कादम्बरीसंग्रहः ॥
                पूर्वभागः ॥	
आसीदशेषनरपतिशिरःसमभ्यर्चितशासन, पाकशासन  इवापरः चतुरुदधिमालामेखलाया भुवो भर्ता, प्रतापानुरागावनतसमस्तसामन्तचक्रः, कर्ता महाश्वर्याणाम् , आहर्ता क्रतूनाम् ,१४ आदर्शः सर्वशास्त्राणाम् , उत्पत्तिः कलानाम् , कुलभवनं गुणानाम् , आश्रयो रसिकानाम् , राजा शूद्रको नाम ।। ___- यश्च मनसि धर्मेण, कोपे यमेन, प्रसादे धनदेन, प्रतापे, वह्निना, भुजे भुवा, दृशि श्रिया, वाचि सरस्वत्या, मुखे शशिना, बले मरुता, प्रज्ञायां सुरगुरुणा, रूपे मनसिजेन, तेजसि सवित्रा : व वसता, सर्वदेवमयस्य प्रकटितविश्वरूपाकृतेरनुकरोति भगवतो नारायणस्य ॥
तस्य च राज्ञो जलावगाहनायीतजयकुञ्जरकुम्भसिन्दूरसंध्यायमानसलिलया वेत्रवत्या सरिता परिगता विदिशाभिधाना नगरी राजधान्यासीत् ॥
"https://sa.wikisource.org/w/index.php?title=Kadambari_samgraham&oldid=270796" इत्यस्माद् प्रतिप्राप्तम्