्रिया कीर्ति वाराहीश्च,
प्रणवादिचतुर्थ्यन्तं अर्चयेत्।
अरेषु कलाध्वापूजनं तत्र अकारादि स्वरार्चनं कुर्यात्। नेमिभागे भुवनाध्वाऽर्चनं; तत्प्रकारस्तु
अतल वितल,सुतल, नितल महातल, रसातल, तलातल, पाताल,
भूर्भुवस्सुवर्महर्जनस्तपस्सत्यलोक गन्धर्वलोक, यक्षलोक, अप्सरलोक, किन्नरलोक, यमलोक,
निऋतिलोक वरुणलोक, रुद्रलोक, देवलोक, ब्रह्मलोक, शिवलोक, विष्णुलोक,
सदाविष्णुलोक, कुम्भीपाक, महारौरव, क्षुराल, सन्निमाल, शीतल उष्णजल सन्तपन तप्तलोह
शाल्मलीरूपधीयन्त्रधनुर्भिन्न, शुद्धनिरयान्, प्रणवादि चतुर्थ्यन्तं अर्चयेत्।
बिन्दुषु द्वादशाक्षराणि कर्णिकायां परमात्मानं केसरेषु श्री सरस्वति रति शान्ति प्रीति कीर्ति पुष्टि
तुष्टीः दलभूमिषु श्रीवत्सादि द्वादशशक्तीः दलस्य परितः व्याप्त्याद्याः, प्रथमनाभौ विष्णुं,
द्वितीये ब्रह्माणं, तृतीयेरुद्रं, द्वादशारेषुविष्ण्वादीन् द्वादश अरान्तवलये मत्स्यादि दशमूर्तीः,
प्रथम नेमिवलये शंखादीन्, आग्नेयादि पीठकोणचतुष्फे अनन्त,वराह नारसिंह हयग्रीवान्
लतावीथिकायां इन्द्रादिलोकपालान्, द्वारचतुष्फे चण्डादिद्वन्द्वं,वीथ्यां ईशाने विष्वक्सेनं,
पूर्वद्वारबाह्ये वैनतेयं, दक्षिणे पद्मं, पश्चिमे गदां, उत्तरे शंखं च प्रणवादिं चतुर्थ्यन्तैः स्वस्व मन्त्रैः
अर्चयेत्।
तदनु हेमादिमयं कुम्भं तादृशं करकं च मृण्मयं चेत् सूत्रवेष्टितं तद्युगलं गालितोदकेन आपूर्य।
न्यस्तरत्नसुवर्ण स्रवचन्दन परिष्फृतं अहतवास युग्मसंवेष्टितं कृत्वा। करकं अस्त्रमन्त्रेण
शतवारं अभिमन्त्य। अविच्छिन्नधारया वेदिकां परितः प्रादक्षिण्येन करकं तस्याः पृष्टतः कुम्भं
च नीत्वा। चक्रपद्मस्य ईशान कोणे धान्यराशौ दक्षिणे कलशं वामे करकं च सम्स्थाप्य।
(करके षडक्षरेण सुदर्शनं,अथ) कुम्भे मूलमन्त्रेण हरिं पीठकल्पनपूर्वकं आवाह्य अभ्यर्च्य।
मण्डले सांगं सपरिवारं परमात्मानं यथाविधि समभ्यर्च्य। तदनु अष्टाक्षरेण अग्निं मथित्वा।
कुण्डमध्ये निधाय । तत्र श्रृतं चरुं चतुर्धा विभज्य। भागमेकं मण्डलस्थाय हरये,कुम्भस्थाया
अंशंएकं च निवेद्य।अग्नौ एकंअंशं हुत्वा। गुरुः स्वयं एकं अंशं उपयुञ्जीत।तत्र अग्नौ समिधां
अष्टोत्तरशतं आज्याहुतीनां अपि तथा मूलमन्त्रेण चरुं पुरुष सूक्तेन हुत्वा। पूर्णाहुतिं कुर्यात्।

 

 
तदनु आचार्यः स्नातं जितक्रोधं मदादिरहितं शुचिं अहतक्षौमवसनं सोत्तरीयं अलंकृतं शिष्यं
आहूय नवेन वाससा नेत्रे स्वमन्त्रेण बद्ध्वा तं आत्मनः दक्षिणपार्श्वे प्राङ्मुखं विनिवेश्य। तेन
दर्भैः संस्पृष्टः सन् द्वादशाक्षरेण आज्य, चरु, समित्पुष्पतिलैः, द्वादशाहुतीः जुहुयात्। ततः
गुरुः शिष्यस्य मूर्धानं प्रसृतिमुद्रया त्रिः प्रादक्षिण्येन अष्टाक्षरेन स्पृशन् भस्मना पाण्डरेण
मूलमनुना शिरः स्पृष्ट्वा,शिष्यस्य ऊर्ध्वपुण्ड्रं विधाय। अस्त्रमन्त्रेण प्रतिसरं बद्ध्वा । शिष्यं
पञ्चगव्यं चरुं च प्रणवेन प्राशयित्वा। दन्तान् धावयित्वा । दन्तकाष्ठं भूमौ निपात्य
अवलोकयेत्।
नैऋत वारुणयाम्येषु यद्यग्रं अशुभं भवति। तदा नृसिंहमन्त्रेण तिलैः अष्टोत्तरशतं आहुतीनां
जुहुयात्। ततःगुरुःशिष्यं आचान्तं करे गृहीत्वा देवेशं प्रणम्य।
संसार पाश बद्धानां पशूनां पाशमोक्षणे।
त्वमेव शरणं देव गतिरन्या न विद्यते।
पाशमोक्षणहेतुर्यः त्वत्समाराधनात्मकः।
तेनेमान् जन्मपाशेन पाशितान् पशु जन्मनः।
विपाशयामि देवेश तदनुज्ञातुमर्हसि।
 
इति इमां गाथां उदीर्य. शुक्ल,कृष्णरक्तवर्णं तन्तुं त्रिगुणीकृत्य.पुनश्च त्रिगुणीकृतेन तेन
मायासूत्रेण शिष्यस्य शिखां उपक्रम्य।
पादान्तं पञ्चविंशति संख्यया मूलमन्त्रेण वेष्टयित्वा। तेनैव मन्त्रेण सर्पिषा अष्टोत्तरशतं
आहुतीश्च हुत्वा ।माषोदनेन भूतेभ्यः बलिं दत्वा।शिष्य नेत्रबन्धं देहबन्धं च विमोच्य ।
मायासूत्रं अन्यस्मिन्शरावे निधाय अन्येन पिधाय । कुम्भपार्श्वे निधाय।दर्भान् भूमौ संस्तीर्य ।
तत्रशिष्यं शाययेत् । तदा मण्डल कुण्डाग्निस्थ देवान् न उद्वासयेत्।
प्रभाते शिष्यस्य सुस्वप्नदर्शने सद्य एव दीक्षेत । दुस्वप्नदर्शने तु सद्यःगुरुः स्नात्वा यागमण्डपं
समासाद्य । दुस्वप्न दोषशान्त्यर्थं शान्ति होमंकरिष्ये इति संकल्प्य. पूर्ववत् शान्तिहोमंकृत्वा ।
पूर्ववत् तोरण, ध्वज कुम्भपूजनं कृत्वा । मन्डलस्थं कुम्भस्थं च देवं अभ्यर्च्य । चतुर्विधं अन्नं
निवेद्य । नत्वा प्रदक्षिणीकृत्य। शिष्यस्य नेत्रे पूर्ववत् बद्ध्वा । तं आत्मनः दक्षिणे पार्श्वं

 

 
प्रापय्य.समिदादिभिः मूलमन्त्रेण प्रत्येकं अष्टोत्तरशतं आहुतीनां हुत्वा। ततः मायासूत्रं
पञ्चविंशतिधा छित्वा । तेन प्रत्येकं अष्टोत्तरशतं अष्टकृत्वा । प्रकृत्यादीनि हुत्वा । गुरुः
स्वहृत्पद्मे परमपुरुषं ध्यायन् । तस्मिन् शिष्यजीवं संहारक्रमेणसंहृत्य । तस्य शोषणादि कृत्वा
। तदनु तत्व सृष्टिहोमपूर्वकं शिष्यस्य स्थूलशरीरंसृष्ट्वा । स्वहृदयस्थं मण्डले विचिन्त्य ।
मण्डलस्थं शिष्ये ध्यात्वा । शिष्यं सजीवं ध्यात्वा । मूलमन्त्रेण कुम्भजलेन प्रोक्ष्य । शिष्यस्य
नेत्रबन्धं उन्मुच्य। मूलमन्त्रेण अन्यत् वासः परिधाप्य । तस्य पादप्रक्षाळनं आचमनान्तं
कारयित्वा । अन्येन वाससा शिष्यस्य नेत्रे बद्ध्वा । गुरुः तं अन्तिके प्राङ्मुखं उपवेश्य ।
षडध्वनः शोधयित्वा । महाव्याहृतिमन्त्रेण आज्येन अष्टोत्तरशतमाहुतीनां हुत्वा। हुतशेषेण
शिष्यस्य पादौ तिलैः तावतीः तन्मन्त्रेण हुत्वा । हुतशेषेण शिष्यस्यनाभिं, कुशेशयैः तावतीः
पूर्वोक्त विद्यया हुत्वा ।हुतशेषेण शिष्यस्य हृदयं, पूर्वोक्तेन मनुना चरुणापूर्वोक्त संख्यया हुत्वा।
हुतशेषेण शिष्यस्य मूर्धानं च संस्पृश्य।होमान्ते गुरुः शिष्यं दक्षिणे करे गृहीत्वा ।कुम्भं
मण्डलं च प्रदक्षिणं प्रक्रमय्य।मण्डलस्य चतुर्णां द्वाराणां मध्ये यस्मिन् कस्मिंश्चित् द्वारि तिष्ठन्
गुरुः शिष्याञ्जलिं मणिभिः मुक्ताभिः प्रवालैः केवलैः पुष्पैः वा पूरयेत्।
तदनु सदस्यनुज्ञया गुरुणा अभ्यनुज्ञातः तस्मिन् मण्डले पूर्वं अञ्जलिपूरितं पुष्पादि शिष्यो
विकिरेत्।तदुत्करः यत्र पतति तद्भागाधिपमूर्तीनां नामानि केशवादीनि तदन्ते भागवतः इति
भट्टारकः इति वा गुरुः शिष्यस्य विनिर्दिशेत् । क्षत्रियस्य तु देवान्तं नाम, वैश्यस्य
पालशब्दान्तं, शूद्रस्य दासान्तं । तदनुगुरुः शिष्यस्य नेत्रबन्धं विमुच्य । चक्राब्जमण्डलं
प्रदर्श्य । तेन सह आचार्यःदेवं नारायणं ध्यात्वा । शिष्यस्य कर्णे सप्रणवं, सऋषिछन्दोदैवतं,
सांगं द्वादशाक्षरं, तदनु अष्टाक्षरं, पश्चात्मूर्तिमन्त्रान् च यथाविधि अध्यापयेत् । क्षत्रि
यवैश्योश्च एवं । शूद्राणां,स्त्रीणां अनुलोमजानां च नमःप्रणव हुंफट् स्वाहाकार वर्जितं केवलं
केशवादिकं वैष्णवं नाम अध्यापयेत्।
 
तदनु कुम्भस्थं मण्डलस्थं च हरिं अर्चयित्वा।ध्यात्वा गुरुः स्वहस्ते चक्राब्जमण्डलं
ध्यात्वा।विष्णुहस्तंकृत्वा।स्थितस्य प्राञ्जलेः शिष्यस्य मूर्ध्नि निधाय।देशिकः तत्र अग्निसन्निधौ
शिष्यस्य आचारान्नियमान् च सर्वान् बोधयेत्।यथा

 

 
मंत्रःपरस्य नाख्येयः नाक्षसूत्रं प्रदर्शयेत्।
न च मुद्रां नापि सिद्धिमन्त्रस्य कथयेत् स्वयम्।
आचार्य नाम न वदेत् नियोगं नास्य लंघयेत्।
न गुरून् दूषयेत् वाचा नाचरेत् तस्य विप्रियम्।
शयनादींश्च न गुरोः आक्रमेत् न च लंघयेत्.
गुरुवत् गुरु दारेषु वर्तितव्यमसन्निधौ।
आचार्यं अच्युतं शास्त्रं त्रयं सम्मानयेत् सदा।
नास्तिकान् भिन्नमर्यादान् वेदब्राह्मण निन्दकान्।
न स्पृशेत् नैव तैस्सार्धं संवसेत् दुर्दशास्वपि।
प्रसारयेत् नैव पादौ गुरुदेवाग्निसन्निधौ।
वेदितव्यं जगत्सर्वं वासुदेवमयं सदा।
अनर्चयित्वा देवेशं नात्मपोषणमाचरेत्.
जपस्तोत्रप्रणामादीन् सन्ध्याकाले समाचरेत्।
भगवध्यानतत्कर्म कर्तव्येषु सदा रमेत्।
वैष्णवान् च यतीन् चैव दृष्ट्वा तान् प्रणमेत् क्षितौ।
पुत्रदारा गृहक्षेत्रपश्वादि धनमात्मनः।
व्यपदेश्यमशेषेण नाम्ना भगवतो वदेत्।
समस्सर्वेषु भूतेषु कामक्रोधविवर्जितः.
शनैश्शनैरिन्द्रियाणि विषयेभ्यो निवारयेत्.
संसारविमुखैःसार्धं शास्त्राभ्यासं समाचरेत्.
श्रौतस्मार्तानि कर्माणि सदासेवेत नेतरत्।
स्वसूत्रोक्तेनविधिना निषेकादिक्रिया भवेत्.
गुह्यं नाम च गोत्रं च प्राकृतं नान्यदिष्यते।
आसीनो वा शयानो वा गच्छन् भुञ्जान एव वा।
कीर्तयेत् सम्स्मरेत् चैव वासुदेवं सनातनम्।

 

 
इति गुरुः शिष्याय नियमान् संबोध्य।ततः पूर्णाहुत्यन्तं शान्तिहोमं अखिलं च कृत्वा।अग्निं
विसृज्य।कुम्भस्थं मण्डलस्थं च देवं उद्वास्य।शिष्याय आशिषःवाचयेत्। तदनु शिष्यश्च गुरवे
गोभूहिरण्यभूषण यान दासीदासादि यथावित्तानुसारतःवितीर्य। ब्राह्मणान् भोजयित्वा। तेभ्यश्च
दक्षिणां वितीर्य।तत्रैव हुतशेषं भुक्त्वा। अहश्शेषं उषित्वा।रवौ अस्तंगते सर्वाऽलंकार युतः
गुरुणा अनुज्ञातः बन्धुभिःसह अलंकृतं स्वगृहं प्रविशेत्।
इति श्री वराहगुरुणा विरचितायां क्रियाकैरव चन्द्रिकायां
दीक्षा विधिः नाम षड्विंशः परिच्छेदः


सप्तविंशः परिच्छेदः
समाराधन विधिः
 
अथ समाराधन विधिः उच्यते-
देशिकः वारुण, दिव्य, आग्नेय, वायव्य, पार्थिव, मान्त्र,मानसाभिधेषु सप्तविधेषुस्नानेषु एकतमेन
स्नात्वा । शुक्लोपवीतोत्तरीय चन्दना द्यनुलेपन श्वेतमृत्स्नाकृतोर्ध्वपुण्ड्राद्यलंकृतः नित्यं
स्वकृत्यां, निर्वृत्य।आजानुपादौ आमणिबन्धनात् हस्तौ च प्रक्षाळ्य। आचम्य। आलयं द्विः
प्रदक्षिणी कृत्य। द्वारपार्श्वं समासाद्य।आचक्रायेत्यादि मन्त्रैः षडङ्गन्यासं कृत्वा।
अधिवलजंस्थितः। हस्ताभ्यां ताळत्रयं कृत्वा।स्वयमेव उत्तमत्रय गेहकवाटत्रयं ॐ क्षं
तार्क्ष्याय नमः। इति मन्त्रेण मध्यमत्रयगेहकवाटत्रयं ॐ शान्ताय नमः। इति मन्त्रेण।
अधमत्रय गेह कवाट त्रयं ॐ यं वायवे नमः इति मन्त्रेण च उद्घाट्य। अन्यानि कवाटानि ॐ
मुक्ताय नमः।इति परिचारकैः अन्यैः, ब्राह्मणैः वा उद्घाटयित्वा।‘अधि पाता इ इति सामपठन्
दक्षिणाङ्घ्रिणा गर्भगृहद्वार ब्रह्मसूत्रदक्षिणेन अन्तः प्रविश्य।द्वादशाक्षरमनुना शिरसा देवं
प्रणम्य।दीपान् प्रज्वाल्य। स्रक् पुष्पादीनि विसृज्य। वेदिकापात्र बिंबार्चनं चण्डप्रचण्डौ आरभ्य
महाबलि पीठान्तं प्रतिष्ठोक्त विधानेन प्रणवादि नमोन्तैः तत्तन्मन्त्रैः शिष्येण वा परिचारकेण वा
यथा विधि कारयेत्।

 

 
सर्वालंकार संयुतः,आचार्यः अन्तः प्रविश्य देवे पूर्वपश्चिमाभिमुखे स्वयं उदङ्मुखः
दक्षिणोत्तराभिमुखे प्राङ्मुखः सन् देव पार्श्वे तालमात्रसमुत्सेधे तालद्वयसमायतेकूर्मासने
उपविश्य, भूत शुद्धिं कुर्यात्।
अपक्रमान्तु भूतानि पिशाचप्रेतगुह्यकाः।
सर्वेषां अविरोधेन विष्णोः कर्म समारभे।।
उत्क्रामन्तु पिशाचाः ये भूताः भूमिभागगाः।
ये भूताः विघ्नकर्तारः ते गच्छन्त्वाज्ञया हरेः।।
 
कूर्मादीन् दिव्यलोकं तदनु मणिमयं मण्डपं तत्र शेषं।
तस्मिन् धर्मादिपीठं तदुपरि कमलं चामरग्राहिणीश्च।।
विष्णुं देवीं विभूषायुधगणमुरगं पादुके वैनतेयं।
सेनेशंद्वारपालान् कुमुदमुखगणान् विष्णुभक्तान् प्रपद्ये।
 
इति उच्चार्य, बहिः तूर्यघोषे प्रवर्तिते यवनिकया गर्भगृह द्वारं निश्छिद्रं आच्छाद्य। घण्टायां
‘‘ॐ ब्रह्मणे नमः”। मुकुले ‘‘ॐ चक्राय नमः”। सूत्रेषु ‘‘ॐ महानागेभ्यो नमः”। जिह्वायां
‘‘ॐ सरस्वत्यै नमः”। नादे ॐ प्रजापतये नमः”।इत्यावाह्य अभ्यर्च्य घण्टां चालयेत्।
भूतशुद्धिः
आसनमन्त्रस्य मेरुपृष्ठ ऋषिः, अतलं छन्दः श्रीकूर्मः देवता, आसने विनियोगः।पृथिव्याः
कूर्मऋषिः। सत्यम् छन्दः। ब्रह्मा देवता। आसनेविनियोगः। ब्रह्मणे नमः। ॐ ह्रीं ॐ
श्रीमदनन्तासनायनमः, ॐकमलासनाय नमः, ॐ विमलासनाय नमः, ॐ योगासनाय
नमः, ॐ वीरासनाय नमः, ॐ कूर्मासनाय नमः इति आसनं अभ्यर्च्य,
 
  पृथ्वी त्वया धृताः लोकाः देवी त्वं विष्णुना धृता।
  त्वं च धारय मां देवि पवित्रं कुरु चासनम्।।
  मां च पूतं कुरु धनैरेनतोस्मि त्वां सुरेश्वरीम् ।
इति प्रार्थ्य। पद्मं वा स्वस्तिकं वा आसनं बद्ध्वा। अस्मद्ग ुरुभ्यो नमः। अस्मत्परम गुरुभ्यो नमः
अस्मत्परमेष्टि गुरुभ्यो नमः. इति गुरुपरंपरां ध्यात्वा। तदनु शोषणादि कुर्यात्।

 

 
  शरीरस्य आत्मा ऋषिः, प्रकृति पुरुषौ छन्दसि, सत्यः देवता, आसने विनियोगः, ॐ
आत्म मन्त्रस्य आत्मा ऋषिः, पुरुषप्रकृति छन्दसि, सत्यः देवता, ॐ ब्रह्मणे नमः, ॐ विष्णवे
नमः,ॐ ईश्वराय नमः,ॐ भूं भूम्यै नमः,ॐ करतलकरपृष्ठाभ्यां नमः,ॐ अङ्गुष्टाभ्यां नमः,ॐ
तर्जनीभ्यां स्वाहा,ॐ मध्यमाभ्यां वषट् ,ॐ अनामिकाभ्यां हुं, ॐ कनिष्टिकाभ्यां फट्, ॐ
नखमुखेभ्यः वौषट् ,
ॐ चक्र मन्त्रस्य शंभु ऋषिः, गायत्रि छन्दः, श्री सुदर्शनः देवता, रेफं बीजं, ह्रीं शक्तिः, रक्तो
वर्णः दिग्बन्धनार्थे विनियोगः। आचक्राय हृदयाय नमः, ॐ विचक्रायशिरसे स्वाहा, ॐ
सुचक्राय शिखायै वषट्, सूर्यचक्राय कवचाय हुं, ज्वालाचक्राय नेत्राभ्यां वौषट्, सुदर्शन
चक्राय अस्त्राय फट्।
चक्रं शङ्खं च चापं परशुमसिमिषुं शूलपाशाङ्कुशास्त्रम्।
 बिभ्राणं वज्रखेटे हलमुसल गदा कुन्तमत्युग्रदंष्ट्रं।।
ज्वालाकेशं त्रिनेत्रं ज्वलदलन वहं हारकेयूरभूषम्।
ध्यायेत् षट्कोण संस्थं सकलरिपुजन प्राण संहारिचक्रम्।
ॐ रं कालवैश्वानरात्मने नमः, अग्निप्राकारमुद्रायै नमः, ॐ सशराय सशार्ङ्गाय सनाराचाय
हुंफट् सुदर्शनाय स्वाहा”, आकाशे चक्रमुद्रायै नमः इति चक्रमुद्रां न्यस्य। श्री भगवतः
वासुदेवस्य आज्ञा भगवत्भक्तियोग प्रतिबन्धकसमस्ताऽविद्याकर्मकृत पापक्षयार्थं
भगवत्समाराधनार्थं भूतशुद्धिं करिष्ये इति संकल्प्य ।
प्रणवस्य ऋषिः ब्रह्मा देवी गायत्री छन्दः परमात्मा देवता। अं बीजं। उं शक्तिः। मं कीलकं।
शुक्लो वर्णः।प्राणायामार्थे विनियोगः।
नारायणाय हृदयाय नमः। विभवे शिरसे स्वाहा। शान्ताय शिखायै वषट्। प्रणवार्थ
प्रकाशकाय कवचाय हुं। श्री भूमिसहिताय नेत्राभ्यां वौषट्। आनंदाय अस्त्राय फट्।
नारायणं विभुं शान्तं प्रणवार्थप्रकाशकम्।
श्री भूमि सहितानन्दं हृत्पद्मे सततं भजे।।
 

 

 
ततः रेचकपूरककुंभकरेचकैः प्राणायामत्रयकरणम्। ॐ योग मुद्रायै नमः। वायु बीजस्य
किष्फिन्ध ऋषिः। जगती छन्दः। महाभूत रूपि वायुः देवता। अस्मन् मनोवाक्काय कर्म कृत
समस्त पाप शोषणार्थे विनियोगः।
आवातवाहिभेषजं विवातवाहि यद्रपः।
त्वं हि विश्वभेषजो देवानां दूत ईयसे।
द्वाविमौ वातौवात आसिन्धोरापरावतः।
दक्षं मे अन्य आवातु परान्यो वातु यद्रपः।
नाभि कन्दे ॐ यं वायवे नमः। वेद्याकारेण धूम्र वर्णेन महावातात्मना अस्मच्छरीरस्थितं
समस्त पापं शोषयामि। अग्नि बीजस्य काश्यप ऋषिः। त्रुष्टुप्छंदः।वैश्वानराग्निःदेवता।
अस्मन्मनोवाक्कायकर्मसमस्त पाप दहनार्थे विनियोगः। अग्निरक्षांसिसेधति............शुचिव्रत।
हृदये-ॐ वैश्वानराग्नये नमः।त्रिकोणेन रक्तवर्णेन वैश्वानराग्निना अस्मच्छरीरस्थितं समस्तपापं
दहामि। पृथ्वी बीजस्य।ब्रह्मा ऋषिः। गायत्रीछन्दः।वराहरूपि विष्णुः देवता। उत्थितस्य
अग्नेः कण्ठे स्तंभनार्थे विनियोगः।
स्थोनापृथिवी......शर्म सप्रथाः।ॐ लं पृथ्वी बीजेन स्पर्शनेन सहोत्थितं अग्निं कण्ठे
स्तंभयामि। अमृतबीजस्य ब्रह्माऋषिः गायत्री छन्दः। सोमोदेवता। तादृशास्मत् शरीरस्य
अमृतप्लावनार्थे विनियोगः।
यदतोवातते गृहे..... आयुगुंषितार्षत्। ॐ वं वरुणायस्वाहा। वृत्तात् स्फटिक वर्णात्
वरुणबीजात् उत्थिताभिः अमृत दाराभिः अस्मच्छरीरं आपादतलमस्तकं प्लावयामि।
तत्व संहारमुद्रायै नमः। इति तत्वसंहारमुद्रां प्रदर्श्य।पृथ्वी बीजस्य ब्रह्मा ऋषिः। गायत्री
छन्दः। श्री वराह रूपि नारायणो देवता।ॐ लं लं लं चतुरश्रां पीतवर्णां घ्राणोपस्थेन्द्रिययुतां
शब्दस्पर्श रूप रस गन्धगुणयुतां पृथ्वीं बाह्यात् पूरकेण मम शरीरं पादादि जानुपर्यन्तं
संपूरयामि।तन्मध्ये ॐ ह्रां भं लं ह्रीं सकलरां पृथ्वी अधिपतये विष्णवे सद्योजाताय
नारायणाय निवृत्तिकलात्मने हुंफट्। इति पृथ्वी मन्त्रं ध्यायन् कुम्भेन पार्थिवं सर्वं तन्मन्त्रे
संहरामि। ओ तं नमः पराय सितवर्णाय गन्धतन्मात्रात्मनेनमः। पृथ्वी मन्त्रं गन्धतन्मात्रायां
संहरामि। तां गन्धतन्मात्रां रेचकेण तोयाख्ये महाधारे निक्षिपामि।

 

 
ॐ श्लां श्लां श्लां पार्थिवांशं पादादिजानुपर्यन्तात् चतुरश्रात् पार्थिव मण्डलात् आप्यांशे सापेक्षं
लीनो भव।
  अपां बीजस्य सिन्धुद्वीपऋषिः।गायत्री छन्दः।वरुणो देवता। ॐ वं वं वं रसना
पाय्विन्द्रिययुताः अर्धचन्द्राकृतिः श्वेताः शब्दस्पर्शरूपरस गुणयुताः अपः बाह्यात् पूरकेण
जान्वादि कटिपर्यन्तं मम शरीरे संपूरयामि। तन्मध्ये ॐ ह्रीं षं रीं सकलरीं अंभोधिपतये
ब्रह्मणे वामदेवाय धनुर्धराय प्रतिष्ठाकलात्मने हुं फट् इति मन्त्रं ध्यायन्, अं मयं सर्वंकुम्भकेन
शनैश्शनैः तन्मन्त्रे संहरामि। ॐ घं नमः पराय पाण्डरवर्णाय रसतन्मात्रात्मने नमः।अपां
मन्त्रं रसतन्मात्रायां सम्हरामि। तां रसतन्मात्रां गन्धतन्मात्रयासह रेचकेन अग्नौ संयोजयामि।
ह्वां ह्वां ह्वां आप्यंश जान्वादिकटिपर्यन्तात् आप्यात् अष्टदल पद्मात् तैजसांशे सापेक्षं लीनो
भव।
अग्निबीजस्य काश्यप ऋषिः।त्रिष्टुप्छन्दः।अग्निः देवता। ॐ रं रं रं त्र्यश्रं पाटलवर्णं
दृष्टिचरणेन्द्रिययुतं शब्दस्पर्श रूपगुणं अग्निं बाह्यात् पूरकेण गुह्यादि आनाभि मम
शरीरेसंपूरयामि। तन्मध्ये ॐ ह्रूं ह्रीं ण्यं ह्रीं सकलरूं अग्न्यधिपतये रुद्राय घोराय प्रद्युम्नाय
विद्याकलात्मने हुं फट् इति मन्त्रं ध्यायन्, तैजसं सर्वं कुम्भकेन शनैश्शनैः तन्मन्त्रे संहरामि।
ॐ दं नमःपराय ज्योतिर्वर्णाय रूप तन्मात्रात्मनेनमः ज्योतिर्मन्त्रं रूपतन्मात्रायां संहरामि। तां
रूपतन्मात्रां गन्धरसशक्तिभ्यांसह रेचकेन वायौ संयोजयामि। ह्रां ह्रां ह्रां तैजसांश गुह्यादि
आनाभि त्रिकोणाग्नि मण्डलात्वाय्वांशे सापेक्षं लीनो भव।
वायु बीजस्य किष्फिन्ध ऋषिः।जगती छन्दः।वायुर्देवता। ॐ यं यं यं धूम्रं वृत्तं त्वक्करेन्द्रिययुतं
शब्दस्पर्शगुणं वायुं बाह्यात् पूरकेण नाभ्यादि नासिकान्तं मम शरीरे संपूरयामि। तन्मध्ये ॐ
ह्रैं णं सकलरैं वाय्वधिपतये ईश्वराय तत्पुरुषाय संकर्षणाय शान्तिकलात्मने हुं फट् इति मन्त्रं
ध्यायन्, वायव्यं सर्वं कुम्भकेण शनैश्शनैः तन्मन्त्रे संहरामि। ॐ धं नमः पराय लोहितवर्णाय
स्पर्शतन्मात्रात्मने नमः।वायुमन्त्रंस्पर्शतन्मात्रायां सम्हरामि। तां स्पर्शतन्मात्रायां गन्धरस
रूपतन्मात्राभिः सह रेचकेन आकाशे संयोजयामि। स्यां स्यां स्यां वाय्वांश नाभ्यादि
नासिकान्तात् षड्बिंदु लाञ्छितात् वायुमण्डलात् नाभसांशे सापेक्षं लीनो भव।

 

 
आकाशबीजस्य ब्रह्मा ऋषिः गायत्री छन्धः। परमहंसः देवता। ॐ हं हं हं नीलोत्पलदलनिभं
वाक् श्रोत्रेन्द्रिययुतं शब्दगुणं आकाशं बाह्यात् पूरकेण नासादिमूर्धान्तं मम शरीरे
संपूरयामि।तन्मध्ये ॐ ह्रौं ह्रीं ह्रीं सकलरौं आकाशाधिपतये सदाशिवाय ईशानाय वासुदेवाय
शान्त्यादिकलात्मने हुं फट् इति मन्त्रं ध्यायन् नाभसं सर्वं कुम्भकेन शनैश्शनैः तन्मन्त्रे
संहरामि। ॐ नं नमः पराय शुक्लवर्णाय शब्दतन्मात्रात्मने नमः,आकाशतन्मात्रं
शब्दतन्मात्रायां सम्हरामि। तां शब्दतन्मात्रां गन्धरसरूपस्पर्शतन्मात्राभिः सह रेचकेन स्वान्ते
संहरामि। क्ष्मां क्ष्मां क्ष्मां नाभसांश नासिकादि मूर्धान्तात् वृत्तद्वयात्मकात् नाभसात् मण्डलात्
स्वान्ते सापेक्षं लीनो भव।
ॐ पं नमःपराय सितासित वर्णाय मनस्तत्वात्मने नमः, स्वान्तं अहंकृतौ सम्हरामि। ॐ फं
नमःपराय पाटल वर्णाय अहंकारात्मने नमः,अहंकारं बुद्धौ सम्हरामि। ॐ बं नमःपराय
स्फटिकाभासाय बुद्धि तत्वात्मनेनमः, बुद्धिं प्रकृतौ सम्हरामि। ॐ भं नमः परायसित वर्णाय
प्रकृत्यात्मने नमः,प्रकृतिं जीवे सम्हरामि। ॐ मं नमःपराय स्फटिकाभासाय जीवतत्वात्मने
नमः। सुसूक्ष्मं भास्कराभं वासनाविवशं जीवं नाभिचक्रस्थितं पद्मसूत्र सुसूक्ष्मया
सुषुम्नयानाड्या कुम्भकेन वायुना अन्तर्देहे उपरि आरोप्य, ब्रह्मरन्ध्रं भित्वा देहात् बहिः निर्गत्य
सूर्यमण्डलं प्रविश्य उपरि सहस्रदलयुते श्वेतपद्मे संस्थितं परब्रह्मणि संयोजयामि। ॐ मं हंसः
हे जीव नाभिचक्रात् सुषुम्ना वर्त्मना परमात्मनि सापेक्षं लीनो भव। पादादिमूर्धान्तं। ॐ ह्रीं
योनिमुद्रायै नमः। इति मुद्रां प्रदर्श्य। ॐ लां नमः पराय सर्वात्मने श्रीमतेनारायणाय नमः।
ॐ वां नमः पराय निवृत्यात्मने अनिरुद्धाय नमः। ॐ रां नमःपराय विश्वात्मने प्रद्युंनाय
नमः। ॐ यां नमःपराय पुरुषात्मने संकर्षणाय नमः। ॐ षौं नमःपराय परमेष्ट्यात्मने
वासुदेवाय नमः।
ब्रह्महत्याशिरस्कन्धं स्वर्णस्तेयं भुजद्वयम्।
सुरापानहृदायुक्तं गुरुतल्प कटिद्वयम्।
तत्संयोगि पदद्वन्द्वं रक्तश्मश्रु विलोचनम्।
उपपातकरोमाणमंगप्रत्यंग संयुतम् ।
खड्गचर्मधरं कृष्णं कुक्षौ पापं विचिन्तयेत्।

 

 
इतिरीत्या ध्यात्वा। पादाग्रे रक्तवर्णाय त्रिकोणायाग्नये नमः। तज्ज्वालया देहमापादतलमस्तकं
दहामि। ॐ लं लं लं उत्थितमग्निं स्तंभयामि। आकाशे ॐ वं वं वं अमृतबीजं ध्यायामि।
तदुत्थामृतधारया तद्भस्मं प्लावयामि। ॐ पृथ्वी बीजस्य मेरुपृष्ठ ऋषिः। अतलं छन्दः। श्री
कूर्मो देवता। प्लावितभस्म पिण्डीकरणार्थेविनियोगः।
‘‘ॐ भूमिर्भूम्ना” इत्यारभ्य ‘‘पितरंच प्रयन्त्स्तुवः”। इत्यन्तं जप्त्वा। ॐ लं लं लं श्यामवर्णाय
पृथिव्यात्मने नमः। प्लावित भस्मकूटं पिण्डीकरोमि। ‘‘आकाश शरीरं ब्रह्मा” इत्यारभ्य
‘‘योग्योपास्व” ॐ श्रीं ह्रीं शक्तिबीजेन सर्ववर्णेन सर्वात्मना शरीरं सकरचरणाद्यवयवं
करोमि। ॐ सृष्टिमुद्रायै नमः। आकाशे ‘ॐ वां नमः पराय निवृत्यात्मने नमःइत्यमृत बीजं
ध्यायामि।तस्मात् ॐ पीयूषनिधये नमः। इति ध्यायन् तस्मिन् ॐ श्वेतायाव्यक्त पंकजाय
नमः। इति पद्मं ध्यात्वा। तस्मिन् परब्रह्मणः सकाशात् जीवमुत्पन्नं स्मरामि। ॐ मं नमः
पराय स्फटिकाभासाय जीवतत्वात्मने नमः। आं ह्रीं क्रों यरलवशष सह ॐ मं हं सः हे जीव
परब्रह्मणस्संकाशात् एतस्मिन् श्वेतपंकजे सापेक्षमागच्छ। ॐ मं जीव मुद्रायै नमः।तर्जन्यंगुष्ट
पर्वनिवेशो जीवमुद्रा। तां प्रदर्श्य। ॐ भं नमः पराय सितवर्णाय प्रकृत्यात्मने नमः। जीवात्
ॐ श्रीं ह्रीं नमः त्रिगुणात्मिकां प्रकृतिं सृजामि। ॐ भं नमः पराय स्फटिकाभासाय
बुद्धितत्वात्मने नमः। प्रकृतेः वाण्यात्मिकां बुद्धिंसृजामि। ॐ फं नमः पराय पाटलवर्णाय
अहंकारात्मने नमः बुद्धेःअहंकृतिं सृजामि। ॐ पं नमः पराय सितासित वर्णाय
मनस्तत्वात्मने नमः अहंकारात् मनस्तत्वं सृजामि। ॐ नं नमः पराय शुक्लवर्णाय
शब्दतन्मात्रात्मने नमः। मनसः शब्दतन्मात्रां सृजामि। शब्दतन्मात्रायाः ॐ ह्रौं ह्रीं ह्रीं
सकलरौं आकाशाधिपतये सदाशिवाय ईशानाय वासुदेवाय शांत्यादिकलात्मने हुंफट्
भिन्नाञ्जनवर्णं वाक्श्रोत्रेन्द्रिययुतं शब्दगुणं ॐ कं नमः पराय आकाशतत्वं सृजामि। ॐ धं
नमः पराय लोहितवर्णाय स्पर्शतन्मात्रात्मने नमः स्पर्शतन्मात्रां सृजामि। स्पर्शतन्मात्रायाः
ॐ ह्रैं णं सकलरैं वाय्वाधिपतये ईश्वराय तत्पुरुषाय संकर्षणाय शांतिकलात्मने हुं फ़ट् धूम्रं
वृत्तं त्वक्करेन्द्रिययुतं शब्दस्पर्शगुणं ॐ खं नमः पराय वायुतत्वं सृजामि। वायोः ॐ दं नमः
पराय ज्योतिर्वर्णाय रूपतन्मात्रात्मने नमः रूपतन्मात्रां सृजामि।रूपतन्मात्रायाः ॐ ह्रूं ण्यं ह्रीं
सकलरूं अग्न्याधिपतये रुद्राय घोराय प्रद्युंनाय विद्याकलात्मने हुं फट् शब्दस्पर्श

 

 
रूपगुणसहितं दृष्टिचरणेन्द्रिययुतं पाटलवर्णं त्रिकोणं ॐ गं नमः पराय अग्नितत्वं सृजामि।
अग्नेः ॐ थं नमःपराय पाण्डरवर्णाय रसतन्मात्रात्मने नमः रसतन्मात्रां सृजामि।
रसतन्मात्रायाः ॐ ह्रीं षं ह्रीं सकलरीं अंबोधिपतये ब्रह्मणे वामदेवाय धनुर्धराय
प्रतिष्ठाकलात्मने हुंफट् रसनापाय्विन्द्रियसहितं शब्दस्पर्श रूप रस गुणयुतं श्वेतवर्णं
अर्धचन्द्राकृतिं ॐ घं नमःपराय अप्तत्वं सृजामि। अप्तत्वात् ॐ तं नमःपराय सितवर्णाय
गन्धतन्मात्रात्मने नमः। गन्धतन्मात्रां सृजामि. गन्धतन्मात्रायाःॐ ह्रां झं लं ह्रीं सकलरां
पृथिव्यधिपतये विष्णवे सद्योजाताय नारायणाय निवृत्तिकलात्मने हुं फट् पीताभं चतुरश्रं
घ्राणोपस्थेन्द्रिययुतं शब्दस्पर्शरूपरसगन्धगुणं ॐ ङं नमः पराय पृथिवीतत्वं सृजामि। एवं
पाञ्चभौतिकं सप्तधातुमयं षण्णवत्यङ्गुलायतं दिव्यं शरीरं कल्पयामि। ॐ षौं नमःपराय
परमेष्ट्यात्मने वासुदेवाय नमः। ॐ यां नमःपराय पुरुषात्मने संकर्षणाय नमः।ॐ रां
नमःपराय विश्वात्मने प्रद्युंनाय नमः । ॐ वां नमःपराय निवृत्यात्मने अनिरुद्धाय नमः। ॐ
लां नमःपराय सर्वात्मने श्रीमतेनारायणाय नमः। ॐ मं नमः पराय स्फटिकाभासाय
जीवतत्वात्मने नमः ॐ ह्रीं क्रों यरलवशष सह ॐ मं हं सह हे जीव श्वेतपङ्कजात् मम
हृत्कमले सापेक्षमागच्छ। उपरि ॐ प्रबुद्धाय पंकजाय नमः । तदुत्पन्नामृतपूरितैर्हेमकुम्भै
दिव्यनारीकरधृतैरात्मानं अभिषिंचामि। हरेराराधनयोग्यं शुद्धं अनघं ममशरीरं अर्चयामि। ॐ
अस्मत् गुरुभ्यो नमः।
 
मातृका न्यास मंत्रस्य। ब्रह्मा ऋषिः। देवीगायत्री छंदः।मातृका सरस्वती देवता । हलो
बीजानि। स्वराः शक्तयः। सकलमंत्रोपब्रह्मणार्थे विनियोगः । ॐ अं कं खं गं घं ङं आं
अङ्गुष्ठाभ्यां नमः । ॐ इं चं छं जं झं र्ञं इं तर्जनीभ्यां स्वाहा। ॐ उं टं ठं डं ढं णं ऊं
मध्यमाभ्यां वषट् । ॐ एं तं थं दं धं नं ऐं अनामिकाभ्यां हुं। ॐ पं फं बं भं मं औ ं
कनिष्टिकाभ्यां वौषट् । ॐ अं यं रं लं वं शं षं सं हं ळं क्षं अः नखमुखेभ्यः फट् । एवं
षडङ्गन्यासश्च।
पञ्चाशद्वर्णभेदैर्विहित वदनदोःपादहृत् कुक्षिवक्षो।
देहांभास्वत् कपर्दा कलितशशिकलां इंदुकुन्दावदाताम्।

 

 
अक्षसृक्कुंभचिह्नां लिखितवरकरां त्रीक्षणां पद्मसंस्थां।
इच्छाकल्पां अतुच्छस्तनजघनभरां भारतीं तां नमामि।
अथ केशवादि मातृकान्यासः। ॐ अं केशवकीर्तिभ्यां नमः ललाटे। ॐ आं नारायण
कांतिभ्यां नमः मुखे । ॐ इं माधवतुष्टिभ्यां नर्मः । ॐ इं गोविंद पुष्टिभ्यां नमःनेत्रयोः। ॐ
उं विष्णुधृतिभ्यां नमः। ॐ ऊं मधुसूदनशान्तिभ्यां नमः श्रोत्रयोः । ॐ ऋं त्रिविक्रमक्रियाभ्यां
नमः । ॐ ॠं वामनदयाभ्यां नमः नासापुटयोः ॐ लृं श्रीधरमेधाभ्यां नमः। ॐ लॄं हृषीकेश
हर्षाभ्यां नमः गण्डयोः। ॐ एं पद्मनाभ श्रद्धाभ्यां नमः. ॐ ऐं दामोदरलज्जाभ्यां नमः ।
दन्तपङ्क्तयोः । ॐ ॐ वासुदेव लक्ष्मीभ्यां नमः। ॐ औ ं संकर्षण सरस्वतीभ्यां नमः ओष्टयोः।
ॐ अं प्रद्युम्न प्रीतिभ्यां नमः रसनाग्रे । ॐ अः अनिरुद्ध रतिभ्यां नमः मुखमण्डले।ॐ कं
शंखि छायाभ्यां नमः। ॐ खं चक्रि जायाभ्यां नमः । ॐ गं गदि दुर्गाभ्यां नमः । ॐ घं खड्गि
सत्याभ्यां नमः।ॐ ङं शार्ङ्गि प्रभाभ्यां नमः । दक्षिणबाह्वौ पञ्चविभागशः।
ॐ चं हलिवाणिभ्यां नमः । ॐ छं मुसलिविलासिनीभ्यां नमः । ॐ जं शूलिलयाभ्यां नमः ।
ॐ झं पाशिविनताभ्यां नमः । ॐ ञं अंकुशविश्वाभ्यां नमः वामबाहौ पञ्चविभागशः।
 
ॐ टं मुकुंदविमदाभ्यां नमः । ॐ ठं नन्द सुनंदाभ्यां नमः। ॐ डं नंदिस्मृतिभ्यां नमः । ॐ
ढं नरजर्झिभ्यां नमः। ॐ णं नरकजित् समृद्धिभ्यां नमःतथा दक्षिणपादे।
ॐ तं हरिशुद्धिभ्यां नमः। ॐ थं कृष्णबुद्धिभ्यां नमः। ॐ दं सत्यभुक्तिभ्यां नमः। ॐ धं
सत्वमतिभ्यां नमः। ॐ नं शौरि क्षमाभ्यां नमः तथा वामपादे।
 
ॐ पं शूररमाभ्यां नमः । ॐ फं जनार्दनोमाभ्यां नमः । कुक्षिपार्श्वयोः। ॐ बं
भूधरक्लेदिनीभ्यां नमः पृष्ठे। ॐ भं वैकुण्ठ वसुधाभ्यां नमः पायौ। ॐ मं विश्वमूर्ति संक्लिन्नाभ्यां
नमःमेहने ।
ॐ यं पुरुषोत्तमप्रथाभ्यां नमःनाभौ । ॐ रं बलापराभ्यां नमः कुक्षौ । ॐ लं
बलानुजधारणाभ्यां नमःहृदये । ॐ वं बालसूक्ष्माभ्यां नमःकण्ठे । ॐ शं विषघ्नसन्धिभ्यां
नमः ॐ षं वृषप्रज्ञाभ्यां नमःस्तनयोः । ॐ सं हंसप्रभाभ्यां नमः, ॐ हं वराहनिशाभ्यां नमः
भुजयोः। ॐ क्षं ॐ श्रीं ह्रीं क्लीं क्ष्रौं ॐ नमोनारायणाय क्षं नृसिंहमोहाभ्यां नमःमुखे।

 

 
अस्य श्रीमदष्टाक्षर महामन्त्रस्य । अन्तर्यामी नारायणऋषि:, देवीगायत्री छन्दः, परमात्मा
नारायणःदेवता,अम् बीजम्, ह्रीं शक्ति:,मम् कीलकम्, परमव्योमक्षेत्रम्, बुद्धिःतत्वम्,
शुक्लादिवर्ण:, उदात्तादिःस्वर:, भगवत्समाराधनार्थे विनियोगः।
 
                      करन्यास:
 
ओम् ओम् ओम् ओम् यम् ओम्
ओम् नम् ओम् ओम् णाम् ओम्
ओम् मोम् ओम् ओम् यम् ओम्
ओम् नाम् ओम् ओम् राम् ओम्
दक्षिण तर्जनीम् आरभ्य वाम तर्जनीम् आरभ्य
कनिष्टान्तम् पर्वसु। कनिष्टान्तम् पर्वसु।
ओम् राम् ओम् अङ्गुष्ट कनिष्टिकाभ्याम् नाभौ ।
ओम् यम् ओम् अङ्गुष्टम् विना सर्वाभिर्मेहने ।
ओम् णाम् ओम् तथैव जानुनि ।
ओम् यम् ओम् समस्ताङ्गुलीभिःचरणयो:।
ओम् ओम् ओम् मध्यमया मूर्ध्निमध्ये।
ओम् नम् ओम् तर्जनी मध्यमाभ्याम् नेत्रयो: ।
ओम् मोम् ओम् अङ्गुष्टानामिकाभ्याम् मुखे ।
ओम् नाम् ओम् अङ्गुष्ट तर्जनीभ्याम् हृदये ।
 
ओम् क्रुद्धोल्काय स्वाहा ज्ञानाय हृदयाय नम: ।
ओम् महोल्काय स्वाहा ऐश्वर्याय शिरसे स्वाहा ।
ओम् वीरोल्काय स्वाहा शक्त्यै शिखायै वषट् ।
 ओम् विद्युल्काय स्वाहा बलाय कवचाय हुम् ।
ओम् सहस्रोल्काय स्वाहा वीर्यायअस्त्राय फट् ।

 

 
ओम् तेजोल्काय स्वाहा तेजसे नेत्राभ्यांवौषट्।
(ओम् किरीट मुद्रायै नम: शिरसि ओम् श्रीवत्स मुद्रायै नम: दक्षिणोरसि
ओम् कौस्तुभ मुद्रायै नम: वामोरसि ओम् वनमाल मुद्रायै नम: कण्ठे
ओम् चक्र मुद्रायैनम:,ओम् पद्म मुद्रायै नम:दक्षिण भागे।
ओम् शंखमुद्रायै नम:, ओम् गदा मुद्रायै नम: वाम भागे:,गरुड मुद्रायै नमः पादाग्रे)
ध्यानम्
चतुर्भुज मुदाराङ्गम् चक्राद्यायुध सेवितम्।
काळमेघ प्रतीकाशम् पद्मपत्रायतेक्षणम् ।।
पीतांबरधरम्सौम्यम् प्रसन्नेन्दुनिभाननम्।
चारुहासम् सुताम्रोष्टं रत्नोज्वलितकुण्डलम्।।
सुभ्रुललाटमकुटं घनकुञ्चितमूर्धजम्।
ललाटतिलकं सौम्यं दीपवत् श्वेतमृत्स्नया।।
स्फुरत्कटककेयुर हारकौस्तुभभूषितम्।
स्फुरत्भास्वरवर्णाभं शोभितं वनमलया।
प्रद्योतनसहस्राभं भूषणैरपि मण्डितम्।
दिव्यचंदनलिप्ताङ्गं दिव्यमाला विभूषितम्।
श्रीभूमिभ्याम् सुखासीनम् स्वर्ण सिंहासनेशुभे।
ध्यात्वैवम् देवदेवेशम् मन्त्रजापपरो भवेत् ।।
शुक्लम् हिरण्मयम् कृष्णम् रक्तम् कुङ्गुम सन्निभम्।
पद्मकिञ्जल्क सदृशम् सर्ववर्णकमष्टकम्। इति ध्यायन् मन्त्रं जपेत्।
द्वादशाक्षर विधि:
अस्य श्री द्वादशाक्षर महामन्त्रस्य.श्रीवासुदेवः ऋषि: देवी गायत्री छंदः
परमात्मा वासुदेवोदेवता.अंबीजम् ,क्रोम् शक्ति:श्वेतो वर्ण: बुद्धि:तत्वम्
परमव्योमक्षेत्रम्,भगवत्समाराधनार्थे जपेविनियोग:
       

 

 
कर न्यासः
ओम् ओम् ओम् ओम् यम् ॐ
ओम् नम् ओम् ओम् वाम् ॐ
ओम् मोम् ओम् ओम् दें ॐ
ओम् भम् ओम् ओम् सुं ॐ
ओम् गम् ओम् ओम् वाम् ॐ
ओम् वम् ओम् ओम् तेम् ओम्
दक्षतल मारभ्य कनिष्टान्तम् वामतल मारभ्य कनिष्टान्तम्
 
देह न्यास:
ओम् सुम् ओम् अङ्गुष्टकनिष्टिकाभ्याम् नाभौ।.
ओम् देम् ओम् अङ्गुष्ट तर्जनीभ्याम् गुह्ये।
ओम् वाम् ओम् अङ्गुष्टम् विना जान्वो:।
ओम् यम् ओम् सर्वाङ्गुलीभि: चरणयो:।
ओम् ओम् ओम् अङ्गुष्टेन शिरस:पूर्वभागे
ओम् नम् ओम् तर्जन्या शिरस:दक्षिणे।
ओम् मोम् ओम् अनामिकयापश्चिमे।
ओम् भम् ओम् कनिष्टिकयाउत्तरे।
ओम् गम् ओम् मध्यमया मूर्ध्निमध्ये।
 ओम् वम् ओम् तर्जनीमध्यमाभ्यां नेत्रयो:।
ओम् तेम् ओम् अङ्गुष्ट अनामिकाभ्यां मुखे।
ओम् वाम् ओम् अङ्गुष्टतर्जनीभ्यां हृदये।
ओम् ओम् ओम् ज्ञानाय हृदयाय नम:।
ओम् नम् ओम् ऐश्वर्याय शिरसे स्वाहा ।
ओम् मोम् ओम् शक्त्यै शिखायै वषट् ।

 

 
ओम् भम् ओम् बलाय कवचाय हुम् ।
ओम् गम् ओम् तेजसे नेत्राभ्याम् वौषट् ।
ओम् वम् ओम् वीर्याय अस्त्राय फट् ।
ओम् तेम् ओम् उदराय नम:।
ओम् वाम् ओम् पृष्टाभ्याम् नम: ।
ओम् सुम् ओम् बाहुभ्याम् नम: ।
ओम् देम् ओम् ऊरुभ्यां नम: ।
ओम् वाम् ओम् जानुभ्याम् नम: ।
ओम् यम् ओम् पादाभ्याम् नम: ।
ओम् किरीट मुद्रायै नम: शिरसि ।
ओम् श्रीवत्स मुद्रायै नम: दक्षिणोरसि ।
ओम् कौस्तुभ मुद्रायै नम: वामोरसि ।
ओम् वनमाल मुद्रायै नम: कण्ठे ।
ओम् चक्र मुद्रायै नम:। ओम् पद्ममुद्रायै नम: दक्षिण भागे।
ओम् शंख मुद्रायै नम: । ओम् गदा मुद्रायै नम: वाम भागे।
 ओम् गरुड मुद्रायै नम: ।पादाग्रे।
ध्यानम्
चतुर्बाहुमुदाराङ्गं सर्व लक्षणलक्षितम्।
शुद्ध स्पटिक वर्णाभम् अयुतेन्दु समप्रभम्।
चारुहासम् सुताम्रोष्टम् कर्णान्तायतलोचनम्।
निर्धूत पद्मरागाभम् दन्तछविसुशोभितम्।
महोरस्कम् महाबाहुम् प्रसन्नेन्दुनिभाननम्।
सुभ्रू ललाटम्सुमुखम् घनकुञ्चित मूर्धजम्।
तटिछत सहस्राभम् पीतनिर्मलवाससम्।
पाणिपादतलांभोजम् पुण्डरीकायतेक्षणम्।

 

 
श्रीवत्साङ्गम् किरीटादि सर्वाभरण भूषितम्।
पद्म चक्र गदा शंखधारिणम् कौस्तुभोरसम्।
दिव्यगन्धविलिप्ताङ्गम् दिव्यमालाविभूषितम्।
शेषाहिभोगे विपुले सुखासीनम् चतुर्मुख।
श्रीभूमि सहितम् देवम् ललाटेश्वेतमृत्स्नया।
कृतोर्ध्व पुण्ड्रतिलकैः मण्डितम् चण्ड भानुभिः।
नियुतै रयुतैश्चन्द्रैः विद्युत्कालाग्निकोटिभिः।
समवेतैरिवैकत्र तेज:पुञ्जै: विसर्पिभिः।
भ्राजमानं दुरालोकम् देहमण्डल निर्गतै:।
भासयन्तंजगत्सर्वम् ध्यायेत् प्रक्षीण कल्मष:।
सितम् कृष्णंच धूम्राभम् श्यामंतारानिभं तथा।।
स्पटिकाभंच शङ्काभम् रक्तम् शुक्लं च लोहितम्।।
तमोरूपम् पीतवर्णम् ध्यायेन् मन्त्रद्विषाक्षरम्। इति ध्यात्वा ।
षडङ्गस्य
रूपाणिषण्णां कुमुदं बंधूकं असितोत्पलम्।
अब्जकेसरमंभोजंअतसीसून संपदम्। इति।
आत्मानं दिव्यायुध वस्त्रमाल्यानुलेपन कौस्तुभ वनमाला श्रीवत्स दिव्यलक्षण धरं साक्षात्
परमेश्वरं ध्यायामि इति ध्यात्वा। न्यस्त बीजानि गन्धादिभिः अभ्यर्च्य । तदनु
हृदयकमलमध्यं अध्यासीनं भगवन्तं मानसोपचारैः होमान्तैः वक्ष्यमाणविधिना. अर्चयेत्।
 
मानसयाग विधिः उच्यते
अत्र तु हृत्कर्णिकाधारे वा यत्र कुत्र वा भगवन्मूर्तौ वा मूलमन्त्रशरीरस्थपरिवार यजनेन
कृतोलययागः। कर्णिकामध्ये मन्त्रराजस्य केसरेषु लक्ष्म्यादीनां च यजनं भोगाभिधः।
कमलादीनां पृथक्त्वेन यजनं अधिकाराभिधः । एवं लयभोगाधिकारान् ज्ञात्वा नादावसान
गगनस्थं हृदयकमलमध्ये भोगाभिधयागविधिना आवाह्य । वक्ष्यमाणेन वर्त्मना यजेत् ।

 

 
पद्मासनादि कमलासनं बद्ध्वा। नाभौ ब्रह्माञ्जलिं कृत्वा। ऋजुकायः नासाग्रन्यस्थनयनः दन्तैः
दन्तान् असंस्पृश्य। तालुनिजिह्वां विन्यस्य. किञ्चित् कुञ्चितशिराः श्लथबाहुद्वयः आचार्यः
बाह्येन्द्रियाणि मनसि उपरितानि कृत्वा।मनः बुद्धौ, बुद्धि ज्ञानगोचरां विधाय ज्ञानभावनया
पारमार्थिकं कर्म कुर्यात्।
 
नाभिमेढ्रान्तरे चतुर्धाभाजितेषु पदेषु क्रमात् आधारादीन् स्मरेत्. ॐ अस्मद्ग ुरुभ्यः नमः ।
नाभिमेढ्रान्तरे ॐ ह्रीं ङं घं गं खं कं पृथिव्यप्तेजोवय्वाकाश पञ्चभूतमयाय
स्वसत्वविभवान्तस्थाय आधाराय नमः । शान्तं उज्झितचेष्टं सितं अन्तर्मुखस्मितं
आधायोल्लिङ्गिताकारं आधारंस्मरामि ।
 उपरि ज्ञौं ष्रूं ज्वालौघ विभवांतस्थाय नं धं दं थं तं शब्दस्पर्शरूपरस गन्धगुणयुताय
कालाग्निरूपाय कूर्माय नमः । कूर्ममुद्रान्वितं कूर्मवक्त्रं निष्टप्तकाञ्चननिभं शङ्खचक्रधरं
स्वस्तिकेन स्थितं कूर्मं ध्यायामि। उपरि ॐ अं स्वभोगविभवान्तस्थाय ञं झं जं छं चं
वाक्पाणिपादपायूपस्थयुताय अनन्ताय नमः । अनन्तसशिसंकाशं सहस्रफणालङ्कृतं सहस्रभुजं
स्वपाणिसंपुटेन भुवं दधानं सितारविन्द शंखाक्षसूत्राऽभयकरं अनन्तं ध्यायामि. उपरि ॐ भूं
काञ्चन विभवान्तस्थायै णं ढं डं ठं टं श्रोत्र त्वक्चक्षुर्जिह्वाघ्राणयुतायै भूम्यै नमः ।
निश्शेषरत्नहेमाङ्गां प्रावृट्च्छ्रियमिवोज्ज्वलां पद्मासनोपविष्टां पद्माञ्जलिधरां भुवं ध्यायामि।नाभौ
ॐ वं अमृतसार विभवान्तस्थाय पं मनस्तत्वयुताय क्षीरार्णवाय नमः। फुल्लकुन्दावदातं
सितस्निग्धजटाधरं शंखं ध्मायमानं मुक्तादामविराजितं विस्तीर्ण सर्वावयवं विक्षिप्तोरुद्वयं स्थितं
विक्षिप्तजानुपादं क्षीरार्णवं ध्यायामि. उपरि ॐ फं अहंकारतत्वयुताय स्वबीजकोश
किसलयदल विभवान्तस्थाय अनन्तदलपद्माय नमः । सुपक्वाम्रफलश्यामपाणिपदतलोज्ज्वलं
रक्ताक्षं विप्रकीर्णकेशं स्मिताननं पद्मासनस्थितं अलिमालावृतं सुदीर्घचरणं पद्ममुद्रान्वितं पद्मं
ध्यायामि। तस्मिन् आग्नेये ॐ वं बुद्धितत्वयुताय विवेकविभवान्तस्थाय धर्माय नमः।
तुहिनवर्णम् मृगेन्द्रवदनं धर्मर्मूींत ध्यायामि । नैॠते ॐ वं बुद्धितत्वयुताय
विवेकविभवान्तस्थाय ज्ञानमूर्तयेनमः।अच्छोपलवर्णं मृगेन्द्रवदनं ज्ञानर्मूींत ध्यायामि।वायव्ये
ॐ बं बुद्धितत्त्वयुताय विवेकविभवान्तस्थाय वैराग्याय नमः । मुक्ताफलरुचिं मृगेन्द्रवदनं

 

 
वैराग्यर्मूींत ध्यायामि । ऐशाने ॐ बं बुद्धितत्वयुताय अविद्याविभवान्तस्थाय ऐश्वर्याय नमः ।
शशिवर्णं मृगेन्द्रवदनं ऐश्वर्यर्मूींत ध्यायामि । पूर्वेॐ बं बुद्धितत्त्वयुताय अविद्याविभवान्तस्थाय
अधर्मायनमः । पद्मरागवर्णं मृगेन्द्रवदनं अधर्मर्मूींतध्यायामि । दक्षिणेॐ बं बुद्धितत्त्वयुताय
अविद्याविभवान्तस्थाय अज्ञानाय नमः।प्रवालवर्णं मृगेन्द्रवदनं अज्ञानर्मूींत ध्यायामि।पश्चिमे
ॐ बं बुद्धितत्त्व युताय अविद्या विभवान्तस्थाय अवैराग्याय नमः।अग्निवर्णं मृगेन्द्रवदनं
अज्ञानर्मूींतध्यायामि।उत्तरे ॐ बं बुद्धितत्त्वयुताय अविद्याविभवान्तस्थाय अनैश्वर्याय नमः।
दाडिमफलवर्णं मृगेन्द्रवदनं अज्ञानर्मूींत ध्यायामि।
 
प्रागीशानदिङ्मध्ये- ॐ बं बुद्धितत्त्वयुताय वाक्प्रपञ्चविभवान्तस्थाय ऋग्वेदाय नमः।हेमवर्णं
वाजिवक्त्रं ऋग्वेदं ध्यायामि।प्रागाग्नेयदिगंतरे ॐ यं बुद्धितत्वायुताय वाक्प्रपञ्च विभवान्तस्थाय
यजुर्वेदाय नमः । चंपकवर्णं वाजिवक्त्रं यजुर्वेदं ध्यायामि।
निऋतिवरुण मध्ये ॐ बं बुद्धितत्वयुताय वाक्प्रपञ्ज विभवान्तस्थाय सामवेदाय नमः ।
खद्योतवर्णं वाजिवक्त्रं सामवेदं ध्यायामि।
वायव्य वरुणान्तरे- ॐ बं बुद्धितत्वयुताय वाक्प्रपञ्ज विभवान्तस्थाय अथर्वणवेदाय नमः ।
हरितालवर्णं वाजिवक्त्रं अथर्वणवेदं ध्यायामि।ईशानसोमदिङ्मध्ये- ॐ बं बुद्धितत्वयुताय
त्रुट्याद्याकल्प विभवान्तस्थाय कृतयुगाय नमः । वृषेन्द्रवदनं सुपक्वाम्रफलवर्णं कृतयुगं
ध्यायामि । अन्तकाऽग्न्यन्तरे- ॐ बं बुद्धितत्वयुताय त्रुट्याद्याकल्प विभवान्तस्थाय त्रेतायुगाय
नमः। अतसीपुष्पनिभं वृषेन्द्रवदनं त्रेतायुगं ध्यायामि।याम्यराक्षसमध्ये- ॐ बं बुद्धितत्वयुताय
त्रुट्याद्याकल्प विभवान्तस्थाय द्वापरयुगाय नमः। वृषेन्द्रवदनं नीलाब्जवर्णं द्वापरयुगं ध्यायामि
। सोमसामीरणान्तरे- ॐ बं बुद्धितत्वयुताय त्रुट्याद्याकल्प विभवान्तस्थाय कलियुगाय नमः।
वृषेन्द्रवदनं शुक्लवर्णं कलियुगं ध्यायामि।एतान् संपूर्णनर लक्षणान् सद्वस्त्र
सत्पुष्पसदलङ्करणान्वितान् शंख पद्म वराभयकरान् आधेयचक्रविन्यस्तमस्तकान्
स्वात्मसिद्धये परस्मिन् मन्त्राकरणे समर्पितान्तः करणान् षोडशवार्षिकान् ध्यायामि।
उपरि ॐ रं वं हं धामत्रयाश्रयाय ह्रीं भ्रमन्मायाविभवान्तस्थाय कालचक्राय नमः.
युगान्तार्काग्निसंकाशं स्वगोमण्डलमध्यगं स्वमुद्राव्यग्रपाणिं वल्गन्तं हेतिराजं ध्यायामि ।

 

 
उपरि ॐ भं प्रकृति तत्वयुताय गौणिवृत्तविभवान्तस्थाय अव्यक्तपद्माय नमः।
हिमहेमाग्निभास्वरं वायव्योद्भूतनालं शान्तं अष्टभुजं स्वस्तिकेनस्थितं सौम्यं ऊर्ध्वमुखं
विकाराधारसुस्थितं हृत्पुण्डरीकरूपं अव्यक्तपद्मं ध्यायामि। उपरि ॐ मं चिदादित्यस्वरूपाय
विमलादिकलाजाल विभवान्तस्थाय जीवात्मने नमः। स्फटिकोपलकान्तिं चिद्घनं ध्रुवं अव्यक्तं
सर्वशक्तिनिधिं अमूर्तं चित्प्रभाकारं जीवं ध्यायामि।
देहमध्ये- ॐ सुषुम्नानाडिकायै नमः। नाभिकन्दात् ब्रह्मरन्ध्रेण सूर्यपथात् परगतां पायुद्वारेण
पातालं भित्वा स्वगोचरं यातां सूत्रे मणिगणवत् स्वप्रतिष्ठित सर्वसंकल्पविषयां त्रिदीप्तिभास्वरां
सुषुम्नाभिधां मध्यनाडिकां ध्यायामि। जीवात्मनः उपरि- ॐ ह्रीं ऐं क्लीं सौः
नानामन्त्रगणरूपिण्यै शब्दब्रह्मशक्त्यै नमः । सर्वमन्त्र जननीं आकारादि हान्तं धारासंतानरूपं
वर्णजं नादं नदन्तीं परां वाक्भ्रमरीं शब्दब्रह्मेदिविश्रुतां शान्तात्मनां शक्तिं ध्यायामि। उपरि
नादावसानगगने-ॐनमोभगवतेवासुदेवाय । शान्तं सनातनं संवित्स्वरूपं नित्यतृप्तनिरञ्जनं
सर्वाकारं अमूर्तं भक्तानुग्रहकाम्ययामूर्ततांगतं अनुपमं सहस्ररविवह्नींदु लक्षकोटिसमप्रभं देवं
ध्यायामि । इति ध्यात्वा। तदनु ॐ अस्मद्ग ुरुभ्यः नमः इति ध्यायेत् । हृत्कमलदळेषु
पूर्वादिषु-ॐ उत्कर्षिण्यै नमः।ॐ ज्ञानायै नमः । ॐ क्रियायै नमः।ॐ योगिन्यै नमः । ॐ
प्रह्वयै नमः । ॐ सत्यायै नमः। ॐ ईशान्यै नमः । कर्णिकायां ॐ अनुग्रहायै नमः ।
ॐ सहस्रशीर्षापुरुषः । सहस्राक्षस्सहस्रपात् । स भूमिं विश्वतो वृत्वा। अत्यतिष्ठद्दशाङ्गुलम् ।
ॐ नमोभगवतेवासुदेवाय, अव्यक्तपङ्कज कर्णिकामध्ये आगच्छागच्छ।
पुरुषएवेदँसर्वं यद्भूतं यच्छभव्यम्। उतामृतत्वस्येशानः। यदन्नेनातिरोहति। आसनं
समर्पयामि।
स्वागतं देवदेवेश सन्निधिं भज मेऽच्युत।
गृहाणमानसीं पूजां यथार्थ परिभाविताम्।
ॐ आवाहनमुद्रायै नमः। ॐ स्थापन मुद्रायै नमः।ॐ सन्निधान मुद्रायै नमः।ॐ सन्निरोध
मुद्रायै नमः। ॐ सांमुख्यमुद्रायै नमः। ॐ प्रार्थनामुद्रायै नमः। शिरसः उपरि- ॐ
पद्मान्तराकाशस्थितायै गंगायै नमः। सुषुम्नावर्त्मना भगवन्मूर्ध्निच्युतां अमृतमयीं गंगां
ध्यायामि. इति ध्यात्वा । तज्जलेन अमृतमयेन अर्घ्यादिदानं स्मरेत् ।

 

 
एतावानस्य महिमा । अतो ज्यायाश्च पूरुषः। पादोस्यविश्वा भूतानि । त्रिपादस्यामृतं दिवि ।
पाद्यं समर्पयामि।
त्रिपादूर्ध्व उदैत्पुरुषः। पादोस्येहा भवात् पुनः। ततो विष्वङ् व्यक्रामत् । साशना नशने अभि।
अर्घ्यं समर्पयामि।
तस्माद्विराडजायत। विराजो अधिपूरुषः।स जातो अत्यरिच्यत। पश्चात् भूमिमधो पुरः।
आचमनं समर्पयामि।
ॐ नमोभगवतेवासुदेवाय मन्त्रासनं कल्पयामि। देवस्य दक्षिणकेसरेषु-ॐ श्रीं श्रियै नमः
आगच्छागच्छा शब्दब्रह्मस्वरूपिणीं सर्वशक्तिमयीं श्रियं ध्यायामि। ॐ श्रियै नमः पद्मासनं
समर्पयामि। अमृतमयं पाद्यं समर्पयामि।अर्घ्यं समर्पयामि। आचमनीयं समर्पयामि।मन्त्रासनं
कल्पयामि। श्री देवी मंत्रस्य।मंकणऋषिः। गायत्रीछन्दः। श्रीर्देवता।श्रीं बीजं।ह्रीं शक्तिः।क्लीं
कीलकं। समाराधनार्थे विनियोगः।
ओम् श्रां हृदयाय नम: ।
ओम् श्रीं शिरसे स्वाहा ।
ओम् श्रूं शिखायै वषट् ।
ओम् श्रैं कवचाय हुम् ।
ओम् श्रौं नेत्राभ्यांवौषट्।
ओम् श्रः अस्त्राय फट् ।ओम् कमल मुद्रायै नम: ।
देवस्य वामे-ॐ भूं भूम्यै नमः आगच्छागच्छा, सर्वशक्तिमयीं भूमिं ध्यायामि । ॐ भूम्यै नमः
कल्पयामि । अमृतमयं पाद्यं समर्पयामि।अर्घ्यं समर्पयामि।आचमनीयं समर्पयामि ।
मन्त्रासनं कल्पयामि । भूदेवी मंत्रस्य। कण्वऋषिः। गायत्रीछन्दः । भूर्देवता।ह्रीं बीजं। श्रीं
शक्तिः। क्लीं कीलकं। समाराधनार्थे विनियोगः।
ओम् ह्रां हृदयाय नम: ।
ओम् ह्रीं शिरसे स्वाहा ।
ओम् ह्रूं शिखायै वषट् ।
ओम् ह्रैं कवचाय हुम् ।

 

 
ओम् ह्रौं नेत्राभ्यांवौषट्।
ओम् ह्रः अस्त्राय फट् । ओम् कमल मुद्रायै नम: ।परिवारकल्पनं करिष्ये । योगासनाब्जपत्रेषु,
पूर्वादिषु, द्वादश दळेषु.
ओम् श्रीवत्साय नम: , ओम् वनमालायै नम: ,
ओम् योगमायायै नम:, ॐ वैष्णव्यै नम: ,
ओम् विमलायै नम: , ओम् सृष्ट्यै नम:,
ओम् उत्कर्षिण्यै नम: , ओम् प्रज्ञायै नम: ,
ओम् सत्यायै नम: , ओम् ऐशान्यै नम: ,
ओम् अनुकम्पायै नम: , ओम् पितामह्यै नम: ।
एता: पुष्पाञ्जलि धरम् ध्यात्वा ।
ओम् व्याप्त्यै नम: , ओम् कांत्यै नम: ,ओम् तृप्त्यै नम: , ओम् श्रद्धायै नम:
ओम् विद्यायै नम:, ओम् जयायै नम:, ओम् क्षमायै नम:, ओम् शांत्यै नम: तत्परितः -
द्वितीया वरणे ओम् शंखिने नम:, ओम् चक्रिणे नम:, ओम् गदिने नम:, ओम् शार्ङ्गिणे नम:,
ओम् पाशिने नम:,ओम् अङ्कुशिने नम: ।
ॐ इंद्राय नम:, ओम् अग्नये नम:, ओम् यमाय नम:, ओम् नैऋतये नम:,
ॐ वरुणाय नम:, ओम् वायवे नम:, ओम् सोमाय नम:, ओम् ईशानाय नम: ।
त्रितीयावरणाद्बहि: भगवत: प्रति मुखे ओम् क्षम् वैनतेयाय नम: ।
ईशानदिशि ओम् विष्वक्सेनाय नम: । एताः भगवदभिमुखान् प्राञ्जलीन्
ध्यायामि ।
ॐ नमोभगवतेवासुदेवाय श्रीभूसहिताय स्नानासनं कल्पयामि । यत्पुरुषेणहविषा......ग्रीष्म
इद्मश्शरद्धविः। स्नानं समर्पयामि । ॐ अलंकारासनं कल्पयामि। सप्तास्यासन्
परिधयः..........पुरुषं पशुम्।
ॐ वस्त्रं समर्पयामि। तं यज्ञं.........ऋषयश्च ये । उपवीतं समर्पयामि।
तस्माद्यज्ञात्सर्वहुतः.....ग्राम्याश्च ये । ॐ गन्धं समर्पयामि।

 

 
तस्माद्यज्ञात्सर्वहुतः.......यजुस्तस्मादजायत । ॐ पुष्पं समर्पयामि। तस्मादश्वा
अजायंत.......अजावयः। ॐ धूपं समर्पयामि । यत्पुरुषं व्यदधुः......ॐ दीपं समर्पयामि। ॐ
नमोभगवतेवासुदेवाय श्रीभूसहिताय भोज्यासनं कल्पयामि ।
ब्राह्मणोस्यमुखमासीत्.........पद्भ्यां शूद्रो अजायत । ॐ अमृतमयं नैवेद्यं समर्पयामि ।
चन्द्रमामनसो जायत.....प्राणाद्वायुरजायत । ॐ ताम्बूलं समर्पयामि।
ॐ नमोभगवतेवासुदेवाय श्रीभूसहिताय आवाहनादि ताम्बूलान्तै स्संकल्प जनितैः
पवित्रैरक्षयैश्शुभैः सांस्पर्शिक औपचारिकाभ्यवहारिकरूपैः सप्तलोकसमुद्भवैः यथोदितैः
उत्कृष्टतर लक्षणैरमृतमयैर्भोगैः श्रीभूमिभ्यां सह संतुष्टोभव।ॐ नमोभगवतेवासुदेवाय
श्रीभूसहिताय सर्वालंकार संयुतानि धेनुयानानि समर्पयामि।
नाभ्या आसीद्..........तथालोकां अकल्पयन् । ॐ श्रीभूसहितवासुदेवाय चरणौ शरणं प्रपद्ये ।
आनंदाश्रु परिप्लुतस्सन्नात्मानं सपुत्र पौत्रदारं भगवते समर्पयामि । ॐ क्षं सर्वाभीष्टप्रदायिन्यै
धेनुमुद्रायै नमः सुरभिमुद्रां प्रदर्श्य। तज्जातैरमृतमयैर्वस्तुभिःसंतुष्टो भव।अञ्जलिं सुवर्णपुष्पसंपूर्णं
ध्यायामि । इति अञ्जलिं कृत्वा।तस्मिन् रेचकपूरककुम्भकैः प्रत्येकं मूलमंत्रमुच्छार्य, तस्मिन्-ॐ
नमो नारायणाय आगच्छ आगच्छ इति वह्नयर्केन्दुनिभं ध्यात्वा । सन्निरुद्ध्य । तं देवं मूर्ध्नि
क्षिप्त्वा। भूयोप्यर्घ्यं पुष्पाञ्जलिं च वितीर्य। मूलमुद्रां प्रदर्श्य। लक्ष्म्यादीनां तत्तन्मुद्राश्च
दर्शयित्वा। यथाशक्ति मूलमनुं जप्त्वा।स्तोत्रैः स्तुत्वा। श्रीभूमिसहितं वासुदेवं प्रसादयेत्।
मानसाग्निकार्य विधिः
अथ मानसाग्निकार्यविधिः उच्यते । नाभि चक्रमध्ये ॐ गं भं ह्रीं त्रिगुणावृत्ताय त्रिकोणाय ॐ
रं प्रधानाग्नियुताय वह्निगृहाय नमः। नाभिचक्रे त्रिकोणकुण्डस्थं अग्निं ध्यायामि। ध्यानारणि
मन्थनेन चिदग्निमुत्पादयामि । वासुदेवात्मकं शुद्धं संस्कृतं दीप्तं ऊर्ध्वशिखंचाग्निं ध्यायामि ।
इति ध्यात्वा। ‘अदितेनुमन्यस्व’ इत्यारभ्य ‘देवसवितःप्रसुव’ इत्यंतेनाऽमृतैः परिषेचनं
  ध्यात्वा तज्ज्वालाग्रे ॐनमोभगवतेवासुदेवाय आगच्छागच्छेति मंत्रविग्रह
मावाह्य । सन्निरुद्ध्य। पूर्ववदमृतेनार्घ्यदि स्मृत्वा । वितीर्य। अमृतमाज्यमुपरिष्टात् पद्मात्
सुवर्णपात्रे सुषुम्नावर्त्मना परिच्युतं ध्यात्वा । तेनाज्येन नाभिचक्र त्रिकोण कुण्डस्थं
चिदग्निज्वालाग्रा वस्थितं मंत्रविग्रहं मूलमंत्रेण स्वाहान्तेन संतर्प्य। ‘अदितेन्वमग्गुस्थाः”

 

 
इत्यारभ्य ‘ देवसवितः प्रासावीः”इत्यन्तेन परिषेचनं ध्यात्वा। अमृतमयं निवेदनं
ध्यात्वा।पुनश्च हृदयकमलमध्ये नाभिचक्रे चिदग्निज्वालाग्रावस्थितं पूर्ववदावाह्य।तत्र स्थितं
ध्यात्वा।ततः दक्षिणतः करकं तोयपुष्पाक्षतैः पूर्णं भावयित्वा। तन्मध्ये ॐ नमोभगवते
वासुदेवाय इति संस्मृत्य।तन्मध्ये ॐ श्रीं श्रियै नमः। यागोक्तां भूसंपत्तिं लक्ष्मीरूपां
ध्यायामि।इति ध्यात्वा। तन्मध्ये पुनरपि पूर्ववत् मूलमंत्रं स्मृत्वा। सशीर्षे जानुनी भूमौ कृत्वा।
विष्णोर्निवेद्य। तं प्रसादाभिमुखं परितुष्टं विचिन्त्य
नमस्ते सर्वलोकेश भगवन् मंत्र विग्रह।
आराधयामि त्वां बिम्बे तावन्निवस मे हृदि।
इत्युक्त्वा । ततो बाह्यपूजां वक्ष्यमाणेन विधिना कुर्यात्।
   
अथ मंत्र शुद्धिः
ॐ यं वायवे नमः मंत्रबीजानि शोषयामि।
ॐ रं अग्नये नमः मंत्रबीजानि दहामि। ॐ लं पृथ्व्यै नमः। अमृतधारया प्लावयामि। ॐ हं
मंत्रबीजानि शोधयामि। इति शोधनं कृत्वा। शुद्धमंत्रं अक्षमालया अष्टोत्तरशतं वा
अष्टाविंशतिर्वा,बीजाद्यन्त संपुटितं जपेत्।
द्वयं मंत्र शुद्धिः।
इति श्री वराहगुरुणा विरचितायां क्रियाकैरव चन्द्रिकायां
भूतशुद्धि मंत्रन्यासान्तर्याग, मानसाग्निकार्य,मन्त्रशुद्धिविधिःनाम सप्तविंशः परिच्छेदः


 
 
 
अष्टाविंशः परिच्छेदः

 

 
अथ सर्वाणिद्रव्याणि प्रक्षाळ्य । दक्षिणे च गळंतिकां प्रक्षाळ्य। अंबुपूरितां कृत्वा । वामे च
पार्श्वे विन्यस्य। ॐ वर्धन्याद्यर्चनपात्राधिदैवताय ॐ वरुणाय नमः इत्यभ्यर्च्य ।
विष्णुगायत्र्याऽर्घ्यदिपात्राणि प्रक्षाळ्य। देवस्यात्मनो वाऽग्रे त्रिपादुकां विन्यस्य । तस्यां ॐ रं
त्रिपादुकाधिदैवताय ॐ त्रेताग्नये नमः। इत्यावाह्याऽभ्यर्च्य। तदुपरि पात्राधारस्थालिकां
विन्यस्य। तस्यां ॐ लं पृथ्व्यै नमः इत्यावाह्याभ्यर्च्य । तदुपरि मध्य दक्षिण वामेषु
पाद्यार्घ्यचमनीय पात्राणि निधाय । गालितोदकैरापूर्य। प्रणवेन स्पृष्ट्वा।कुशाग्राक्षत पुष्प
फलचन्दन तिलसिद्धार्थ यवानर्घ्य पात्रे। तिल दूर्वाविष्णुपर्णी श्यामाक पद्माक्षताणिपाद्य पात्रे
। एलालवंग कर्पूर जातीतक्कोल चंदनान्याचमनीयपात्रे च निक्षिप्य। दक्षिणहस्ते ॐ रं
द्वादशाराय चक्राय नमः तन्मध्ये ॐ हं सूर्याय नमः इति ध्यात्वा। दीप्तैस्तद्रश्मिभिः
द्रव्याणिदग्दानि ध्यात्वा । वामहस्ते षोडशदळयुताय विकस्वराय श्वेतपद्माय नमः, तन्मध्ये
ॐ वं षोडशकलायुतायऽमृतमयाय चंद्रमसे नमः इति ध्यात्वा। तस्मादुत्थैः
अमृतांबुभिर्द्रव्याणि सिक्तानि ध्यात्वा । तानि यागयोग्यानि विचिंत्य । हस्तयोरुभयोः ॐ
नमोनारायणायेति देवं ध्यात्वा । ताभ्यां द्रव्याणि संस्पृश्य । विष्णुगायत्र्याऽभिमंत्र्य । ॐ
सुरभिमुद्रायै नमः इति सुरभि मुद्रां प्रदर्श्य।तदुत्थेनामृतानि च पूरितानिपात्राणि विचिंत्य।
  ॐ अर्घ्यं कल्पयामि, ॐ पाद्यं कल्पयामि, ॐ आचमनं कल्पयामि इत्युच्छरन् तानि
स्पृष्ट्वा । अर्घ्यापात्रात् किञ्चिज्जलं अन्यस्मिन् पात्रे गृहीत्वा । आधार स्तळिकोपरि विन्यस्य ।
 
अर्घ्यापात्रे ओम् विष्णवे नम:, पाद्य पात्रे ओम् मधुसूदनाय नम:, आचमनीय पात्रे ओम्
त्रिविक्रमाय नम: इत्यावाह्य अभ्यर्च्य । पात्रान्तरस्तमर्घ्यजलम् वाम हस्ते संस्थाप्य ।
मूलमंत्रेण सप्तवारं अभिमन्त्रिय । तज्जलेन ॐ सहस्रारहुम्फट्; इति द्रव्याण्यात्मानञ्च प्रोक्ष्य।
देवस्य योगपीठं कल्पयेत्
ओम् पृं ढृं आधार शक्त्यै नम:
ओम् ह्रूं काल पावक कूर्मायनम:
ओम् हां सहस्र फणाधृत चतुरश्रभूमण्डलायअनन्ताय नम:
ओम् भूम् भूम्यै नम: .

 

 
तदुपरि आग्नेयादि कोणेषु.
ओम् धर्माय नम: , ओम् ज्ञानाय नम: ,ओम् वैराग्याय नम: , ओम् ऐश्वर्याय नम: ,
एतान् योगासनाङ्घ्रिरूपा़न् पुरुषाकृतीं चतुर्भुजा़न् सिंहवक्त्रा़न् स्थिता़न् ध्यायामि ।
ओम् अधर्माय नम:, ओम् अज्ञानाय नम:, ओम् अवैराग्याय नम:,
 ओम् अनैश्वर्याय नम:, मध्ये ओम् सदाशिवाय नम: ।
एता़न् अरुणवर्णा़न् पूर्वसदृशान् ध्यायामि । योगासनाङ्घ्रि अन्तरान्तर प्रागादिषु,ओम्
ऋग्वेदाय नम:, ओम् यजुर्वेदाय नम:,
ओम् सामवेदाय नम:, ओम् अथर्ववेदाय नम:,
ओम् कृतयुगाय नम: , ॐ त्रेतायुगाय नम: , ओम् द्वापरयुगाय नम:,
ओम् कलियुगाय नम: एतानीषारूपेन ध्यायामि।
ओम् वैकारिक अहंकाराय नम:, ओम् तैजसिक अहंकाराय नम:,
ओम् भौतिक अहंकाराय नम:, एता़न् पाशरूपेणयुता़न् ध्यायामि.
ओम् सत्वगुणाय नम:, ओम् रजोगुणाय नम:, ओम् तमो गुणाय नम:,
एता़न् गुणरूपेन ध्यायामि ।
 
ओम् ङं घं गं खं कं तूलिकारूपेभ्यो पृथिव्यप्तेजोवाय्वाकाशात्मने नम: । ओम् मं आस्तरण
रूपाय जीवात्मने नम: ।तदुपरि ओम् रं अग्निमण्डलाय नम: । ओम् वं सोममण्डलाय नम: ।
ओम् हं सूर्य मण्डलाय नम: ।उपरि ओम् श्वेताय द्वादशदळयुताय विपुलकर्णिकाकेसरयुताय
गुणत्रयात्मकाय अव्यक्तपद्माय नम: ओम् भद्रासनायनम:
इत्यासनान्तस्थदेवताश्च आवाह्य गन्धादि चतुर्भिरभ्यर्च्य.
 
पीठस्य दक्षिणेपार्श्वे ओम् ब्रह्मणे नम:, ॐ विष्णवे नम:, ओम् ईश्वराय नम: इत्यभ्यर्च्य ।
उत्तरे ॐ सनत्कुमाराय नम:, ॐ सनकाय नम:, ॐ सनन्ताय नम: इत्यभ्यर्च्य।
पश्चिमे ॐ दुर्गायै नम:, ओम् विघ्नेशाय नम:, ओम् नारदाय नम: इत्यभ्यर्च्य।
अग्रे ओम् अस्मद्ग ुरुभ्यो नम: ,ॐ अस्मत्परम गुरुभ्यो नम: ओम् अस्मत्सर्व गुरुभ्यो नम: ।

 

 
इति ध्यात्वा । तदन्वावाहनं कुर्यात् । एकभेरविधाने तु नावाहयेत्। सुरसिद्धावतारिते हरौ च
तत्र तु हृदयस्थं बिंबे ध्यात्वा। आभिमुख्यकरणमेवावाहनम् । न परिवार कल्पनं च। अन्यत्र
प्रतिमादौ चेत्।आवाहनपात्रमद्भिः प्रक्षाळ्य । मूलमन्त्रेणाऽद्भिरापूर्य ।
हस्ताभ्यामाललाटमुद्धृत्य। तस्मिन् ॐ नमोनारायणाय आगच्छागच्छा इति वा ॐ
नमोभगवते वासुदेवायागच्छागच्छा इति वा बिंबानुगुणं चतुर्वारं जप्त्वा हृदयस्थमावाह्य ।
कूर्चेन तत्तोयं प्रतिमामूर्ध्नि सेचयित्वा । पात्रस्थं प्रतिमायां विचिंत्य । आवाहनमुद्रां प्रदर्श्य ।
किंचिदुत्थाय प्रणम्य। स्वागतमुक्त्वा । तन्मुद्रां प्रदर्श्य । प्रतिमामुद्रां च प्रदर्श्य । सन्निधिं
कल्पयित्वा । मुद्रां प्रदर्श्य । तत्र हरेः स्थितिं यागावसानिकं प्रार्थ्य । प्रार्थनामुद्रां च प्रदर्श्य ।
ॐ नमोभगवतेवासुदेवाय सन्मुखोभव इति साम्मुख्य मुद्रां प्रदर्शयेत् । एकबेर विषये मूलात्
यथाविद्युक्त वर्त्मनाऽऽवाह्य । आवाहन स्थापन सन्निदान सन्निरोध साम्मुख्य प्रार्थनामुद्राः
प्रदर्श्य । मूलेन सपर्यासनं दत्वा । हस्तन्यासं विना देवदेहे मंत्रन्यासं कृत्वा । किरीट श्रीवत्स
कौस्तुभ वनमाला चक्र शंख गदापद्म गरुड मुद्राश्च प्रदर्श्य ।
विभो सकल लोकेश विष्णोजिष्णो प्रभो हरे.
त्वाम् भक्त्या पूजयांयद्य भोगैरर्घ्यदिभिःक्रमात्.
दिव्येनाऽर्घ्योपचारेण यथाशक्ति यथाविधि.
अर्चयिष्यामि समये भगवन्तम् जनार्दनम्. इति देवेशं विज्ञाप्य।
ओम् तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयो योन: प्रचोदयात्
अर्घ्यं समर्पयामि । इति देवस्य मूर्ध्नि अर्घ्यं समर्प्य ।
ओम् त्रीणिपदा विचक्रमेविष्णुर्गोपाऽथाभ्य: ततोधर्मानि धारय़न्
पादयो: पाद्यं समर्पयामि । इति द्विवारं ।
ओम् आप: पुनन्तु पृथ्वीं पृथ्वी पूता पुनातुमा पुनन्तु ब्रह्मणस्पति: ।
ब्रह्म पूता पुनातुमाम् । इति मुखेचाचमनम् समर्प्य ।
मधुक्षीरं च दध्याज्यम् मधुपर्कमिति स्मृतम् ।
एकाङ्गं वा समस्तम् वा मधुपर्कम् न लोपयेत् ।
इत्युक्तवत् ओम् नमोभगवतेवासुदेवाय मधुपर्कम् निवेद्य ।

 

 
हस्ताभ्यां शिरसापद्भ्यां मनसा च धिया तथा ।
अहंकारेनचात्मानं निपात्य धरणी तले.
इत्यष्टाङ्ग प्रणिपातेन देवं प्रणिपत्य।
दासोहम् ते जगन्नाथ सपुत्रादि परिग्रह:
प्रेष्यम् प्रसादिकर्तव्ये माम् नियुङ्क्ष्व हि ते सदा। इति देवेशं विज्ञाप्य.
परिवार कल्पनं कुर्यात्
योगासनाब्जपत्रेषु, पूर्वादिषु, द्वादशसु । ओम् श्रीवत्साय नम:,
ओम् वनमालायै नम:, ओम् योगमायायै नम:, ॐ वैष्णव्यै नम:,
ओम् विमलायै नम: । ओम् सृष्ट्यै नम:, ओम् उत्कर्षिण्यै नम:,
ओम् प्रज्ञायै नम:, ओम् सत्यायै नम:, ओम् ऐशान्यै नम:,
ओम् अनुकम्पायै नम: ,ओम् पितामह्यै नम:
पीठस्य परितः प्रथमावरणे प्रागादिषु
ओम् व्याप्त्यै नम:, ओम् कांत्यै नम:, ओम् तृप्त्यै नम:, ओम् श्रद्धायै नम:,
ओम् विद्यायै नम:, ओम् जयायै नम:, ओम् क्षमायै नम:, ओम् शांत्यै नम: इति
चामरधारिणीश्च,
द्वितीयावरणे ओम् शंखिणे नम:, ओम् चक्रिणे नम:, ओम् गदिने नम:, ओम् खड्गिणे नम:,
ओम् पद्मिने नम:, ओम् मुसलिने नम:,
ओम् शार्ङ्गणे नम: , ओम् वनमालिने नम: इति च .
त्रितीयावरणे
ॐ इंद्राय नम:, ओम् अग्नये नम:, ओम् यमाय नम:, ओम् नैऋतये नम:, ॐ वरुणाय नम: ,
ओम् वायवे नम:, ओम् सोमाय नम:,
ओम् ईशानाय नम: ।
त्रितीयावरणाद्बहि: भगवत्प्रतिमुखं वैनतेयं च । ऐशान्याम् ओम् विष्वक्सेनाय नम:
इत्यभ्यर्च्य।
 

 

 
स्नानासनं कल्पयामि
ओम् पादुकाधि दैवताय ओम् अम् अनन्ताय नम: । इति पादुकामभ्यर्च्य इदं विष्णुः,
त्रीणिपदा इति देवस्य पादुकारोहणं स्मृत्वा । अभिषेचनम् । ‘उत्तिष्ठ’ इति देवम्
उत्थितम्स्मृत्वा । भद्रम् कर्णेभि: इति स्नानासन वेदिकायाम् निविष्टम् विचिन्त्य. तदनु अस्य
देवदेवस्य नित्यस्नपनं करिष्ये इति सङ्कल्प्य।तदङ्गं शुद्धि पुण्याहवाचनं कृत्वा।
(नवकलशस्नपन विधिः)
कुम्भान् स्नपनद्रव्याणि च प्रोक्ष्य। सुवर्णादि लोहजान् मृण्मयान् वा सूत्रवेष्टितान् नव कुम्भान्
प्रक्षाळ्य । अर्धमण्डप मध्ये धान्य राशौ प्रागुदक् सूत्राणिषण्णिपात्य । तेषु ब्रह्मादीशानांतं
कलशान् संस्थाप्य. तान् घृत पाद्य दध्यर्घ्यक्षीराचमन मधु पंचगव्य फलैरापूर्य।तान् सवस्त्र रत्न
कूर्चाश्वत्थ पल्लवापिधानान् कृत्वा।तेषु घृतादि फलावसानेषुक्रमेण परवासुदेव विष्णु श्रीधर
मधुसूदन हृषीकेश त्रिविक्रम पद्मनाभ वामन दामोदरानावाह्य, अभ्यर्च्य। दर्भैराच्छाद्य।
चक्रमुद्रां प्रदर्श्य । स्नानासनस्थ देवं पूर्ववदर्घ्यदिभिरभ्यर्च्य ।ओम् तद्विष्णो: इति दन्तधावनम्,
विष्णु गायत्र्या जिह्वा निर्लेखनम्, ॐ विष्णोर्नुकम् इति आमलकं च दत्वा, ‘न ते विष्णो,
‘आपोहिष्ठा” इति अभिषेचनम् , ओम् अतोदेवा अवन्त्विति कनक कङ्कतेन केश शोधनम्
कृत्वा।तदनु स्थापित कलशै पाद्यादि घृतांतैः स्नापयेत्। विष्णु गायत्र्या पाद्येन, दधिक्राविण्ण
इति दध्ना, पयोव्रत साम्ना पयसा,न ते विष्णु इति आचमनेन, मधुवातेति मधुना,
विष्णोःकर्माणीति पंचगव्येन, याःफलिनीरिति फलवारिणा,घृतस्नातेति घृतेन च प्रतिद्रव्य
घटमुपस्नान प्लोतवस्त्रोत्तरीय अर्घ्यापाद्याचमनगंध पुष्पधूप दीपदानपुरस्सरमभिषिच्य।ओम्
हिरण्य वर्णाम् हरिणीमिति हरिद्रयालिप्य।
ओम् हिरण्य वर्णाःशुचय: इति चतसृभिः ऋग्भिः संक्षाल्य। गंधद्वारेतिगंधांबुना च विष्णु
गायत्र्या कुङ्कुमेनाऽऽलिप्य। पावमानीभिः, ब्रह्मजिज्ञानं, कयानश्चित्र, इत्यभिषिच्य । ओम्
तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धीयोयोन: प्रचोदयात् । इति देवम् परिषिच्य.ॐ सहस्र
धाराधि दैवताय ॐ पूर्णचन्द्राय नम: इत्यभ्यर्च्य । नृसूक्तेन सहस्रधारया कुंभेनाभिषिच्य।ॐ
शंखाधि दैवताय ॐ जलेशाय नम: ॐ पद्म धाराधि दैवताय ॐ पुष्ट्यै नम: इत्यभ्यर्च्य।
अभिषिच्य। अग्निर्मूर्धा इति प्लोत वस्त्रेण अङ्गांबु निर्हृतं कृत्वा. विष्णुगायत्र्या वस्त्रं ओम् इति

 

 
यज्ञोपवीतम् ,उत्तरीयं च समर्प्य . अर्घ्या पाद्यादिभिः अभ्यर्च्य। अलंकारासनार्थं पूर्ववत्
पादुके दत्वा।
 अलंकारासनं
अलंकारासनं विचिंत्य।।पूर्ववदर्घ्यदिभिरभ्यर्च्य।
ॐ मूर्धानम् दिवं इति आर्द्रान् केशा़न् अगरुधूपेन संशोष्य। चन्दनेन च गंधद्वारेति मंत्रेण
गंधेनाऽनुलिप्य।ओम् तद्विष्णो: इति मन्त्रेण दिव्य परिमळ पुष्पाणि समर्पयामि । जितन्त इति
मन्त्रेण सर्वाभरणा़न् समर्पयामि । विष्णु गायत्र्या अञ्जनम् समर्प्य । दर्पणाधि दैवतायै ॐ श्री
महालक्ष्म्यै नम: इत्यावाह्य व्याहृत्या दर्पणं समर्प्य । ॐ धूपपात्राधिदैवताय ॐ पावकाय
नमः। इत्यभ्यर्च्य। धूपमुद्रां प्रदर्श्य। जितन्त इति देवस्य नासिकायां धूपं च, दीपाधि दैवताय
भास्कराय नम:दीपमुद्रां प्रदर्श्य। देवस्य नेत्रयोः ओम् उद्दीप्यस्व इति दीपं च प्रदर्श्य।
तिलं वस्त्रम् तथा हेमम् तांबूलम् तण्डुलं तथा ।
फलानि गव्यमाघारम् गाश्च धान्यम् यथा वसु ।
गोग्रासम् देशिकायैव दद्याद्देवस्यसन्निधौ ।
इतिवत् मात्रादानम् कृत्वा । तिरस्करिणीमपोह्य । वाद्यान्याघोष्य । वेदपाठान् स्तोत्रपाठांश्च
पाठयित्वा । देवस्य नीराजनम् । ॐ नीराजनाधि दैवताय ओम् स्वधायैनमः । इत्यभ्यर्च्य
दत्वा ।
भोज्यासनम्
देवस्य भोज्यासनाय पूर्ववत् पादुके दत्वा। भोज्यासनस्थं विचिन्त्य। पूर्ववदर्घ्यदिभिः
अभ्यर्च्य।मधुपर्कं निवेद्य। प्रणवेन तांबूलं च दत्वा।
हविर्निवेदयेत्सिद्धं भोज्य भक्ष्यादि संयुतम्।
मधुरादि रसोपेतं विध्युक्तं सुसमाहितम्।
असंस्कृतैश्च निष्पन्नं युक्तमन्यैः फलादिभिः।
 अपक्वैरतिपक्वैश्च यथायोगं प्रकल्पयेत्।
इति नैवेद्यद्रव्याण्यस्त्रमंत्रेण प्रोक्ष्य। सर्वमंत्रेण परिषिच्य।
 

 

 
 शीतळोदक सम्पूर्णम् एला कर्पूर सम्युतम् ।
मंदोष्णम् वासनायुक्तम् अर्हणांबु इति स्मृतम् ।
 
 इत्युक्तवत् ओम् इति अर्हणंदत्वा । नैवेद्यस्य दाहनाप्यायने कृत्वा । सुरभि मुद्रां प्रदर्श्य ।
अर्घ्यात् पुष्पमादाय । विष्णुहस्ते समर्प्य । दक्षिणजानुं भूमिस्पृष्टं कृत्वा । वामजानुमुन्नम्य ।
अन्वारब्धस्सव्येन दक्षिण करेण दर्शित ग्रासमुद्रया ‘‘देवस्यत्वे”ति मंत्रेण यथोदितं नैवेद्यं
देवस्य दक्षिणहस्ते निर्वपेत्। ततः पानकं पानीयं च निवेद्य,आचमनम् दत्वा । तांबूलं च
निवेदयेत् । कर्मार्चायां च ध्रुवभेरादौ यद्युदीरितं तत्सर्वमाचरेत् । बहुभेरे तु श्री भूम्योश्च । श्रीं
श्रियै नमः इति श्रियं, भूं भूम्यै नमः इति भुवं च आवाह्य। पद्मासनं दत्वा । स्वस्वमन्त्रेण
षडङ्गन्यासं कृत्वा । कमल मुद्रां प्रदर्श्य । अन्यत् सर्वं अर्घ्यादि नैवेद्यान्तं स्वस्व मन्त्रेण
समर्पयेत् । तदनु देवं स्तुत्वा । द्वादशाक्षरं अन्यं वा मन्त्रं यथोदीरितसंख्यया जप्त्वा । तदनु
वक्ष्यमाणेन विधिना अग्नौदेवं संपूज्य । भूतेभ्यः बलिदानं नित्योत्सवं च कृत्वा । देवेशं विज्ञाप्य
प्रणम्य च । पूजकः स्वयमाददीतावशिष्टानि पूजावस्तूनि आदाय। देवप्रीत्यर्थं तैः आत्मपूजनं
कुर्यात्।
इति श्री वराहगुरुणा विरचितायां
क्रियाकैरवचन्द्रिकायां अष्टाविंशःपरिच्छेदः


 
एकोन त्रिंशः परिच्छेदः
अग्निकार्यविधिः
अथ अग्निकार्य विधिः उच्यते । आचार्यः अग्नयागारद्वारे ॐ श्रों चण्डाय नमः प्रिं प्रचण्डाय
नमः। । मध्ये ॐ क्षं गरुडाय नमः इत्यभ्यर्च्य । अन्तःप्रविश्य। अग्नि कुण्डस्य पश्चिमे भागे
प्राङ्मुखमासने उपविश्य । ॐ असुरान्त चक्रायस्वाहा अस्त्राय फट् ; इति कुण्डस्य
संमार्जनालेपने कृत्वा।
प्राच्यां शिरस्समाख्यातं बाहु युग्मं व्यवस्थितम्।
ऐशान्याग्नेय कोणेतु जङ्घे वायव्य नैऋते।

 

 
उदरं कुण्ड मित्युक्तं योनिर्योनिर्विधीयते।
कुण्डं एवं ध्यात्वा । होमम् करिष्ये । इति सङ्कल्प्य । पुण्याहं वाचयित्वा । तज्जलेन ॐ
भूर्भुवस्सुवः इति प्रोक्षणा अवोक्षणा अभ्युक्षणानि कृत्व। आत्मनो दक्षिणे पार्श्वे पुष्पभाजनं वामे
च । अन्यानि निक्षिप्य। ॐ आचक्रायस्वाहा इति स्वस्व मन्त्र न्यासं कृत्वा । प्रागग्रान् षड्दर्भान्
आस्तीर्य। तेषु १. आज्य पात्रं २. चरु स्थालि ३. प्रोक्षणी ४. प्रणीता ५. समित् ६. कुश ७.
तण्डुल ८.परिधि ९. स्रुक्१०. स्रुव ११. दर्वी १२. अग्नेर्विहरण १३.व्यजन १४. मेक्षण १५.
शुष्फकाष्ठ १६.घण्ट १७. अक्षत १८. गन्ध द्रव्याणि यथासंभवम् न्यंचि निधाय।
कुण्ड मध्ये ॐ नमोनारायणाय इति तिस्रो रेखाः दक्षिणमारभ्य उत्तरान्तं प्रागायताः पश्चिमादि
पूर्वान्तं उदगायताः तावतीःलिखित्वा । तच्छकलं विसृज्य। दर्भ मुष्टिभिः कुण्डस्य पर्यग्नि
करणं कृत्वा। कुण्ड मध्ये भद्रासनं कल्पयित्वा। ॐ भद्रासनाय नमः ॐ विमलासनाय नमः
। इत्यभ्यर्च्य । तस्मिन्
कुण्ड मध्ये तथा लक्ष्मीं सर्वाभरण भूषितां ।
सर्वावयव सम्पूर्णां ऋतुस्नातां विचिन्तयेत्।
देवं नारायणं ध्यात्वा सर्व लक्षण लक्षितं ।
चतुर्बाहुं विशालाक्षं कोमलं पीतवाससम्।
शंखचक्रगदापद्मैः चतुर्भिः कृतलक्षणम्।
कंजपाणिं तथापादं श्रीवत्सांकितवक्षसम्।
कालमेघनिभं शान्तं चन्द्रबिंबनिभाननम्।
हार केयूर सम्युक्तं किरटेनोप शोभितम् । एवं ध्यात्वा ।
तत्र तयोः संगमं विचिन्त्य।तस्मात् उत्पन्नमग्निं ध्यात्वा। अरणेः, सूर्यकान्ताश्मनोवा,
अग्निंद्वादशाक्षरेण मथित्वा। श्रोत्रियागाराद्वा समाहृत्य। भूर्भुवस्सुवःइति प्रोक्ष्य। अग्नि
बीजस्य।काश्यप ऋषिः। त्रिष्टुप्छन्दः।अग्निर्देवता।होमार्थे विनियोगः।इति दिव्याग्निं ध्यात्वा ।
ॐ रां इत्यादि षडङ्गन्यासं कृत्वा। ॐ रम् अग्नये नमः । ॐ असुरान्त चक्रायस्वाहेति
इन्धनानि अग्नौ निक्षिप्य। वायु बीजस्य । किष्फिन्धऋषिः जगतीछन्दः । वायुर्देवता।अग्नि
उद्दीपनार्थे विनियोगः ।ॐ यं वायवे नमः । इति अग्निमुद्दीप्य । अस्त्रमन्त्रेण अद्भिः परिसमूह्य

 

 
। ॐ आचक्राय स्वाहेति षडङ्गन्यासं कृत्वा । त्रिभिः पञ्चभिः सप्तभिः नवभिः एकादशभिः वा
पञ्चविंशतिनिष्ठान्तैः दर्भैः ॐ वासुदेवाय नमः । ॐ सङ्कर्षणाय नमः । ॐ प्रद्युम्नाय नमः ।
ॐ अनिरुद्धाय नमः प्रागुदगग्रं प्रागाद्युत्तरान्तं प्रादक्षिण्येन परिस्तीर्य। तत्र द्रव्याग्नि मध्ये
पूर्वाग्रान् दर्भान् आस्तीर्य । तदुपरि प्रणीतान्निधाय । अद्भिःआपूर्य । अक्षतैः अभ्यर्च्य ।
दर्भयुग्म निर्मितं प्रादेशसम्मितं कूर्चं तस्यां विन्यस्य। त्रिभिःर्दर्भैः पवित्रैः आच्छाद्य। प्रोक्षणीं
आत्मनः अग्रे विन्यस्य । प्रणीताजलं कूर्चेन सह प्रोक्षण्यां आवाप्य । तत्कूर्चं हस्तयोः
अङ्गुष्टाऽनामिकाभ्यां मूलेन पुनः आघारं त्रिःउत्पूर्य । तत्कूर्चेन प्रोक्षणीं होमद्रव्याणि सर्वाणि च
प्रोक्ष्य । तेन नामादेशं यथायथं स्पृष्ट्वा । तानिपात्राणि उत्तानानि कृत्वा।पुनः प्रोक्ष्य । तानि
प्रोक्षणीजलेन ‘‘सत्यंत्वर्तेनपरिषिञ्चामि इति प्रादक्षिण्येन स्रावयित्वा । प्रणीतां पुनःअद्भिः
सम्पूर्य।तस्मिन् ॐ कौमोदकी शंखचक्रपद्मधराय वासुदेवाय नमः। इति आवाह्य ।
गन्धादिभिः अभ्यर्च्य । अग्नेः ऐशान्यां दर्भ विष्टरे तां संस्थाप्य।अग्नेःदक्षिणतःदर्भेषु द्वादश दर्भ
कृत कूर्चं पूर्वाग्रं विन्यस्य।तस्मिन्
चतुर्मुखं भुज द्वन्द्वं साक्ष माला कमण्डलम्।
हेमाभं शक्ति सहितं ब्रह्माणं तु विचिन्तयेत् । इति ध्यात्वा ।
ॐ कम् ब्रह्मणे नमः । इतिकूर्चे समावाह्य ध्यात्वा अभ्यर्च्य । विष्णुगायत्र्या स्थालीं प्रक्षाळ्य
। तण्डुलान् आडकप्रमाणान् ॐ आचक्राय स्वाहा इति तस्यां निक्षिप्य । ‘ॐ विचक्राय
स्वाहा इति शुद्धजलैः संक्षाल्य । ‘ॐ सुचक्राय स्वाहा इति संशोध्य । ‘ॐ सूर्यचक्राय स्वाहा
इति अग्नौ आरोप्य । ‘ॐ ज्वालाचक्राय स्वाहा इति अग्निं उद्दीप्य । ‘ॐ महासुदर्शनचक्राय
स्वाहा इति श्रपयित्वा । एवं महानसे चुल्यां वा केवलान्न मुद्गान्न पायसान्न गुडान्नादि
चतुर्विधमन्नं श्रपयित्वा । अग्नेः उत्तरतो निक्षिप्य । आज्यपात्रं आत्मनः पुरतः संस्थाप्य ।
द्रावितं गाळितं आज्यं। आज्यपात्रे ॐ अं विष्णवे नमः ‘‘ ॐआप्यायस्वसमेतुते ।
विश्वतस्सोमवृष्णियम्।भवावाजस्य सङ्गते। इति मन्त्रेण निषिच्य । कुण्डस्य उत्तरे पूर्वाग्रान्
दर्भान् आस्तीर्य । तेषु अङ्गारान् निरूह्य।तेषु आज्यपात्रं निधाय । दर्भान् आदीप्य दर्शयित्वा
विसृज्य । त्रिभिर्दभैः आछाद्य । दर्भ युग्म निर्मितं प्रादेशसम्मितं कूर्चम् निधाय । दर्भानादीप्य
दर्शयित्व । श्रीमन्नारायण चरणौ शरणं प्रपद्ये । श्रीमते नारायणाय नमः । इति वा मूलेन वा

 

 
द्वेदर्भाग्रे तत्र प्रत्यस्य, ज्वलता दर्भस्तम्बेन त्रि पर्यग्निकृत्वा,विसृज्य। दर्भकाण्डद्वयेन नीराजनं
कृत्वा । आज्यस्थालीं उदगुद्वास्य । अङ्गारान् अग्निनासंयोज्य । आज्यस्थालीं पुरतः कृत्वा,
उदगग्राभ्यां पवित्राभ्यां अङ्गुष्ठानामिकाभ्यां मूलेन त्रिः उत्पूय । पवित्रग्रन्थिं विस्रस्य। अपः
स्पृष्ट्वा । अग्नौ प्रहृत्य।आज्यं सुरभि मुद्रया अमृती कृत्य। चक्र मुद्रां प्रदर्श्य । दर्भैः आछाद्य।
अग्नेः अष्टसु दिक्षु इन्द्रादीन् आवाह्य । सम्पूज्य च । उष्णोदकेन स्रुक्स्रुवौ प्रक्षाळ्य । दर्भ पञ्च
कृत कूर्चेन स्रुक् स्रुवयोः मूलं मूलेन मध्यं मध्येन अग्रं अग्रेण अस्त्रमन्त्रेण संमृज्य।अग्नौ
निष्टप्य।अद्भिःसंप्रोक्ष्य । आत्मनः उदीच्यां स्रुक्स्रुवौ निधाय । कूर्च ग्रन्थिं विसृज्य तं अग्नौ
प्रहृत्य। स्रुवेण आज्यमादाय।होम द्रव्येषु सम्सिच्य ।
 
कुण्डस्य पश्चिमे कुण्डायाम सदृशं अङ्गुष्ट नहनं ;
दक्षिणे तस्मात् अङ्गुलि हीनं मध्यमाङ्गुलिनहनं;
उत्तरे तस्मात् अङ्गुलि हीनं कनिष्ठानाहकं परिधि त्रयम्
 
क्रमेण श्रीधर , नृसिंह, हयग्रीव मन्त्रैः संस्थाप्य । मध्यमं परिधीं प्रणवेन उपस्पृश्य ।
अग्नेयैशान कोणयोः आघार समिधौ च अग्नेशानमन्त्राभ्यां संस्थाप्य । ॐ अदितेनुमन्यस्व ।
अनुमतेनुमन्यस्व । ॐ सरस्वतेनुमन्यस्व । देवसवितःप्रसुव”इत्यन्तेन दक्षिणाद्युत्तरान्तं
समन्ततः परिषिच्य । अनुयाजसमिधं प्रणीतांमुखे निधाय।पञ्चदशैकतः गो घृताक्ता समिधः
मुष्टिमुद्रया प्रजापतिं मनसा ध्यायन् सकृदेवमूलेन हुत्वा । कुश कूर्च वेष्टिते वामकरतले घृत
पात्रं निधाय । ॐ प्रजापतये इदं न मम इति प्रथमं नैऋत्यादि ईशानान्तं । ॐ इन्द्राय इदं न
मम इति द्वितीयं वायव्यात् आग्नेयान्तं । आघारं हुत्वा। ततः अग्नौ उत्तरे ॐ अग्नये स्वाहा
अग्नये इदं न मम। दक्षिणे ॐ सोमाय स्वाहा। सोमाय इदं न मम। मध्ये भूरादि व्याहृतिभिश्च
हुत्वा । तदनु अग्निं संस्मरेत्।
 
द्वि शीर्षकं सप्तहस्तं त्रिपादं सप्तजिह्वकं।
वरदं शक्ति पाणिं च बिभ्राणं स्रुक्स्रुवौ तथा।
अभीतिदं चर्मधरं वामेचाज्यधरं करे।

 

 
काळी कराळी सुमना लोहिता धूम्रयेव हि।
स्फुलिंगिनी विश्वरूपा सप्तजिह्वाःप्रकीर्तिताः।
काल्यास्तु मध्यमंस्थानं कराल्याः पूर्वदिग्भवेत्।
मनोजवायाश्चाग्नेयां लोहितायास्तु वारुणे।
सुधूम्रासोमनिलया स्फुलिङ्गिन्यनिलाश्रया।
ऐशान्यं विश्वरूपी तु एवं स्थानं स्मरेत् क्रमात्।
जिह्वायां दक्षिणे वक्त्रे धूम्रायां मारणादिकम्।
लोहितायां वशीकारः काल्यां कर्म च शान्तिकम्।
 सर्वसिद्धिः स्फुलिङ्गिन्यां आनने दक्षिणेतरे।
विश्वरूपरसज्ञायां अणिमादिमहाफलम्।
करालिका विजयदा पुष्टिदा च मनोजवा।
कार्ष्ण्यं लौहित्यमेतासां वर्णंश्यामलमेव च।
स्फुलिङ्गरूपं च ततः वर्णः स्फटिक़सन्निभः।
तपनीयनिभः प्रोक्तः जिह्वानामानुपूर्वशः।एवं बालाग्निं ध्यात्वा।
उत्सवाग्निः
त्रिनेत्रं पञ्चवक्त्राड्यं रक्त वर्णं दिशा भुजम्.
त्रिमेखलं त्रिपादं च सप्तजिह्वा समन्वितम्।
उपवीतसमायुक्तं जटामकुटमण्डितम्।
चक्रंपरशुखड्गं च वज्रं चाऽभयदक्षिणे।
टंकं पाशाब्जचक्रं(शङ्खं ?) च वरदं वह्निवामके।
स्वाहादक्षिणपार्श्वे तु स्वधा वामे तथैव च।
 हिरण्याकनकाऽऽकारा कृष्णा चैव तु सुप्रभा।
अतिरिक्तो बहुरूपासप्तजिह्वाः प्रकीर्तिताः।
मेषारूढं यौवनाग्निं ध्यायेदुत्सव कर्मणि।एवं उत्सवाग्निं ध्यात्वा।
 

 

 
 
नित्याग्निः
चतुर्भुजं त्रिनेत्रं च एकवक्त्रं जटाधरम्।
शूलं परशुहस्तं च अभयं वरदान्वितम्।
सप्तजिह्वान्वितं शक्ति उपवीतोत्तरीयकम्।
मेषासीनं सितं नित्ये शिवं वृद्धाग्निमारभेत्।
 
(नित्याग्निः वृद्ध इत्युक्तः उत्सवाग्निर्युवाभवेत्)
दीक्षाशान्तिप्रतिष्ठाग्निः बाल इत्यभिधीयते।
एवं तत्तत्कर्मानुगुणं अग्निं ध्यात्वा । इत्यभ्यर्च्य । तदनु अग्नेर्जातदोषशान्तये तिलान् आघार
सम्मिश्रान् द्वादशाक्षरेण अष्टोत्तरशतसंख्यया हुनेत् । आसां मध्ये काल्यां अग्निं
‘‘गर्भाधानादिकर्मणा संस्करिष्ये इति सङ्कल्प्य। अदितेनुमन्यस्व इत्यादिना परिषिच्य । एवं
गर्भादान, पुम्सवन, सीमन्तोन्नयन, जातकर्म, नामकरण, अन्नप्राशन, चौळ,
उपनयन,प्राजापत्य, सौम्यक, वैष्णव, शुक्रीय, गोदान, उपनिषक्रमण, समावर्तन, विवाहान्
प्रतिकर्मसंकल्पपूर्वकं परिषेचन संपुटितं हुत्वा । काळ्यां समिधः मूल मंत्रेण । मनोजवायां
प्रणवेन आज्यं। सुलोहितायां वासुदेव मन्त्रेण अन्नं । सुधूम्रायां सङ्कर्षण मंत्रेण लाजं ।
स्फुलिङ्गिन्यां प्रद्युम्न मंत्रेणतिलं । विश्वरूपायांअनिरुद्ध मन्त्रेण मुद्गं च,एवं प्रत्येकं षोडश
आहुतिर्हुत्वा । तदनु अग्नि मध्ये योगपीठं सङ्कल्प्य । आधारादि पद्मान्तं सकृदाज्येन स्वाहान्तैः
तत्तन्मन्त्रैः हुत्वा । तत्र चिद्रूपं परमेश्वरं हृदयादवतार्य ध्यात्वा। अर्घ्यादि नैवेद्यान्तं तत्तन्मत्रैः
सकृत् सकृत् आज्येन हुत्वा। जपार्थां च सकृत् हुत्वा।समित्दळ पुष्प बीज फलैश्च परिवार
मन्त्रैश्च सकृत् आज्येन जुहुयात् । एतदग्नौ आराधनम् । अन्यत्र प्रतिमादौ चेत् अनन्तरं
वक्ष्यमाणेन वर्त्मना समिदाज्यैःजुहुयात्।
आयामः समिधान्तालः कनिष्टानहनं क्रमात्।
चर्महीने विनाशः स्यात् भेदे क्षीणं कुलं भवेत्।
आर्द्रासु बन्धुनाशः स्यात् पुत्रनाशः पुरातने।

 

 
क्षतासु भार्यामरणं कलहाय च शाखिनि।
उद्वेगाय भवेत् स्थूला ह्रस्वा अवग्रहकारिणी।
दीर्घा अतिवृष्टि जननी त्याज्यादोषयुता समित्।
एतादृशेन समिधां शतेन तदर्धेन पादेन अष्टाभिः चतसृभिः वा समिद्भिः घृताक्ताभिः
मूलमन्त्रेण, आज्यावसिक्तं चरुं ग्रासमुद्रया प्रत्यर्धं नृसूक्तेन पालाशपत्रेण हस्तेन वा षोडश
आहुतीः, स्रुवेण आज्येन समित्सङ्ख्यया जुहुयात्।
   
यज्ञ वृक्षोद्भवैः शान्तिः सौभाग्यं कुसुमैर्भवेत्।
धूपद्रव्यैः सदा आरोग्यं पुष्टिर्दध्ना पयः शुचिः।
अन्नेनविविधान् कामान् आज्येन आयुष्मतीः प्रजाः।
श्वेतपद्मैस्तु जुहुयादिच्छन् ब्रह्मश्रियं नरः।
लक्ष्मीपुष्पैस्तु जुहुयात् लक्ष्मीकामोऽथवारुणैः।
पद्मबिल्वसमिद्भिः वा ज्ञानकामस्तु सर्पिषा।
कन्यकामोहुनेत् लाजैःगोकामो गोमयैः पुनः।
आयुष्फामस्तु दूर्वाभिः भूमिकामस्तु मृत्स्नया।
यवैः च इन्द्रियकामस्तु तिलैः सर्वजनप्रियः।
बृह्मवर्चस कामस्तु ब्रह्मवृक्ष समुद्भवैः।
वेणुभिश्च यवैश्चैव नीवारैः शालिभिः तथा।
सर्वे कामाः प्रसिध्यन्ति होतुर्बीजै यथोदितैः।
लाजहोमेन सिध्यन्ति सर्वे कामा न संशयः।
अन्नेन अन्नाद्यकामस्तु पुत्रकामस्तु पायसैः।
निंबपुष्पैः हिरण्यार्थी सर्वेसिध्यन्ति सर्पिषा।
 
होमे सर्पिर्मधुक्षीरधाराः स्युः चतुरङ्गुलाः।
शुक्तिः दध्याहुतिः ग्रासं पायसाज्याहुतिर्भवेत्।
भक्ष्याहुतिः तदर्धेन फलैः पुष्पैः अखण्डितैः।

 

 
निष्पावबीजमानेन धूपद्रव्याहुतिः भवेत्।
तिलव्रीहि यवाद्यैस्तु मुष्ट्यर्धार्धाहुतिः क्रमात्।
अष्टाङ्गुलातदर्धा वा समिद्दूर्वा षडङ्गुला।
मृद्वीकाक्षप्रमाणेन गोमयाहुतिरिष्यते।
पूर्णाहुतिः घृतस्यस्यात् कुडुपेन चतुर्मुख।
न्यूनाधिकप्रमाणेन हव्यकव्याहुतीः क्रमात्।
भुञ्जन्ति दानवाः दैत्याः निष्फलाय च कल्पते।
तदनु अग्नौ परमपुरुषं ध्यात्वा । अर्घ्यादिभिःअभ्यर्च्य । कुक्कुटाण्डप्रमाणं घृताप्लुतं चरोः पिण्डं
स्रुगावर्ते निक्षिप्य । स्रुवेणाभिघार्य । समिद्दर्भ कुसुमानि आनासिकं उद्धृत्य। मूलमन्त्रेण हुत्वा
। पञ्चोपनिषण्मन्त्रैःआज्येन यथाशक्ति शान्ति होमं च कृत्वा।
ॐ षौं नमःपराय परमेष्ट्यात्मने वासुदेवाय स्वाहा।
ॐ यां नमः पराय पुरुषात्मने सङ्कर्षणाय स्वाहा।
ॐ रां नमःपराय विश्वात्मने प्रद्युम्नाय स्वाहा।
ॐ वां नमः पराय निवृत्यात्मने अनिरुद्धाय स्वाहा।
ॐ लां नमः पराय सर्वात्मने श्रीमतेनारायणाय स्वाहा।
स्रुवं आज्येन संपूर्य । सदर्भ समित्कुसुमं स्रुवेण पिधाय । नासिकाग्रान्तं उद्धृत्य । मूलमन्त्रेण
हुत्वा। तदनु आत्मनः अग्रे स्रुवं, तस्याः याम्ये च आज्यस्थालीं स्रुगुत्तरे स्रुवं च निधाय ।
उपयुक्त कुशान् सर्वान् हस्ताभ्यां उदगग्रं गृहीत्वा । आज्य पात्रे मूलं, स्रुचोमध्ये मध्यं,
स्रुचो(स्रुक्?) गर्ते अग्रं, यथाक्रमं स्पर्शयित्वा । एवं त्रिःकृत्वा।दर्भान् अग्नौ निक्षिप्य ।
अनूयाजपरिध्यूर्ध्वं समिधश्च क्रमेण हुत्वा अदितेन्वमँस्थाः। इति परिषिच्य । आत्मनः अग्रे
प्रणीतां संस्थाप्य।प्रोक्षणीजलं तस्यां संयोज्य । पूर्वादिसोमान्तं जलेन संसिच्य । पश्चिमायां
निक्षिप्य । स्वात्मानं संप्रोक्ष्य । ब्रह्माणं उद्वास्य,परिषिच्य । अग्नि मध्यस्थं देवं स्वहृदये समर्प्य
। स्रुवं जलेन संपूर्य। कुण्डात् बहिः प्रादक्षिण्येन सेचयित्वा । शेषेण आत्मानं संप्रोक्ष्य।शिरसि
भस्मना तिलकं कृत्वा । धाम्नि देवं अर्घ्यादिभिः अभ्यर्च्य।
ॐ भक्त्या यत् अग्नौ विहितं यथाशक्ति यथाविधि ।

 

 
आराधनं तवै वेदम् गृहाण परमेश्वर। इति देवस्यपादयोः हवनं समर्पयेत्।
 नित्यहोमेषु परिधीन् बहिर्दिक्षु न दापयेत्। एवं पूर्वं हवनं कृत्वा। तदनु नित्योत्सवं कुर्यात्।
इति श्री वराहगुरुणा विरचितायां क्रियाकैरव चन्द्रिकायां
अग्नि कार्यविधिः नाम एकोनत्रिंशः परिच्छेदः


त्रिंशः परिच्छेदः
अथ नित्योत्सव विधिः
अथ नित्योत्सव विधिःउच्यते । अग्निपूजानन्तरं सौवर्णं राजतं ताम्रं वा पात्रं तण्डुलैः शुद्धैः
आपूर्य । पद्मं द्वादशदलं आलिख्य । कर्मार्चाऽग्रे निधाय । मूलात् भगवन्तं मूलेनतस्मिन्
समावाह्य । तद्दलेषु श्रीवत्सादि द्वादशशक्तीः तदनु विष्ण्वादिमूर्तीश्च प्रागादिक्रमेण आवाह्य
दिने प्रातरायतं परिक्रमेत् । मध्याह्ने तु अन्नेन एवं कृत्वा । तेन सायाह्ने कुसुमसंघातैः एवं कृत्वा
। तेन परिक्रमेत् ।एवं त्रिसन्ध्यं तण्डुलान्नपिष्टेषु देवं आवाह्य। त्रिभिः बलिं कल्पयेत् ।अथवा
त्रिसन्ध्यं बिम्बेन वा द्विकालं एककालं वा हरेः नित्योत्सवं अन्नेन कुर्यात्।
 
मध्यंदिने वा सर्वार्थं परिक्रम्य बलिं क्षिपेत्।
यद्वोत्सव प्रतिकृतेः अन्वग्रे वा बलिर्भवेत्।
 
त्रिसन्ध्यं छत्रचामरादिसम्युतं केवलं तण्डुलादिकं अन्नं वा पूर्ववत् कृत्वा । तेन सह पञ्चावरणके
धाम्नि पञ्चसु आवरणेषु बलिं दत्वा । गेयवाद्य पुरस्सरं पर्यटनं उत्कृष्टोत्सवः । एककालहीनः
मध्यमः । कालद्वयहीनः अधमः । कालत्रयहीनः क्षुद्रः।
 
विना बलिप्रदानेन न उत्सवः अभ्युदयावहः।
महावातादिसंक्षोभे न नित्योत्सवं आचरेत्।
 
चण्डप्रचण्डयोरेव वा केवलं बलिं दत्वा । तत्रैव ‘‘सर्वेभ्यः श्रीविष्णु पार्षदेभ्यो नमः इति बलिं
क्षिपेत् । शुक्लांबरधरं शुचिं सर्वालंकार संयुतं गरुडात्मनाभावितं परिचारकं आहूय ।
पूर्वोक्तविधिना वाहितं पात्रं स्तुति ध्वज चामर चक्रवाहन संयुतं तन्मूर्ध्नि निक्षिप्य । सर्ववाद्य

 

 
गीत नृत्तपुरस्सरं, चण्डादीनां गीतताल नृत्तपुरस्सरं बलिं यथाविधि दद्यात् । ‘ॐ च्रों चण्डाय
नमःबलिं ददामि,‘ॐ पृं प्रचण्डाय नमःबलिं ददामि। प्रथमावरणे चण्डप्रचण्डौ आरभ्य
पञ्चमावरणपर्यन्तं स्थितानां सर्वेषां द्वारपालानां गन्धपुष्पधूपदीप बलिप्रदानानन्तरं मल्लताल
ऋषभस्वर वैजयन्ती नृतानि दर्शयेत् ।
गोपुरोत्तरसाले ॐ सूर्याय चन्द्रमसे च बलिं दत्वा. दैवत स्वरं, भद्रतालं, सर्वमङ्गल नृत्तं,
सालाश्रितानां सर्वेषां बलिप्रदानानन्तरं, प्रथमावरणदेवतासु कामाय, सर्वमङ्गलनृत्तं, धैवत स्वरं
भद्रतालं, याम्यायां ‘ॐ ब्रह्मणे सदेवीवाहनपरिवाराय नमः बलिं ददामि, इति दत्वा ।
ब्रह्मतालं मध्यमस्वरं, मेघरञ्जनी रागं, सर्वमङ्गल नृत्तं, नैऋते ‘ॐ गजाननाय,भद्रतालं
पञ्चमस्वरं, वराटि रागं हस्तिनृत्तं, वारुण्यां ॐ षण्मुखाय भद्रतालं धैवत स्वरं, सर्वमङ्गल नृत्तं,
वायौ दुर्गायां तथैव सौम्यायां ॐ धनाधिपतये भद्रतालं निषधस्वरं, तक्केशि रागं, पृष्टकुट्टिमनृत्तं
ऐशाने ॐ ईशाय ढक्करीतालं धैवतस्वरं शालापाणिरागं, वामजानूर्ध्व नृत्तं, गरुडस्य
मध्यमस्वरं, गरुडगान्धारिरागं, गरुडतालं, विष्णुक्रान्त नृत्तं, विष्वक्सेनस्य बलितालं,
ऋषभस्वरं, वराटि रागं, स्वस्तिक नृत्तम् । इदं एकावरणमात्रविषयम्।
अन्तर्हारोपेते धाम्नि तु अन्तर्मण्डलनाम्नि प्रथमावरणे गोपुरोत्तरसाले ॐ पुरुषाय, दक्षिणे ॐ
अच्युताय, तालादीनि पूर्वोक्तानि।आग्नेये ॐ हयग्रीवाय बद्धावतालं ऋषभ स्वरं कोळ्ळिरागं
सर्वतोभद्र नृत्तं । याम्यां ॐ संकर्षणाय गान्धारस्वरं कौशिकरागं भृङ्गिणीतालं भेटक नृत्तं ।
नैऋते ॐ वराहाय मध्यमस्वरं नट्टभाषारागं जयतालं, चक्रमण्डलनृत्तं । वारुण्यां ॐ
प्रद्युम्नाय पञ्चमस्वरं , श्रीरागं, समतालं, कान्तार नृत्तं । वायौ ॐ अनन्ताय धैवतस्वरं,
कामदरागं, जयतालं, कुट्टिम नृत्तं । उत्तरस्य ॐ अनिरुद्धाय निषधस्वरं, तक्केशिरागं,
भद्रतालं, पृष्ट कुट्टिम नृत्तं । ऐशाने ॐ नृसिंहाय धैवतस्वरं, दक्षरागं, ढक्करीतालं,
कटिबन्धननृत्तं।अङ्गणे इन्द्रादि पीठिका स्थानेषु,पूर्वे ॐ चक्रिणे, षड्जस्वरं, गान्धाररागं,
समतालं,विलासनृत्तं।
आग्नेये ॐ मुसलिने, ऋषभस्वरं, कोल्लरीरागं, बद्धावतालं, सर्वतोभद्रनृत्तं । याम्यां ॐ
शंखिणे, गान्धारस्वरं, कौशिकरागं, भृङ्गिणीतालं, खेटकनृत्तं । नैऋते ॐ खड्गिने,मध्यमस्वरं,

 

 
नट्टभषारागं, मल्लतालं, चक्रमण्डलनृत्तं । वारुण्यां ॐ गदिने, पञ्चमरस्वरं, श्रीकामदरागं,
मङ्गलतालं, कान्तारनृत्तं ।
वायौ- ॐ शार्ङ्गिणे, कुट्टिमनृत्तं, धैवतस्वरं, तक्केशि रागम्, जय तालं,
कौबेर्यां-ॐ पद्मिने, पृष्टकुट्टिम नृत्तम्, निषदस्वरम् दक्ष रागम्,भद्रतालम् । ऐशाने-ॐ वज्रिने,
वामजानूर्ध्वनृत्तम्, धैवतस्वरम् । शालापाणि रागम्, ढक्करीतालम् । अन्तर्हारनाम्नि-
द्वितीयावरणे सूर्यादीनां पूर्वमेव उक्तानि । अङ्गणे- पूर्वे ॐ इन्द्राय सुराधिपतये
सदेवीवाहनपरिवाराय नमः । बलिंददामि-समतालं, षड्जस्वरम्, गान्धाररागम्, विलासनृत्तम्,
आग्नेये-ॐ अग्नये नमः बद्धावतालं, ऋषभस्वरम्, कोल्लिरागम्, सुभद्रकनृत्तम्, नैऋते - ॐ
नैऋतये मल्लतालं, मध्यमस्वरम्, नट्टभाषारागम्, चक्रमण्डलनृत्तम्, वारुणे-ॐ वरुणाय
मङ्गलतालं, पञ्चमस्वरम्, कामदरागम्, कान्तारनृत्तम्, वायव्ये ॐ वायवे-कुट्टिम नृत्तं, धैवत
स्वरं, तक्केशिरागं, जयतालं, सौम्ये - ॐ कुबेराय, पृष्टकुट्टिमनृत्तं, निषधस्वरं, दक्षरागं,
भद्रतालं। ऐशाने - ॐ ईशानाय वामजानूर्ध्वनृत्तं,धैवतस्वरं,शालापाणिरागं, ढक्करीतालम्।
मध्यान्तर्हारनाम्नि-तृतीयावरणे धात्रादि द्वारपालानां, द्वादशादित्यानां च भद्रतालं, धैवतस्वरं,
सर्वमङ्गलनृत्तं । अग्नियम मध्ये-वसवः, यमनिॠतिमध्ये पितृगणाः, निॠतिवारुण मध्ये -
विश्वेदेवाः, वरुणवायु मध्ये-सप्तमरुतः, वायुकुबेरमध्ये- सप्तऋषयः, कुबेरेशानमध्ये-
एकादशरुद्राः, भद्रतालं, धैवतस्वरं, सर्वमङ्गल नृत्तं,
 तत्राङ्कणे कुमुदादयः, तेषां तालरागनृत्तानि उक्तानि । मर्यादायां द्वारपालाः दुर्जयादयाः,
आवरणदेवतास्तु-पूर्वे साध्या, आग्नेये नवग्रहाः, याम्यायां अङ्गिरसः, नैॠते अश्विनौ, वारुण्यां
लक्ष्मीसरस्वतीविघ्नेशाः, वायौ इन्द्रादीशान्ताः, उत्तरस्यां ब्रह्मादिवास्तुदेवगणाः, ऐशान्यां
सप्तविंशति नक्षत्राणि । तेषां च भद्रतालं, धैवतस्वरं, सर्वमङ्गलनृत्तानि, अङ्गणे उपेन्द्रादयः,
तेषां इन्द्रादिवत् तालादीनि।
  महामर्यादा नाम्नि-पञ्चमावरणे द्वारपालाः, कुमुदादयः, तेषां तालादीनि उक्तानि ।
आवरणदेवतास्तु पूर्वस्यां सिद्धऋषिनागाः, आग्नेये असुराः, याम्यायां राक्षसाः, नैऋते
यक्षविद्याधराः, पश्चिमायां सौरभेयी गुह्य गन्धर्वाः, वायव्ये अप्सरसः, सौम्यायां प्राजापतयः

 

 
मत्र्याश्च, ऐशाने अधिरोहिण्यः, एतेषां बलितालं धैवतस्वरं, सर्वमङ्गलनृत्तं, अङ्गणे इन्द्रादि
पीठिकासु विश्वेशादयः । तेषां इन्द्रादिवत् तालराग नृत्तानि।
  एवं प्रथमावरणादि सर्वावरणेषु बलिप्रदानमात्रं चेत् बल्यर्थं क्रमात् परिभ्राम्य । पीठं
प्रदक्षिणी कृत्य आलयं प्रविश्य । तं च प्रदक्षिणीकृत्य अन्तः प्रविश्य अर्घ्यं दत्वा, मूलमन्त्रेण
मूलबेरे समुत्सृज्य । बलिशेषं किञ्चित् विष्वक्सेनस्य शिरसि निक्षिप्य। परिशिष्टं अक्षतादिकं च
बलिपीठे निक्षिपेत् ।
  नित्योत्सवे तु तद्बिम्बं शिबिकादिषु वा परिचारक शिरसि वा आरोप्य । परिभ्रमणं
आचरेत् । तदा तत्र विलास कर्तर्यादि नृत्तभेद संयुतं पुष्प प्रपा छत्र चामर सर्व वादित्र सर्वगेय
ब्रह्मघोषबहुदीप संकुलं उत्सवं कुर्यात्।
  तस्य बिम्बस्य श्रीवत्साद्यष्टमङ्गलानि दर्शयित्वा । देवस्य सन्निधाने एव सर्वेषां बलिं
दत्वा । आवरणेषु पृथुकादि ताम्बूलं च नैवेद्यं आचरेत।शंखनिनदेन केवलं प्राकारद्वारा निर्गत्य
बलिपीठस्य पुरतः मन्दिराभिमुखं देवं स्थापयित्वा । पीठस्य सर्वासु दिक्षु वादित्रेषु घोषितेषु
क्षालिते पीठिका मूर्ध्नि गुरुः विष्णुपार्षदान् सम्पूज्य । तत्र बलिं निरवशेषं दत्वा । पीठं प्रदक्षिणी
कृत्य । धामान्तः प्रविश्य । मुखमण्डपे देवस्य पादुके दत्वा । यानादेः अवरोप्य । देवं विष्टरे
प्राङ्मुखं आरोप्य । अर्घ्यादिभिः अभ्यर्च्य । अवसरोचितं उपहारादिकं प्रदाय। गर्भगेहं प्रविश्य
। बहिरङ्गण भूमिषु गेयवादित्रनृत्तेषु न्यूनभावं समाधातुं शुद्धताण्डवं दर्शयित्वा । देवं
मूलमन्त्रेण मूले समर्प्य । प्रणम्य स्तुत्वा, प्रदक्षिणीकृत्य । स्वगृहं प्रविश्य, स्वार्थं देवं
प्रपूजयेत्। स्वार्थार्चनं प्रथममेव इति केचित्।
 
इति श्री वराहगुरुणा विरचितायां क्रियाकैरवचन्द्रिकायां नित्योत्सव विधिःनाम त्रिंशः
परिच्छेदः


 
 
 

 

 
अथ एकत्रिंशः परिच्छेदः
स्नपन विधिः
अथ स्नपनविधिः उच्यते- विषुसंक्रमण,ग्रहणाऽयनद्वय, द्वादशी, श्रवण, कर्तृजन्मदिनत्रय,
तिथित्रय, व्यतीपात, रोहिणी, दर्श, पौर्णमासी, पुनर्वसु, पञ्चम्यादि शुभतिथि नक्षत्रवारादिषु
कृतं स्नपनं केवलम् । प्रतिष्ठोत्सवादिषुकर्माङ्गं । कर्माङ्गेनाऽङ्कुरावापन निशाचूर्ण स्नपनादिकम्
। केवले सर्वं चतुस्थानार्चनयुतं कुर्यात्।
आचार्यःतत्पूर्वेद्युर्देवस्याङ्कुरप्रतिसर पुरस्सरं अधिवासं सद्यो वा कुर्यात् । अधिवासस्तु
स्नपनप्रतिमायां तीर्थप्रतिकृतौ वा तदलाभे उत्सवबिंब बलिबिंब कर्मार्चा कूर्चादिषु लेपमृण्मय
भित्तिस्थ पटस्थ विषये सकूर्च दर्पणेऽधिवासं कुर्यात्।
स्नपनार्थं प्रासादस्य अग्रतः सर्वासु आवरणभूमिषु सर्वासु दिक्षु यथावकाशं चतुर्द्वार
चतुस्तोरणस्तम्भवेष्टन वितान मुक्तादामपूर्णकुम्भदर्भमालादिभिः अलङ्कृतं दशहस्तविस्तृतं
द्विगुणेन आयतं मण्डपं कारयित्वा । तस्मिन्पूर्वक्लृप्ते वा मण्डपे तत् त्रेधा विभज्य । तृतीयेंशे
पश्चिमे चतुरश्रां चतुर्हस्तविस्तारां शिलादिनिर्मितां उपानादियुतां वेदिकां कल्पयित्वा । तदुपरि
चतुरश्रां वृत्तं वा प्रादेशेन विस्तीर्णं अष्टाङ्गुलेन चतुरङ्गुलेन वा उन्नतं वलयं वेदिकोपरि च
आधारतुल्यं आश्वभ्रमेदिनीं कुर्यात् ।
 
मृण्मयादिषुबिम्बेषु बहिर्वेदि प्रकल्पनम्।
एकबेरे तु न बहिः स्नान वेदिप्रकल्पनम्।
तोरणादि न कर्तव्यं गृहार्चा स्नपने तथा।
 
इति विधाय । तत् गोमयेन अनुलिप्य । सुधाचूर्णाऽक्षत दूर्वाङ्कुर दीप सांकुर
पालिकादिभिःअलङ्कृत्य । तस्य रौद्रेकोणे गालितवस्तु सुगन्धिजलपूरितानि जलद्रोण्यादि
भाजनानि च। वेदिकायां दक्षिणे भूतले पवमानादिभिः सूक्तैः अभिमन्त्रितं सापिधानं
उपस्नानाम्बुभाजनं च कल्पयित्वा । अर्घ्यादि दीपपर्यन्तानि पूजाद्रव्याणि स्नानोपयुक्तानि च।
तदनु वेदिकाग्रे ।
 

 

 
अधमोत्तमस्नपनविधिः(81 कलशाः)
चन्दनार्द्राणिसूत्राणि चतुर्दश प्रागायतानि उदगायतानि च आस्फाल्य तेषु
एकोनसप्तत्युत्तरशतकोष्ठेषु धान्यपीठानुरूप्येण षोडशाङ्गुलायामविस्तारेषु ब्रह्मादीशानपर्यन्तं
नव नव पदानि एकाधिकाशीति संख्याकानि कलशास्पदानि विसृज्य। शेषाणि
अष्टोत्तराशीतिसंख्याकानि वीथ्यर्थं संमार्ज्य । प्रतिपदं व्रीह्याढकेन तदर्धेन वा तण्डुलेन तदर्धेन
तिलेन च पीठिकां आरचय्य। तदुपरि द्वौद्वौ दर्भौ प्रत्यस्य । तदुपरिष्टात् सौवर्णान् राजतान्
ताम्रान्वा मृण्मयान् पक्वबिम्ब फलोपमान् अच्छिद्रान् स्वनवतः कालमण्डलवर्जितान्
अभिन्नान् पाषाणस्फोटवर्जितान् द्रोणेन तदर्धेन वा वारिणा परिपूरणोचितान् सप्तदशकुम्भान्
वार्याढकेन पूरणोचितान् चतुष्षष्टिशुद्धोदककुम्भान् च तन्तुना ‘इन्द्रं नत्वा”इति परिवेष्टितान्
विष्णुगायत्र्या प्रक्षाल्य । कलशास्पदमेदिन्याः पश्चिमे भागे धान्यपीठं विधाय । आचार्यः स्वयं
भूतशुद्धिं कृत्वा । पुण्याहं वाचयित्वा । संप्रोक्ष्य । तस्मिन् प्रागग्रान् उदगग्रान् वा दर्भान्
संस्तीर्य । तेषु एतान् ॐ इति ब्रह्मादीशानन्तं अधोमुखान् संस्थाप्य । तेषां उपरि ॐ षौं नमः
पराय परमेष्ट्यात्मने नमः इति त्रीन् त्रीन् दर्भान् विन्यस्य । प्राङ्मुखः सन् अर्घ्यातोयेन ॐ यां
नमः पराय पुरुषात्मने नमः इति प्रोक्ष्य । ॐ रां नमःपराय विश्वात्मने नमः इति अक्षतान्
विकीर्य । ॐ वां नमः पराय निवृत्यात्मने नमः इति उत्तानीकृत्य । विधिवत् अग्निं संसाध्य ।
विष्णुगायत्र्या आज्येन स्नपनद्रव्याणि संसिच्य । यथोचितं वस्त्रपूतैः घृतादि स्नपनद्रव्यैः
तत्तन्मन्त्रैः कुम्भान् आपूरयेत्।
ॐ लां नमः पराय सर्वात्मने नमः इति सप्तदशकलशान् उद्धृत्य । तेषु एकं मध्यमनवक
मध्यमं कुम्भं द्रोणमाणेन घृतेन ॐ वासुदेवाय नमः इति संपूर्य । मध्ये संस्थाप्य । तादृश
प्रमाणेन उष्णोदकेन आपूर्य । ॐ पुरुषाय नमः इति घृतकुम्भस्य प्राच्यां च । तस्य
आग्नेयदिक्कुम्भं माणिक्यपद्मरागनील वज्रपुष्यराग प्रवाल मौक्तिक मरतक वैदूर्यनामभिः
नवरत्नैः सरत्नोदकं ॐ केशवाय नमः इतिसंपूर्य । तद्याम्यायां सोदकुम्भं कदलीदाडिम
चूतामलकबिल्वनालिकेरपनस मातुलङ्गाभिधैः भिन्नैः फलैः ॐ सत्याय नमः इति । घृतस्य
नैॠतकुम्भं लोहोदकेन सुवर्ण रजतताम्र सीस त्रपुकांस्यायोभिधानैः प्रत्येकं निष्फप्रमाणैः
सप्तभिः लोहैः ॐ नमो नारायणाय‘ इति। तत्पश्चिमेसजलं कुम्भं रजनीसूर्यवर्तिनीसहदेवी

 

 
शिरीष सदाभद्र कुशाग्रैः मार्जनद्रव्यैः प्रत्येकं मुष्टिमाणैः ॐ अच्युताय नमः इति। तस्य मारुतं
सजलं कुम्भं चन्दनकुष्ट कुङ्गुमागरु उशीर ह्रीबेर गिरिसंभव मांसीमुराभिधैः पृथक् पलमितैः
गन्धद्रव्यैः ॐ माधवाय नमःइति। तस्य कौबेरं सजलं कुम्भं नीवारवेणुशालि प्रियङ्गु यव कङ्गु
षाष्टिक गोधूमतण्डुलैः प्रत्येकं मुष्टिमात्रैः ॐ अनन्ताय नमः इति। तस्य ऐशानं सजलं कुम्भं
यव वेणु व्रीहिभिः प्रत्येकं कुडुप प्रमाणैः ॐ गोविंदाय नमः इति च संपूर्य । ब्रह्मस्थान
नवकस्य मध्यमं कुम्भं सोदकं पाद्याभिधानं तुलसी पद्म दूर्वाक्षत श्यामाक विष्णुपर्णी बिल्वपत्रैः
पलमात्रेण चन्दनेन च ॐ विष्णवे नमः इति संपूर्य । याम्य नवकस्य मध्यमं अर्घ्याख्यं सोदकं
कुम्भं सिद्धार्थाक्षत कुशाग्र पूर्वोक्त फलयव तिल चन्दनपुष्पैः प्रत्येकं मुष्टिमात्रैः, चन्दनेन
त्रिनिष्फमात्रेण ॐ मधुसूदनाय नमः इति । पश्चिम कुम्भनवकस्य मध्यमं उपस्पर्शनाख्यं
सजलं कुम्भं तक्कोल चंपकमुकुलकर्पूर जातीफल एलालवङ्गत्वक्चन्दनपुष्पैः प्रत्येकं
पलार्धपरिमाणैः ॐ त्रिविक्रमाय नमःइति । उत्तर नवकस्य मध्यमं पञ्चगव्याख्यं कुम्भं
दधिद्विगुणेन आघारेण,तस्मात् त्रिगुणेन पयसा तच्चतुर्गुणेन मूत्रेण तस्मात् चतुर्गुणेन
शकृद्वारिणा च.
गोमूत्रं विष्णुगायत्र्या गन्धद्वारेति गोमयं।
आप्यायस्वेति च क्षीरं दधिक्राविण्णेति वै दधि।
घृतं शुक्रमसीत्येवं गव्यानि सहयोजयेत्।
अथवा विष्णुगायत्र्या,यद्वा ‘‘परमेष्टी शकृन्मन्त्रः,गोमूत्रस्य तु पूरुषः। विश्वमन्त्रः भवेत् दध्नः
निवृत्तिः सर्पिषा भवेत्।पयसः सर्वमन्त्रः स्यात् यद्वाचाष्टाक्षरेण वा । एवं संयोज्य । देवस्यत्वेति
सर्वाणि एकीकृत्य । एवं साधितेन एतेन पञ्चगव्येन द्रोणमानेन । एवं संयोजनप्रकारः
स्नपनविधौ, प्रोक्षणे तु एतत्सर्वं पञ्चकं समं।प्राशने तु
गोमयेन समं मूत्रं दधिस्यात् द्विगुणं ततः।
ततः चतुर्गुणं सर्पिः सर्पिषाऽष्टगुणं पयः।
प्राशने पञ्चगव्यस्य प्रमाणमिदमीरितम्।
द्रोणमानं पञ्चगव्यं घृतमानं च तादृशम्।
तादृगेव दधि क्षीरं तावदेव च माक्षिकम्।

 

 
अर्धं वास्यादाढकं वा न्यूनंचेदासुरं भवेत्।
गृहार्चास्नपने न्यूनं प्रस्थेनैव प्रकल्पयेत्।
पञ्चगव्यानि गृह्णीयात् मृत्पात्रे नूतने शुभे।
कपिलायाः जरायाः वा पञ्चगव्यं प्रशस्यते।
न आर्तायाः न च गर्भिण्याः न वृद्धायाः कदाचन।
न अवत्सायः उपादद्यात् धेनोमूत्रं शकृद्द्वयम्।
भूमिष्ठं गोमयं ग्राह्यं सोष्णं कृम्यादि धूषितम्।
निष्पीड्य सम्यक् गृह्णीयात् गोमयस्य रसं पुनः।
सद्यस्तप्तं घृतं शुद्धं अहोरात्रोषितं दधि।
क्षीरं ग्राह्यमतप्तं च दशहाज्जन्मनः परम्।एवं संपाद्य ।
 
ॐ वामनाय नमः इति । आग्नेय नवकस्य मध्यमं कुम्भं दध्ना ॐ श्रीधराय नमः इति
नैॠतकुम्भ नवकस्य मध्य कुम्भं पयसा ॐ हृषीकेशाय नमः इति, वायवीयकुम्भ नवकुम्भ
नवकस्य मध्यमं कुम्भं मधुना ॐ पद्मनाभाय नमः इति, ऐशान्यां कुम्भनवकस्य मध्यमं कुम्भं
शमीपलाशखादिर बिल्वाश्वत्थ विकङ्ग त औदुम्बर न्यग्रोधत्वक्भिः पलार्धपरिमिताभिः कृतेन
कषायेन ॐ दामोदराय नमः इति च संपूर्य । विष्णुगायत्र्या सप्तदश द्रव्य कुम्भान् संस्थाप्य ।
मध्यमनवकस्य पूर्वनवकाद्यष्टनवकमध्यद्रव्यकुम्भानां च परितोऽष्टावष्टौ शुद्धोदकलशान्
द्वादशाक्षरमन्त्रेण संस्थापयेत् ।
पूर्वोक्तद्रव्याऽलाभे तु-
 
पाद्यद्रव्यांतरालाभे दूर्वाग्रेपि च सर्षपः।
शस्तमाचमनीये तु तक्कोलं मार्जनांबसि।
सहदेवी गन्धतोये चन्दनक्षोद इष्यते।
कषायतोयेचाश्वत्थं शीतमुष्णोदके सति।
रत्नोदके वज्रमेकं कदळ्येका फलांबसि।
सुवर्णं लोहपानीये शालितण्डुलमक्षते.

 

 
यवोदकघटे व्रीहिः शस्यते कमलासन।
अलब्धे दधिनीक्षीरं क्षीरालाभे तु तद्दधि।
मधून्यलब्धे सर्पींषि तदलाभे भवेन् मधु।
अलाभे पञ्चगव्यानां घृतमेवैकमिष्यते।
पञ्चगव्येषु यस्यस्यात् अलाभस्तत्पदे घृतम्।
इति भगवदुक्तैः एवं द्रव्यपूरणं कृत्वा । परिस्तीर्य। सप्तभिः पञ्चभिस्तृभिः वा दर्भैः कृतान्
कूर्चान् कुम्भेष्ववागग्रान् महाकुम्भे चर्तुींवशतिभिर्दर्भैःकृतं कूर्चं कर्णमानं तथा निक्षिप्य.तां
चक्रमन्त्रेन शरावैः पिधाय । ‘युवासुवासा इति मन्त्रेण वाससा प्रत्येकमलाभे, प्रतिव्यूहं वा
सर्वानावेष्ट्य । आचार्यो मूर्तिपैर्ब्राह्मणैस्सह देवसमीपमासाद्य । ‘उत्तिष्ठ ब्रह्मणस्पत इति
देवमुत्थाप्य । भद्रंकर्णेभिः इति स्नानसनवेदिकायां विनिवेश्य। वेदविद्ब्राह्मणैरयुग्मैस्सह
पुण्याहं वाचयित्वा । तान्यथावित्तानुसारं तोषयित्वा । गुरुः प्राणानायम्य । स्थापितेषु
तोरणध्वजकुम्भेषु तत्तद्देवानावाह्य अभ्यर्च्य । मण्टपद्वारेषु तौर्यत्रिकं प्रवर्तयित्वा ।
पूर्वसंसाधिताऽग्नौ यावत्कलशसंख्यया मूलमन्त्रेणाज्याहुतीर्हुत्वा । अन्यस्मिन् संपाताज्यं
संगृह्य । चरुणा नृसूक्तेन षोडशाहुतीश्च हुत्वा । देवं गन्धादिभिरभ्यर्च्य । कुम्भेषु
संपाताज्यारोपणमारचय्य । घृतादि द्रव्यकुम्भेषु आधारादि पद्मान्तं पीठं संकल्प्याऽभ्यर्च्य ।
घृतकुम्भे ॐ नमो भगवते परमात्मने वासुदेवायागच्छागच्छ इत्यावाह्य । अभ्यर्च्य ।
अर्घ्यादिताम्बूलान्तं संपूज्य । उष्णोदक फलमार्जनाक्षत रत्नलोह गन्धयव पाद्याऽर्घ्य आचमन
पञ्चगव्य दधिपयो मधुकषायकुम्भेषु पुरुषसत्य अच्युतानन्त केशव नारायण माधव
गोविन्दविष्णु मधुसूदन त्रिविक्रम वामन श्रीधर हृषीकेश पद्मनाभ दामोदरान् क्रमेण आवाह्य
अभ्यर्च्य । अर्घ्यादि तांबूलान्तं संपूज्य । सर्वेषु शुद्धोदकुम्भेषु च अष्टाक्षरेण आवाह्य अभ्यर्च्य।
तदनु ॐ धान्याधि दैवतायै भूम्यै नमः, ॐ कूर्चाधि दैवताय अस्त्रायफट्, ॐ
चक्रिकाधिदैवताय ॐ सुदर्शनाय नमः, ॐ वासोधिदैवताय विष्णवे नमः । अन्येषां
यागद्रव्याणां ॐ जनार्दनाय नमः । इति च आवाह्य अभ्यर्च्य । देवस्य विष्णु गायत्र्या अर्घ्यं
त्रीणि पदेति पाद्यं, आपःपुनन्तु इति आचमनं, तद्विष्णोः इति दन्तधावनं, विष्णु गायत्र्या
जिह्वानिर्लेपनं, वामदेव्यं इति अभ्यङ्गं, विष्णोर्नुकं इति आमलक वारि, नते विष्णुः इति

 

 
अभिषेकं, अग्निःमूर्धा इति प्लोतवस्त्रं, प्रणवेन वस्त्रं, उत्तरीयं च दत्वा।पुनः अर्घ्यादि दीपान्तं
अर्चयित्वा ।
छिन्नकौतुकतन्तुं सपुष्पं समर्चितं पाद्यकुम्भं विष्णुगायत्र्या उद्धृत्य।मूर्तिप दत्तं आचार्यः करे
गृहीत्वा । पाद्यकुम्भस्थाऽवागग्रकूर्चाहृतजलेन देवस्य शिरसि प्रणवेन संप्रोक्ष्य । विष्णुगायत्र्या
पाद्यवारिणा, प्रविष्णुरस्तु इति अर्घ्याजलेन, न ते विष्णुः इति आचमनाम्बुना, विष्णोः कर्माणि
इति पञ्चगव्येन, दधिक्राविण्णेति दध्ना, पयोव्रत साम्ना पयसा, मधुवातेति मधुना ओषध्यः इति
कषायेन, त्वं विष्णुः इति उष्णजलेन, याः फलनीः इति फलवारिणा, शन्नोदेवीः इति
मार्जनांभसा, सावित्र्या अक्षतोदकेन, त्रातारमितिरत्नोदकेन,महाव्याहृत्या लोहवारिणा,
गन्धद्वारेति गन्धांबुना, शतधारेति यवोदकेन, घृतस्नातेति साम्नाघृतेन च अथवा पुरुषसूक्तस्य
ऋग्भिः षोडशभिः इदं विष्णुः इत्यनयार्चया वा, द्वादशाक्षरेण, षडक्षरेण विष्णुगायत्र्या वा स्वैः
स्वैः मूर्तिमन्त्रैः वा पाद्यादि घृतान्तैः प्रतिद्रव्यकुम्भस्नपनं उपस्नानोत्तरीयार्घ्यचमनीय
गन्धपुष्पधूपदीपान्तं देवं अभ्यर्च्य अभिषिच्य। द्रव्यकुम्भोद्धरणान्तरान्तरा शुद्धोदकुम्भान्
द्वादशाक्षरेण उद्धृत्य, अभिषिच्य । तदनु नव सप्त पञ्च त्रीन् वा कुम्भान् एकं वा कुम्भं
पुण्याहपुरस्सरं हरिद्रातण्डुलस्य चूर्णैः संपूर्य । धान्य पीठे निधाय । तान् सवस्त्र रत्नलोहकूर्च
पल्लवापिधानान् कृत्वा । तत्र श्रियं आवाह्य अभ्यर्च्य । श्रीसूक्तेन तैः अभिषिच्य ।ततः देवं
प्रदक्षिणीकृत्य । नत्वा, सहस्रधारया स्नापयित्वा । प्रणवेन अलङ्कारासनं दत्वा. अर्घ्यं आरभ्य
नीराजनान्तं इष्ट्वा।खारिद्रोणं तदर्धं वा तण्डुलं दत्वा। चतुर्विधं अन्नं निवेद्य। नित्यहोमं कृत्वा।
ततः सुखासीनं देवं नत्वा। स्तुत्वा।मनोरथं प्रार्थयेत्।
यजमानोऽपि गुरवे शतनिष्फपरिमितां दक्षिणां ऋत्विजां तदर्धं पादं वा परिचारक
वेदपाठकादीनां दत्वा । पूजार्थं आहृतं शिष्टं सर्वं आचार्याय दद्यात् । एतदधमोत्तमम् । एतेषु
एकोत्तराशीतिकुम्भेषु सर्वकोणस्थ द्वात्रिंशच्छुद्धोदकुम्भहीनं (49कलशाः)अधममध्यमम् ।
सर्वैः चतुष्षष्टि शुद्धोककुम्भैः हीनं (17कलशाः)अधमाधमम् ।
मध्यमोत्तमस्नपनविधिः(277 कुम्भैः)
अथ मध्यमोत्तमस्नपनविधिः उच्यते-

 

 
मध्ये पूर्वोक्ताधमोत्तमैकाशीतिकलशस्थापने विहितेनसूत्रवर्त्मनैव तद्बहिः चतुर्दिक्षु तथा
सूत्राणि आस्फाल्य । द्वे द्वे पङ्क्ति वीथ्यर्थं तत्परितः संमार्ज्य । शिष्टेषु एकाशीतिपदेषु मध्ये
कुम्भानां नवकं इन्द्रादि सोमान्तासु दिक्षु प्रतिदिशं षट्कं, आग्नेयादिषु कोणेषु प्रत्येकं चतुष्फं, एवं
एकोनपञ्चाशत्कलशान् संस्थाप्य । शेषाणि द्वात्रिंशत्पदानि वीथ्यर्थं परिमार्ज्य । एवं चतुर्दिक्षु
कृत्वा । प्राक्स्थित एकोनपञ्चाशत्कलश मध्यनवकमध्यमं ॐ वराहाय नमः इति गुडोदकेन ।
दक्षिणे एकोनपञ्चाशत्कलश मध्यनवकमध्यमं ॐ नारसिंहाय नमः इति इक्षुरसेन । पश्चिम
एकोनपञ्चाशत्कलश मध्यनवकमध्यमं ॐ श्रीधराय नमः इति नालिकेरजलेन । उत्तर
एकोनपञ्चाशत्कलश मध्यनवकमध्यमं शान्तिकुम्भं तुलसीवेणुनीवारशालिश्वेतसर्षपतिलैः
तुलसीं विना प्रत्येकं कुडुब प्रमाणैः मुष्टिमात्रतुलस्या च, शान्तिद्रव्याऽभावे तुलस्या एकया वा
ॐ हयग्रीवाय नमः इति च।
 
गुडाभावे च इक्षुरसं तस्य अभावे गुडोदकम्।
गुडमानं पलाशीतिः अर्धं अर्धार्धमेव वा।
नालिकेरजलाभावे तत्स्थाने क्षीरमिष्यते।
 
आपूर्य । गुडोदके ॐ वराहाय नमः, इक्षुरसे ॐ नृसिंहाय नमः, नालिकेरोदके ॐ श्रीधराय
नमः, शान्तिवारिणी ॐ हयग्रीवाय नमः इत्यावाह्य अभ्यर्च्य । ‘मधुवातेति गुडोदकेन,
मधुनक्तं इति इक्षुरसेन, मधुमाम्न इति नालिकेरांभसा, वेदाहं इति शान्तिजलेन, जितंते इति
शुद्धोदकुम्भैः सम्स्नाप्य । तदनु पाद्यादिघृतान्तैः स्नपनं आचरेत् । स्नपनान्ते निशाचूर्णैः स्नपनं
कुर्यात्। इति मध्यमोत्तम स्नपनविधिः।
एकोत्तराशीति कलशस्थ चतुष्षष्टिशुद्धोदकुम्भान् तत्परितः चतसृषु दिक्षु स्थापितैकोन
पञ्चाशत्कलशस्थ द्विनवत्युत्तर संख्याकान् शुद्धोद कुम्भान् च क्रोडीकृत्य.
षट्पञ्चाशदुत्तरशतशुद्धोदकुम्भेषु अर्धशुद्धोदकुम्भहीनं मध्यममध्यमं, सर्वशुद्धोदकुम्भैः विना
मध्यमाऽधमम्।
उत्तमोत्तमस्नपनविधिः(473 कलशस्नपनविधिः)
अथ तावत् उत्तमोत्तमस्नपनविधिः उच्यते ।

 

 
पूर्वोक्त एकाशीति कलशास्पदस्य पूर्वाद्याशासु चतसृषु दिक्षु प्रतिदिशं च एकोनपञ्चाशत्कुम्भेषु
स्थापितेषुसत्सु, एकाशीति कलशस्थापनस्य आग्नेयादिषु चतुर्षुकोणेषु प्रतिकोणं
तत्तत्सूत्रवर्त्मनैव पूर्ववत सूत्राणि आस्फाल्य । तथैव एकोन पञ्चाशत्क लशान् संस्थाप्य ।
आग्नेय एकोनपञ्चाशत्कलश मध्य नवकमध्यमकुम्भं मङ्गलाख्यं इन्द्रवल्यङ्कुर, अश्वत्थपल्लव,
कुशेशय, एकपत्रांबुज, चन्दन, कुष्ट, कुङ्गुम, रोहिणद्रुम, यूथिका, मल्लिका, उत्पलत्रय, जाति,
चंपक, केतकीभिः द्वौ-इन्द्रवल्ल्यङ्कुरौ, अश्वत्थपल्लवं मुष्टिमात्रं एकपत्रांबुजमेकं, कुशेशयमेकं,
पुष्पाष्टकं मुष्टिमात्रं, चन्दनानि एकैकंपलं-ॐ नमो भगवते वासुदेवाय इति-नैॠत
एकोनपञ्चाशत्कलशमध्य नवकमध्यमकुम्भं सर्वौषधाख्यं-मांसीकुष्ठ, हरिद्राद्वितय, मुरा,
शैलेय, चंपक, मुकुल, मुस्ता, वचा, कर्पूरैः, प्रत्येकं पलमितैः । क्षुण्णैः, ॐ नमोभगवते
संकर्षणाय नमः, वायव्य एकोनपञ्चाशत्कलशमध्य नवकमध्यमकुम्भं सर्वगन्धाख्यं,
कर्पूरकुङ्कुम कुष्ठ मांसी मलयज, मुरा प्रियङ्गु, केसर, मुस्ता तमाल, नागकेसर, मूलद्वितय,
कच्चोर, सुरपर्णी, केसर, उशीर, तार, लोध्र, हरिचन्दन, अगरुद्वितय, सितकुष्ठ, कालेय,
ग्रन्थिपल्लव, चम्पकमुकुलचूर्णितैः प्रत्येकं पलसम्मितैः ॐ नमोभगवते प्रद्युम्नाय नमःइति ।
ऐशाने एकोनपञ्चाशत्कलश मध्यनवक मध्यमकुम्भं मूलौषधाख्यं व्याघ्री, सिह्मी, बला,
शरपुङ्क, शतावरी, बिल्वमूल, वचा, शुण्ठी गोरण्डी, शतमूलैः, पृथक्पलमितैः चूर्णितैः ॐ
नमोभगवते अनिरुद्धाय इति।
(मङ्गलोदकवस्तूनां अलाभे चन्दनं वरं।
सर्वौषधीनां एतासां अलाभे कुष्टमुच्यते।
अलाभे सर्वगन्धानां शस्यते चन्दनं वरं।
मूलौषधीनां सर्वासां अलाभे शस्यते बला।)
 
आपूर्य । मङ्गलोदके वासुदेवं,सर्वौषधीकुम्भे संकर्षणं, सर्वगन्धकुम्भे प्रद्युम्नं, सर्वमूलौषधीकुम्भे
च अनिरुद्धं आवाह्य। संपूज्य। विष्णोर्नुकमिति मङ्गलांबुना, ओषध्य इति सर्वौषधीजलेन,
नारायणानुवाकेन सर्वगन्धांबुना, या ओषधीरिति, अष्टाक्षरेण शुद्धजलैश्च संस्नाप्य । अनन्तरं
घृतान्तं स्नापयेत् । इत्युत्तमोत्तमम् । सर्वत्र क्रोडीकृत्य । अष्टचत्वारिंशदुत्तर चतुश्शत

 

 
शुद्धोदकुम्भेषु अर्द्धशुद्धोदकुम्भैः हीनं उत्तममध्यमं । सर्वैः अष्टचत्वारिंशदुत्तर
चतुश्शतशुद्धोदकुम्भैः विना पञ्चविंशतिद्रव्यकुम्भैरेव कृतं उत्तमाधमम्। इति स्नपननवकम्।
अथ अष्टोत्तरशतकलशस्नपन विधिः उच्यते-
कलशस्थापन प्रागायतेषु षट्सु उदगायतेषु च तथा सूत्रेषु आस्फालितेषु पञ्चविंशतिपदानि
भवेयुः। तेषु मानुषेद्वादशपदानि हित्वा । मध्ये ब्रह्म दिव्यस्थपदनवकं एकीकृत्य । सूत्रवर्त्मना
कोष्टानां यथाशतंभवति तथा कृत्वा।तत्र प्राच्यां अवाच्यां प्रतीच्यां उदीच्यां द्वे द्वे पङ्क्ती हित्वा
तत्परितः द्वे द्वे पङ्क्ती संमार्ज्य । तत्र ब्रह्मादीशान्तासु दिक्षु विदिक्षु च नवपदानि कुम्भास्पदानि,
एवं अनयारीत्या अष्टोत्तरशतकलशास्पदानि कल्पयेत् । एवं कलशान् संस्थाप्य ।
ब्राह्ममध्यकलशचतुष्टयाग्नेय पदकुम्भं पूर्वोक्तप्रमाणेन घृतेन, अवशिष्टान् त्रीन् शुद्धोदकेनापूर्य ।
तत्परितः पूर्वादीशान्ताऽष्टदिक्स्थिताऽष्ट चतुष्फाऽऽग्नेयकुम्भाष्टकं, उष्णोदक,रत्नोदक,
फलोदक, लोहतोय, मार्जनोदक, गन्धवारि, अक्षतवारि,यवोदकाणि पूर्वोक्तमानैःआपूर्य ।
मानुषेभागे प्राच्यादीशानान्त स्थिताऽष्ट नवक कुम्भाष्टकं एवंकृते द्रव्यकलशाः सप्तदश
शुद्धोदकुम्भानां एकोत्तराशीतिः । एवं सर्वमपि क्रोडीकृत्य अष्टोत्तरशतं कलशानां भवति।
देवमन्त्राभिषेकाश्च पूर्ववत्।
अथ एकोनपञ्चाशत्कलशस्नपन विधिः उच्यते-
प्रागायतानि दश तथा उदगायतानि च सूत्राणि आस्फालयेत् । एवं चेत् एकोत्तराशीतिपदानि
भवेयुः। कलशास्पदस्य चतसृषु दिक्षु द्वे द्वे पङ्क्ती हित्वा।ततः एकस्यां एकस्यां पङ्क्तौ
सम्मार्जितायां मध्ये नवकं दिक्षु प्रतिदिशं षट्कानि विदिक्षु प्रत्येकं चतुष्फानि
एवमेकोनपञ्चाशत्कलशास्पदानि भवेयुः। मध्ये नव,दिक्षु चत्वारः,विदिक्षु चत्वारःद्रव्यकुम्भाः
भवन्ति।एवं चेत् सप्तदशद्रव्यकुम्भाः द्वात्रिंशत् शुद्धोदकुम्भाः मन्त्रदेवताः स्नपनं च पूर्ववत्।
अथ पञ्चविंशतिकलशस्नपनविधिः-
यथा एकोत्तराशीतिपदानि भवेयुः,तथा सूत्राणि आस्फाल्य। चतसृषु दिक्षु एकैकां पङ्क्तीं हित्वा।
ततः द्वे द्वे पङ्क्तीं सम्मार्ज्य। मध्ये नव प्रतिदिशं त्रीन् त्रीन् प्रतिकोणमेकैकं कलशानां
संस्थाप्य।मध्यस्थ त्रिक चतुष्टय मध्यस्थाश्च कोणचतुष्टयस्थाः चत्वारश्च द्रव्यकुम्भाः सप्तदश
अष्टौ कुम्भाः शुद्धोदकपूरिताः। द्रव्य मन्त्रदेवताः स्नपनं पूर्ववत्।यद्वा चन्दनागरु काश्मीर कुष्ठ

 

 
तगर वीणासिताऽगरु हरिचन्दनह्रीबेरैः गन्धद्रव्यैः मध्य कुम्भनवकं, दिक्षु स्तिथान्
चतुरःविदिक्षु चतुरश्च तमालसितकुष्ठ सुरपर्णीरस कर्पूर नागकेसर मुस्ताचम्पकमुकुल प्रियङ्गु
पुष्प कालेय ग्रन्थिपल्लव बीज मांसि खर्जूर शैलेय ह्रीबेरद्रुम मुरैः वा सर्वान् कुम्भान् पूरयेत्।
अथ षोडशकलशस्नपन विधिः
प्रागायतानि नव तथा उदगायतानि च सूत्राणि तथा सति चतसृषु एकैकां पङ्क्तीं हित्वा। द्वयोः
द्वयोः पङ्क्त्योः सम्मार्जितयोः मध्ये चत्वारि दिक्षु द्वे द्वे विदिक्षु च एकैकं, एवं षोडश
कलशास्पदानि भवेयुः। मध्य चतुष्फस्य आग्नेयं कुम्भं पूर्वोक्तैः नवभिः रत्नैः नैॠतं तथा
सप्तलोहैः,वायव्यं तथागन्धद्रव्यैः ऐशानं तथा आज्येन च आपूर्य। पूर्वादिस्थित द्वादशकुम्भान्
पाद्यार्घ्य दध्याचमन पञ्चगव्य क्षीराक्षत मार्जन मधु कषायकुशोदक यवैः पूर्वोक्तमानैः क्रमेण
आपूर्य। पुरुषादि दामोदरान्तान् आवाह्य।नृसूक्त षोडशऋग्भिः स्नपनं कुर्यात्।
अथ द्वादशकलश स्नपन विधिः-प्रागायतानि सप्त तथा उदगायतानि च सूत्राणि,तथा सति मध्ये
चतुष्फं विहाय चतसृष्वपि दिक्षु एकैकां पङ्क्तीं संमृज्य।कोणेषु चतसृषु त्रिषु त्रिषु पदेषु मृष्टेषु,
चतुष्फस्य बहिः प्राच्यां अवाच्यां प्रतीच्यां उदीच्यां द्वे द्वे भवतः। एवं सति द्वादश
कलशास्पदानि भवेयुः। मध्यचतुष्फस्य आग्नेयं कुम्भं पूर्वोक्तैः नवभिः रत्नैः नैॠतं
लोहैः,वायव्यं गन्धद्रव्यैः,ऐशानं सर्पिषा च आपूर्य।तत्पूर्वाद्युत्तरान्त पदस्थितान् अष्टौ कुम्भान्
क्रमेण पाद्य दध्यर्घ्य क्षीराचमन मधु पञ्चगव्य फलैः पूर्वोक्तमानैः
आपूरयेत्।मन्त्रदेवताःपूर्ववत्।
एतेषां अलाभे तु मध्यचतुष्फं आग्नेयं आरभ्य बहि स्थित सोमकुम्भान्तं कोष्टाऽगरु कालीय
ग्रन्थिपल्लवबीज चन्दन काश्मीर मांसी तमाल मुर पर्वतोत्थसुवर्ण रजःकण चंपक मुकुळ
खर्जूरद्रवैः प्रादक्षिण्येन आपूरयेत्।
अथ नवकलशस्नपन विधिः
प्रागायतानि सूत्राणि चत्वारि तथा उदगायतानि च। तथा सति पदानि नव भवेयुः। मध्यकुम्भं
आरभ्य ऐशानन्तं घृत पाद्य दध्यर्घ्य क्षीराचमन मधुपञ्चगव्य फलैः क्रमेण । नवरत्नैः वा
पूरयेत्।मन्त्र देवताः पूर्ववत्।
अथ पञ्चकलशस्नपन विधिः

 

 
एकः मध्ये चतसृषु अपि दिक्षु चत्वारः। मध्यं आरभ्य सौम्य पर्यन्तमणिप्रवाल मौत्तिक वज्र
वैढूर्य पञ्चलोहैः। अथवा प्रत्येकशः पञ्चगव्यैः वा पूरयेत्। पञ्चगव्यस्य मन्त्रदेवताः
पञ्ञ्चोपनिषदः।
अथ एककलशस्नपन विधिः एकं कलशं मध्ये संस्थाप्य पञ्चामृतैः पञ्चगव्यैः वा पूरयेत्।गुरवे
यथाशक्ति निष्फमाना देया।
 
इति श्री वराह गुरु विरचितायां क्रियकैरव चन्द्रिकायां उत्तमादि स्नपन विधिः नाम एकत्रिंशः परिच्छेदः


अथ द्वात्रिंशः परिच्छेदः
अथ एकोत्तर सहस्रकलशस्नपन विधिः उच्यते
पूर्वेद्युरेव भगवतः पूर्ववत् अङ्कुर प्रतिसराधिवासान् च कृत्वा । द्वात्रिंशद्धस्तविस्तारद्विगुणेन
आयतं कलशास्पद भूभाग वैपुल्यानुगुणं महत् अन्यत् मण्डपं कल्पयित्वा । यथापुरं द्वारादीनि
च। कलशास्पदभूमिं पञ्चविंशतिधा विभज्य। मध्यमं ब्राह्मंपदं एकोत्तराशीति घटास्पदं यथा
भवति तथा विभज्य।ब्रह्मादीशानान्तं नव नव पदानि एकाशीति घटास्पदानि हित्वा ।
शिष्टानिअष्टोत्तराशीति पदानि संमार्ज्य । प्रतिपदं व्रीहीणां आढकेण तण्डुलानां तदर्धेन तदर्धेन
तिलानां पीठिकां कृत्वा । तदुपरि द्वौ द्वौ दर्भौ विन्यस्य। तदनु सुवर्णादि लोहजान् मृण्मयान्
पूर्वोक्त लक्षणयुतान् द्रोणेण वा जलानां तदर्धेन वा पूर्यान्। द्रव्यकुम्भान् , जलानां आढकेन
पूर्यान् च। कलशान् विष्णुगायत्र्या प्रक्षाल्य । मृण्मयांस्तु वामे करतले विन्यस्य. तदितरेण
करेण तन्तुं गृहीत्वा वेष्टिततन्तूनां अन्तरालंयवमात्रं अर्धाङ्गुलमात्रं वा यथा भवेत् तथा । ‘‘इन्द्रं
नत्वे’ति मन्त्रेण आवेष्ट्या। कलशास्पदमेदिन्याः पश्चिमे भूतले धान्यपीठं विधाय । पुण्याहं
वाचयित्वा । तस्मिन् प्रागग्रान् उदगग्रान् वा दर्भान् संस्तीर्य । तत्र ब्रह्मादीशानपर्यन्तं कुम्भान्
अधोमुखान् ॐ इति विन्यस्य । तेषां उपरि पूर्ववत् त्रीन् त्रीन् दर्भान् परमेष्ठिमन्त्रेण विन्यस्य।
अर्घ्या तोयेन पुरुष मन्त्रेण प्राङ्मुखः प्रोक्ष्य। विश्वमन्त्रेण अक्षतान् विकीर्य। निवृत्तिमन्त्रेण
उत्तानिकृत्य । तदनु विधिवत् अग्निं संसाध्य। सर्पिषा विष्णुगायत्र्य अष्टोत्तर शताहुतिः हुत्वा

 

 
संपातेन स्नपन द्रव्याणि संसिच्य । वस्त्रपूतैः स्नपनद्रव्यैः तत्तत् देवता मन्त्रैः कलशान् संपूर्य।
द्रव्य कलशान् उद्धृत्य । विष्णुगायत्र्य यथास्थानं वक्ष्यमाणेन विधिना स्थापयेत्।
मध्ये ब्राह्मेभागे एकोत्तराशीति घटाः। दिव्ये ऐन्द्रे दिव्ये याम्ये वारुणे दिव्ये सौम्ये च प्रतिदिशं
एकोत्तराशीतिकलशाः । दिव्यभागाग्नेयादि कोणचतुष्टयेष्वपि प्रतिकोणं एकोनपञ्चाशत्
संख्याकाः कलशाः।
तेषां तु प्रागुदगग्राणि दश सूत्राणि आस्फाल्य। पूर्वादि दिक्षु द्वे द्वे पङ्क्ती हित्वा । परितः एकैकां
पङ्क्तिं संमार्ज्य । मध्ये नव पूर्वाद्युत्तरान्तं षट् षट् । आग्नेयादीशानान्तं चत्वारि चत्वारि
कलशाः स्थाप्याः।
  तत्परितश्च मानुषे भागे षोडशस्थानेषु च प्रतिस्थानं पञ्चविंशतिकलशाः स्थाप्याः । तेषां
तु प्रागुदगग्राणि दश सूत्राणि आस्फाल्य । चतुसृषु दिक्षु एकैकाम् पङ्क्ती हित्वा । तदनु द्वे द्वे
पङ्क्ती सम्मार्ज्य । मध्ये नव दिक्षु त्रीणि त्रीणि विदिक्षु एकैकां । एवं पञ्चविंशति कलशान्
स्थापयेत् ।एवं चेत् कलशानां सहस्रं एकोत्तरं भवति ।
(1)ब्राह्मे मध्यनवके नवकमध्यमे सर्वलोहान् ।। सुवर्ण रजत ताम्र सीस त्रपु
कांस्याऽयस्सारान् निष्फमात्रान्, माणिक्य पद्मराग नीलवज्र पुष्यक प्रवालमुक्तामरतक
वैढूर्याणि । कदली बीजपूरकाऽऽम्राऽऽमलक बिल्व नालिकेर पनस मातुलुङ्गानि मांसि कुष्ठ
हरिद्राद्वितय मुराशैलेय चम्पक मुकुल मुस्तावचा कर्पूराणि पृथक् पृथक् पलमात्राणि । कर्पूर
कुङकुम कुष्ठ मांसि चन्दनमुरप्रियङ्गु केसर मुस्तातमालनागकेसर मूलद्वय, कच्छोर सुरपर्णि
केसरोशीर तगर लोघ्र हरिचन्दन अगरु द्वय, सितकुष्ठकालेय ग्रन्थिपल्लव चम्पक मुकुलानि
प्रत्येकं पलमानानि चूर्णिकृतानि। श्रीवत्स वनमाल शङ्ख चक्र गदांबुज खड्ग शार्ङ्गाणि
स्वर्णनिर्मितानि प्रत्येकं निष्फमानानि च सजले कुम्भे ॐ नमोभगवतेवासुदेवाय इति
विनिवेश्य । तं युवासा इति वासोभ्यां आवेष्ट्य । सकूर्च पिप्पल दलापिधानं कृत्वा। तत्र
योगपीठं संकल्प्य । तस्मिन् साङ्गं सपरिवारं वासुदेवं आवाह्य । अर्घ्यादि दीपान्तं अभ्यर्च्य।
(1a) ब्राह्मे तस्य प्राचीनकुम्भनवकमध्यमे कुम्भे सूर्यकान्त पद्मरागौ। तस्य पुरुषो देवता ।
ब्राह्मे (1b)आग्नेय कुम्भनवकमध्यमे कुम्भे वैढूर्य चन्द्रकान्तौ। तस्य वासुदेवः देवता । ब्राह्मे
(1c)याम्यकुम्भनवकमध्यमे कुम्भे इन्द्रनीलायस्यकान्तौ तस्य सत्यो देवता। ब्राह्मे

 

 
(1d)नैॠतकुम्भनवक मध्यमे कुम्भे प्रवालगरुडौ तस्य सङ्कर्षणो देवता। ब्राह्मे (1e)वारुण
कुम्भ नवकमध्यमे कुम्भे पुष्यस्फटिकौ तस्य अच्युतःदेवता । ब्राह्मे (1f)वायव्य
कुम्भनवकमध्यमेकुम्भे पद्मरागमरतके तस्य प्रद्युम्नो देवता।
(1g)ब्राह्मे वारुण कुम्भनवकमध्यमेकुम्भे वज्रं,रजतम् तस्य अनन्तः देवता। ब्राह्मे (1h)
रौद्रकुम्भनवकमध्यमे कुम्भे ताम्रमौत्तिके तस्य अनिरुद्धः देवता। सर्वेषु शुद्धोदकेषु मौक्तिकानि
तेषां देवता नारायणः।
   
(2) तस्यां प्राच्यां दिव्ये भागे एकाशीतिघटास्पदे मध्यनवक मध्यमे कुम्भे कदलि पनस आम्र
मातुलङ्ग भव्य जंबुकेसर बदरि फलानि । तस्य देवता तत्त्वात्मा । तस्य ऐन्द्रे नवक मध्यमे
कुम्भे मातुलङ्ग दाडिमफले । तस्य देवता पृथ्वी । तस्य आग्नेय नवकमध्यमे घटे जम्बूनारङ्ग
फले । तस्य देवता अपांअधिष्ठात्रि। तस्य याम्य नवकमध्यमे घटे तक्कोलैलाफले । तस्य
तेजस्वीपुरुषः देवता । तस्य नैॠत कुम्भ नवकमध्यमे कुम्भे क्षीरिकामलक फले । तस्य
वायुर्देवता। तस्य वारुण नवकमध्यमे घटे द्राक्षा खर्जूर फले । तस्य आकाशात्मा देवता ।
तस्य वायव्य नवकमध्यमे घटे चूतपारावतफले। तस्य देवता मनः। तस्य सौम्य नवकमध्यमे
घटे क्षुद्रं पनसफलं। तस्य देवताअहंकारः । तस्य ऐशान्य नवकमध्यमे घटे बिल्वकदलि फले
। तस्य देवता बुद्धिः । सर्वेषु शुद्धोदक कुम्भेषु बदरि फलानि देवताः पूर्ववत्। अष्टाक्षरेण
पञ्चोपनिषदैः कुम्भानां अभिमन्त्रणम् ।
(3)दिव्ययाम्ये एकाशीतिघटास्पदे मध्यनवक मध्यमे कुम्भे उशीर, कुङकुम, कुष्ठ, मांसी,
मलयज, मुर, ह्रीबेर, अगरुपिष्टानि प्रत्येकं पलमात्राणि तस्य देवता त्रैलोक्यमोहनः । तस्य
ऐन्द्रे नवक मध्यमे कुम्भे जलदवारेणमूले। तस्य देवता बभ्रु: । तस्य आग्नेय नवकमध्यमे घटे
कर्पूरकाश्मीरे । तस्य देवता शौरिः । तस्य याम्य नवकमध्यमे घटे चम्पक मुकुल मांसीपिष्टे ।
तस्य देवता दाशार्हः। तस्य नैॠत कुम्भ नवकमध्यमे कुम्भे चन्दन रक्तचन्दनक्षोदौ । तस्य
देवताअन्नाधिपतिः । तस्य वारुण नवकमध्यमे कुम्भे सुरपर्णी मौररजसी । तस्य
देवतावैकुण्ठः । तस्य वायव्य नवकमध्यमे घटे गिरिजमूल प्रैयङ्गव मूल रजसी । तस्य देवता
पुरुषोत्तमः । तस्य सौम्य नवकमध्यमे कुम्भे कुष्ट सितकुष्टपिष्टे । तस्य देवता मुकुन्दः । तस्य

 

 
ऐशान्य नवकमध्यमे घटे कृष्ण धवलागरुक्षोदौ । तस्य देवता वृषाकपि:। अवशिष्टेषु शुद्धोदक
कुम्भेषु तमाल पत्राणि । देवता: पूर्ववत् । पुरुषमन्त्रेण वा पवमानादिभिः सूक्तैः वा
कुम्भाभिमन्त्रणम्।
  4--दिव्य वारुणे एकोत्तराशीतिघटास्पदे मध्यनवकमध्यमे कुम्भे वापि सरित्कूप
ह्रद वृष्टि हिम आपगा समुद्र तटाक पाथांसि नव । तस्य ऐन्द्रे नवक मध्यमे कुम्भे वापीजलं ।
तस्य आग्नेय नवकमध्यमे घटे सरिज्जलं । तस्य याम्य नवकमध्यमे घटे कूपजलं । तस्य
नैॠत कुम्भ नवकमध्यमे कुम्भे ह्रदजलं । तस्य वारुण नवकमध्यमे कुम्भे हिमजलं । तस्य
वायव्य नवकमध्यमे वृष्टि। तस्य सौम्य नवकमध्यमे कुम्भे आपगाजलं । तस्य ऐशान्य
नवकमध्यमे घटे समुद्रजलं । एतेषां देवतास्तु क्रमेण भार्गवरामरहिताः मत्स्यादयः।
शुद्धोदकानां पूर्ववत्।
  5--दिव्ये सौम्ये एकाशीतिघटास्पदे मध्यनवक मध्यमे कुम्भे यव गोधूम व्रीहि शालि
मुद्ग प्रियङ्गु माष श्यामाक नीवाराणि। तस्य देवता गरुडारूढ: पद्मनाभः। तस्य ऐन्द्रे नवक
मध्यमे कुम्भे यवं । तस्य देवता वनमाला । तस्य आग्नेय नवकमध्यमे घटे गोधूमः । तस्य
देवता शङ्ख: । तस्य याम्य नवकमध्यमे घटे व्रीहिः । तस्य देवता चक्रं। तस्य नैॠत कुम्भ
नवकमध्यमे कुम्भे शालिः । तस्य देवताकौस्तुभः । तस्य वारुण नवकमध्यमे मुद्गं । तस्य
देवतापद्मं । तस्य वायव्य नवकमध्यमे प्रियङ्गुः। तस्य देवता शार्ङ्ग । तस्य सौम्य नवकमध्यमे
कुम्भे माषं । तस्य देवता गदा । तस्य ऐशान्य नवकमध्यमे घटे श्यामाक नीवारः । तस्य
देवता खड्गः। शिष्टाः शुद्धोदकाः देवताश्च तथा।
  2-1-दिव्ये आग्नेयेएकोनपञ्चाशत् घटास्पदे मध्यमनवके घृतं । तस्य ऐन्द्रषट्के गोमूत्रं।
तस्य याम्यषट्के क्षीरं। वारुण षट्के दधि । सौम्य षट्के गोमयरसः । तस्य आग्नेय कुम्भ चतुष्टये
उष्णोदकं । नैॠत चतुष्टये पञ्चामृतं । तत्तु क्षीर दधि घृत मधु शर्कराः तस्य ऐशानकुम्भ
चतुष्टये सक्तवः । तेषां देवता नारायणः ।
 

 

 
  2-2-दिव्ये नैॠते एकोनपञ्चाशत् घटास्पदे मध्यनवके तैलं । देवता मत्स्यमूर्तिः । तस्य
ऐन्द्रषट्के घनसारद्रव्यं । तस्य याम्याषट्के लाजं। वारुण षट्के मार्जनांभः । सौम्य षट्के च
मार्जनद्रव्याणि तु रजनी, सूर्यवर्तिनी, सहदेवी, शिरिष, सदाभद्र, कुशाग्राणि पृथक्
मुष्टिमात्राणि । तस्य आग्नेयादीशानान्तकोणचतुष्टयकुम्भ चतुष्फेषु षोडशसु गुडवारि । तेषां
देवता वासुदेवः।
   
2-3-दिव्य मारुते एकोनपञ्चाशत् घटास्पदे मध्यमनवके सर्षपतैलं ।( देवता मत्स्य मूर्ति) ।
तस्य ऐन्द्राषट्के पूर्वोक्त पाद्य द्रव्याणि । तस्य याम्यषट्के अर्घ्यद्रव्याणि पूर्वोक्तानि । वारुण षट्के
आचमनीय द्रव्यं। सौम्य षट्के मङ्गलोदकं इन्द्रवल्ल्यादि। आग्नेयादीशानान्तकोण चतुष्टय कुम्भ
चतुष्फेषु षोडशसु इक्षुरसः। तेषां देवता अनिरुद्धः।
   
  2--4--दिव्यैशानैकोनपञ्चाशत् घटास्पदे मध्यमनवके मधु । तस्य ऐन्द्राषट्के
सर्वगन्धोदकं कर्पूरकुङ्गुमादि । तस्य याम्यषट्के शान्तिवारि तुलसि,वेणु,नीवारादि। वारुण षट्के
सौम्य षट्के च तथा । आग्नेय चतुष्फे नैॠत चतुष्फेषु वायव्य चतुष्फेषु च नालिकेरजलं। तस्य
ऐशानचतुष्फे क्षीरं । तेषां देवता हरिः।
 
  3---1-मानुषे पदे प्राच्यां कुम्भानां पञ्चविंशतौ मध्यम नवक मध्यमेकुम्भे क्षेत्रतीर्थ,
अब्धि, शैल, गज, सूकर, दन्ताग्र, वल्मीक, वृषश्रृङ्गाग्रमृत्तिकाः अष्टौ । तत्परितः स्थिते
कुम्भाष्टके प्रच्यादीशानान्तं पूर्वोक्ताः क्रमेण एकैकाः । नवकस्य देवता केशवः। शिष्टषोडश
शुद्धोक कुम्भेषु देवता नारायणः।
 
  3-2-तत ऐन्द्राग्नेयान्तराल पञ्चविंशतौ नवकमध्यकुम्भे सहदेवि, वचा, शतमूला,
शतावरी, कुमारी,गडूची, सिह्मी, व्याघ्रीत्यष्टौ मूलक्षोदाः। तत्परितः स्थिते कुंभा ष्टके क्रमेण
सहदेव्यादिमूलिकाः एकैकाः। नवकस्य देवता नारायणः । शिष्टेषु षोडशशुद्धोद कुम्भेषु च।
 
  3-3-तत्र आग्नेयपञ्चाशतौ नवकमध्यमकुम्भे न्यग्रोध, औदुम्बराऽश्वत्थ, जम्बु, बिल्व,
पलाश, मधुक, शिरीषाणां त्वचोष्टौ तद्रसाः । तत्परितः स्थिते कुम्भाष्टके क्रमेण
न्यग्रोधादित्वग्रसाः। नवकस्य देवता माधवः । शिष्टशुद्धोदकुम्भानां नारायणः।
   

 

 
3-4-आग्नेययाम्ययोः अन्तराले कुम्भानां नवक मध्यमे कुम्भे पालाश, बिल्व, वकुल, कदंब,
आम्र, शिरीष, न्यग्रोधाऽश्वत्थजाः पल्लवाः अष्टौः। तत्परितः स्थितेषु अष्टसु कलशषु पलाश
पल्लवाद्येकैकं पल्लवं क्रमेण। तस्य नवकस्य देवता गोविन्दः। शिष्टषोडशशुद्धोक कुम्भानां
नारायणः।
 
3-5-याम्ये कुम्भानां पञ्चविंशतौ नवकस्य मध्यमे कुम्भे जाती, मल्लिका, प्रियङ्गु, पद्म, वकुल,
नन्द्यावर्तक, चम्पक, कुन्दजानि अष्टौ पुष्पाणि । तत्परितः स्तिथकलशेषु अष्टसु जात्यादि पुष्पं
एकैकं क्रमेण। तस्य नवकस्य देवता विष्णुः। शिष्टानां पूर्ववत्।
  3-6-याम्यनैॠतयोः अन्तराले कुम्भानां पञ्चविंशतौ नवक मध्यमकुम्भे सिद्धार्थ
राजसिद्धार्थ वंश,गोरोचनेन्द्रवेणु, षाष्ठ, यव, शमी, चणकानि अष्टौ।तत्परितः स्थितेषु
कलशेषु अष्टसु सिद्धार्थाद्येकैकं क्रमेण। तस्य नवकस्य देवता मधुसूदनः। शिष्टानां पूर्ववत्।
   
3-7-तत्र नैॠते कुम्भानां पञ्चविंशतौ नवकस्य मध्यमे कुम्भे ग्राम्यतिलाऽऽरण्यकतिल, जीरक,
कृष्णजीरक, अतसीसंभवच्छिन्न, शतपुष्प, कुठारर्षि बिम्बानि अष्टौ द्रव्याणि। तत्परितः
स्थितेषु अष्टसु कलशेषु तिलादिक्रमेण एकैकम्। तस्य नवकस्य देवता त्रिविक्रमः। शिष्टानां
नारायणः।
 
3-8-नैॠत वारुणयोः अन्तराले कुम्भानां पञ्चविंशतौ नवकस्य मध्यमे कुम्भे श्यामाक,
षाष्टिक, शालि, नीवार, तण्डुल, दूर्वा‘ङ्गुर, कुशाङ्गुर, इन्द्रवल्ल्यङ्गुराऽश्वत्थाङ्गुराणि अष्टौ
द्रव्याणि। तत्परितः स्थितकलशेषु अष्टसु श्यामाकाद्येकैकं क्रमर्जी । तस्य नवकस्य देवता
वामनः। शुद्धोदकानां पूर्ववत्।
3-9-तत्र वारुणे कुम्भानां पञ्चविंशतौ नवकस्य मध्यमे कुम्भे कुशदिव्येषु काश उशीर, शरपुंख,
तगर, अपामार्गमूलानि अष्टौ । तत्परितः स्थितकुम्भाष्टके कुशादिमूलद्रव्यं एकैकं क्रमेण ।
तस्य नवकस्य देवता श्रीधरः। शुद्धोकानां पूर्ववत्।
   
3-10-वारुणवायव्ययोः अन्तराले कुम्भानां पञ्चविंशतौ नवक मध्यमे कुम्भे तुलसि,
कृष्णतुलसि, वेणु, केसरि, केतक, बिल्व, शमी, जातीपत्राण्यष्टौ । तत्परितः स्थितकलशाष्टके
तुलस्याद्येकैकं क्रमेण। तस्य नवकस्य देवता हृषीकेशः। शिष्टाणां पूर्ववत्।
   

 

 
3-11-तत्र वायव्ये कुम्भानां पञ्चविंशतौ नवकस्य मध्यमे कुम्भे मुस्ताद्वय, वचा, कच्चोर,
कुमुदोत्पल, कल्हार, शीतलीयक, कुवलय, कन्दान्यष्टौ । तत्परितः स्थितेषु अष्टसु
मुस्तादिद्रव्यं एकैकं क्रमेण तस्य नवकस्य देवता पद्मनाभः। शिष्टानां पूर्ववत्।
 
3-12-वायुसोमयोः अन्तराले कुम्भानां पञ्चविंशतौ नवकस्य मध्यमकुम्भे मुद्ग, माष, यव,
निष्पाव, तुवरी, व्रीहि, कुलुत्थाऽऽढकानि अष्टौ । तत्परितः स्थितेषु अष्टसु कुम्भेषु मुद्गादिद्रव्यं
एकैकं क्रमेण। तस्य नवकस्य देवता दामोदरः। शिष्टानां पूर्ववत्।
 
3-13-तत्र सौम्ये कुम्भानां पञ्चविंशतौ नवकमध्यमे कुम्भे शंखपुष्पी,बला, विष्णुक्रान्ता,
सदाभद्र, एकपत्राम्बुज, वरसहा, सहदेवीद्वयानि अष्टौ । तत्परितःस्थितेषु अष्टसु कुम्भेषु
शङ्खपुष्पाद्येकैकं क्रमेण । तस्य नवकस्य देवता यज्ञनारायणः। शिष्टानां पूर्ववत्।
 
3-14-तत्र सोमेशानयोः अन्तराले कुम्भानां पञ्चविंशतौ नवकस्य मध्यमे कुम्भे श्वेतार्का,
ऽग्निभद्रा,ब्रह्म सुवर्चला, सरसा, सरक्ता, पृश्निपर्णि,स्थिरैः अण्डान् अष्टौ । तत्परितः स्थितेषु
अष्टसु श्वेतार्काद्येकैकं क्रमेण। तस्य नवकस्य देवता हरिः । शिष्टानां पूर्ववत्।
 
3-15-ऐशानैन्द्रयोः अन्तराले कुम्भानां पञ्चविंशतौ नवकमध्यमे कुम्भेसुरभि, पद्म, केसर, पत्र,
एला, लवङ्ग त्वङ्, नागकेसर, लता जातीफलान्यष्टौ । तत्परितः स्थितेषु अष्टसु सुरभ्याद्येकैकं
क्रमेण । तस्य नवकस्य देवता कृष्णः. शिष्टानाम् पूर्ववत् ।
3-16-ऐशान इन्द्रयोः अन्तराले कुम्भानां पञ्चविंशतौ नवकस्य मध्यमे कुम्भे सुवर्ण, रजत,
ताम्राणि प्रत्येकं पञ्चनिष्फप्रमाणानि पद्माकृतीनि च, कांस्यदर्पणं चषकाणि च अयोलवित्रा
द्याकाराणि त्रपुसीसक पित्तलानि च प्रतिकृतिरूपेण पृथक् पृथक् एतानि अष्टौ, तत्परितः
स्थितेषु ऐन्द्रादीशानान्तेषु कलशेषु अष्टसु सुवर्णाद्येकैकं क्रमेण, तस्य नवकस्य देवता
हयग्रीवः। शिष्टानां षोडशशुद्धोदकुम्भानां देवता नारायणः।
 
एवं द्रव्याणि विन्यस्य तत्तद्देवताश्च आवाह्य अभ्यर्चयेत् । एतस्मिन् एकोत्तरसहस्र कलश स्नपने
अष्टौ चत्वारः वा आचार्याः । मूर्तिपाः षोडश । पुण्याहपूर्वकं विधिवत् एवं देवताः अभ्यर्च्य ।
‘‘सर्वारिष्टशान्त्यर्थं” होमं करिष्ये इति संकल्प्य । पञ्चोपनिषन्मन्त्रेण सर्पिषा आहुतीनां सहस्रं
मूलविद्यया, समिद्भिश्च, तथा नृसूक्तेन चरुणा षोडशाहुतीनां च हुत्वा । मानुषेस्थाने

 

 
पञ्चविंशतिमध्ये मृत्पूरित नवकुम्भान् आरभ्य ब्रह्मपदैकोत्तराशीति घटेषु नवकमध्य
सर्वरत्नोदकान्तं एकोत्तरसहस्रकलशैः क्रमेण वक्ष्यमाणमन्त्रैः प्रतिद्रव्य घटं उपस्नान प्लोतवस्त्र
उत्तरीय अर्घ्यपाद्याचमन गन्धपुष्प धूपदीपार्चनयुतं स्नापयेत्।
मानुषे ऐन्द्रे पञ्चविंशतिमध्यमृत्पूरित कुम्भनवकस्य सशुद्धोदकस्य ‘विष्णोर्नुकं इति मन्त्रः ।
तत्समीपस्थित सशुद्धोदकमूलवारि कुम्भानां ‘तद्विष्णोः इति मन्त्रः । तन्मानुषाग्नेये
पञ्चविंशतिकुम्भानां प्रतद्विष्णुः इति मन्त्रः । तत्समीपस्थित सशुद्धोदकमूलवारि कुम्भानां
‘तावामिति मन्त्रः । मानुषे नैॠति पञ्चविंशतिकुम्भानां ‘ध्रुवःपातु इति मन्त्रः । तत्समीप
स्थितानां‘भद्रंकर्णे इति मन्त्रः । मानुषवारुण पञ्चविंशति कुम्भानां ‘न ते विष्णुः इति मन्त्रः।
तत्समीपस्थितानां ‘इरावति इति मन्त्रः । मानुष वायव्यस्थितानां ‘अतोदेवाः इति मन्त्रः ।
तत्समीपस्थितानां ‘इदं विष्णुः इतिमन्त्रः । मानुषसौम्यस्थितानां त्रीणिपदा इति मन्त्रः।
तत्स्मीपस्थितानां विष्णोः कर्माणि इति मन्त्रः।
  मनुषैशानस्थितानां ‘तद्विष्णोःपरमंपद इति मन्त्रः। तत्समीपस्थितानां‘ तद्विप्रासः
इतिमन्त्रः । दिव्यैन्द्रे एकाशीतिघटास्पदे फलांबुपूरित नवकस्य मध्यमस्य ‘यज्ञायज्ञिय
इतिमन्त्रः । तत्समीपैन्द्राद्यैशानान्तं‘ इन्द्राविष्णू पदे इति, ‘मनीषा इति, ‘वषट्तेविष्णू इति,,
‘तिस्रोवाच इति ‘इषोत्वोर्जेत्वा इति‘ स्तरीरुत्वद्भवती, ति,‘यस्मिन् विश्वानी ति‘पर्जन्याय इति
च मन्त्राः क्रमेण।दिव्ये याम्ये एकोत्तराशीति घटनवकमध्ये गन्धोदकस्य नारायणानुवाकस्य
आदितः आरभ्य अष्टाभिः एकैकया ऋचा। ऐन्द्राद्यैशानान्तं क्रमेण । दिव्ये पश्चिमे
एकाशीतिघटास्पदे मध्ये नवकमध्यमे वापी जलादि कुम्भानां-मन्त्राः ‘या आपः ‘सिन्धुद्वीपः
‘एष ते देवं ‘इमं मे वरुण ‘शन्नोदेवीः.‘यासां राजा ‘समुद्रज्येष्ठ ‘यासांदेवाः वारुणसूक्तेन
ऐन्द्रादि ब्रह्म पर्यन्तम्। दिव्ये सौम्ये एकाशीतिघटास्पदे मध्ये कुम्भनवकस्य ऐन्द्रादि ब्राह्मान्तं
धान्यादि वस्तुकुम्भानां नवानांमन्त्राः- त्रातारं, आत्वावहन्तु, जितं ते, आपो वहति, तावति,
सत्वं नो अग्ने,त्वन्नो अग्ने, महाव्याहृतया, अणोरणीयान्, इतिक्रमेण । दिव्ये अग्निकोणे
एकोनपञ्चाशत्घटास्पदे मध्यनवकस्य ऐन्द्रादिब्रह्मान्तं गोमूत्रादि घटेषु गायत्री, पयोव्रतसाम,
दधिक्राविण्णो, गन्धद्वारां, विष्णोरराटमसि, मूर्धानं दिवः, हिरण्यगर्भः, आप्यायस्व, घृतस्नाता
इतिमन्त्रेण । दिव्ये नैॠते एकोन पञ्चाशत्घटास्पदे मध्ये नवकस्य ऐन्द्रादिब्रह्मपर्यन्तं-रक्षोघ्नं,

 

 
आद्यं साम, पवित्रं ते, भगवान् वासुदेवः, वेद(देव?)व्रतसाम,वैराजसाम,अपराजिताः इति
क्रमेण।दिव्ये वायुकोणे एकोनपञ्चाशत्घटास्पदेमध्ये नवकस्य ऐन्द्रादिब्रह्मान्तं, द्वादशाक्षरः,
द्रुपदादिव, अष्टाक्षरः,शन्नोदेवीः, हिरण्यपा, वेदाहं, इत्यादि चतस्रः ऋचः क्रमात्। दिव्ये
ऐशाने, एकोनपञ्चाशत्घटास्पदे मध्ये नवकस्य ऐन्द्रादि ब्रह्मान्तं- आनोनुयुद्भिः, श्रीसूक्तम्,
मधुमान्नः, मधुनक्तम्, मधुवाता, इति मन्त्रेण । ब्राह्मे पदे इन्द्रादीशानान्त नवकानां मध्यमद्रव्य
कुम्भानां अष्टसु पुरुषसूक्तस्य द्वे द्वे ऋचौ आदितः क्रमात् । शिष्टानां चतुष्षष्टि शुद्धोदकुम्भानां
मूलमन्त्रेण, मध्यस्थनवक मध्यमकुम्भस्य पुरुषसूक्तेन, शिष्ट शुद्धोदकुम्भानां मूलमन्त्रेण।तदन्ते
हरिद्राचूर्ण परिपूरितैः पञ्चविंशतिभिः, सप्तदशभिः, षोडशभिः, द्वादशभिः, वा स रत्न लोह
कूर्चाश्वत्थपल्लव वस्त्रापिधानैः समाराधितश्रीदेवतैः धान्यराशिस्थैः कुम्भैः श्रीसूक्तेन अभिषिच्य
। देवं अर्घ्यादिभिः आराध्य । महाहविः निवेद्य । आज्येन समिद्भिः मूलविद्यया
अष्टोत्तरसहस्रं आहुतीनां हुत्वा । चतुर्विधान्नेन प्रत्येकं षोडशाहुतीश्च पुरुषसूक्तेन जुहुयात् ।
वस्त्राभरण जीवाजीव धनादिभिः देशिकानां यावत्कलशसंख्यया दक्षिणा । तदर्धं ऋत्विजां,
तदर्धंपरिचाराणां अन्येषां च देया ।।
इति श्री वराहगुरुणा विरचितायां क्रियाकैरव चन्द्रिकायां
सहस्रकलशस्नपन विधिः नाम द्वात्रिंशः परिच्छेदः


अथ त्रयस्त्रिंशः परिच्छेदः
उत्सवविधिः
 
अथ तावत् उत्सवविधिः उच्यते।पूर्वं गरुडप्रतिष्ठार्थमंकुरार्पण कर्मकर्तव्यं।
स्वविशेषेणविशिष्ट आचार्यो गरुडप्रतिष्ठा कर्मणः पूर्वं सप्ताहे पञ्चाहे तृतीयेह्नि वा सुमुहूर्ते
विष्वक्सेनं गरुडं वा संपूज्य।तेन सह प्राचीमुदीचीं वा दिशं गत्वा। अस्यदेवदेवस्य नवदिन
महोत्सवकर्मणि अंकुरार्पणकर्मांगभूतं मृत्संग्रहण कर्मकरिष्ये। इति संकल्प्य। पुण्याहं कृत्वा।
यथाविधि पूर्ववन् मृदंसंगृह्य। अंकुरार्पणमण्टपं प्रविश्य। तत्र पूर्ववद्विधिनांकुरार्पणं कृत्वा।
तदनु गरुडप्रतिष्ठां कुर्यात्।

 

 
अथ ध्वजारोहण विधिरुच्यते
 
पूर्वं ध्वजार्थं तन्तूत्थं निर्दोषं सूक्ष्मं क्षौमं कार्पासं वा दशभिर्हस्तैरायतं तदर्धेन विस्तृतं यद्वा
नवभिरष्टभिस्सप्तभिर्वा मूलभेरसमायामं द्वारायामं वा आयामार्धेन विस्तीर्णं तत्पादेन कृतशेखरं
शेखरं समपुच्छयुतं तदर्धकर्ण पुच्छकं तथा निर्णेजितं खलियुक्तं शोषितमेवं भूतलक्षण विशिष्टं
ध्वजपटमादाय। तस्मिन्
आहृत्यमध्ये वस्त्रस्य गरुडं काञ्चनप्रभम्।
नवताल प्रमाणेन द्विभुजं धृतकञ्चुकम्.
धृतपुष्पाञ्जलिपुटं श्वेतांबरधरम् विभुम्।
दंष्ट्राकराळवदनं भृकुटीकुटिलेक्षणम्।
नीलनासाग्रसंयुक्तं कुञ्चितासव्य पादकम्।
पृष्टे निविष्टसव्याङ्घ्रिं पक्षविक्षेपशोभितम्।
गगने गमनारंभं सुवृत्तं घोरदर्शनम्।
करण्डिकामकुटिनं ललाटे रचिताळकम्।
हारकेयूरवलय नूपुराभरणोज्ज्वलम्।
अनन्तो वामकटको यज्ञसूत्रं तु वासुकिः।
उरसि न्यस्तकार्कोटं कटिसूत्रित तक्षकम्।
बिभ्राणं दक्षिणे कर्णे पद्माह्वय सरीसृपम्.
महापद्मं तथान्यत्र शंखं शिरसि शोभितम्।
गुळिकं चांगदे सर्पं वर्णस्तेषां च कथ्यते।
स्फटिकाभश्शोणिताभः पीताभो धूम्रवर्णकः।
रक्तांबुजनिभश्चैव पिङ्गळस्तुहिन प्रभः।
भ्रमराभः क्रमाच्छत्रमुक्तादाम परिष्फृतम्।
उपरिष्टाच्च कर्तव्यं पार्श्वयोश्चामरद्वयम्।
अधस्तादंबुजं पूर्णकुम्भं मृद्भिश्च पालिकाः।

 

 
सांकुरं लिखितव्याःस्युर्दीपौ द्वौ पार्श्वयोर्द्वयोः।
पञ्चवर्णैर्लिखेद्देवं अन्तरं श्यामवर्णकम्।
अन्तराळं न कृष्णेन चित्रयेच्चित्रवित्तमः।
 
इति गरुडमालिख्य । अधिवासदिने तमिस्रायामाचार्यो मूर्तिपैस्सह कारुशालां प्रविश्य ।
पटस्थस्य देवस्य शिल्पिनानयनोन्मीलनं कारयित्वा। शिल्पिनि तस्मिन् ईप्सितै र्धनैस्तोषिते
विसृष्टे सति, तदा पटं ॐ इति गृहीत्वा । सुवर्णपात्रे निधाय । तन्मूर्तिपस्य शिरसि निक्षिप्य।
तूर्यघोषैस्सह धामप्रदक्षिणी कृत्य । गर्भमन्दिरं नीत्वा । भगवन्तमर्घ्यदिभिरभ्यर्च्य।
पुण्याहजलेनाऽस्त्रमन्त्रेण पटं संप्रोक्ष्य । अस्त्रमन्त्राभिमन्त्रित सिद्धार्थैः पुष्पैश्च सन्ताड्य ।
दाहानाप्यायने कृत्वा। देवं प्रणम्य।इमां गाथां उदीरयेत् ।
 
भगवन् पुण्डरीकाक्ष सर्वेश्वर जगन्मय।
त्वया यथा तु कथितं तथाकर्तुं न शक्यते।
अस्वातन्त्यादसामर्त्यात् श्रद्धादीनामभावतः।
तस्मान्मानादिसर्वेषां न्यूनाधिख्योपशान्तये।
सर्वदोषापहारिभ्यां वैनतेयं प्रसीदय।
 
इति भगवन्तं विज्ञाप्य । तूर्यघोषपुरस्सरं प्रादक्षिण्येन यागमण्टपं प्रविश्य। शालिपीठे पटं
स्थाप्य विस्तार्य । छायाधिवास प्रतिष्ठान्तानां कर्मणां सिद्ध्यर्थं रक्षाबन्धनकर्मकरिष्ये. इति
संकल्प्य । पुण्याहं वाचयित्वा प्रोक्ष्य । पटस्थस्य प्रतिसरं यथाविधि बद्ध्वा । तस्य दक्षिणतः
उपविश्य । प्राणायाम पुरस्सरं भूतशुद्धिमष्टाक्षर मन्त्रन्यासं च कृत्वा।
तदनु अस्यश्री गरुडपञ्चाक्षर मन्त्रस्य। काश्यपऋषिः। पङ्क्तीश्चन्दः। श्री गरुडोदेवता । क्षीं बीजं
। स्वाहा शक्तिः । श्रीगरुडो देवता । श्री गरुड प्रसादसिद्ध्यर्थे विनियोगः । ॐ क्षीं अङ्गुष्टाभ्यां
नमः । ॐ पं तर्जनीभ्यां स्वाहा । ॐ ॐ मध्यमाभ्यां वषट् । ॐ स्वां अनामिकाभ्यां हुं । ॐ
हां कनिष्टिकाभ्यां फट् । ॐ क्षिप ॐ स्वाहा नखमुखैर्वौष्ट् ।
ॐ ज्वल ज्वल महामते स्वाहा ॐ क्षां हृदयाय नमः।

 

 
ॐ गरुड चूडानने स्वाहा ॐ क्षीं शिरसे स्वाहा । ॐ गरुड प्रभञ्जय प्रभञ्जय प्रभेदय प्रभेदय
वित्रासय वित्रासय विमर्दय विमर्दयस्वाहा ॐ क्षैं कवचाय हुं । उग्ररूपधर सर्व सर्प भयंकर
सर्वविषं दारय दारय भीषय भीषय दह दह भस्मीकुरु स्वाहा,ॐ क्षौं नेत्राभ्यां वौषट्। ॐ
अप्रतिहत शासनाय ॐ नमः सुदर्शनाय हुंफट्स्वाहा ॐ क्षः अस्त्राय फट्‘
ध्यानम्।
 
आजानुत सुवर्णाभं आनाभेः तुहिनप्रभम्।
कुङ्कुमारुणमाकण्ठात् आकेशान्तात् सितेतरम्।
स्वस्तिकं दक्षिणं पादं वामपादं तु कुञ्चितम्।
दीर्घबाहुं बृहत्स्कन्धं नागाभरणभूषितम्।
नीलाग्रनासिकात्मानं माहपक्षं स्मरेत्बुधः।
दंष्ट्राकराळवदनं किरीटमकुटोज्ज्वलम्।
सर्वाभरण संयुक्तं सर्वावयवसुन्दरम्।
अनन्तो वामकटकः यज्ञसूत्रं तु वासुकिः।
तक्षकः कटिसूत्रं तु हारः कार्कोटकः तथा।
पद्मो दक्षिणकर्णे तु महापद्मस्तु वामतः।
शंखः शिरःप्रदेशे तु गुळिकस्तु भुजान्तरे।
 एवं ध्यायेत् त्रिसन्ध्यायां आत्मानं गरुडाकृतिम्।
विषं नाशयते क्षिप्रं अग्निक्षिप्तमिवांभसि।
ॐ नमः पक्षिराजाय वेदपक्षयुगप्रभो।
वैनतेय नमस्तेस्तु श्री गरुडाय नमो नमः।
 
एवमात्मानं गरुडं ध्यात्वा । हृत्पुण्डरीकाव्यक्तपद्मे गरुडं ध्यात्वा । मानसैः उपचारैः अभ्यर्च्य
। तदनु तस्य पुरतः छायाधिवास सिद्ध्यर्थं धान्यराशौ स्वर्णादिलोहजं मृण्मयीं वा जलद्रोणीं
तादृशं कटाहं वा संस्थाप्य। गन्धतोयेन संपूर्य । पुण्याहं वाचयित्वाप्रोक्ष्य।
शोषणदहनप्लावनानि कृत्वा । तोरणध्वज कुम्भपूजनं च विधाय । पटस्तं कूर्चे समावाह्य ।

 

 
तस्मिन् संहारक्रमेण प्राक्छिरसं शाययित्वा । सुदर्शनमन्त्रेण चक्रमुद्रां प्रदर्श्य । तत्रैव यमस्य
दिशि धान्यराशौ रक्षाकुम्भं सकरकं विन्यस्य । तस्मिन् ब्रह्माणं करके सुदर्शन मन्त्रेण चक्रमुद्रां
प्रदर्श्य । एवं यामं यामार्धं वा अधिवास्य । सद्यो वा। तदनु कूर्चं जालादुद्धृत्य । पटे
समावाह्य। नयनोन्मीलनार्थं सुवर्णरजत पात्रे आढकपूरणयोग्ये तादृशौ शलाकिके च समादाय
। पुरतः धान्यपीठे पूर्वे सौवर्णं पश्चिमे राजतं च पात्रं सशलाकं निधाय । तत्परितः पात्रेषु
नीवार,शालि,मुद्ग,श्यामाक, प्रियङ्गु, यव, तिल, गोधूमानि अष्टधान्यानि पृथक् पृथक् निधाय ।
आद्यं मधुना द्वितीयमाज्येन च पात्रं आपूर्य । ‘नयनोन्मीलनकर्मकरिष्ये” इति संकल्प्य ।
पुण्याहं वाचयित्वा । तानि प्रोक्ष्य, परिस्तीर्य । मधुनि सूर्यं, आज्ये चन्द्रमसं च आवाह्य
अभ्यर्च्य । सवेद वाद्यघोषं मध्वक्तमुखया सुवर्णशलाकया ‘चित्रंदेवानां” इति दक्षिणं घृताक्तया
राजत शलाकया‘तच्चक्षुः” इति वामलोचनं च उन्मील्य । आच्छादनपटं व्यपोह्य ।
मधुसर्पिषी च अष्टधान्यानि दर्शयित्वा । अष्टनागानां अपि एवं कृत्वा।‘ छायास्नपन
कर्मकरिष्ये” इति संकल्प्य। पुरतः धान्यपीठे सलक्षणान् षोडशकुम्भान् संस्थाप्य।
पूर्वोक्तविधिना, तत्तद् द्रव्यैः आपूर्य। परिस्तीर्य । देवतावाहनं पुण्याहवाचनपूर्वकं कृत्वा ।
सकूर्चे दर्पणे पटस्थं गरुडं समावाह्य । अर्घ्यादिपूजनपुरस्सरं पुरुषसूक्तस्य षोडश ऋग्भिः
घृतान्तैः षोडशकुम्भैः संस्नाप्य । गरुडगायत्र्या संपूज्य। पटेपुनः आवाह्य. शालिभारद्वितयेन
तदर्धेन तण्डुलेन तण्डुलार्धेनतिलेन धान्यपीठं कृत्वा । नवैः वासोभिः आच्छाद्य । दर्भान्
आस्तीर्य । नववस्त्र व्याघ्रचर्म तूलिकारत्नकम्बल क्षौम चित्रवस्त्राणि च गन्धद्रव्यैः अधिवास्य।
दर्भैः परिस्तीर्य । पुण्याहजलेन प्रोक्ष्य । तस्यां श्य्यायां शाययित्वा । द्वारतोरणपूजां कृत्वा ।
ततः शाययित्वा । पटस्यदक्षिणे पार्श्वे धान्यराशौ सकरकं महाकुम्भं उपकुम्भाष्टकं च सलक्षणं
संस्थाप्य । गन्धोदकेन आपूर्य । सकूर्च वस्त्र रत्न तत्तद्देवताङ्ग प्रतिमाऽश्वत्थ पल्लवापिधानान्
तान् सर्वान् कृत्वा । परिस्तीर्य । प्रोक्ष्य।महाकुम्भे आधारादि पद्मान्तं इष्ट्वा।तस्मिन्
 
एहि खेश महाबाहो वैनतेय वयोधिप।
सान्निध्यं कुरु पक्षीन्द्र प्रसीदात्र नमोस्तु ते।
 

 

 
क्षिप ॐ स्वाहा आगच्छागच्छेति गरुडं आवाह्य । तद्गायत्र्या अभ्यर्च्य। करके सहस्रारहुंफट्
आगच्छागच्छेति आवाह्य । अभ्यर्च्य । पूर्वादिषु कलशेषु इन्द्रादीन् च। पटस्थगरुडं
शोषणादिभिः संशोध्य । तत्वानि क्रमात् संहृत्य । पुनः उत्पाद्य। कुण्डेषु चतुर्षु स्थण्डिलेषु वा
यद्वा एकस्मिन् कुण्डे महानसे नित्याग्निकुण्डे वा अधिवासहोमं कुर्यात्। कुण्ड चतुष्टयेषु प्राच्यां
कुण्डे सत्यं आवाह्य । ‘बृहत्साम मन्त्रेण” दक्षिणस्यांदिशि कुण्डे सुपर्णं आवाह्य।गारुड
मन्त्रेण च । प्रतीच्यांकुण्डे गरुडं आवाह्य। ‘रथन्तरसाम्ना”। उदीच्यां कुण्डे तार्क्ष्यमावाह्य
।‘गरुडमन्त्रेण च ।
 
यद्वा सर्वेषु कुण्डेषु तत्तद्देवतामन्त्रैः वा समिद्भिः आज्यैश्च चरुणा पुरुषसूक्तेन च एकस्मिन् कुण्डे
तु ‘ॐ नमो भगवते वैनतेयाय नमः” इति आवाह्य । गरुडमन्त्रेण च हुत्वा ।पूर्वादिषु चतुर्षु
कुण्डेषु ॐ भूः स्वाहा,ॐ भुवः स्वाहा,ॐ सुवः स्वाहा,ॐ भूर्भुवस्सुवस् स्वाहा इति मन्त्रैः
क्रमेण मधु पयो दध्याज्यैः प्रत्येकं शतसंख्यया आहुतीः हुत्वा। अन्यस्मिन् पात्रे संपातं पृथक्
पृथक् संगृह्य। पटस्थस्य पाद जठर मूर्धसु हुतमन्त्रैरेव स्वाहारहितैः क्रमेण कूर्चेन सर्वांगं च
संस्पृश्य। औत्तरेकुण्डे विष्णुगायत्र्या गुडाज्यमधुभिः हुत्वा। संपातेन मुखं च संस्पृश्य। होमं
निर्वर्त्य। पालाशखादिराश्वत्थ बिल्वशाखाभिः चतसृभिः क्रमात् अब्लिङ्गैः मन्त्रैः महादिक्
कलशांबुभिःकोणस्थ कलाशांबुभिर्वा एतस्याः शाखया विष्णुगायत्र्या च पटस्थं प्रोक्ष्य।
मन्दिराभिमुखं पटं विस्तार्य। तस्मिन् योगपीठं संकल्प्य। गन्धादिभिः अभ्यर्च्य। स्वाञ्जलौ
योगपीठं विचिन्त्य। तस्मिन् हृत्पुण्डरीकस्थगरुडं रेचकेन अवतार्य। ध्यात्वा। तस्य गायत्र्या
पटस्थस्य ब्रह्मरन्द्रेण प्रविष्टं विचिन्त्य। ब्रह्मरन्द्रं प्रणवेन पिधाय। मुद्रया सन्निरुध्य। ध्यात्वा।
सन्निधिं प्रार्थयेत्।
 
महाबलमहाबाहो वैनतेय वयोधिप।
सन्निधत्स्व पटे तुभ्यं नमः प्रणवमूर्तये।
कर्मणां सिद्धिमाहूतः कुरुष्व विहगेश्वर।
आहूतव्याः त्रयोलोकाः देवस्योत्सवसंपदि।
 

 

 
इति गरुडं प्रार्थ्य । अर्घ्यादिभिः उपचारैः तद्गायत्र्या उपचर्य। चतुर्विधं अन्नं निवेद्य।
महाकुम्भाय च तथा कृत्वा। तदनु
 
ॐ वाहनाय महाविष्णोः तार्क्ष्ययामित तेजसे।
गरुडाय नमस्तुभ्यं सर्वसर्पेन्द्रमृत्यवे।
नमो नमस्ते पक्षीन्द्र स्वाध्यायवपुषे नमः।
विहगेन्द्र नमस्तेस्तु समुत्पाटितकल्पक।
आहृतामृतकुम्भाय जननेदास्यमोचिने।
सुरासुरेन्द्रजयिने नागेन्द्राभरणाय ते।
यदाधारमिदं सर्वं तदाधाराय ते नमः।
पक्षौ यस्य बृहत्सामरथन्तरमपि द्वयम्।
अक्षिणी चापि गायत्री त्रिवृत्सामशिरः स्मृतम्।
स्तोम आत्मा नमस्तस्मै वामदेव्यांगसंपदे।
नमः प्राणादि वायूनां ईशानाय गरुत्मते।
 दोषान् अपनय अखण्डान् गुणान् आवहसर्वतः।
विघ्नानि जहि सर्वाणि आत्मसात् कुरु मामपि।
 
एवं स्तुत्वा। गारुडमन्त्रं यथाशक्ति जपित्वा। वेदघोषैः तूर्यघोषैः निशां जागरेण नीत्वा। ततः
प्रभाते गुरुः नित्यकर्म समाप्य। गर्भगेहं प्रविश्य। मूलबेरं अर्घ्यादिभिः अभ्यर्च्य। तस्मात्
उत्सवबिंबे समावाह्य। उद्वासनरहितैः षोडशोपचारैः आराध्य। तं पटस्थं गरुडं च
माल्यादिभिः अलङ्कृत्य।हस्तिपृष्ठे रथे, शिबिकादौ वा यात्राबिम्बं च पृथक् याने च
समारोप्य।भेरी मृदङ्ग पटह शंख काहल नृत्त गेयसहितं शिरोभिः साङ्कुर पालिकाशतधारकैः
ब्राह्मणैः च ग्रामधाम्नोः प्रादक्षिण्येन ध्वजस्तम्भसमीपं नीत्वा।
ध्वजस्तंभस्तु अन्तस्सारः बहिस्सारः निस्सारश्चेति दारुः त्रिविधः।चम्पक, देवदारु, चन्दन,
खदिर, साल, बिल्व, ककुभ, आमलकादयःअन्तस्साराः। क्रमुक नालिकेर ताल, हिन्ताल,
वेण्वादयः बहिस्साराः। निस्सारं वर्जयित्वा। अन्तस्सारं बहिस्सारं वा मानेन शततलायतं

 

 
शुभं। अशीतितालमानं वा प्रासाद उच्छ्रायमानं,यद्वा गोपुरमानं वा स्तम्भं समानीय। चतुर्धा
विभज्य। अग्रैकांशेनमस्करं तदाधार भूतानि द्वितालायतानि तदर्धेन विस्तीर्णानि,
तदर्धेनघनानि, पीठत्रितयात् मूले स्थूलानि, अग्रे सूक्ष्माणि मूलतच्छिद्रितानि कृत्वा। स्तम्भाग्रे
तानि विनिवेश्य। अग्रपीठद्वये छिद्रिते तत्र ध्वजयष्टिमस्करं एवं स्तम्भे विनिवेश्य।
ध्वजयष्ट्यां एकं वेणुकं वा नव सप्त पञ्चवेणुकान् वा निवेश्य। इत्थं भूतं ध्वजस्तम्भं पीठस्य
उत्तरेपार्श्वे विनिवेश्य। आचार्यः वेदविद्विप्रैः सह ‘अब्लिङ्गर्मन्त्रैः प्रक्षाल्य।कुशैः दर्भै ऊर्ध्वमुखैः
प्रच्छाद्य। दर्भमालाभिः संवेष्ट्य। शोधिते स्तंभावटे लोहबीजादीनि विन्यस्य। तत्र आवटे
ध्वजस्तंभं ‘विष्णुसूक्तेन” धृढं यथा भवेत्। तथा प्रासादाभिमुखं स्थापयित्वा। स्तंभमूलस्थले
सप्तभिः पञ्चभिः त्रिभिः वा हस्तैः आयतां तावद्विस्तीर्णां एकहस्तसमुच्छ्रितां चतुरश्रां वेदिकां
कारयित्वा। तां त्रेधा विभज्य। एकांशे मध्ये चतुष्टय अङ्गुलोत्सेध मेखलात्रययुतं पीठं,तस्यापि
तृतीयेभागे कर्णिकामध्ये यथारम्भविनिवेशनं भवेत् तथा पद्मं कृत्वा। पीठस्य परितः
षोडशस्तम्भयुतां तिरस्करिणीं चित्रदर्भमाला दीपपुष्पमालावितानाद्यलङ्कृतां चतुर्द्वारयुतां प्रपां
कारयित्वा। पुण्याहं वाचयित्वा।प्रोक्ष्य। स्तम्भदक्षिणे धान्यपीठं कृत्वा। तस्मिन् सलक्षणं
कुम्भनवकं विन्यस्य।मध्ये गरुडं परितः अष्टदिक्षु इन्द्रादीन् आवाह्य अभ्यर्च्य। तत्तन्मन्त्रेण
स्तम्भं यथाक्रमं प्रोक्ष्य। तद्वेण्वग्र विवरे तन्तुभिः त्रिगुणीकृतेन अङ्गुष्टानाहेन पाशेन ध्वजपटं
पुरुषमन्त्रेण संयोज्य। वक्ष्यमाणेन विधिना ध्वजं आरोपयेत्। यद्वा बद्धध्वजाग्रं स्तम्भं वा
स्थापयेत्।
तदनु गुरुः शोभने मुहूर्ते पटस्थं गरुडं प्रासादाभिमुखं संस्थाप्य। सर्वतः दिक्षु वेदतूर्यघोषेषु
प्रवर्तितेषु स्वयं गरुडमालामन्त्रादि जपन् गरुडं अर्घ्यादिभिः अभ्यर्च्य। महाकुम्भजलेन
तद्गायत्र्या कूर्चेन संप्रोक्ष्य। गारुडमन्त्रेण कुम्भान् पटस्थं अनुचिन्त्य। प्राणप्रतिष्ठां यथाविधि
कृत्वा। तन्मूलमन्त्रं विन्यस्य। तद्गायत्र्या तन्मुद्रां प्रदर्श्य। अर्घ्यादिभिः अभ्यर्च्य। अष्टासु दिक्षु
इन्द्रादीन् च आवाह्य। गन्धपुष्पादिभिः अभ्यर्च्य। पृथुक, नालिकेर, अपूप, मुद्गान्नादीनि
पटस्थस्य निवेद्य। वेदघोषैः सह‘सुपर्णोसि इति मन्त्रेण ध्वजं आरोप्य। यावदवभृतं ध्वजोदरे
गरुडस्य स्थितिं वक्ष्यमाण गाथया प्रार्थयेत्।
पक्षीन्द्रपक्षविक्षेप तरङ्गानिलसंपदा।

 

 
निरस्तासुरसन्नाह समरे शत्रुसूदने।
 सन्निधत्स्वपटे यावत् उत्सवावभृतक्षणम्।
इति प्रार्थ्य। उत्सवप्रतिमां ध्वजस्तम्भसमीपं आनीय। खगं दर्शयित्वा।समस्तदेवताह्वानार्थं
गरुडं नियुज्य। उत्सवबिम्बसन्निधौ एव पुष्पाञ्जलिं समादाय।
अस्मद्दिनात्समारभ्य यावत्तीर्थ दिनान्तिमम्।
सन्निधिं कुरु पक्षीन्द्र राज्ञोजनपदस्य च।
ग्रामस्य यजमानस्य वैष्णवानां विशेषतः।
तुष्टये पुष्टये चैव सर्वशत्रु क्षयाय च।
अपमृत्यु जयार्थाय वैनतेय प्रसीद ॐ।
 
इति गाथां उदीरयन्। गरुडोपरि पुष्पाञ्जलिं वितीर्य। तदनु भगवन्तं विज्ञापयेत्।
ज्ञानतोऽज्ञानतोवापि यथोक्तं न कृतं मया।
तत्सर्वं पूर्णमेवास्तु सुतृप्तोभव सर्वदा।
ओमच्युत जगन्नाथ मन्त्रमूर्ते जनार्दन।
रक्ष मां पुण्डरीकाक्ष क्षमस्वाज प्रसीद ॐ।
इति विज्ञाप्य। भगवन्तं मण्डपान्तरं नीत्वा। यथाविधि संपूजयेत्। ध्वजसमीपे नक्तदिवं
अनिर्वाणं दीपं आरोप्य। ध्वजारोहणाऽवरोहणान्तं प्रतिदिनं गरुडं सम्पूजयेत्।
अथ भेरीताडनम्।
अथ भेरीताडन विधिः उच्यते।आचार्यः तद्रात्रौ देवं प्राणायामान्तर्याग पुरस्सरं
पूजयित्वा।निवेद्य।होमं च कृत्वा। ध्वजपीठस्य पुरतः क्षितिं गोमयवारिणा चतुरश्रां आलिप्य।
सुधाचूर्णैः अलङ्कृत्य। द्रोणपञ्चक शालिना धान्येन पीठं चतुरश्रं विधाय। तत्र कालचक्रं
लिखित्वा। तन्मध्ये मूलबेरात् आवाहितशक्तिं बलिबिम्बं ध्वजसंमुखं निवेश्य पूजयित्वा। तस्य
पुरतः आलिप्ते भूतले धान्यपीठके नववाससा वेष्टितं महाभेरीं संस्थाप्य। तस्याः दक्षिणे कोणं
च निधाय। भेर्याः पूर्वभागे शङ्खनिकरं,वह्नौ काहळसञ्चयं,याम्ये मद्धळ,नैऋते मुखतन्त्री
वंशानि, वारुणे उडुक मृदङ्ग ह्रस्वसंमर्दनि, वायव्ये करटीं कांस्यतालं च, सौम्ये पटह

 

 
ह्रस्वपटहौ, ऐशान्यां डुड्डुकान्, वल्ली,हस्तघण्टान् च,एतेषां अलाभे संभवानुगुणं संस्थाप्य।
तेषां बाह्ये दक्षिणे गणिकाजनं, गायकान् च अग्रतः नर्तकान् उत्तरे वन्दीवृन्दकान् स्वेस्वे स्थाने
च अन्यान् वाद्यवादकान् संस्थाप्य। भेर्याः पश्चिमे देशे सलक्षणं कुम्भं धान्यराशौ संस्थाप्य।
पुण्याहं वाचयित्वा।भेर्यादिवाद्यानि स्नातं शुचिं अलङ्कृतं दर्भपाणिं सोपवीतोत्तरीयं पारशवं च
प्रोक्ष्य। भेरीमध्ये ॐ त्रिगुणात्मिकायै प्रकृत्यै नमः। दक्षिणे ॐ विष्णवे नमः।ॐ श्रीं श्रियै
नमः,मध्ये ॐ ब्रह्मणे नमः,दक्षिणे ॐ विष्णवे नमः,वामे ॐ रुद्राय नमः,
दक्षिणमुखे ॐ सूर्याय नमः। वाममुखे ॐ चन्द्रमसे नमः। चर्मसूत्रे ॐ वासुकये
नमः।दक्षिणपार्श्वे नवरन्ध्रेषु ॐ वागीश्वर्यै नमः, ॐ क्रियायै नमः,ॐ कीर्त्यै नमः,ॐ लक्ष्म्यै
नमः,ॐ सृष्ट्यै नमः,ॐ विद्यायै नमः,ॐ कान्त्यै नमः,ॐ दुर्गायै नमः,ॐ गणपतये नमः,
इति वामपार्श्व रन्द्रेषु,ॐ अत्रये नमः, ॐ भृगवे नमः,ॐ वसिष्टाय नमः,ॐ भार्गवाय नमः,
ॐ नारदाय नमः,ॐ गौतमाय नमः,ॐ भरद्वाजाय नमः,ॐ विश्वामित्राय नमः, ॐ मरीचये
नमः, इति अष्टसु दिक्षु ॐ रंभायैनमः,ॐ मेनकायै नमः,ॐ ऊर्वश्यै नमः,ॐ तिलोत्तमायै
नमः, ॐ सुमुख्यै नमः,ॐ सुन्दर्यै नमः,ॐ रमण्यै नमः,ॐ यामवर्धिन्यै नमः,इति।कोणाधि
दैवताय ॐ वायवे नमः, शंखाधि दैवताय ॐ विष्णवे नमः, काहलाधि दैवतायै ॐ वागीश्वर्यै
नमः,मद्धलाधि दैवतेभ्यः त्रिमूर्तिभ्यः नमः,ॐ मुखाधि दैवताय ब्रह्मणे नमः,ॐ मृदङ्गाधि
दैवताय रुद्राय नमः,ॐ झल्लर्याधि दैवताय विष्णवे नमः,ॐ पटहाधि दैवतायै श्रियै नमः, ॐ
डमरुकाधि दैवताय ईशानाय नमः। ॐ उडुक्काधि दैवताय षण्मुखाय नमः।ॐ करट्याधि
दैवताय धर्मराजाय नमः।ॐ तिमिलाधि दैवताय वायवे नमः।ॐ डक्कर्याधि दैवताय
चन्द्रशेखराय नमः।ॐ तालाधि दैवताय ब्रह्मणे नमः।ॐ वामहस्त खण्डाधि दैवताय श्रियै
नमः।ॐ दक्षिणहस्त खण्डाधि दैवताय पार्वत्यैनमः।इति गन्धादिभिः अभ्यर्च्य। कुम्भे
‘यज्ञाश्च इति आवाह्य। अभ्यर्च्य। पूर्वादिदिक्षु इन्द्रादीन् आवाह्य अभ्यर्च्य, निवेद्य। शोभने
मुहूर्ते ॐ नं नमः पराय शब्द तन्मात्रात्मने नमः, इति मन्त्रेण यज्ञाश्च इति उक्त्वा। कोणेन
भेर्याः ताडनं कुर्यात्। तदनु तां भेरीं पारशवः गृहीत्वा। वहन् गुरुणा इन्द्रादौ मरुद्गणे हयमाने
घोषयेत्।
 

 

 
दिव्यायुधानां आह्वानां तथा वैकुण्ठ वासिनाम्।
विष्णुपारिषदाः सर्वे विष्वक्सेनाभि रक्षिताः।
आहूतव्याः मखे तस्मिन् कुमुदाद्याः सनायकाः।
ऋषिभिश्च मरीच्याद्यैः ब्रह्मलोकनिवासिभिः।
समाह्वानां विरिञ्चस्य रुद्रलोकनिवासिभिः।
सार्धं प्रथमसंघैश्च रुद्रश्च वृषवाहनः।
आहूतव्याः तथा चान्ये तत्तल्लोकनिवासिनः।
वाहनैः परिवारैः च साकं तस्मिन् महोत्सवे।
विद्याश्च मूर्तिधारिण्यः त्रयीचाङ्गैश्च पुष्टिदा।
आहूतव्याः समाह्वानं सर्वेषां च स्वनामभिः।
 
इति सर्वेदेवानां आह्वानं कृत्वा। ततः दिग्देवता बल्यर्थं परितः आवरणेषु नित्योत्सवार्चां परितः
वीथिकासु सुदर्शनं अन्नर्मूींत वा प्रतिदिशं भेरीताडनपूर्वकं ग्रामं गमयित्वा। प्रदक्षिणी कृत्य।
ग्राममध्यं समासाद्य। तत्र ब्रह्माणं आवाह्य। अर्चयित्वा। प्रतिदिशं इन्द्रादीन् च बल्यर्थं
आवाह्य। अभ्यर्च्य। सन्निधिं प्रार्थ्य । तेषां स्वस्वतालादि सहितं एवं कृत्वा। अन्यत्र
अन्तरालेषु गारुडं तालं घोषयित्वा। मन्दिरं प्रविश्य। यथापुरं निवेशयेत्। यद्वा उत्सवबिम्बेन
वा केवलं सुदर्शनं अन्नमूर्तिना वा, यद्वा केवलं भेरीं वा आदाय। रथ्यासु तत्र तत्र यथाविधि
देवताह्वानं कुर्यात्।
देवताह्वान वेलायां भेरीं श्रुण्वन्ति ये जनाः।
तैः नदीतरणं नैव यानं वा योजनात्परम्।
अनाधृत्योत्सवं मोहात् दूरं यायात् जनो यदि।
स याति निरयं स्थानं प्रेत्यदुःखमिहापि च।
तस्मादवभृथं यावत् वसेत्तत्रैव नो व्रजेत्।
 ध्वजार्थं अङ्कुराः येन न्यस्ताः स यदि कारणात्।
कुतश्चिदसमर्थो वा मृते वा देशिकोत्तमः।

 

 
शेषं समापयेत् अन्यः पुत्रो वा तदनुज्ञया।
शिष्यो वा यदि वा भ्राता ऋत्विग्वा गुणवत्तरः
 
इति श्री वराहगुरुणा विरचितायां क्रियाकैरव चन्द्रिकायां
ध्वजारोहण विधिः नाम त्रयत्रिंशः परिच्छेदः


चतुत्रिंशः परिच्छेदः
अथ उत्सव विधिः उच्यते
उत्सवारंभ दिवसात् अर्वाक् सप्तमे पञ्चमे अहनि वा गुरुः
व्रतेषु स्नपने सर्वप्रायश्चित्तेषु कर्मसु।
 वेदव्रतेषु चतुर्षु प्रारंभे यागकर्मणाम्।
वसुधासंग्रहे काले शिलासंग्रहकर्मणि।
 शङ्कुस्थापन काले च ध्वजारोहण कर्मणि।
विविधासु प्रतिष्ठासु बाह्याभ्यन्तर कर्मसु।
आचार्यत्वे कृते कर्ता वपनं स्नानमाचरेत्।
वपनेन विनाकर्म यदि तन्निष्फलं भवेत्।
इति वचनात् पूर्वं तथा कृत्वा।तदनुशुभे मुहूर्ते पालिकादिपात्रवर्गत्रयाष्टोत्तरशते त्रिवर्गपात्र
षट्त्रिंशतौ वा विधिवत् उत्सवाङ्कुरार्पणं अधिवासानन्तरं कारयेत्।
 
गेहमण्डपप्रासाद गोपुरवीथिकाः तोरण ध्वज वितान कदलीक्रमुक पूर्णकुम्भ साङ्कुरपालिका
शतदीपागरुधूपादिभिः अलङ्कारैः अलङ्कृत्य। प्रथमावरणे द्वितीयावरणे दिशां अन्तरालेषु
सर्वासु दिक्षु अवकाशानुगुणं सप्तहस्तायतं पञ्चहस्तायतं वा विस्तारायामसदृशं चतुर्द्वार
समन्वितं यागमण्डपं कल्पयित्वा। तस्यपरितः प्रपां कल्पयित्वा। त्र्यंशे तस्य मध्ये हस्त
समुच्छ्रितां द्विहस्तेन त्रिहस्तेन वा विस्तीर्णां वेदिं कारयित्वा। तस्याः प्राच्यां आहवनीयस्य
अग्नेः चतुरश्रं कुण्डं, दक्षिणस्यां दक्षिणाग्नेः चाप समाकृतिं, प्रतीच्यां गार्हपत्यस्य वृत्तं, कौबेर्यां
दिशि सभ्यस्य त्रिकोणं, आवसक्थ्यस्य चतुरश्रं, कुण्डं- यद्वाऽऽवसक्थ्यरहितं यद्वा

 

 
एकमाहवनीयं वा कुण्डं कल्पयित्वा। पूर्ववत् तोरण स्रुक्स्रुव अष्टमङ्गल विविध
होमपात्रासनादीनि अन्यानि यागोपकरणानि कारयित्वा। यागमण्डपं वितानदर्भमाला तोरण
पुष्पमाला दूपदीपाक्षत रंभास्तम्भादि परिष्फारैः भूषयित्वा। पूर्वं चतुर्णां आचार्याणां वरणं, ततः
षोडशानां ऋत्विजां,तदनुपरिचारकाणां च कृत्वा।यजमानः तान् कटक कर्णिकाङ्गुलीयक क्षौम
वस्त्रोत्तरीय उष्णीष गन्धानुलेपनादिभिः अलङ्कारैः भूषयेत्।उत्सवारम्भे तदन्ते च तयोदितं
स्नपनं कुर्यात्।उत्सवदिनात्पूर्वेद्युः गुरुः उत्सवाधिवासार्थं मूर्तिपैः सह गर्भमन्दिरं प्रविश्य।
मूलबेरं अर्घ्यादिभिः अभ्यर्च्य। मूलात् उत्सवबिम्बे समावाह्य। अभ्यर्च्य। अधिवासार्थं
‘रक्षाबन्धनकर्मकरिष्ये”इति संकल्प्य। पुण्याहपूर्वकं देवस्य देव्याश्च यथाविधि रक्षाबन्धनं
कृत्वा।
अर्घ्यादिभिःअभ्यर्च्य। महापूपादि निवेद्य। अन्यत्रस्थाने त्रिभिः भागवतैः विनिवेश्य।यथाविधि
स्नपनकर्म कृत्वा। क्षौमवसनादिभिः अलङ्कृत्य। परमान्नं निवेद्य। प्रतिष्ठायामिव यथाविधिशय्यां
कल्पयित्वा। तस्यां देवीभ्यां सह देवं शाययित्वा। कोणेषु दीपान् साङ्कुरपालिकाश्च
स्थापयित्वा। अग्निं संस्कृत्य। समिदाज्य चरुभिः मूलेन पुरुषसूक्तेनच यथाविधि अधिवासहोमं
कृत्वा। तूर्यघोषैः वेदघोषैः सह देवं स्तोत्रैः स्तुत्वा। गुरुः समाहितचित्तः सन् जागरेण निशां
नीत्वा। ततः प्रभाते सुमुहूर्ते गुरुः ‘उत्तिष्ठ” इति मन्त्रेण देवं उत्थाप्य। संपूज्य। इमां गाथां
विज्ञापयेत्।
 
प्रसीददेवदेवेश उत्सवः क्रियते मया।
अस्मात्कालालवाद्यावत् पुष्पयागदिनातिमम्।
त्वत्प्रीतये जगन्नाथ यद्यत्कर्म करोम्यहम्।
तत्सर्वमात्मसात्कृत्वा कृपया मे प्रसीद ॐ।
 
इति विज्ञाप्य। दिक्षुब्राह्मणेषु शाकुनसूक्तं पठत्सु देवं‘‘ इदं विष्णुः” इति मन्त्रेण शिबिकादिकं
यानं आरोप्य। यानं वहत्सु भूसुरेषुगरुडं आवाह्य। सर्वालङ्कार सर्वोपचार सहितं देवं
सर्वावरणभूमिकाः प्रदक्षिणं नीत्वा। यानात् अवरोप्य। मण्डपे सौवर्णं भद्रासने विनिवेश्य।
सर्वमुत्सवार्थं आहृतं प्राभृतद्रव्यं जनसंसदि ‘‘इतोयातं इदं सर्वं इतोयातं “इति

 

 
दर्शयित्वा।मन्त्रासनपुरस्सरं पूर्वोदितक्रमात् स्नपनकर्मकृत्वा। आचार्यः यजमानश्च विभवोदयं
समीक्ष्य। महाहविः निवेद्य।यथाविधि हुत्वा. देवं मन्दिरान्तर्भुवं नीत्वा। ततः अपराह्नेप्राप्ते
गरुडेन विष्वक्सेनेन वा साकं बहिः निर्गत्य। यथाविधि पूर्ववत् मृत्संग्रहणं कृत्वा। यागमण्डपं
प्रविश्य। त्रिवर्गेषुपालिकादिपात्रेषु उत्सवाङ्कुरार्पणं कृत्वा। सुदर्शन, स्नपन, नित्योत्सव,
बलिबिम्बानां कल्याणकौतुकस्य इव कौतुकबन्धनाधिवास स्नपन कर्मणि पृथक् कृत्वा।
यागमण्डपं प्रवेश्य. तत्रासने विनिवेश्य। ततः गुरुःयजमानेन सदनं प्रविश्य। देवं दण्डवत्
प्रणम्य।
भगवन् पुण्डरीकाक्ष करिष्ये कौतुकक्रियाम्।
महोत्सवार्थं देवेश तदर्थं त्वं प्रसीद मे।
 
इति विज्ञाप्य। मूलोत्सव स्नान बलिबिम्ब चक्राणां यथाविधि उत्सवप्रतिसरं बध्वा। तदनु
वेदिकायां शालीनां पञ्चभारेण तदर्धेन तिलेन च धान्यपीठं कृत्वा। अन्तरान्तरयोगेन वस्त्रैः
आच्छाद्य।तत्र प्रक्षालितान् ससूत्रान् सगन्धोदकान् न्यस्त नवरत्नान् सौगन्धिक रजोयुतान्
सकरकान् प्रत्येकं न्यस्तनिष्फमात्रसुवर्णान् साश्वत्थपल्लव कूर्चापिधानान् नवकुम्भान्, मध्यमं
वस्त्रयुग्मेन शिष्टान् एकेन वाससा सप्तभिः षड्भिः पञ्चभिः वा हस्तैःआयतेन तदर्धेन विस्तृतेन
आच्छाद्य। वेदिकाभूमौ धान्यराशिषु संस्थाप्य। वैष्णवैः सह पुण्याहं वाचयित्वा। प्रोक्ष्य।
द्वारतोरण ध्वजकुम्भान् अभ्यर्च्य. करके सुदर्शनम् च पूर्वाद्याशागतेषु कुम्भेषु वासुदेवादीन्
आग्नेयादिकोणगतेषु पूर्ववत् पुरुषादीन् च आवाह्य। अभ्यर्च्य। सुदर्शन बलिबिम्बयोश्च
अष्टमङ्गलानि पृथक् वासोभिः आवेष्ट्य। वेदेः अधस्तात् धान्यराशिषु विन्यस्य अभ्यर्च्य।
वेदिकायां यथाविधि पूर्वोक्तवर्त्मना चक्राब्जं वर्तयित्वा। तस्मिन् सांगं सपरिवारं वासुदेवं
यथाविधि पूर्ववत् अभ्यर्च्य। संपूज्य। चतसृषुदिक्षु वेदघोषे च प्रवृत्ते गुरुः आहवनीयाग्नौ
वासुदेवं दक्षिणाग्नौ संकर्षणं, गार्हपत्ये प्रद्युम्नं,सद्भ्याग्नौ अनिरुद्धं, आवसक्थ्ये मूलर्मूींत च
तत्तत्कुण्डाग्नि मध्यगत भद्रासनपद्मेषु आवाह्य।अभ्यर्च्य। तीर्थावसानिकं सन्निधिं प्रार्थ्य।
कुण्डेषु घृत प्रसून धूपद्रव्य समित्पयोदधि तिलव्रीहि यवैः तत्तद्देवतामन्त्रेण पृथक् अष्टोत्तरशतं
आहुतीनां अष्टाविंशतिं वा हुत्वा। आहवनीयाद्यनुक्रमेण पायस,कृसर,गुड , हरिद्रान्न,मुद्गान्नैः

 

 
पुरुषसूक्तस्य षोडश ऋग्भिः प्रत्येकं हुत्वा। पञ्चमाग्नौ ब्रह्मादिदेवान् उद्दिश्य पायसेन तत्तन्नाम
चतुर्थ्यन्तं स्वाहान्तं उच्चार्य परिवारपदान्वितं वक्ष्यमाणेन विधिना हुनेत् ।
ॐ ब्रह्मणे सपरिवाराय स्वाहा। ॐ प्रजापतये सपरिवाराय स्वाहा।
ॐ रुद्राय सपरिवाराय स्वाहा। ॐ सर्वेभ्यः देवेभ्यः सपरिवारेभ्यः स्वाहा।
 ॐ छन्दोभ्यः सपरिवारेभ्यः स्वाहा।
ॐ वेदेभ्यः सपरिवारेभ्यः स्वाहा।ॐ ऋषिभ्यः सपरिवारेभ्यः स्वाहा।ॐ गन्धर्वेभ्यः
सपरिवारेभ्यः स्वाहा।ॐ सरीसृपेभ्यः सपरिवारेभ्यः स्वाहा। ॐ यक्षेभ्यः सपरिवारेभ्यः
स्वाहा।ॐ अप्सरेभ्यः सपरिवारेभ्यः स्वाहा। ॐ मासादिभ्यः सपरिवारेभ्यः स्वाहा। ॐ
ऋतुभ्यः सपरिवारेभ्यः स्वाहा। ॐ अयनेभ्यः सपरिवारेभ्यः स्वाहा। ॐ वत्सरेभ्यः
सपरिवारेभ्यः स्वाहा। ॐ सर्वेभ्यो देवीभ्यः सपरिवारेभ्यः स्वाहा। ॐ द्वीपेभ्यः सपरिवारेभ्यः
स्वाहा। ॐ समुद्रेभ्यः सपरिवारेभ्यः स्वाहा। ॐ पर्वतेभ्यः सपरिवारेभ्यः स्वाहा। ॐ
आपगाभ्यः सपरिवारेभ्यः स्वाहा। ॐ भूतेभ्यः सपरिवारेभ्यः स्वाहा। ॐ पशुभ्यः
सपरिवारेभ्यः स्वाहा। ॐ वृक्षेभ्यः सपरिवारेभ्यः स्वाहा। ॐ ओषदीभ्यः सपरिवारेभ्यः
स्वाहा। ॐ वनस्पतीभ्यः सपरिवारेभ्यः स्वाहा। ॐ उद्भीजेभ्यः सपरिवारेभ्यः स्वाहा।ॐ
स्वेदजेभ्यः सपरिवारेभ्यः स्वाहा। ॐ अण्डजेभ्यः सपरिवारेभ्यः स्वाहा। ॐ जरायुजेभ्यः
सपरिवारेभ्यः स्वाहा। ॐ भूरादि सप्तलोकेभ्यः सपरिवारेभ्यः स्वाहा। ॐ अतलादि
सप्तपातालेभ्यः सपरिवारेभ्यःस्वाहा।ॐ चण्डादि द्वारपालेभ्यः सपरिवारेभ्यः स्वाहा। इति हुत्वा।
प्रायश्चित्तार्थं पञ्चोपनिषन्मन्त्रैः व्याहृतिभिश्च,पूर्णाहुतिं ‘इदं विष्णुरिति हुनेत्।एवं तद्दिनविहित
बलिद्रव्यैः उपरिष्ठात् तत्र तत्र तत्तद्देवतोद्वासनरहितं प्रत्यहं यावत्तीर्थदिनावधि सायं प्रातः
हुनेत्। एकाग्नौ वा होमद्रव्यं त्रये चतुष्टये वा अग्नौ हुनेत्। तावता च अग्निं सम्यक् रक्षेत्।
बलिदानं तु प्रथमं यागमण्टपे कर्तव्यम्। तत्प्रकारस्तु चक्र बलिबिम्बाऽन्नमूर्ति सहितं
यागमण्डपात् निष्क्रम्य। तद्द्वारेषु पुरतः कुमुदादीनां शुचौ भूमौ आवाह्य अभ्यर्च्य। बलिं दत्वा।
बलिद्रव्यपात्र घण्टा पुष्पबाजन तोय करक धूप दीपपात्र दीपिकाधारकेषु अग्रे गच्छत्सु तदनु
अन्नमूर्तिः, ततः चक्रं, तदनु नित्योत्सवार्चां च इत्येवं कृत्वा। वितानछत्रादि समन्वितं द्वारेषु
चण्डादीनां आवरणेषु तत्तद्देवतानां तोयपूर्वोत्तरं बलिं निक्षिप्य। बलिमुद्रां मङ्गलाष्टकं च

 

 
दर्शयित्वा। ग्राममध्यमारभ्य ब्रह्मदीशानपर्यन्तं क्रमात् तत्तद्देशेषु तौर्यत्रिकसहितं तत्तद्देवताः
अभ्यर्च्य बलिं दत्वा। महाबलिपीठे तु अशेषतः अवशिष्टं बलिद्रव्यं सर्वान् पार्षदान् उद्दिश्य
बलिं दत्वा। बलिं प्रदक्षिणीकृत्य आलयं प्रविशेत्। एवं ध्वजारोहणादितीर्थान्तं सायं प्रातः
बलिं दद्यात्। आरंभदिवसे रात्रौ समाप्तिदिवसे अहनि बलिमेकमेकां मध्यदिवसेषु अह्नि रात्रौ च
बलिद्वयं कुर्यत्। तीर्थदिवसे ग्रहणायन विषुवादिषु प्राप्तेषु तस्मिन् बलिद्वयं कुर्यात्। ग्रामादि
रहिते स्थानमध्ये महापीठस्य पुरतः ब्रह्मणे बलिं वितरेत्। बलिद्रव्याणि तु प्रथमेहनि
फललरजनीचूर्ण करंभ लाजान् चरुणा सम्योज्य। द्वितीये अहनि चरुणा तिलतण्डुलेन
संयोज्य। तृतीये तु लाज धान्यापूपिकाः चरुणा संयोज्य। चतुर्थे चरुणा सक्तुशालिपिष्ट
नालिकेर जलानि संयोज्य। पञ्चमे पद्मबीज पायस शालितण्डुलं चरुणा संयोज्य। षष्टे तु अपूपं
चरुणा संयोज्य। सप्तमादिषु त्रिषु दिवसेषु चतुर्विधमन्नं अपूपैः सक्तुभिः संयोज्य। क्रमात् बलिं
दद्यात्। तदनु सुमुहूर्ते प्राप्ते गुरुः शयनस्थं उत्सवकौतुकं ‘उत्तिष्ठे”ति मन्त्रेण
उत्थाप्य।स्वस्तिसूक्तं पठद्भिः ब्राह्मणैः सह सप्तभिः ब्राह्मणैः सह तस्मात्मन्दिरात् निर्गम्य।
रथन्तरसाम उच्चार्य। स्यन्दनेन गजेन वा अन्येन वा यानेन मण्डपान्तरं नीत्वा।‘भद्रं कर्णे”ति
तद्दिनविहितं यानमारोप्य। तत्र देवम् न्यासपूर्वकं अभ्यर्च्य। पृथुकादिकं निवेद्य।
क्षौमाभरणमाल्यादिभिः अलङ्कृत्य।देवस्य चरणयोः निशाचूर्णं निक्षिप्य। घृतादि परिषिक्तैः
दीपैः सर्वतः वीथिकाश्च अलङ्कृत्य। वालव्यजन तालवृन्त बर्हिबर्हमुक्तातपत्रासि धूप दीप
धारिभिः स्वलङ्कृतैः ब्राह्मणैश्च पुरतः यानारूढेन साञ्जलिना ध्वजारूढेन तार्क्ष्येण पृष्ठतश्च
कनकशिबिकां आरूढेन वेत्रहस्तेन विरिञ्चादीन् समुत्सारयता प्रणमता विष्वक्सेनेन च
कनकपात्रे पादुके समारोप्य। पुरतः धारयद्भिः विप्रैश्च राजचिह्नै अन्यैः सकलवेदशास्त्रागमज्ञैः
परस्परजिगीषुभिः वादनिपुणैः विप्रैः गद्यपद्य मिश्राणि स्तोत्रानि पठद्भिः वन्दिभिश्च नृत्यता
गायतागाणिक्येन च अन्यैः तत्तद्विद्याविशारदैश्च साकं आनद्ध, तत, सुषिर, धनादि चतुर्विध
वाद्यघोषैः च आवरणं सर्वं परिक्रम्य। बहिः तथा वीथिकाश्च प्रदक्षिणं परिक्रम्य। प्रवेशसमयेपि
प्राकारवलयं प्रादक्षिण्येन गत्वा। मण्डपालयं अन्तः प्रवेश्य। तत्र यानात् आसने देवं
अवरोप्य। बलिबेरंमन्दिरे चक्रं यागसदने बहिस्थिते बलिपीठे च अन्नर्मूींत निवेश्य।ध्रुवबेरं

 

 
नित्यैः द्विगुणैः वस्तुभिः अर्चयेत्. प्रत्यहं देवस्य वीथिकापर्यटनानन्तरं यथाविधि स्नपनकर्म
कुर्यात्।
एकबेर विधाने तु मूलबिंबे, बहुबेरे तु उत्सवकौतुकं वा स्नपनकौतुकं वा यथाशक्ति यथावस्तु
स्नपनं कुर्यात्। मण्डपे सिंहविष्टरे देवं निवेश्य। देहशुद्धिपुरस्सरं अर्चयित्वा।
स्नपनकर्मसमाप्य। महाहविः निवेद्य। मण्डनालयं आसाद्य। देवं भूषणादिभिः अलङ्कृत्य।
बिम्बे तत्र स्थिते देशिकः यागमण्डपं प्राप्य। द्वारतोरण कुम्भमहाकुभ उपकुम्भ मण्डलाराधनं
कृत्वा। यथोदितं निवेद्य। पूर्ववत् हुत्वा। यथाविधिपूर्ववत् बल्यर्चादि बिम्बयुतं बलिकर्मकृत्वा।
तदनु उत्सवार्चां अलङ्कृत्य, यानं आरोप्य। पूर्ववत् सर्वालङ्कारसहितं ग्रामधामादि प्रादक्षिण्येन
नीत्वा। तत्र स्थाने स्थाने समाहृत तांबूल,वीटिकाः, पृथुकादीनि, भक्ष्याणि, नालिकेरफलानि,
पानीयाचमनादीनि यथाविधि अखिलं नैवेद्यं च अस्त्रमन्त्रेण अद्भिःप्रोक्ष्य निवेदयेत्। पक्वं फलं
तूष्णीं प्रदर्शयेत्. पुष्पाभरणादिकं पथि समागतं सर्वमन्त्रेण प्रोक्ष्य देवाङ्गे नियोजयेत्। एवं ग्रामं
धामं च प्रदक्षिणं नीत्वा। धामंप्रवेश्य। देवं यानात् शिबिकां आरोप्य। मण्डपं प्रवेश्य,तत्र
पूर्ववत् सर्वोपचारसहितं अर्चयेत्। एवं अपूर्वाभरण,मालाम्बर,यानोद्यानाद्यैः तीर्थदिनावधि
प्रतिदिनं यथाकौतूहलं तथा देवं तोषयेत्। ग्रामादौ नित्यं देवस्य श्रीभूमिभ्यां सह विना वा
महोत्सवं कुर्यात्।
षष्टे अहनि स्नानबिम्बसहितं यात्राकौतुकं भद्रासनं आरोप्य। तस्य पुरतः धान्यराशौ कुम्भान्
संस्थाप्य, संपूज्य। देवं मन्त्रासनादि स्नानासनान्तैः उपचारैः उपचर्य। कलशैः संस्नाप्य।
वस्त्रादिदीपान्तैः उपचारैः संपूज्य। एकबेरविषये मूलबेरे सर्वमेवं कृत्वा। तदनु क्षालितं
उलूखलं वस्त्रादिभिः अलङ्कृत्य। तण्डुलपीठे संस्थप्य। श्रीसूक्तेन लक्ष्मीं ध्यायन् मन्त्रितं अर्चितं
कृत्वा। मूलमन्त्रेण मुसलं प्रक्षाल्य। अभिमन्त्य। मूर्तिपैः सार्धं गुरुः उलूखले निशाचूर्णं
निक्षिप्य। मुसलं आदाय. देवदासीषु मङ्गळं पठत्सु निशाचूर्णं यथासूक्ष्मतरं भवेत्तथा मुसलेन
कृत्वा। तदादाय। वेष्टितवाससि कुम्भे निक्षिप्य। सकूर्चमल्लक वस्त्रं कुम्भं स्थण्डिलपीठे
संस्थाप्य। मूलमन्त्रेण गन्धादिभिःअभ्यर्च्य। कुम्भं उद्धृत्य। तैः चूर्णैः श्रीसूक्तेन देवमभिषिच्य।
मूर्तिपैः सह गुरुः देवं प्रदक्षिणं कृत्वा। अष्टाङ्ग प्रणिपातेन प्रणिपत्य। पुष्पाञ्जलिं विकीर्य।
स्तोत्रैः स्तुत्वा। सर्वालङ्कारयुतं उत्सवं कुर्यात्।

 

 
सप्तमे दिवसे रथं पुण्याहजलेन प्रोक्ष्य। शिखरे ब्रह्माणं, अयने हंसं, द्वितीयतले अनन्तं,
उपकंण्ठे वासुदेवं,प्रथमतले तक्षकं, महापीठे गरुडं, मध्यपीठे इन्द्रादीन् च,चक्रेषु वायुं, रथे
वैनतेयं च आवाह्य अभ्यर्च्य। हविः निवेद्य। इन्द्रादिकुमुदादिभ्यः बलिं दत्वा। देवं रथं
आरोप्य। पूर्ववत् उत्सवं कुर्यात्।
तदनु देवस्य प्रातः उत्सवं कृत्वा। अपराह्ने देवस्य जलद्रोण्यां अवगाहनं कुर्यात्।जलद्रोणीं
कटाहं वा सरसि सोपानदेशे सौवर्णं धान्यराशौ निधाय। गन्धोदकेन आपूर्य। परितः अक्षतानि
विकीर्य। पुण्याहं वाचयित्वा।
परिस्तीर्य, तज्जलं शोषणादीनि कृत्वा। तत्रगङ्गाद्याः सरितः आवाह्य अभ्यर्च्य। जलं अब्लिङ्गैः
मन्त्रैः अभिमन्त्य। देवं प्रार्थयेत्।
 
भगवन् पुण्डरीकाक्ष शरणागतवत्सल।
अस्मिन्नहनि कर्तव्या जलक्रीडा त्वया विभो।
शुद्धये सर्वलोकानां देवानां प्रीतये विभो।
यात्रा तदर्थं कर्तव्या मदनुग्रहकाम्यया।
इति विज्ञाप्य। देवं प्रणम्य। मन्त्रासनादिस्नानांतैः उपचारैः उपचर्य। वाद्यघोषेषु प्रवर्तितेषु
वारुणसूक्ताद्यब्लिङ्गैः मन्त्रैः तत्र देवं अवगाह्य। तदनु यानं आरोप्य. अन्यं मण्टपं आनीय।
तत्रापि देवं हविरन्तं अभ्यर्चयेत्।
यद्वा अष्टमे अहनि वा प्रातरुत्सवं कृत्वा। तदनु मृगयाकर्म,तदनु जलद्रोण्यवगाहनं वा कुर्यात्।
तस्मिन् दिने देवं मृगयानुगुणायुधालङ्कार सन्नाहैः सह गजे वा कृत्रिमाश्वे वा आरोप्य। देवीभ्यां
सह विना वा हस्त्यादिभिः सैन्यैः सह ग्रामसीमादीन् प्रादक्षिण्येन नीत्वा। देवं उद्यानमण्डपं
प्रापय्य। तत्र मध्ये सौवर्णविष्टरे विनिवेश्य। स्नानपूर्वं अभ्यर्च्य। अन्यस्मिन् आसने विनिवेश्य।
महाहविः निवेद्य।यानं आरोप्य। तद्रात्रौ मन्दिरान्तर्भुवं नीत्वा। तदनु नित्योत्सवं कृत्वा।
अपररात्रिभागे तीर्थार्थं अङ्कुरार्पणं करिष्ये, इति सङ्कल्प्य। अरावापनं यथा विधि कृत्वा।देवं
संपूज्य। इमां गाथां उदीरयेत्।
 
तीर्थयात्रा त्वया देव श्वः कर्तव्या सुरेश्वर।

 

 
तत्र प्रतिसरारंभं त्वमनुज्ञातुमर्हसि।
इति विज्ञाप्य। मूलात् तीर्थबिम्बे समावाह्य। तीर्थबिम्बे प्रतिसरं तदभावे नित्योत्सवबिम्बे
तस्यापि अभावे स्नानार्चायां, तदभावे च उत्सवबिम्बे वा बद्ध्वा। धान्यराशौ पूर्ववत् यथाविधि
अधिवास्य। ततः प्रातः उत्सवं कृत्वा। तदनु शायितं बिंबमुत्थाप्य,स्नानमण्डपे स्नानपीठिकायां
तं निवेश्य। यागमण्डप भूमिषु स्थापितान् कुम्भान् आदाय। धामप्रादक्षिण्येन वेदघोषैः सह
नीत्वा। तीर्थबिम्बस्य सन्निधौ धान्यराशौ संस्थाप्य। देवं मन्त्रासनपूर्वकं पूर्वं संस्नाप्य। तदनु
सुमुहूर्ते गुरुः स्थापितैः कुम्भैः मूलमन्त्रेण पूर्वादि मध्यकुम्भान्तैः वेदघोषेषु प्रवर्तितेषु
अभिषिच्य। वस्त्रादि दीपान्तैः उपचारैः उपचर्य। एकबेरविधाने तु सर्वं एतत् मूलबिंबे कृत्वा।
तदनु पूर्ववत् देवस्य चूर्णस्नानं यथाविधि कृत्वा। देवं स्तुत्वा। प्रदक्षिणीकृत्य। अष्टाङ्ग
प्रणिपातेन प्रणिपत्य पुष्पाञ्जलिं विकीर्य। तदनु कल्याणकौतुकं यानं आरोप्य। तीर्थबिंबपुरस्सरं
चक्रेण सह छत्रध्वजचामर दीपवाद्यघोष सहितं समुद्रं नदीं तटाकं वा प्रापय्य। तत्र तीरे प्रपायां
विष्टरे विनिवेश्य। अग्रतः पञ्चविंशतिः, सप्तदश, यद्वा कलशान् नव यथाविधि तत्तद्द्रव्ययुतान्
संस्थाप्य। संपूज्य।नद्यादिजलानां शोषणादिकृत्वा। पुण्याहं वाचयित्वा।प्रोक्ष्य। तत्र गङ्गाद्याः
सरितः आवाह्य अभ्यर्च्य निवेद्य। तीर्थबिम्बं मन्त्रासनपूर्वकं संपूज्य।कलशः यथाविधि
संस्नाप्य। चक्रं शिष्टवारिणा च, तीर्थबिंबं समानीतं कल्याणकौतुकं कूर्चेन नद्यादिजलेन प्रोक्ष्य।
कल्याणकौतुकसन्निधौ तद्बिंबं गुरुः शिरसि कृत्वा। चक्रं वा तदभावे कूर्चं वा तथा कृत्वा।
चक्रमन्त्रं उच्चरन् जले निमज्जेत्। ततः गुरुः तदानीमेव बिंबानां स्वस्य च रक्षासूत्राणि विसृज्य।
जले क्षिप्त्वा। तदनु मण्डपे देवं आनीय यथापुरं पूजयित्वा यानं आरोप्य, आलयाभ्यन्तरं
प्रापयेत्। तद्रात्रौ देवं मण्डपे नीत्वा यथाविधि अभ्यर्च्य, प्रभूतं निवेद्य।
 
भगवन् पुण्डरीकाक्ष शरणागत वत्सल।
ध्वजार्थाङ्कुरमारभ्य उत्सवाऽवभृतान्तिमम्।
यन्मयानुष्टितं कर्म तव सुप्रीतये विभो।
तथान्यैः मदनुज्ञातैः देशिकैश्चापि यत्कृतम्।
साधकैश्च तथान्यैश्च विविधैः परिचारकैः।

 

 
तत्तत्संपूरणार्थं च न्यूनाधिक्योपशान्तये।
त्वामद्यवासरे यष्टुं चतुस्थान स्थितं विभो।
प्रवृत्तमनुजानीहि मदनुग्रहकांयया।
इति देवेशं विज्ञाप्य। तदनुज्ञां अवाप्य. ततः प्रभाते भक्तैः भागवतैः सेविते मण्डपान्तरे
केचिद्भूतले चक्राब्जं आवरणान्वितं उक्तवर्त्मना संकल्प्य। तुलस्यादिभिः नानावर्णैः प्रसूनैः
यथाविधि चित्रयित्वा। तत्र मध्यतः सप्रभं भद्रपीठे निधाय। तस्मिन् कल्याणकौतुकं आरोप्य।
अर्घ्यादिभिःअभ्यर्च्य, सर्वतःदिक्षु वेदघोषेषुवाद्यघोषेषु च प्रवर्तितेषु द्वादशाक्षरेण भगवन्तं
अर्चयेत्।
ॐ द्वादशाक्षर मन्त्रस्य। परमेष्ठि, सनन्त, सनक, प्रजापति, भृगु, सनत्कुमार, पुलस्त्य, पुलह,
क्रतु, मरीचि, अत्रि, आङ्गीरसऋषयः।
गायत्री, बस्तक्षेत्र, प्रजापति, त्रिष्टुप्, पङ्क्ति, बृहति, विराड्, बष्ठ, त्रिवत्सक, उष्णिक्,
श्रियश्चंदॉंसि। विष्ण्वादि गोविन्दान्ता द्वादश देवताः। चित्,जीव, प्रकृति, बुद्धि, मन,स्सात्विक,
राजस, तामस, व्योमा, ऽग्नि, मरुता,ऽऽपस्तत्वानि। परमव्योम, वाय्व,ऽग्नि,जल, सत्य, तपो,
जन, मह,स्स्वर्ग, भुव,र्भूमि,पातालानि क्षेत्राणि।सित, कृष्ण, धूम्र,श्याम,ताम्र, स्फटिक, शंख,
रक्त, शुक्ल, लोहित, तमः, पीतवर्णाः।द्वादशसु अक्षरेषु एकैकं,हरिं ध्यात्वा। अर्घ्यादि भूषान्तैः
नवभिः उपचारैः कल्याणकौतुकं अभ्यर्च्य।पुष्पैरपि हृदयाद्यङ्गानि उद्दिश्य च पुष्पैः‘फलं भवतु
मे पुष्पैः नमः”इति अवसानकं च, ततः श्रीवत्स कौस्तुभादि भूषणानि उद्दिश्य दिव्यायुधानि
चक्रादीनि च यथाक्रमम् आवरणस्थानां देवतानां च, विष्ण्वादिमूर्ति दशकं, केशवादि मूर्तीश्च
उद्दिश्य तत्तन्मन्त्रैश्च, पुरुषसूक्त, नारायणानुवाकैः,विष्णुसूक्तैश्च, पञ्चोपनिषन्मन्त्रैश्च,
पादयोःपुष्पसमर्पणं कृत्वा।
सितादिभिः पुष्पैः एवं देवं तोषयित्वा। चतुर्विधमन्नं निवेद्य। मण्डपे तत्र आग्नेये अग्निं
उपसमिध्य। समिदाज्यचरुभिः पायसादि चतुर्विधान्नैश्च, मूलमन्त्रेण पृथक् अष्टोत्तरशतवारान्
हुत्वा। ततः देवं प्रदक्षिणी कृत्य। स्तुत्वा,भूतले दण्डवत् प्रणम्य। कल्याणकौतुकं यानं
आरोप्य। प्रथमावरणं प्रापय्य। तत्र स्थित्वा,सेवार्थं आगतान् ब्रह्मादिदेवान्, भक्तान्, भागवतान्
अन्यान् वैष्णवान् च स्वं स्वं आलयं गन्तुं नियुज्य। तदावरणं प्रदक्षिणं परिक्रम्य।

 

 
मन्दिराभ्यन्तरं नीत्वा। तस्य दिवसस्य निशि प्रथमयामे मण्डपे स्नानासने देवं निवेश्य।
उत्सवान्तोचितं स्नपनं यथाविधि कृत्वा। मण्डपान्तरं नीत्वा। गुरुः यागमण्डपं आसाद्य। तत्र
यथाविधि होमं कृत्वा। शान्तिहोमं च पूर्वोक्त विधानेन प्रायश्चित्तार्थं पञ्चोपनिषण्मन्त्रेण आज्येन
सहस्रं,शतं वा आहुतीनां हुत्वा। ततः पूर्णाहुतिं च अग्निं विसृज्य। तत्र तोरणादिषु देवान्
मण्डलस्थं च उद्वास्य। ध्वजस्तम्भं आसाद्य। खगाधिपं पूजयित्वा। प्रदक्षिणं कृत्वा।
संहारक्रमेण कुम्भे समावाह्य। तन्मूलभेरे नियोज्य। कल्याणकौतुकस्य सन्निधावेव महानिशि
ध्वजं अवरोप्य। स्तम्भं ध्वजं च गुरुः स्वयं गृहीत्वा। तदनु तत्र तत्र आवाहितान् देवान् अपि
स्थाने स्थाने सकृत् सकृत् तूर्यघोषैः सह मूकैः परिकरैः सार्धं बलिं दत्वा। स्वस्व नाममन्त्रैः
उद्वास्य।गुरुः अष्टाक्षरं जपन् देवस्य धामप्रविश्य। देवं विज्ञाप्य। शकटादिकं यानं आरोप्य।
मखकौतुकं धामान्तः प्रापय्य संपूज्य।तच्छक्तिं मूलबिंबे नियोज्य। मूलबिंबं संपूज्य।स्तुत्वा
प्रणिपत्य, प्रार्थ्य प्रदक्षिणं कृत्वा । स्वगृहं प्रविशेत्। यजमनोपि गुरुं जीवजीवात्मकैः धनैः
यथामनस्तुष्टिं तथा तोषयित्वा। तथैव अन्यान् मूर्तिपान् परिचारकान् च , गुरुं प्रणम्य। तं यानं
आरोप्य। सर्वालङ्कारैः सह ग्रामप्रदक्षिणं कृत्वा।तद्गृहं प्रापयेत्।
 
इति श्री वराहगुरुणा विरचितायां क्रियाकैरव चन्द्रिकायां
महोत्सवविधिः नाम चतुस्त्रिंशः परिच्छेदः
अथ पञ्चत्रिंशः परिच्छेदः
जीर्णोद्धार विधिः
अथ जीर्णोद्धार विधिः उच्यते।
स्वायंभुवार्षदिव्यमानुषेषु चतुर्ष्वपि रत्नजेषु अङ्गहानिः यदि तत्तदङ्गं पुनस्तपनीयैः
समाधातव्यमेव। न त्यागो युज्यते। शैलजेष्वपि तद्वदेव। दार्वादिषु पञ्चसु हीनाङ्गेषु तानि
सन्त्यज्य पुनस्सृजेत्।सर्वात्मना सृष्टौ अङ्गमात्रसमाधाने च तच्छक्तिं कुम्भे समावाह्य। यथापुरं
निर्माय जलाधिवासादिकं सर्वं प्रतिष्ठायामिव कारयेत्।

 

 
स्थित्यासनशयनारूढेषु बिंबेषु समाधिः शक्यते यदि तेषां त्यागः न युज्यते। लोहजं बिंबंत्यक्तं
द्रावयित्वा पुनः सृजेत्। देवी जीर्णे पुनस्सृष्टौ देव्यो यथावत् स्थिताश्चेत् देवस्ताभिरेव योज्यः।
न अन्याः पुनः सृजेत्।तासु पूजने सन्तते पुनः उद्वाहश्च न कार्यः। प्रभापद्मासन आयुधादीनां
वैकल्ये चलने वापि असमाहित प्रतिमाशक्तिं मूलबिंबे घटे वा उद्वास्य, तानि यथापुरं समाधाय
यथाविधि संप्रोक्ष्य तां शक्तिं पुनः बिम्बे समावाह्य पुनः पूजयेत्।बालगेहं निर्माय तत्र शैलादिषु
जीर्णेभ्यः शक्तिं आवाह्य पूजयेत्। समाधानाऽनन्तरं ततः पुनः आवाह्य पूजयेत्। तत्रापि
सन्धान योग्यं सन्धेयं, अयोग्यं तु क्षितौ अंभसि वा निक्षिपेत्। प्रासाधे शिथिले स्वैः परिवारैः
उपेतं देवं बालवेश्मनि यथापुरं पूजयेत्। अजीर्णे ध्रुवबिम्बे धामनि जीर्णे सति तत्स्थितान्
देवान् देवपरिवारान् मूलबिम्बे निवेशयेत्। अजीर्णे धामनि जीर्णेध्रुवबिम्बे तन्निष्ठदेवतानां
उद्वासः न अन्यत्र कर्तव्यः। अजीर्णे वा अङ्ग भङ्गादि रहिते धामादौ सति न पुनः कल्पनं
कार्यम्। यदि कल्पयेत् आत्महानिः भवति। पुरा प्रासादात् प्रमाणरहित कल्पितं प्रासादादि
पुनः कल्पने लक्षणान्वितं कुर्यात्। बहुबेरैकबेरेषु यथापुरमेव कल्पयेत्.विपरीतकरणे महान्
दोषो भवति। बहुबेरं पूर्वं देवीभ्यां रहितं यदि, भूयः कल्पने ताभ्यां सह विना वा कुर्यात्।
अमानुषे तु बिंबादिकं पूर्वं लक्षण वर्जितं यदि जीर्णोद्धारेपि तथैव, न तदन्यथा। अमानुषे तु
बिम्बानां आसन शयन यानानि पुनः उद्धारे यथापुरमेव।मानुषे तु तेषां पुनः सृष्टौ यथेच्छाकरणं
न दोषाय।
दिव्यं विमानं पुरा यद्वस्तु यन्मानं यादृशं पुनः सृष्टौ तादृगेव, न अन्यथा। आर्षं मानुषं सदनं
ऐष्टक़ं मृण्मयं वा जीर्णं पुनः कल्पने शैलेन इष्टकया वा कार्यं। क्लृप्तानां उपपीठादीनां रक्षार्थं
बहिः वर्धने न दोषः। सालगोपुरपीठादौ चलिते जीर्णेपि शिलाभिः दृढं विस्तीर्णं अन्यथा वा
कुर्यात्।नद्यादि जलवेगेन प्रासादादि निर्बाधेअन्यत्र स्थाने पुनः कल्पयेत्। प्रथमकल्पने
मूर्तिमन्त्राधिकारिणः यादृग्विधाः तथैव द्वितीय कल्पने च। न अन्यथा। धामादीनां पूर्वकल्पने
जीर्णोद्धारे च फलं तुल्यमेव। तत्र मूर्तिव्यत्ययं न कुर्यात्। बहुबेरावयवमात्रजीर्णोद्धारे तु
प्रतिष्ठायामिव कर्मार्चां वेद्यां संस्थाप्य शय्यायां शाययित्वा। जलाधिवास नयनोन्मीलन
तत्वसंहारोत्पादनानि विना सर्वकर्माणि कुर्यात्।
 

 

 
 
 
अथ बालालय प्रतिष्ठाविधिः उच्यते-
आचार्यः यजमानेन सह वैष्णवान् सकलशास्त्रवेदागम पुराणज्ञान् ब्राह्मणानपि स्वयं आहूय,
प्रणिपत्य, प्रार्थयन् एतान् भोजयित्वा। स्वर्णाभरणवस्त्रगन्धतांबूलाद्यैः उपचर्य। तान्
प्रदक्षिणीकृत्य। प्रणम्य, कृताञ्जलिःसन् वासुदेवं ध्यात्वा च इत्थं विज्ञापयेत्।
 
पूजाबिंबमिदं विष्णोः स्थापितं पूर्व सूरिभिः।
पूज्यमानेऽङ्ग वैकल्य दूषणं चेहवर्तते।
अस्य जीर्णस्य बिम्बस्य चोद्धारं कर्तुमुद्यमे।
आगमस्यवशात् कर्तुं व्यवसायमुपास्महे।
यथैव देवपूजायां विनियुक्तं अनिन्दितम्।
गन्धपुष्पादिकं पश्चात् निर्माल्यं इति निन्द्यते.
 तथैव जीर्णितं बिंबं पूजायामुपयुज्यते।
 पश्चात्तज्जीर्णितं बिम्बं निर्माल्यमितिनिन्द्यते।
 अस्य बिंबस्यचोद्धारं कर्तुमिच्छामि संप्रति।
भवन्तो नः अनुजानन्तु भवदाज्ञां करोम्यहम्।
 
इति विज्ञाप्य। तैः अनुज्ञातः सन् प्रासादाग्रे दूर्वाभिः मधुयुक्ताभिः आहुतीनां लक्षं सहस्रं
अष्टोत्तरशतं वा व्याहृतीभिः(ॐ भूः,ॐ भुवः, ॐ सुवःस्वाहा)हुत्वा। पञ्चोपनिषन्मन्त्रैः
शान्तिहोमं विधाय। ब्राह्मणैः सह पुण्याहं वाचयित्वा. शान्तिं च, आत्मसमर्पणपूर्वकं गुरुं
नमस्कृत्य। दक्षिणां दत्वा। लोहजं दारुजं वा बिंबं पूर्वलक्षणोपेतं कल्पयित्वा।
जलाधिवासादीनि कर्माणिमण्डपे कृत्वा। पूर्वोक्तप्रदेशे इष्टकया दारुणा मृदा वा
विमानानुगुण्येन एकहस्त समुच्छ्रायवतीं कर्णिकादलयुतां वेदिकां आपाद्य। तदुपरि बालबिम्बं
संस्थाप्य. अपरेऽहनि प्रतिष्ठाप्य। तत्परेऽहनि रात्रौ मूलगेहं प्रविश्य। स्नपनादिभिः यथाक्रमं
संपूज्य। रक्षाबन्धनं कृत्वा। प्रासादस्य चतसृषु दिक्षु पूर्ववत् शान्तिहोमं च विधाय. कर्मार्चायाः

 

 
पुरतः स्थण्डिलं कृत्वा। लोहजं मृण्मयं वा महाकुम्भं, तत्परितः कलशाष्टकं च विन्यस्य।
तान् ससूत्रवस्त्रापिधानकूर्चान् सनिष्फप्रमाण दलाष्टकयुत स्वर्णपद्मान् कृत्वा। महाकुंभे
मूलमन्त्रेण मूलर्मूींत कलशेष्वपि इन्द्रादीन् आवाह्य अभ्यर्च्य। कुम्भस्योत्तरेदेशे गुरुः शयीत।
तदनु प्रभाते स्नात्वा आचार्यः बालगेहं समासाद्य, पूजयित्वा। प्रलयोदयमार्गेण शोधयित्वा।
योगपीठं संकल्प्य च। इमां गाथां उदीरयेत्.
 
कियन्तं कालमेतस्मिन् कल्पगेहे जनार्दन।
निवासं कुरु देवेश कल्पिते बालमन्दिरे।
अद्यप्रभृति देवेश द्वादशाब्दावधि प्रभो।
त्वदन्यान् केशवादीन् च वासुदेवोनुमन्यते।
 
इति प्रहृष्टेन मनसा देवं प्रणम्य।बद्धाञ्जलिपुटः भूत्वा इमां उदीरयेत्।
 
भगवन् देवदेवेश शङ्खचक्र गदाधर।
नीचालयमहंकर्तुं बिम्बं चापिमनोहरम्।
वाञ्छामि तव देवेश तदनुज्ञातुमर्हसि।
एवं सयजमानः आचार्यः प्रार्थयन् मनसा शनैः काले विज्ञाप्य। महाकुम्भे पञ्चमन्त्रेण आवाह्य।
प्रणवेन विनिष्क्रम्य। प्रासादं प्रदक्षिणी कृत्य।बालगेहं च। तस्य अग्रतः महाकुम्भं निधाय।
ब्राह्मणानां अनुज्ञया कालं विज्ञाप्य। पञ्चोपनिषन्मन्त्रेण महाकुम्भजलेन बिम्बं संसिच्य। ततः
देवं प्रणम्य। संपूज्य। प्रासादकोणेषु बलिं दत्वा,बिम्बं अलंकृत्य,पुण्याहं वाचयित्वा। सृष्टि
संहारन्यासं कृत्वा. गन्धपुष्पादिभिः संपूज्य। ब्राह्मणेषु वैदिकतान्त्रिकान् मन्त्रान् जपत्सु,
सोष्णीषः अलङ्कृतः गुरुः हैमं लाङ्गलं आदाय। मूलमन्त्रेण पीठबन्धनं मोचयित्वा। विष्वक्सेनं
ध्यायन् बिम्बं गेहं वा निर्माल्यवत् स्मृत्वा। वस्त्रैः आच्छाद्य, व्याहृत्या रज्ज्वा बद्ध्वा समुद्धृत्य
वाद्यघोषैः सह आचार्यः क्षितौ अंभसि वा निक्षिप्य। विधिवत् स्नात्वा प्रासादं प्रविश्य। पुण्याहं
वाचयित्वा। समन्ततः बलिं च दत्वा। गेहस्थान् देवान् उद्वास्य,तत्र गाः वासयित्वा। खात्वा,
उद्धृत्य वालुकाभिः सम्पूर्य। प्रासादाग्रे रक्षाहोमं कृत्वा। ऋचं पश्चिमायां उत्तरस्यां साम प्राच्यां
च यजुरथर्वणं,दक्षिणस्यां दिशि ब्राह्मणान् पाठयित्वाच। एवं शान्तिहोमं कृत्वा। चतुर्थेऽहनि

 

 
बालबिम्बस्य प्रासादादेः वा स्नपनं कृत्वा, तदन्ते पुष्पयागावसानिकं उत्सवं कुर्यात्। यजमानः
गुरवे यथाविधि दक्षिणां दत्वा। मूलगेहं बिम्बं वा यथाविधि समाप्य। प्रतिष्ठां च यथा विधि
कुर्यात्।
इति श्री वराहगुरुणा विरचितायां क्रियाकैरव चन्द्रिकायां
जीर्णोद्धारविधिः नाम पञ्चत्रिंशः परिच्छेदः


षट्त्रिंशः परिच्छेदः
संप्रोक्षण विधिः
संप्रोक्षण विधिः उच्यते
 प्रासादं चाङ्गभङ्गादि सन्धाने नूतने शुभे।
प्रतिमायां च पीठे च प्रभायां चायुधेषु च।
आराधने च विच्छिन्ने भूगुप्ते कमलासन।
रोदने स्वेदने चैव कंपने पतनेपि च।
वल्मीकादिसमुत्पत्तौ वर्षवातादि दूषिते
कुण्डगोळक संस्पर्शे वेदविक्रयकारकैः।
स्पर्शने प्रतिलोमाद्यैः नित्याशौच विगर्हितैः।
प्रतिलोमाऽनुलोमाद्यैः सूतैश्च रथकारकैः।
वैखानसैश्च संस्पृष्टे भार्गवागमपूजकैः।
शैवादिभिश्च पाषण्डैःब्रह्महत्यादि दूषितैः।
क्षय्यपस्मारिकुष्टाद्यैः कृच्छ्रिभिः मूलरोगिभिः।
उदक्यादिभिरन्यैश्च शिल्पिभिः स्पर्शदूषिते।
विण्मूत्ररुधिरोपेयस्पर्श दुष्टे च मन्दिरे.
जनने मरणे चैव श्वसृगालखरादिभिः।
स्पृष्टे च बिम्बे तन्त्राणां सङ्करे समुपस्थिते
एवमादिषु चान्येषु संप्रोक्षण विधिः भवेत्।

 

 
धामादिकमसंप्रोक्ष्य प्रतिमादिकमाप्यथ।
अर्चने राष्ट्रमधिपः प्रजाश्च सदनं हरेः।
शून्यं स्यादिरिणप्रायं उपद्रवसमाकुलम्।
दुर्भिक्षव्याधिकलहमृतिप्रायास्स्यु रीतयः।
तस्मात् संप्रोक्षणं कार्यं धामादीनां यथाविधि।
 
आचार्यः तदर्थं मृत्संग्रहणपूर्वकं अङ्कुरार्पणं कृत्वा।परेह्नि बिम्ब प्रासाद पीठानि स्वच्छोदकैः
शोधयित्वा। पुण्याहं वाचयित्वा । ‘विष्णोर्नुकं ‘इदं विष्णुः इति द्वाभ्यां अब्लिङ्गैः मन्त्रैश्च
संक्षाल्य। उत्तमादिषु स्नपनेषु यथाविधि एकतरेण पुण्याहपूर्वकं संस्नाप्य। यागमण्डपं
अलङ्कृत्य। पुण्याहं वाचयित्वा द्वारतोरण कुम्भादीन् अभ्यर्च्य। मण्डपमध्ये वेदिकां कृत्वा।
विंशतिभारैः व्रीहिभिःतदर्धेन तण्डुलेन तदर्धेन तिलेन अन्तरान्तरा वस्त्राच्छादनसहितं पीठं
कृत्वा । तन्मध्ये पद्मं आलिख्य। पुण्याहं वाचयित्वा।तत्र महाकुम्भं संस्थाप्य। सूत्रवस्त्रादियुतं
कृत्वा। प्रतिमां एकनिष्फ प्रमाणस्वर्णेन च नवरत्नानि च निक्षिप्य। अस्त्रमन्त्रेण पिधाय।
तद्दक्षिणतः करकं च तथासंस्थाप्य।तत्परितः कुम्भाष्टकं च तदुत्तरे यथाविधि मण्डलं कृत्वा।
तस्मिन् मण्डले व्याघ्रचर्मादि उपकरणादिभिः पूर्ववत् शय्यां कृत्वा. वितानाद्यैरलङ्कृत्य।पुण्याहं
वाचयित्वा। तत्र देवेशं शाययित्वा।कुम्भे परमात्मानं, करके सुदर्शनं च, उपकुम्भाष्टके
विष्ण्वादीन् च आवाह्य। अभ्यर्च्य। नैवेद्यान्तं संपूज्य। कुण्डे स्थण्डिले वा अग्निं उपसमिध्य ।
यथाविधि समिदाज्य चरुभिः मूलेन च तत्तन्मन्त्रैः मूर्तिहोमं च कृत्वा । पुण्याहपूर्वकं
रक्षाबन्धनं च विधाय ।ततः प्रभाते शायितं बिम्बं उत्थाप्य । स्थापितकुम्भान् आदाय।मूर्तिपैः
साकं सवेदवाद्यघोषं धाम प्रदक्षिणीकृत्य। देवस्यपुरतः धान्यराशौ संस्थाप्य। पुण्याहं
वाचयित्वा। कूर्चेन कुम्भतोयं आदाय। मूलमन्त्रेण, पञ्चोपनिषदा, अब्लिङ्गैः,इतरैःशांतिमन्त्रैश्च
देवं संप्रोक्ष्य।अर्घ्यादिमहाहविः नैवेद्यान्तं यथाविधि पूजयेत्। यजमानः आचार्यमूर्तिप
परिचारकाणां यथार्ह दक्षिणां दत्वा,ब्राह्मणान् भोजयित्वा,तेभ्येपि दक्षिणां दद्यात्।
 
इति श्री वराहगुरुणा विरचितायां क्रियाकैरव चन्द्रिकायां
संप्रोक्षण विधिःनाम षट् त्रिंशः परिच्छेदः

 

 


अथ सप्तत्रिंशः परिच्छेदः
पवित्रारोहणविधिः
अथ तावत् पवित्रारोहणविधिः उच्यते
नित्यनैमित्तिक काम्यानां सर्वेषां कर्मणां न्यूनातिरेकदोष शान्त्यर्थं पूर्णाहुतिवत् पवित्रोत्सवः
कार्यः । श्रावणाषाढभाद्रपदाश्वयुजेषु मासेषु सिते पक्षे द्वादशीशमी प्रतिपत्पौर्णमासी
पञ्चम्येकादशी त्रयोदशी द्वितीयासु तिथिषु पुष्य रोहिणी रेवती भरणी स्वाती हस्त पुनर्वस्वादिषु
ऋक्षेषु पवित्रोत्सवं कुर्यात्। तन्तून् ब्राह्मणकन्याभिः निर्मितान् दोषरहितान् कार्पासान् वा
कौशेयान् वा क्रीतान् वा समानीय। मौद्गादिचूर्णैः शुद्धवारिभिः संक्षाल्य।आतपे
शोषयित्वा।तान् त्रिगुणीकृत्य। तादृशान् पुनः तथा कृत्वा। तावतोपि चतुर्गुणान्,यद्वा त्रिगुणान्
वा चातुर्गुण्यं नीत्वा। त्रिगुणान् त्रिगुणीकृत्य।तादृशान् पुनः तथाकृत्वा। तावतोपि चतुर्गुणान्,
यद्वा त्रिगुणान् वा चातुर्गुण्यं नीत्वा। त्रिगुणान् त्रिगुणीकृत्य वा, अथवा तान् एकतां नीत्वा।
भूमिं गोमयेन अनुलिप्य। तत्र यज्ञवृक्षसंभूतं शङ्कुद्वयं यथोक्तमानानुसारेण संस्थाप्य।
आचार्यानुज्ञया,भगवद्भक्ताः स्नाताः तन्निर्माणनिपुणाः प्राङ्मुखाः तत्र तन्तून् आरोप्य। यथा
भूषणार्हाणि तथा पवित्राणि कुर्युः।
मूलबेरादि बेराणां आद्यं अधिवासार्थंपवित्रं नाभ्यवधिमानं अष्टोत्तरशतैः सूत्रैः द्वात्रिंशत्ग्रन्थभिः
युतं च, मण्डलकुम्भकुण्डानां पद्मगलमेखलामानानि तादृशानि च निर्माय। चक्राब्जस्य
पद्मनाभ्यरनेमिबाह्य पवित्राणि चतुश्शतत्रय द्विशतैकशत चतुश्शतैःतन्तुभिः क्रमेण
सप्तविंशतिद्विगुण चतुर्गुण पञ्चगुणैः ग्रन्थिभिश्च। महाकुम्भस्य अष्टोत्तरशत तन्तुयुतं,
सप्तविंशति ग्रन्थियुतं, करकस्य च एकाशीति तन्तुभिः विंशतिग्रन्थिभिश्च युतं पवित्रं निर्माय।
बेराणां तु श्रीवत्सकौस्तुभवनमाला किरीटाह्वयानि नाभिहृदय जङ्घा किरीटमानानि क्रमेण
अष्टोत्तरशताशीत्यष्टोत्तर चतुश्शत तन्तुभिःद्वात्रिंशत्पञ्चविंशत् तावद्भिः ग्रन्थिभिश्च युतानि
पवित्राणि च।

 

 
उत्तमादि पवित्राणि तु जानूरुनाभि मर्यादानि चतुश्शत त्रिशत शतद्वयतन्तुभिःअष्टोत्तर शता
शीति षष्टिग्रन्थियुतानि च, हारार्थं त्रिशततन्तुभिः सप्तविंशतिग्रन्थियुतं च,शतद्वय तन्तुभिः
द्वात्रिंशत्ग्रन्थियुतं नाभिमर्यादं पवित्रं च अष्टोत्तरसहस्र तन्तुभिः अनेकग्रन्थियुतं चरणमर्यादं
पवित्रं च सहजपीठस्य तन्मर्यादं अष्टोत्तरशततन्तुभिः पञ्चविंशतिग्रन्थिभिश्च युतं, प्रभापवित्रं
तत्तुल्यतन्तुमर्यादं अनेकग्रन्थियुतं च पवित्रं एवं सर्वेषां स्वतन्त्र बिम्बानां परतन्त्रेषु बिम्बेषु तु
उत्तमादित्रयमेव।श्रियादीनां देवीनां च एवमेव अष्टोत्तरशतसूत्रैः बहुग्रन्थिभिश्च युतानि
च,अग्निकुण्डस्य प्रतिमेखलं सप्तविंशति पञ्चविंशद्वाविंशकैः सूत्रैः तन्मानग्रन्थिभिश्च
मेखलामर्यादानि पवित्राणि च, स्रुक्स्रुवादिपात्राणां पञ्चविंशति सूत्रैः बहुभिः ग्रन्थिभिः
तन्मर्यादानि च, अर्घ्यपाद्यादिपात्र धूपपात्र घण्टाक्षमालादिषु सर्वत्र अष्टोत्तरशत तन्तुभिः
यथेप्सित ग्रन्थिभिः द्वादशाङ्गुलमानेन युतानि च, सेनेश गरुड दिग्देवताद्रुहिण दुर्गा विनायक
रुद्रादि परिवारेषु अष्टोत्तरशत तन्तुभिः द्वात्रिंशत्ग्रन्थिभिश्च युतानि हस्तमानानि च, चण्डादीनां
सप्तविंशतिसूत्रैः तावद्भिः ग्रन्थिभिःतन्मानेन च। कुम्भतोरणादिषु च तथा, बलिपीठस्य
कर्णिकामानं तादृशं च,आचार्याणां यतीनां च अष्टोत्तरशत तन्तुभिश्च मूर्तिपानां पूजकानां
ब्राह्मणानां च एकाशीतिसूत्रैः नाभिमर्यादानि च, राज्ञः तु अष्टोत्तरशतसूत्रैः बहुग्रन्थिभिः
तन्मानेन च, तदुपजीविनां एकाशीतिसूत्रैः वैश्यादीनां चर्तुींवशतितन्तुभिश्च तेषां उपवीतवदेव
पवित्राणि निर्माय। मणिमुक्ताप्रवाळादिरत्नैः स्वर्णादिलोहैश्च पूरयित्वा। ग्रन्थीन् शङ्खाकारान्
धात्रीफलसदृशान् वा मुक्तफलसमान् वा, बध्वा। तदन्तरालानि कस्तूरिकाकुङ्कुम
कर्पूरचन्दनावश्याय कर्दमैः आलिप्य। यद्वा ग्रन्थीनां पूरणंमल्लिकाद्यैः पुष्पैः वा कृत्वा।
निशाचर्चाभिः अनुरञ्ज्य च।एवं पवित्राणि निर्माय।पूर्ववत् मण्डपं स मध्यवेदिका कुण्डं
कल्पयित्वा। तोरणवितान दर्भमालाद्यैः अलङ्कृत्य। तत्र यागोपकरणानिसर्वाणि संपाद्य।
तस्मिन् सप्ताहे पञ्चाहे तृतीये अहनि सद्यः वा सङ्कल्पपूर्वकं विधिवत् अङ्कुरावापनं कृत्वा। तदनु
आचार्यः कृतकृत्यः उपोषितः दशम्यां निशामुखे मूर्तिपैः यजमानेन च सह गर्भगेहं प्रविश्य।
देवं अर्घ्यादिभिः यथाविधि पूजयित्वा। तैः साकं देवं प्रणम्य।प्राञ्जलिःसन् इमां गाथां
उदीरयेत्।
 

 

 
न्यूनातिरेकशान्त्यर्थं पवित्रारोपणं परम्।
अर्चनं भगवन् सर्वदुरितोत्सारणक्षमम्।
संपदां चापि सर्वासां उत्पादनमनुत्तमम्।
क्रियते तदविघ्नेन यथा स्यात् कर्मचोदितम्।
तथा अनुज्ञापयामि त्वां अनुजानी हि कर्म तत्।
 
इति देवं विज्ञाप्य।मन्दिरात् मण्डपं प्रविश्य। तत्र दर्भान् प्रागग्रान् आस्तीर्य। तेषु प्रागाननः
उपोषितः उपविश्य। समाहितमनाः जपध्यानपरः रात्रिं जागरेण नीत्वा। अपरेद्युः
निशीथिन्यां अधिवासनकर्म वक्ष्यमाणेन विधिना कुर्यात्। एकबेरे तु मूलबिम्बे स्नपनानन्तरं
कौतुकं, बहुबेरे तु कल्याणकौतुकं बद्ध्वा। ततः निर्गत्यमण्डपे पुण्याहपूर्वकं द्वारतोरण पूजनं
विधाय। दिग्विदिक्षु चतुर्वेदविदः विप्रान् अन्यान् च स्थापयित्वा। तूर्यघोषेषु मङ्गलेषु च सर्वत्र
प्रवर्तितेषु तदनु आचार्यःपवित्रपात्राणि आदाय। मण्डपे धान्यराशौ प्रागुदग्भुवि संस्थाप्य।
पुण्याहं वाचयित्वा। शोषणादिभिः पवित्राणि संशोध्य। गन्धद्रव्यैः धूपयित्वा। कस्तूरिकादि
कर्दमैःआलिप्य। पुष्पाणि विकीर्य। तानि पवित्रपाणिः नववाससा संवेष्ट्य। चक्रमुद्रां
प्रदर्श्य। अस्त्रमन्त्रेण संपूज्य। मण्डपे ऐशानीदिशं आरभ्य सूत्रैः अस्त्रमन्त्रेण संवेष्ट्य। मण्डपस्य
उपरि चक्रं च भूमौ पद्मं द्वारेषु गदां च ध्यात्वा। तत्र दिग्विदिक्षु माषोदनेन बलिं दत्वा। बहुबेरे
तु कल्याणकौतुकं बहिः स्नानासने स्थापयित्वा। विधिवत् संस्नाप्य। उपवीतान्तं उपचर्य.
वेदिकायां चक्राब्जं वर्तयित्वा।समभ्यर्च्य. कल्यणकौतुकं चक्राब्जे संस्थाप्य। हविः निवेद्य।
मण्डपे धान्यराशौ सकरकं सोपकुम्भाष्टकं महाकुम्भं सलक्षणं संस्थाप्य। तेषु मध्यम कुम्भे
मूलर्मूींत, करके सुदर्शनं, पूर्वाद्याशागतेषु वासुदेवादीन् कोणस्थेषु पुरुषादीन् च पीठं संकल्प्य।
आवाह्य अभ्यर्च्य। संपूज्य। कुण्डे अग्निं उपसमिध्य। यथाविधि समिदाज्य चरुभिः अधिवास
होमं कृत्वा। संपातं संगृह्य। पवित्रपात्रेषु स्पर्शमन्त्रेण सेचयित्वा। एकबेरे तु कल्याणकौतुकं
विना मूलबिंबे स्नपनादिकं कृत्वा। पूर्वं पवित्राणि आरोप्य। बहुबेरे तु पूर्वं कल्याणकौतुकं
कुम्भकरकाग्नि चक्राब्जमण्डलेषु ‘इदं विष्णुः” इति पवित्राणि आरोप्य। सर्वमङ्गलैः सह
मूलमन्दिरं प्रविश्य। मूलबिम्बं अर्घ्यादिभिः अभ्यर्च्य। पूर्वोक्तमन्त्रेण पवित्राणि आरोप्य।

 

 
सर्वार्चासु च तथा कृत्वा। प्रासादं च वेष्टयित्वा। वेदघोषैः वाद्यघोषैःसह तत्रैव तां रात्रिं
जागरेण नीत्वा। अपरेद्युः मण्डलस्थं देवं स्नानासने समारोप्य। संस्नाप्य। अलङ्कृत्य। शोधिते
मण्डपे पूर्ववत् चक्राब्जं वर्तयित्वा। द्वारादियजनं कृत्वा। चक्रपङ्कजं अभ्यर्च्य। तस्मिन्
कल्याणबिम्बं पूर्ववत् संस्थाप्य। अर्घ्यादिभिः अभ्यर्च्य। कुम्भादिकं च संपूज्य।चतुर्विधमन्नं
निवेद्य। अग्नौ पायसादिचतुर्विधैः अन्नैः पुरुषसूक्तेन च व्रीहि वेणु तिल लाज पुष्प अगरु
घृतसमिद्भिः मूलमन्त्रेण पृथक् अष्टोत्तर शतं आहुतीनां हुत्वा। आचार्यः सुमुहूर्ते पवित्राणि
आदाय चक्राब्जं साङ्गं पृथक् ‘इदं विष्णुः”इति भूषयित्वा.तदनु कुम्भकरक कुण्डाग्नितोरण
द्वारकुम्भादीनां पात्राणां च पवित्राणि आरोप्य।ततः मण्डलस्थं देवं च तदनु प्रदक्षिणी कृत्य।
सर्वमङ्गल संवृतं मन्दिरं अन्तः प्रविश्य। मूलबिम्बे स्नपनादिना पूजिते हविः निवेद्य। तत्रस्थ
देवानां श्रियादीनां च तथा कृत्वा। मूलबेरं समारभ्य पूर्वोक्तमन्त्रेण पवित्रैः भूषयित्वा।
स्वतन्त्राणां अस्वतन्त्राणां च बिम्बानां एवं कृत्वा।तदनु चण्डादि बलिपीठान्तं च,ब्रह्मादि
देवतानां तार्क्ष्यसेनेशयोः अन्येषां विष्णुभक्तानां विष्णुगायत्र्या ‘इदं विष्णुः” इति वा अष्टाक्षरेण
द्वादशार्णेन वा पवित्रारोपणं कृत्वा। तदनु आचार्यः मूर्तिपैः यजमानेन च सह मन्दिरं अन्तः
प्रविश्य। स्याञ्जलिं रत्नैः हेमपुष्पैः केवलैः वा प्रसूनैः आपूर्य। देवं स्तोत्रैः स्तुत्वा।
अञ्जलिस्थानि देवपादमूले विकीर्य। मनुष्यार्थं कृतानि पवित्राणि क्षौमादीनि पुष्पवत् देवपादयोः
विन्यस्य। देवं विज्ञाप्य। स्वयं आत्मनः कृतं क्षौमादिपवित्रं च पूर्वं गृहीत्वा।तदनु
पूजकमुख्यानां ऋत्विजां सहकारिणां अन्येषां राज्ञां तदुपजीविनां वैश्यादीनां च पवित्राणि
वितीर्य। देवस्य आननं अवलोक्य। पादौ स्पृष्ट्वा।जनान्तिके न्यूनातिरेक शान्त्यर्थं इमां गाथां
उदीरयेत्।
 
भगवन् देवदेवेश शङ्ख चक्र गदाधर।
संवत्सरापचाराणां पूरणार्थं कृतं मया।
आराधनं गृहाण त्वं भक्तानां हितकाम्यया।
नाहं स्वतन्त्रः किञ्चिच्च करोमि विहितं हितं।
किन्तु त्वत्प्रेरितः सर्वं करोमि न वशः स्वयम्।

 

 
तत् क्षन्तव्यं अशेषेण क्रियालोपादि अनुष्टितम्।
 
इति विज्ञाप्य। अपराह्ने देवं यानादिकं आरोप्य।अलङ्कृत्य।ग्राम प्रदक्षिण पूर्वकं सर्वोपचारैः सह
महोत्सवं कुर्यात्।प्रत्यहं पवित्राणि पूजाकाले प्रोक्ष्य आरोपयेत्।एवं दिवसान् चतुर्दश वा
एकविंशतिः सप्त वा त्रिरात्रं एकरात्रं वा नित्यमेव द्वारयजनादि सहितं महोत्सवं कृत्वा।
समाप्तिदिवसे तत्तद्देवताश्च उद्वास्य। पौरुषेण सूक्तेन रथन्तरेण वा त्रिसुपर्णेन मूलमन्त्रेण वा
पवित्राणि अवरोप्य।देवस्यस्नपन कर्म कृत्वा। संपूज्य।पूर्वं गुरवे तदनु भक्तानां पवित्राणि
दापयेत्। यजमानोऽपि गुरुं जीवाजीवत्मकैः धनैः तोषयित्वा। प्रणम्य। तं यानं
आरोप्य।सर्वमङ्गल सहितं तन्मन्दिरं नयेत्।
 
 
इति श्री वराहगुरुणा विरचितायां क्रियाकैरव चन्द्रिकायां पवित्रारोपण महोत्सव विधिः नाम
सप्तत्रिंशः परिच्छेदः
 
समाप्तोयं क्रियाकैरव चन्द्रिका