॥श्रीः ॥ ॥व्यक्तिविवेकस्य मधुसूदनी-विवृतिः॥ परिशीलितगुरुवचना विषमस्थलपाततोऽनुरक्षन्ती। बोधितपरमरहस्या नवार्थमाता विषेकदृग् जयति ॥ श्रीमद्विद्वत्तल्लजराम जिलालान् पितृनहं नौमि । येषां लालनपालनशिक्षाद्यैरेधितो वः ॥ स्निग्धपरिष्कृतवचसा झटिति दुरूहार्थबोधने दक्षान् । रक्षामणीन्निजान्ते-वसतां तांस्तौमि वालकृष्णगुरून् । सत्य पदार्थजातं यत्तद्विज्ञेयं गुरोः श्रुतम् । असत्यं यद्भवेदन तद्विज्ञेयं तु मामकम् ॥ सत्करिष्यन्ति विद्वांसो यद्यप्यस्या विदुष्टता। आद्रियेत विना शम्भु को लोके गरलं खलम् ॥

समस्तशिष्टाचारपरम्परामनुरुन्धानः वस्तुनिर्देशं कुर्वन् समुचितदेवता मङ्गलमाचरति ग्रन्थकार:-अनुमान इति । महिमा महिमभट्टः परां समानधिष्ठातृदेवीं प्रणम्य व्यक्तिविवेक कुरुते इति योजना। महिमेति स्वनामनिर्देश वनाप्रत्ययोत्पादनाय । यद्यष्यात्मनाम गुरोर्नामेति स्मृतेः स्वकर्तकस्वनामग्रहण कर द्धम् , तथापि यागीयहिंसाविधिना "मा हिंस्यात्सर्वा भूतानि" इति सामान्यनि वैधहिंसातिरिक्तविषयकत्वकल्पनावत् स्वनामाग्रहणरूपसामान्यनिषेधस्य वैधनास णातिरिक्तविषयकत्वकल्पान्न दोषः । विधिश्वास्य नामग्राहमभिवादयेदिति धर्मशान प्रसिद्धः । यद्वा-श्राद्धे विवाहे संन्यासेऽप्यापत्कालादिषु क्वचित् । स्वनामग्रहणं कर्वन श्रेयस्कामोऽप्यदोषभागिति तदपवादकस्मृतावादिपदेन ग्रन्थारंभ-सन्ध्यावन्दन-प्रोषिताभिवा-

दनप्रभृतौ नामग्रहणस्य ग्रहणान्न दोषः। वस्तुतो नामोच्चारण एव दोषो न तु लेखन इति तत्त्वम्। परेति । परापराभेदेन वाग् द्विधा । तत्र पराशब्देन शब्दब्रह्मणोऽपृथग्भूता सूक्ष्मा गुदमेबान्तरालवतिमूलाधारचक्रस्था शक्तिरभिधीयते। अपराशब्देन पश्यन्तीमध्यमावैखरीति- शक्त योऽभिधीयन्ते । तदुक्तम् येयं विमर्शरूपैव परमार्थचमत्कृतिः।

सैव सारं पदार्थानां परा वागभिधीयते॥
नादाख्या सर्वभूतेषु जीवरूपेण संस्थिता।
अनादिनिधना सैव सूक्ष्मा वागनपायिनी॥
अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम्।
विवर्त्ततेऽर्थभावेन प्रक्रिया जगतो यतः॥
वैखरी शब्दनिष्पत्तिर्मध्यमा स्मृतिगोचरा । 

द्योतिकार्थस्य पश्यन्ती सूक्ष्मा ब्रह्मैव केवलम् ॥ इति ॥

अप्रासङ्गिकमपि बहूपकारकत्वात्पश्यन्तीनां स्वरूपं निर्दिश्यते। सर्वत्र सदादितायाः बहिरुन्मिषन्त्याः शब्दब्रह्मणः शक्तेः प्रथमो विवर्त्तः पश्यन्ती, यतः सा शक्तिस्तटस्था सती पराया मध्यमायाश्चावस्थां पश्यतीति पश्यन्तीत्युच्यते । ततः उत्तरं हि एतत्कथयमीति अन्तः सङ्कल्परूपो मानसिकवर्णोच्चारणक्रमेण द्वितीयो विवत्तो मध्यमा, यतः सा पश्यन्तीवैखरीति संज्ञयोर्द्वयोर्वाग्विवर्त्तयोरन्तरचारिणीति मध्यमेति निगद्यते। स्थानादिक्रमव्यज्यमानः पदवाक्यात्मकस्तृतीयो विवर्ती वैखरीति कथ्यते । विशिष्टं मुखरूपं खमाकाशं राति गृह्णाति इति विखरो वर्णोच्चारस्तेन तदभिव्यक्षिका वैखरी।

प्रणम्येति । भक्तिश्रद्धातिशयरूपः, प्रकर्षोऽत्र प्रशब्देन प्रकाश्यते। तागेवहि नमस्कारात्मक मङ्गलमन्तरायसन्तानशान्ति सन्तनोति। अन्यथा कृतोऽपि प्रणामः कादम्बरीवत् प्रारिप्सितस्य परिसमाप्तिं न सम्पादयेत् । ननु नमतेरकर्मकत्वात्कथं परावाचः कर्मत्वमिति चेत् , शृणु । नमिधातुर्जयतिवदकर्मकः सकर्मकोऽपि। अयमत्र विषेकः। यथा जयतिः प्रकर्षण वर्त्तनेऽकर्मकः पराजये सकर्मकः। तथायमपि नमिः प्रह्वीभावेऽकर्मकः। नमस्कृतौ सकर्मकः। अनंसीद्भूर्भ रेणास्येति नमामि भत्सोश्चरणाम्बुजद्वयमिति च भट्टिकादम्बर्यादिषूभयथा प्रयोगदर्शनात्।

व्यक्तिविवेकमिति। व्यज्यतेऽर्थोऽनयेति व्यक्तिय॑ञ्जना तस्या विवेकः विशिष्टो विचारस्तम् । वैशिष्ट्यं च ध्वनेः विशकलनपूर्वकानुमानगातायन सम्बन्धेन ।

कुरुत इति। अत्र अहं करोमीति उत्तमपुरुषीयक्रियां परस्मैपदं चानिर्दिश्य प्रथमपुरुषीयक्रियाया आत्मनेपदस्य च निर्देशः स्वल्य अलङ्कारशास्त्राभिज्ञत्वं यशोरूपफलभोक्तृत्वं च ध्वनयति । दर्शितं चैतत् "नियतं यशसे प्रपत्स्यते” “सहसा यशोऽभिसर्तुमिति च वदता ग्रन्थकृता स्वयमेव । ननु यद्यपि यशोरूपफलस्य स्वभोक्तृतया कर्तृगामित्वम् तथापि ध्वनेरनुमानान्तर्भावप्रकाशनरूपफलल्य लोकोदूदेश्यकत्वेन परगामित्वात्परत्वात्परस्मैपदेन बाधात्कथं पुनस्तङिति चेत् । गन्धनावक्षेपणेति सूत्रेण प्रकथने कृञ अत्मनेपदस्य विशिष्याभिधानादात्मनेपदम् ।

ननु कस्ते हेतुरेतावत्प्रयासे यतः प्राक्तनैर्ध्वनिकारादिभिरियं बहुधा विवेचितैवेत्यत आह-अनुमान इति। सर्वस्यैव भेदप्रभेदात्मकस्य सकलस्यैव न तु एकदेशस्य ध्वनेः, अनुमाने। अनायं भावः । ध्वननमिति भावव्युत्पत्या ध्वनिः व्यञ्जकयोः शब्दार्थयोः व्यङ्ग्यविषयो व्यापारः। ध्वन्यते इति कर्मव्युत्पत्या ध्वनिः व्यङ्गयोर्थः। ध्वनतीति कर्तव्युत्पत्या ध्वनिः शब्दः अर्थश्च अर्थात् शब्दार्थयुगलरूपं काव्यमिति ध्वनिवादिनामभ्युपगमस्तथैव व्यवहारश्च। अनुमितिरिति भावसाधनेन अनुमानं व्याप्यस्य दर्शनेन व्यापकस्य निश्चयः । यथा व्याप्यस्य धूमस्य दर्शनेन व्यापकस्य वह्ननिश्चयः। अनुमीयतेऽनेनेति करणसाधनेन अनुमानम् अनुमितेः करणं व्याप्तिज्ञानम् । इति नैयायिकानामभ्युपगतिर्व्यवहृतिश्च । श्रुतेरेव स्वतः प्रामाण्यं यत्र श्रुतिः साक्षान्न श्रूयते तत्र स्मृत्यादिना श्रुतिरुनीयते इति श्रुत्यनुमापकं स्मृत्यादिवाक्य- मप्यनुमानपदेनाभिधीयते इति मीमांसकानां सरणिः। एवं चात्र व्यक्तिविवेक” इति ग्रन्थस्य व्यञ्जनाव्यापारसमालोचनपरतया ध्वनेः व्यञ्जनाख्यव्यापारस्य। यथाचोक्तम्-ध्वनिर्नामापरो योऽसौ व्यापारो व्यञ्जनात्मकः। इति। अनुमाने व्याप्यदर्शनेन व्यापकनिश्चये व्यक्तिविवेके अनुमितौ “परकामुकोपभोगवती इयम्” “राधिकामुखं चन्द्रः" इत्याकारिकायालय यद्यपि ध्वनिकारादिभिः व्यङ्ग्यस्यैव प्रभेदाः निर्दिष्टाः न व्यञ्जनायाः तथापि का मानन्त्यात् यथा कारणानामानन्त्यं सुतरां स्वत आपद्यते एवं व्यापारिणो व्याय अनेकभेदभिन्नत्वेन व्यापारस्य व्यञ्जनायब अपि तथालं न्याय्यमिति सूक्तमेव सकरस्येति विशेषणमिति च । [ध्वनति स्फोरयति वाच्यलक्ष्यतात्पर्याांतिरिक्तं चत सानिविष्टं व्यङ्ग्यरूपमर्थ यः स ध्वनिः काव्यविशेषः उत्तम काव्यमिति यावत् । तमर्थ व्यङ्कः, काव्यविभेषः स ध्वनिरित्युक्तः । तल्य अनुमाने अनुमीयते अनेनेति अनुमानम् अनुमापकवाक्यं तस्मिन् ] अन्तर्भावं तादात्म्यं प्रकाशयितुं ज्ञापयितुम् , न तु अन्तर्भावयितुम् , अन्तर्भावस्तु ध्वनेरस्त्येव मया तु स केवलं प्रकाश्यते लोकेभ्यः । नहींदानी यावत्केनापि इयता प्रबन्धन ध्वन्युमानयोरभेदो निर्दिष्टः मयैवैतावत्क्रियते इति न प्रयासे वैयर्थ्यशङ्काकलङ्क इति भावः । ननु निर्माणकर्मणो मानसूत्रवत् वचसो विषयनेयत्यं बोधयितुं सर्वत्रैवादिवाक्ये भिधानप्रयोजनादिकमुच्यते । ततश्च कथम् “सिद्धार्थ सिद्धसम्बन्धं श्रोतुं श्रोता प्रवततेइत्युक्तस्य श्रोतृप्रवृत्तिकारणस्य विरहात्तत्र प्रवृत्तिरिति चेदबोच्यते । व्यक्तिवियको ग्रन्थाभिधानम् । अन्तर्भावप्रकाशनं तस्य च यश: प्राप्तिः प्रयोजनम् । प्रतिपाद्या व्यक्तिविचारः । ग्रन्थः प्रतिपादकः । तयोश्च प्रतिपाद्यप्रतिपादकभावलक्षणः सम्बन्धः॥१॥ ननु अज्ञ-संदिहान-विपर्यस्तानामज्ञान-सन्देह-विपर्यासनिरासाय विज्ञानां मनोविनादाय वा तत्रापि स्वसमानस्वापकृष्टस्वोत्कृठानामधिकारिणां कृते ग्रन्थप्रणयन भवति । तत्त्वया कस्य कृतेऽद्धः सम्पाद्यत इत्यत आह-युक्त इति । मे ममाय प्रणयने प्रयत्न: आत्मसदृशान् स्वतुल्यान् नैयायिकान् प्रति युक्तः सङ्गतः । युक्ति इयमेव, यत्तेऽनुमानव्यसनिनो ज्ञानसिद्धमीश्वरमपि कायांद्यनुमेयमिच्छन्ति, ततो ध्वन अनुमानेनैव यदा गातार्थ्यं स्यात्तदा तेषां महान् प्रमोदविषयो भविष्यति इति। अन्येषां कृते कुतो नायं प्रयत्नः इत्याह-नास्तीति । तद्वस्तु एवं जगति संसारे नास्ति यत्सर्वमनोहरं निखिल (विप्रतिपन्नाऽविप्रतिपन्नसाधारण) जनचित्ताकर्षकं भवेत् । कुत एतदित्याह-केचिदिति । यद्यस्मात् जगतः प्रदीपे सूर्येऽभ्युदयभाजि उदिते सति केचित् सूर्यकान्तमणयः ज्वलन्ति, अपरे पद्मादयो विकसन्ति, अन्ये कुमुदिनीप्रभृतयो निमीलन्ति सङ्कुचिता भवन्ति । एवं बोधजनकतया प्रकाशके मद्ग्रन्थेऽभिमुखमागते सति विप्रतिपन्नाः कोपमेष्यन्ति, सुहृदः प्रसन्ना भविष्यन्ति, दुहृदो दुःखें माप्स्यन्ति । अन्न ज्वलनकोपकरणादीनां बिम्बप्रतिविम्बभावेन लब्धप्रसरः उपमेयवाक्यस्य स्वशब्दानिर्दिष्टतयाऽर्थाक्षिप्तो दृष्टान्तालङ्कारो व्यज्यते । यत्रोपमानोपमेयवाक्ययोभिन्नावेव धर्मो बिम्बप्रतिविम्बभावेन निर्दिष्टौ तत्र दृष्टान्त इति लक्षणात् ॥ २ ॥ का ननु यदि ग्रन्थस्य सर्वमनोहरत्वं नास्त्येव किन्ते वैलक्षण्यमन्यथा त्वद्ग्रन्थसदृशा बहवो ग्रन्थाः सन्त्येवातो निष्फलं त्वया प्रयत्यते इति चेन्नेत्याह-इहति । इह ग्रन्थे सम्प्रतिपत्तितो ध्वनिकारोक्तस्याङ्गीकरणाद्वा अन्यथा वा विप्रतिपत्तितोऽनङ्गीकरणाद्वा । यदा परीक्ष्यापि तद्वचसो याथार्थ्यं नावबुध्यते तदा विप्रतिपत्तिराश्रीयते खण्ड्यत इति भावः । नोऽस्माकं ध्वनिकारस्य वचोविवेचनं नियतमवश्यं यशसे कीर्ति प्रसारयितुं प्रपत्स्यते भविष्यति । नियतयशः प्राप्तिमर्थान्तरन्यासेन द्रढयति-यन्महतामिति । यद्यतो महतां गुरुभूतानां संस्तवः परिचय एव गौरवाय यदा महद्भिः साकं परिचय एव गौरवं किमुत व्यवहारे इति अनैष्फल्यं प्रयत्नस्येति भावः । “संस्तवः स्यात्परिचयः” इत्यमरः । अत्र ध्वनिकारस्य वचोविषेचनमिति वाक्ये ध्वनिकारस्येति पदस्य वचःपदेनान्वयो विवक्षितः किन्तु वचोविवेचनयोः एकार्थाभावात् विवेचनमित्यनेन साकम्प्रतीयत इत्यतः अभवन्मतयोगो दोषः । एतच्चास्य पुरोभागिनः स्वात्मनिरूपणमिति । महतां सस्तव एव गौरवायेत्युक्त्या स्वस्य ग्रन्थकरणप्रवृत्तिप्रयोजनं निर्दिष्टम् । एतेन मय्यपि दोषाः किन्तु यशसे रचनाप्रवेश एष इति ध्वनितम् ॥ ३ ॥ अथ यच्चाप्यत्र विवेचने दूषणं संभाव्येत तच्च सर्वप्रथमं ध्वनिध्वंसनजन्ययशोलिप्सया रभसप्रवृत्तत्वात् , अनुरूपग्रन्थान्तरापरिशीलनात् भ्रान्तीनां च मनुष्यस्वभावसुलभत्वात् न मे बुद्धिपथिकं भवतीति माऽसूया कर्त्तव्येत्याह-सहसेति । मम धीः ममैव बुद्धिर्नान्यस्य । अनेनास्यासहायशूरत्वं ध्वन्यते । सहसा अकस्मादेव । यावन्नान्यस्य ध्वनिध्वंसजन्यं यशः प्रसरति तावत: कालात्प्रागेवेति भावः । यशः प्रति अभिसत्तुं ध्वनिध्वंसजन्ययशः प्रति गन्तुम् तत्प्राप्तुमिति भावः । समुद्यता सोद्योगा सोत्साहेति यावत् वर्तते । किन्तु अदृष्टदर्पणा । अदृष्टो दर्पणो ध्वनिध्वंसग्रन्थो यया सा तथाभूता सती । स्वालंकारे स्वनिर्मास्यमाणे क्तिविवेकाख्ये काव्यालंकारे ये विकल्पाः भेदाः । ध्वनिखण्डनानीति हृदयम् । तेषां प्रकल्पने स्वयथास्थानविन्यासे विषेचने इति परमार्थः । अवयं दोष कथमिव कथं वा वेत्ति ज्ञातुं शक्नोति । यथा समयविलम्ब मनुभूय रभसेन नायकमभिसर्तुं प्रवृत्ता नायिका दर्पणमननुदर्शम् स्वालंकाराणा हारकटककेयूरादीनां यथास्थाने विन्यासः कृतो न वेति ज्ञातुं न प्रभवति स्वस्था दृष्टदर्पणा तु लथाकत्तुं शक्नोत्यपि तथा मवुद्धेरपि दशा ज्ञेयेति भावः । अत्र श्लिष्टविशेषण साम्यादृवुद्धी अभिसारिकाव्यवहारप्रतीत्या समासोक्तिरलंकारः ॥ ४ ॥ अथ विचारपूर्वक क्रियमाणेऽपि प्रकल्पने ध्वनिमार्गस्यातिगहनतया स्खलन नाश्चर्यकरमिति विनयं प्रदर्शयति-ध्वनिवर्मनीति । अतिगहने प्रमेयैरतिगह्वरे ध्वनिवर्त्मनि ध्वनिमार्गे वाण्या भारत्याः स्खलितमसम्बद्धकथनं पदे पदे स्थाने स्था सुप्रापम् । कुत एतदित्याह-रभसेनेति । यद्यतः इयं वाणी प्रकाशकं ध्वनिग्रन्थीयविवरणं चन्द्रिकादि। आदिपदात् लोचनं गृह्यते । अदृष्ट्ववानालोच्यैव रभसेनावेगेन प्रवृत्ता अनुप्रविष्टा । अन्या अभिसारिकापि कामातुरा ज्ञानशून्याऽतिसन्तमसावृते चन्द्रिकारहिते मार्गे गाद्गच्छन्ती पदे पदे पदभङ्गमनुभवति। अत्रापि श्लिष्टविशेषणसाम्यावाण्यामभि सारिकाव्यवहारप्रतीतिः ॥ ६॥ केतकी कण्टकेद्धाऽपि सौरभेणातिशस्यते इत्युक्तिदिशा नात्रातीवदोषावकाशः गुणलेगोऽपि वर्त्तते । तत्रैवादरो विधेय इत्याशंसन्नाह-किन्त्विति । किन्तु तथापि आयैस्तत्स्खलनमवधीर्य तिरस्कृत्य अपहायेत्यर्थः । गुणलेशे गुणलवे सततं निरन्तरमवहितैः सावधानैर्भाव्यम् । अथवा ते आर्याः परिपवनवत् शूपर्वत् जात्यैव जन्मनैव तुषग्रहणं वुसग्रहणम् । आर्यपक्षे दोषग्रहणम् । न शिक्षिताः न परिचिताः । अत्र गुणविषये आयः सावहितैर्भाव्यमिति पूर्व निरूप्य, पश्चाच्च अथवा मया किं वक्तव्यम् तेषां गुणे एव पक्षपातः प्रसिद्धो न दोषग्रहणे इत्यार्यपरिपवनौ गुणग्रहणकणग्रहणे अर्थतो दृष्टान्तीकृत्यपुनः तुषस्य ( दोषस्य च ) ग्रहणं निपिद्धमिति वैधय॑दृष्टान्तमूल आक्षेपः । आक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणादित्युक्तेरिति श्रीगुरुचरणाः । वैधर्म्यदृष्टान्तमूलो व्यतिरेकः इति प्राक्तनटकाकाराः ॥ ६ ॥ तत्रेति। ग्रन्थारम्भोपोद्घातमाटीकते। तत्र व्यक्तिविवेके प्रस्तुते सति तावदादा । तावत्पदोपादानं स्वकृतविकरस्य क्रमत्वनिदर्शनाय। ध्वनेरेव लक्षणं वक्तव्यम् । कोयं ध्वनिर्नामेति । यस्यान्तर्भावं कत्तमिच्छति स ध्वनिः कः तस्य पुनर्लक्षणं वक्तव्यमिति प्रश्नाशयः । उत्तरति-तच्चेति । तध्वनिलक्षणं ध्वनिकारेणैव स्वत उक्तम् । तद्यथेति तल्लक्षणं दर्शयति-यत्रार्थ इति । यत्र काव्यविशेषे । अर्थः अभिधेयः शब्दो वाचको वा उपसर्जनीकृतः गुणीकृतः स्वमात्मा, अर्थः स्वप्रतिपाद्यो याभ्यां तौ तथाभूतौ सन्तौ तं "सरस्वती स्वादु तदर्थवस्तु निष्यन्दमाना महतां कवीनाम् । आलोकसामान्यमभिव्यनक्ति परिस्फुरन्त प्रतिभाविशेषम्" इति यदुक्तम्। चमत्कारनिदानम् अर्थम् (व्यङ्ग्यम् ) व्यङ्क्तः । ध्वन्यमानार्थप्रतिपादनावसरे अर्थः स्वमात्मानम् , शब्दः स्वाभिधेयमर्थ गुणीकरोतीति भावः । वाशब्दस्य व्यङ्क इति द्विवचनस्य चायमाशयः । अर्थस्य शब्दवेद्यतयैव व्यञ्जकत्वात्तत्र शब्दस्य सहकारिताऽवश्यमङ्गीकार्या किन्तु तस्य गुणीभावः अर्थस्य प्राधान्यम् । एवं शब्दस्यापि अर्थव्यवहिततया तथात्वादर्थस्य सहकारित्वम् अन्यथा अज्ञातार्थोपि शब्दो व्यञ्जकतामियात् । परन्तु तस्योपसर्जनत्वं शब्दस्य प्राधान्यमित्येवं सर्वत्रापि शब्दार्थयोर्ञ्जकत्वमिति सिद्धान्तः। स काव्यविशेषः । काव्यं च तद्विशेषश्चासौ तथा । ध्वनिरिति संज्ञया सूरिभिः विद्वद्भिः न तु एकेन सूरिणा विदुषा कथितः एकस्य तथाकथनं प्रमादत्वेनापि संगृह्येत अर्थात् विद्वत्प्रक्रान्तमिदं कथनं न तु यथा तथा प्रवृत्तमित्यतो नात्र असांदृष्टिकत्वशंका करणीयेति भावः ॥ अत्रादस्तत्वम् । पूर्वे हि विद्वांसो वैयाकरणाः ते च वर्णव्यतिरिक्तस्य पदस्य वाक्यस्य वा वाचकत्वमिच्छन्ति वर्णानां प्रत्येकं वाचकत्वे द्वितीयादिवर्णोच्चारणानर्थक्यं प्रत्येकमानर्थक्ये तत्समुदायस्य वाचकत्वमभ्युपेयम् । तदपि न विचारसहम् । समुदायोऽपि उत्पद्यमानाभिव्यज्यमानत्वेन द्विधा । तत्र आद्यस्य उत्पद्यमानवर्णसमुदायस्य वाचकत्वे योगपद्येन तेषामुत्पत्यभावात् । अन्त्यस्य अभिव्यज्यमानवर्णसमुदायस्य वाचकत्वे क्रमेणैवाभिव्यक्त्या समुदायस्यौवाभावात् । ननु पक्षद्वय, ऽपि पूर्वपूर्ववर्णानुभवजनितसंस्कारसहकृतान्त्यवर्णानुभवहेतुकैकस्मृत्युपारूढानां तेषां वाचकत्वमिति चेत् तहि सरो रसः नदी दीनः जरा राजा इत्यादावर्थप्रतिपत्यविशेषप्रसीपला क्तिर्दुर्वारा । अतः अनित्यैस्तैः समुदायभूतैः घटपटादिशब्दरूपैः स्फोटसंज्ञका द्विती नित्यः शब्दः शब्दोपाध्यनुगतं ब्रह्मेति यावत् अभिव्यज्यते । अभिव्यक्तात्तस्त स्फोटादर्थस्य प्रतीतिः । तादृशानां स्फोटाभिव्यंजकानां घटपटादिशब्दानां ध्वानिरिति संज्ञा । तथा स्फोटः शब्दः । ध्वनिः शब्दगुणः इति भाष्यात् स्फोटरूपस्य शब्दस्य ध्वनेः भेदेऽपि प्रतीतपदार्थको लोके ध्वनिः शब्दः इति । तस्मादू ध्वनिः शब्दः इति च भाष्यादेवाऽभेदोपि ध्वनिशब्दयोरिति वैयाकरणानां सिद्धान्तसरणिः । एतन्मतानुसरणशीलैरालंकारिकैरपि गुणीभावितस्वार्थस्य शब्दार्थयुगलस्य उत्तमकाव्यस्यात काव्यविशेषे सरस्वती स्वादु तदर्थवस्तु” इत्युक्तचमत्कृति- भूमिभूतार्थव्यञ्जनक्षमत्वेन व्यञ्जकत्वसाधर्म्यात् ध्वनिरिति संज्ञा कृता । ध्वनतीति ध्वनिः काव्यमिति व्युत्पत्तेः । तथा रसध्वनिः अलंकारध्वनिः वस्तुध्वनिरिति कर्मधारयधिया प्रयुक्तप्रयोगदर्शनात् भेदोऽपि आपातत स्वीकृत इति। नन् निर्मिमित्साविषयो ग्रन्थो व्यक्तिविवेकस्तस्य च व्यंजनासमालोचनमित्यक्षरार्थः। एवं हि व्यञ्जनाया एव लक्षणादिकं वक्तव्यं किमिति काव्यविशेषस्य ध्वनेर्लक्षणमुच्यत इति चेत्सत्यम्। व्यञ्जना नाम व्न्यार्थप्रत्यायनाय स्वीकृतो व्यापारः। व्यापारा हि विषयादिमुखप्रेक्षितया विषयस्वाश्रयद्वारैव स्वरूपं प्रतिलभते, अत एव स्वस्वरूमापमात्रोण क्षोदं न सहते । सहते च तद् विषयो व्यङ्ग्योऽर्थः, तदाश्रय उत्तमकाव्यं ध्वनिः। अतस्तादृशस्य ध्वनेरेव तावल्लक्षणमुक्तमिति निरवद्यम् । इतिः स्वरूपनिर्देशे । एतच्चेति । एतद् ध्वनिलक्षणं विविच्यमानम् आलोच्यमानं सत् अनुमानस्यैव संगच्छते सङ्गतं भवति न अन्यस्य अनुमानातिरिक्तस्य कस्यचिदू ध्वनिनामकस्य। एवं नानुमानात्पृथग्भूतो ध्वनिरित्याशयः । लक्षणे दोषदशकोपदर्शनक्रमेण ध्वनेरनुमानान्तर्भावमुपपादयितुं पीठिकामाबध्नाति तथाहीति । अर्थस्य वाच्यार्थस्य उपसर्जनीकृतस्वत्वमितिविशेषणं सर्वथा नोपादेयम् । अनुपादाने हेतुं दर्शयति-तस्येति । अर्थान्तरप्रतीत्यर्थम् व्यङ्गयार्थज्ञानार्थमुपात्तस्य काव्यान्तरुपस्थापितस्य तस्य वाच्यार्थस्य तद्व्यभिचाराभावात् उपसर्जनीकृतात्मत्व वर्णोच्चारणानर्थक्य । तदपि न वि. व्यभिचारविरहात् ।। अयं भावः। संभवव्यभिचाराभ्यां स्याद्विशेषणमर्थवदिति नयबलादुभयसत्तायामेव विशेष्यविशेषणभावः संजाघटीति, न केवलायां संभवसत्तायामुष्णोग्निरितिवत्। नवा केवलायां व्यभिचारसत्तायां शीतोऽग्निरितिवत्, उभयसत्तायां यथा नीलोत्पलादिषु विशेषणीभूतस्य नीलस्य उत्पलादिषु संभवात् रक्तोत्पलादिषु तस्य व्यभिचाराच्च संजाघटीत्येव विशेष्यविशेषणभावः । एवं यथा अर्थस्य द्वितीयार्थप्रकाशनदशायामुपसर्जनीकृतात्मत्वं सम्भवति तथैव यदि तस्य तादृशाायां तत्त्वं व्यभिचरेदपि तदा उपसर्जनीकृतात्मत्वस्य अर्थविशेषणत्वं संगतिमत्स्यात् । किन्तु नात्र अर्थे तस्य व्यभिचारः । इत्यनायत्या सिद्धं भवति यत् न तदर्थस्य विशेषणं भवितुमर्हतीति।। अर्थान्तरप्रतीत्यर्थमुपात्तस्य उपसर्जनीकृतात्मत्वाव्यभिचारं दृष्टान्तेन साधार नहीति । संदिग्धसाध्यके पक्षे पर्वतप्रभृतौ अग्न्यादेः सिद्धौ साधनविषये। साधना स्तयां सिद्धौ । तदर्थमिति भावः । उपादीयमानः हेतुत्वेन गृह्यमाणो धूमादिः गणना मुपसर्जनत्वं नातिवर्त्तते नातिकामति । अर्थात् अग्न्यादीन् प्रति धूमादयो गुणा एव कुत एतदिति पर्यनुयोगे हेतुमुपन्यस्यति-तस्येति । तस्य धूमादेर्गुणस्य । तदेव तन्मात्रम् अन्यसिद्ध्यर्थमुपादोयमानत्वमेव लक्षणं स्वरूपं ज्ञापकं वा यस्य सः। तस्य धूमादेर्गुणस्य। तदेव तन्मात्रम् अन्यसिद्ध्यर्थमुपादीयमानत्वमेव लक्षणं स्वरूपं ज्ञापकं वा यस् सः। तस्य भावस्तत्वं तस्मात्। ननु यदिह साधितम् वाच्यार्थस्य अर्थान्तरं प्रति उपसर्जनत्वमव्यभिचारि ततः विशेषणत्वसाधकव्यभिचाररहिततया उपसर्जनीकृतात्मत्वस्य अर्थविशेषणत्वं न संगच्छत इति । तन्मन्दम् । यतो हि समासोक्त्यप्रस्तुतप्रशंसादौ अलंकारे गुणीभूतव्ययभेदे व्यङ्ग्यमुपसर्जनमेव किन्तु वाच्यं चमत्कारभूमिमधिशेते इति प्रधानम् । एवं च अर्थस्य उपसर्जनत्वव्यभिचारदर्शनेन ध्वनिकारस्य उपसर्जनीकृतात्मत्वविशेषणप्रदानं ज्याय इत्याशङ्कायामाह-यत् पुनरस्यति । अत्र वाक्ये प्रक्रान्तार्थविषयकेण तदा यच्छब्दस्याक्षेपः आलोचनस्य प्राधान्याप्राधान्यविष यकत्वात्प्राधान्यस्य प्रक्रान्तत्वात् । अस्य वाच्यार्थस्य क्वचित्पुनः समासोक्त्यादौ । आदिपदादू गुणीभूतव्यङ्ग यानामन्येषां ग्रहणम् । यत्प्राधान्यमुच्यते तत् प्राधान्यं तस्य प्राकरणिकतया एव संगच्छते । अर्थात् गुणीभू तव्यङ्गयेषु वाच्यार्थः प्राकरणिकः अतस्तस्य प्राकरणिकत्वहेतुकमेव तत्र प्राधान्यं न तु अर्थान्तरस्य प्रतीयमानस्य अपेक्षयापीति । तत्र प्राकरणिकत्वमस्तीति तस्य प्राधान्यम् । इदमत्राकूतम्। सामान्यविशेषभावेन अर्थे प्राधान्य द्विविधं संभवति सामान्यतो वर्ण्यत्वेन विशेषतः स्वस्वरूपत्वेन अर्थात् वाच्यत्वेन लक्ष्यत्वेन व्यङ्ग्यत्वेन च । तत्र वर्ण्यत्वनिमित्तं प्राधान्यं वाच्यलक्ष्यव्यङ्गयेति त्रिरूपेऽपि अर्थे समानम् , ते च भवन्त द्वितीयार्थप्रत्यायनार्थमुपात्ता मा वा । स्वस्वरूपत्वेन प्राप्तं प्राधान्यं स्वस्मिन्नेवास्ति किन्तु यदि एषु परस्परप्राधान्याकलनप्रसङ्गः, तदा परं परं प्रधानं पूर्व पूर्व गुण उपायत्वात्परस्य। एवं च यद्यपि वाच्यार्थे वर्ण्यत्वनिमित्तं प्राधान्यं प्रकामं विद्यते, किन्तु तादृशं प्राधान्यमिह ध्वनिलक्षणे नोपयोगि । यतः व्यङ्गयव्यञ्जकभावप्राणो ध्वनिः । समट्टडितं चैतदू "व्यः " इति वदता ध्वनिकारेण । ततश्च सुतरां व्यङ्गस्योपेयत्वात्प्रधानत्वम् , व्यञ्जकल्य पुनरूपायत्वादुपसर्जनत्वमिति । नच वाच्यम् अर्थस्य उपसर्जनीकृतात्मत्वविशेषणमाहात्म्यात् प्राकरणिकत्वसमुत्थापितं प्राधान्यं परिहियेतेति। तादृशं प्राधान्यं प्रकृतानुपयुक्ततया न तद्विशेषणेन परिहरणीयमित्यनुपादेयमेव तत् । यथेत्यनेन प्राकरणिकत्वनिमित्तमेव वाच्यार्थस्य प्राधान्यं भवतीति उदाहरणमुखेन साधयितुमुपक्रमते-उपोटेति । उपोढः धृतः। प्रेम्णो वहनीयत्वोक्त्या गुरुतमत्वं सूच्यते, रागः सांध्योऽरुणिमा प्रेमा च । शशिना मृगाकेण कलडिना उपनायकेनेति यावत् । अन्यथा चन्द्रेन्दुपदानां परश्शतानामपि योजयितुं शक्यत्वात् । विलोलाश्चञ्चलाः तारका नक्षत्राणि कनीनिकाश्च यत्र तत् । निशाया रात्रेः नायिकायाश्च मुखं प्रारम्भो वक्त्रं च। तथा झटित्वेव प्रेमरभसेन गृहीतमाभासितं चुम्वितुमाकान्तं च । यथा पुरः पूर्वस्या दिशि रागात् सांध्यारूणिम्नोऽनन्तरं तया रात्र्या करणेन समस्तं मिश्रितं तिमिरं सूर्याशुकं च गलितं प्रशान्तमपि न लक्षितं चन्द्रस्य झटिति समुदितत्वात् कदा तिमिरांशकं प्रशान्तमिति ज्ञातुं न पारितम् । चन्द्रोदयोत्तरं तिमिरांशुके गलिते अर्थात् स्फटालोके जाते सति प्रदोषो लोकैन लक्षितो यतस्तिमिरसंवलितांशुसद्भावे प्रदोषो ज्ञातुं शक्यते न स्फुटालोकोत्तरमिति रात्रिपक्षेऽर्थः । नायिकापक्षे च पुरोऽने गलितमपि पतितमपि तिमिरांशुकं नीलाम्बरं रागात्प्रेम्णः हेतोः तया नायिकया न लक्षितं न ज्ञातम् । अत्र हि पद्ये प्रतीयमानेन व्यंग्येन अनुगतम् अनुयातम् वाच्यमेव वाच्यार्थ एव प्राधान्येन प्रतीयते । वाच्यार्थस्य प्राधान्ये हेतुमाह-समारोपितेति । समारोपितः नायिकानायकयोर्व्यवहारः समाचारो ययोस्तयोः । यद्यपि पुमान् स्त्रियेति सूत्रेण स्त्रिया सहोक्तौ पुमान् शिष्यते इत्यर्थकेन नायिका च नायकश्चेति एकशेषीभाष नायको तयो यकयोरित्येव भवितुं न्याय्यम् । तथापि नायिकाया यो व्यवहारः स निशायां समारोपितः । नायकस्य च यो व्यवहारः स शशिनि समारोपितः इति व्याख्यानेन न कोपि दोषः तथा महामहतामुक्तिः कथंचिन्नेयापि स्यात् । निशा च शशी चेति निशाशशिनौ तयोरेव वाक्यार्थत्वात्प्रधानतया परामृष्टत्वात् । एवमपि वाच्यस्य प्राकरणिकापक्षेयैव प्राधान्यं समायातीति भावः । तदपेक्षया अर्थस्य प्रतीयमानापेक्षया व्यङ्गयार्थनिरूपितमितियावत्, एतस्य लिङ्गत्वेऽन्वयः, तस्य वाच्यस्य लिङ्गत्वम् अनुमापकत्वम् । अतः उपसर्जनीभावस्य गुणत्वस्य अव्यभिचारः तदेवमर्थस्य विशेषणत्वसाधकाभाव इति पर्यवसितम् । ननु समासोक्त्यप्रस्तुतप्रशंसादौ प्रतीयमानापेक्षया वाच्यस्य चारुत्वमस्ति, न वा। तत्र नान्त्यः अनुभवस्यापलपितुमशक्यत्वात् । आद्यश्चेत् समायातं वाच्य प्राधान्यम् । ततश्च उपसर्जनीकृतात्मत्वस्य व्यभिचार एवेत्यभ्युपगम्य ब्रूतव्यभिचारऽपीति । व्यभिचारेऽपि वाच्ये चारुत्वनिमित्तकप्राधान्येन उपसजनार तात्मत्वस्य अभावेऽपि एतद्विशेषणमुपसर्जनीकृ तात्मत्वमनुपादेयमेव अप्रयोक्तव्य यतो न केवलं तत्र गुणीभूतव्यङ्गयेऽपि काव्ये वाच्यस्यैव चारुत्वप्रकर्षः कचिद्वयनमय पीति विफलमेव उपादानं स्यादिति बक्ष्यते काव्यवैशिष्टयनिराकरणप्रस्तावे । तनव विषेक्ष्यामः ।

उक्तार्थ संक्षेपेण बोधयितुं संग्रहश्लोकं संग्रथ्नाति-उक्तमिति । यदर्थस्य गुणीकृतात्मत्वं विशेषणमुक्तम्, तद्विशेषणं तस्यार्थस्य न युक्तम् । तत्र हेतुः वाच्यार्थस्तत्र गमक एव प्रतीयमानं प्रति उपाय एव, ततश्च उपसर्जनीकृतात्मत्वमपि तत्र न व्यभिचरति । इति संग्रहश्लोकार्थः ।। 

एवमर्थस्य उपसर्जनीकृतात्मत्वाभावं प्रसाध्य शब्दस्यानुपसर्जनीकृतार्थत्वं साधयितुमाह-शब्द इति । उपसर्जनीभावाकलनदशायां शब्दः पुनः शब्दस्तु । पुनरिति तोरर्थे। अनुपादेय एव अनुल्लेख्य एव । ध्वनिलक्षणे शब्दोऽनुपादेय इति न किंचिदेतत् । कुतः अनुपादेय इत्यत आह-तस्येति । तस्य शब्दस्य स्वार्थाभिधानमन्तरेण स्वार्थकथनं विहाय व्यापारान्तरस्य क्रियान्तरस्य अनुपपत्तेः अयुक्तत्वस्य उपपादयिष्यमाणत्वात् । युक्तिभिः साधयिष्यमाणत्वात् । अयं भावः । अज्ञातज्ञापकरूपाच्छब्दादज्ञातज्ञापकत्वमपहियेत तर्हि नापरः कश्चिद् व्यापारोऽवशिष्येत दीपात् प्रकाशकत्वरूप पारापहरण इव । अतः अज्ञातज्ञापनार्थ तदुपादानमावश्यकं स्यात् । एवंहिहीर यथा प्रकाशकत्वमेव व्यापारः नान्यः । तथा शब्दे अज्ञातज्ञापनमेव व्यापार, नाय. अर्थोपसर्जनीकरणरूपः । अतः अर्थोपसर्जनीकरण- व्यापारप्रकरणे शब्द अनुपादेय इत्या भवतीति यश्च शब्दे स्वार्थाभिधानातिरिक्तः अर्थोपसर्जनीकरणात्मकव्यापारो दृश्य इदं च प्रासंगिक ज्ञेयम् । भेदाभेदाभ्यां द्विप्रकारमनुकरणं भवति । तत्र यत्र भेदानुकरणं तत्र शक्तिलक्षणाऽन्यतरसम्बन्धेन पढ़वोध्यत्वरूपार्थवत्वात् अर्थवत्सूत्रेण प्रातिपदिकसंज्ञया स्वाद्युत्पत्तिः । अनुकार्यभूतश्शब्दस्तदर्थः। यथा-युस्मदस्मभ्यामिति युष्मदस्मदोःषष्ठीचतुर्थीतिप्रभृतिषु । यत्र च अभेदानुकरणं तत्र सादृश्यसम्बन्धेन यन्त्र पदार्थोपस्थितिर्न तत्र प्रातिपदिकसंज्ञेति गवित्ययमाहेत्यादिमहाभाष्यप्रयोगानुदर्शनसिद्धकल्पनायाः जागरूकतया प्रातिपदिकत्वाभावान्न स्वाद्युत्पत्ति:-यथा गवित्ययमाहे त्यादिः । एवं भेदानुकरणे अनुकार्यशब्दरूपोर्थः व्यवहार्यार्थापेक्षया गुणीभूतः “तदेतद्वक्ष्यते अन्यस्य तूपसर्जनीभावाव्यभिचार एवेति । अनुकरणस्थलं प्रदर्शयति-तं कर्णमूलमिति । जरा वार्धक्यं पलितच्छद्मना व लीपलितव्याजेन; नेदं पलितम् अपि तु जरैवेति अपहनतिरलंकृतिः। कैकेयीशंकया ३० कर्णमूलं श्रुतिप्रदेशमागत्य "रामे श्रीः राज्यलक्ष्मीय॑स्यता" मिति तं दशरा रा नमाह । अन्योऽपि परश्रुतिभिया गुप्तमर्थ कर्णसमीपमागत्य निवेदयति । कविना राम श्रीन्यसनरूपं जरावाक्यमनुकृत्य स्वकाव्ये उल्लिखितमिति स्वाव्यवहितपूर्ववर्तिस्वरूपपरामर्शकेन इतिशब्देनावेदितम् । नन्वत्रानुकरणस्थले अर्थोपसर्जनीकरणरूपव्यापारेऽभ्युपगते स्वार्थाभिधानात्मक व्यापाराभावेन कुतस्तदऽर्थावगतिरित्याशंकते-कुत इति । कुतः कस्माच्छब्दात् तस्य अनुकरणस्य अनुकरणसम्बन्धिन अर्थस्य रामे श्रीन्यसनरूपव्यवहार्यार्थस्य अवगतिः जानं जायत इति शेषः । उत्तरति-अनुकार्यादितीति । अनुकार्यादेव सार्थकत्वनिरर्थकत्वयोः भेदेन द्विविधादपि अनुकरणीयशब्दादेव तस्य अनुकरणसम्बन्धिनोऽर्थस्य प्रतीतिरिति ब्रूमः प्रतिपादयामः । तुरित्यवधारणे । नैव अनुकरणात्तदर्थावगतिः । कुत एतदित्याह-तस्येति । इतिशब्देन व्यवच्छिन्नल्य विशेषितस्य तस्य अनुकरण शब्दस्य स्वरूपमात्रे आकारे एव अवस्थानात् स्थितेः । स्वरूपमानपरतया च ततो नार्थावगतिर्भवितुं शक्तति भावः। अत्रेदं हृदयम् । शब्दोपस्थाप्योऽर्थो द्विविधः अर्थक्रियाकारिरूपः अनुकार्यशब्द रूपश्च । तत्राद्यः घटादिव्यक्तिरूपः तत्तत्पदशक्तिबोध्यः । द्वितीयोऽनुकरणशब्दस्यार्थः द्विविधः सार्थकत्वनिरर्थकत्वभेदेन । यद्यपि अनुकरणशब्दान्न व्यवहार्यार्थावगतिस्तथापि अनुकार्यशब्दस्तदर्थे प्रत्याययतीति तत्वम् । अनुकार्यस्य सार्थकता यथा-रामे श्रीयंस्यतामिति । हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान् सस्मितमित्यादि । अन्नोभयन्न कविना क्रमशो जरोक्तिः शिवोक्तिश्चानुकृता । अनुकृतोक्त्योश्च वर्णात्मकपदतया सार्थकत्वम् । निरर्थकता यथा वनस्वरूपवर्णनाऽवसरे "दात्व्यूहव्यूहकेलीकलितकुहकुहारावकान्तावनान्ताः इत्यत्र “दात्यूहव्यूहेन केल्यां कलितो यः कुह कुह इत्यात्मकः आरावस्तेन कान्ता" इत्येवंरूपेण कुहकुहेति ध्वन्यात्मकशब्दतया निरर्थकत्वम् । अन्यस्येति। अन्यस्य अनुकरणाशिन्नस्य स्वतन्त्रतया वाचकस्य अनुकार्यस्य तु वाच्यं प्रति उपसर्जनीभावस्य गुणीभावस्य अव्यभिचार एव सत्ता एव । अभावाभावस्य सद्पत्वात् । यतः तदर्थ वाच्यबोधायैव तस्य अनुकार्यस्य शब्दस्य उपादान भवति। दृष्टान्तेन प्रकृतमुपपादयति-यो हीति । यत् किमपि वस्तुजातम् (घटादि) यदर्थ यत्कृते ( जलार्थम् ) उपादीयते गृह्यते असौ गृहीतवस्तुविशेषः (घटादिः ) तमेव उपादातुमिष्टमेव ( जलादिकमेव ) उपसर्जनीकरोति तस्यैव गुणभावं सम्पादयति इति न वक्तुं युक्तम्-यथा उदकादेरुपादानार्थमुपात्तो घटादिस्तदेव उदकादिकं नोपसर्जनीकरोति; अन्यथा पूर्वोक्ताऽस्वीकारे यो यदर्थमुपात्तः स तमुपसर्जनीकरोति इत्यस्य च स्वीकारे प्रधानेतरव्यवस्था गुणप्रधानभावव्यवस्था निर्निबन्धना निष्कारणा स्यात् । अयं भावः । अर्थ बोधयितुमुपादीयमानः शब्दः नार्थ गुणीकरोति किन्तु स्वयमेव गुणीभवति । यथा जलानयनार्थ घट उपादीयते स उपादीयमानो घटो जलं न गुणीकरोति अपि तु स्वयमेव स तथा भवति । यदि च जलार्थमुपात्तो घटः जलमंत्र गुणीकुर्यात् तहिं गतं प्रधानेतरव्यवस्थया। यतो हि प्रधानेतरव्यवस्था तत्रैव भवात यत्र पदार्थानां मुख्यामुख्यभावः स्यात् । मुख्यश्च स एव यत्र सर्वासा क्रियाणा संवा प्रयोजनानां च संभूय निपतनम् अंगत्वमिति यावत् भवति । निपत्यमानाश्च सब अमुख्यकोटीमाटीकन्ते । एवं च घटादीनां प्रयोजनं जलाधारातिरिक्तं न किमप्यवशिष्यते इति घटादेरङ्गत्वमेव जलादेश्च मुख्यत्वमेवेति। अत एवेति । अत एव प्रधानेतरव्यवस्थायाः सनिबन्धनत्वादेव, घटादिख निधीयते तुल्यरूपतया स्थाप्यते नोदकादिः प्रतिनिधीयते । मुख्यतुल्यरूपस्या निधिशब्दार्थत्वात् । एवमेव अर्थ बोधयितुं प्रवृत्तः शब्द एव विशेषणम् उपसर्जनमिति यावत् न बोध्यमानोऽर्थस्तादृशः इति शब्दस्य गुणीकृतार्थत्वकथने।ऽसम्भवो लक्षणदोषः ।।

	ननु पूर्वमुक्तं गुणीभूतव्यङ्गये चौरुतया वाच्यस्य प्राधान्यम्, ध्वन्यपेक्षया च तस्याप्राधान्यमिति संभवव्यभिचारावपि दृश्यते ततो न पौरोभाग्यमाचरणीयं ध्वनिकारस्य लक्षणे इत्यभ्युपगम्य ब्रूते-"व्यभिचारसंभवयोरपि” इति । व्यभिचारश्च संभवश्चेति व्यभिचारसंभवी । तो यत्र स्तः इति व्यभिचारसंभवौ तयोः । स्वं च अर्थश्चेति तयोः स्वार्थयोः । यथासंख्येन अन्वयः। अथै गुणत्वव्यभिचारः गुणीभूतव्यङ्गये तस्य चारुत्वदर्शनात् । शब्दे च स्वार्थकृतगुणतासंभवः अर्थान्तराऽपेक्षया तथादृष्टत्वात् । तथा च-व्यभिचारसंभवयुक्तयोः स्वार्थयोः अर्थशब्दयोः यत् उपसर्जनीकृतत्ववचनं गुणीभावकथनं तत् पुनरुक्तं नामदोषः । अर्थान्तरस्य व्यङ्गन्यार्थस्य अभिव्य क्त्यर्थं व्यंजनाय उपात्तयोः तयोः स्वार्थयोः सामर्थ्यादेव तन्निष्ठशक्तिस्वाभाव्यादेव तदवगतेः तस्य उपसर्जनीकृतत्वस्य अवगतेः ज्ञानाद्धेतोः शब्दः पुनरनुपादेय इत्युक्तम् । 

ननु पार्थ एव धनुर्धर इत्यत्र यथा 'नान्यः” इति पुनर्वचनं स्वरूपमात्रानुवादफलं भवति तथा अनापि सत्यपि तयोरुपसर्जनीकृतत्वे यत्तादृशं कथनं तत्तदनुवादफलकमित्यत आह-नचेति । एतत् उपसर्जनीकृतात्मत्वकथनम् स्वरूपमात्रस्य अनुवादफलकमिति वक्तुं न शक्यम् । तस्य तादृशकथनस्य पुनरुक्तिप्रकारत्वेन पुनरुक्तिभेदत्वेन उपपादनतः कथनात्।।

उक्तमनुगमयन्नुपसंहरति-एवं चेति । अयं भावः । उक्तरीत्या शब्दस्य  पारान्तराभावे सुसिद्धेऽपि “अभिधालक्षणामूला शब्दस्य व्यञ्जना द्विधा इति स्वीकृत्य यत् लक्षणमूलाविवक्षितवाच्यध्वनेरुदाहरणम् "सुवर्णपुष्पामिति प्रदर्शितम्। तत्प्रदर्शनम्, असिद्धो स्वरूपमनापन्नो यः साध्यसाधनधर्मः कार्यकारणभावः तस्या नुगतमनुकूलम् । पूर्व यदा शब्दे अभिधातिरिक्तव्यापारसद्भावो भवेत्तदा का व्यापार इति लक्षणादिरिष्येत यर्हि स एव न सिधयेत् तर्हि कारणमन्तरा लक्ष्यदिकार्यस्य उदाहरणप्रदर्शनं नितरामसिद्धमिति भावः । 

लक्षणवाक्ये न्यूनत्वमुपदिदृक्षुराह-किञ्चेति । यथा अभिधेयो वाच्या या शेषणं शब्दश्च उपात्तं लक्षणघटकत्वेन स्वीकृतम् , तथैव अभिधाऽपि भङ्गिमा अलंकार इति यावत् उपादानं लक्षणघटकत्वेन अवश्यं स्वीकारमर्हति । अन्यथेति । अन्यथा लक्षणे अभिधानुपादाने यत्र काव्ये दीपकादेः सकाशात् अलंकारान्तरस्य उपमादेः प्रतीतिरवगतिः तत्र काव्ये इष्टं स्वीकृतं ध्वनित्वं न स्यात्। ध्वनिलक्षणस्य व्याप्त्यभावात् । ननु तदैवेदं लक्षणाव्याप्तिरूपं दूषणं स्यात् चेदलंकारा अपि व्यङ्गयार्थप्रतिपादने वाच्यार्थस्य केनापि रूपेण साहाय्यमादध्युः किन्तु न एवम् । ततः किमिति अभिधेति अन्तर्गडुभूतमुपक्षेप्यमिति विप्रतिपन्नं प्रत्युच्यते-अलङ्काराणामिति । अलङ्काराणां दीपकादीनामभिधात्मत्वम् सादृश्यं प्रतिपादयितुमभिधास्वरूपत्वमुपगत स्वीकृतम्, तेषाम- लङ्काराणां भङ्गिभणितिरूपत्वात । अयं भावः । यथा पदस्य अर्थप्रतिपादनवेलायां वृत्तिधीः सहकारिणी, तथैव “मदेन भाति कलभः प्रतापेन महीपतिरति दीपकस्थानीयं भातिपदमौपम्यप्रतिपादनबेलायां वाच्यमुपनिषीदति। अयमिह परमार्थः । अभिधा हि वाच्यवाचकभावापरपर्यायः शब्दार्थयोः सम्बन्धः । स च तन्निष्टधर्मविशेष एव । अत एव अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते” इति मम्मटकारिकाव्याख्याने वाचकत्वमभिधेति प्रदीपकारा व्याचख्युः । स एव शब्दार्थनिष्ठो धर्मः कविप्रतिभोत्थापितः सन् चारुस्तदा अलंकार शति व्यपदेशभाक । नहि लौकिककटककुण्डलादिवत् उपमादयः अङ्गेष्विव काव्येषु पृथक् स्थिताः सनिवेश्यन्ते किन्तु शब्दार्थानामेव तथाभिधा यथाऽलंकारत्वेन प्रतिभायुरिति । ननु ध्वनिकारेण तत्र दीपकादो औपम्यस्य ध्वनित्वमेव अलंकारान्तरस्यापीत्यादिना प्रतिषिद्धमिति चेत् । उच्यते समाधीयतेऽस्मारिति शेषः । अन्न मुले प्रतिषिद्धमित्युच्यत इतिपाठयोजने इतिपदस्याग्रे चेदर्थकं पदं निवेश्यम् । अलङ्कारेति । अत्र अलङ्कारान्तरादित्यध्याहार्यम् । यत्र काव्ये अलङ्कारान्तरात् दीपकादितः । अलङ्कारान्तरस्य उपमादेः प्रतीतो (ध्वनौ ) सत्यामपि वाच्यस्य अर्थस्य तत्परत्वं व्यप्रतिपादनोन्मुखीभावो न भासते न प्रकाशते असौ तत्परत्वाभावः ध्वनेार्गः ध्वनेरध्वा न मतो नाभीष्टः । चारुहि व्यपदेशभाक् । दीपकादिषुपमादेः प्रतीयमानत्वेऽपि नोपमामुखेन चारुत्वं व्यतितिष्ठत इति न ध्वनिव्यपदेशः। तत्प्रतिषेधहेतोरिति । अलङ्कारान्तरप्रतीतिः (पक्षः ) न ध्वनिः (साध्यम् ) वाच्यस्य व्यङ्गन्यपरत्वाभावात् (हेतुः ),इत्यनुमाने यः व्यङ्गन्यातत्परत्वरूपः ध्वनिपनि धस्य हेतुः प्रदर्शितः स स्वरूपासिद्धः । तत्कथं तस्य ध्वनेः प्रतिषेधसिद्धिः अभाव द्धिः । हेतोरसिद्धत्वे कारणं दर्शयति-उपमानेति । उपमानोपमेयभावादेरुपमादेः अभिधाने प्रतिपादने परः तस्य भावस्तत्ता तया एव दीपकाद्यलङ्काराणां भङ्ग्या कयाचित्परिपाट्या या भणितिरभिधानं तस्य समाश्रयणतः स्वीकारात् । यदा दीपकाद्यलङ्काराः प्रतीयमानोपमादेरभिधानं कुर्वन्ति तदैव भङ्गिभणितिरूपतास्वीकार इति हेतोः तथा अलङ्कारादेरपेक्षया च प्रतीयमानस्य ध्वनेरेव चारुत्वातिशययोगात् वैचित्र्यातिशयसम्बन्धात्। तदूध्वनिव्यवहारस्य च तादृशध्वनित्वसाधक- व्यापारस्य च तावन्मानिबन्धनत्वात् चारुत्वातिशययोगकारणत्वात् इति । अत्र चद्वयमन्वाचये। अयमत्र संपिण्डितार्थः । भंग्या भणितिरलंकारस्तथाभणितिरेव अभिधा । एवमलङ्काराणाम्भनिभणितिरूपाभिधास्वरूपत्वं प्राप्तं भवति । ततश्च वाच्ये दीपकादौ व्यङ्गय उपमादौ च भङ्गिभणितिरूपाभिधात्वं समानमेव, किन्तु यदि वाच्यवदभिधा गुणीक्रियते तर्हि गुणीभूता वाच्यकोटिनिविष्टा सा दीपकादिस्वरूपतां भजति । तदेतदुक्तम्अभिधा- प्युपादानमहंतीति। तदतिरिक्ता च प्रधानोभूता व्यङ्गयोपमादिकोटीमाटीकते इति। स्यादेतत् । परन्तु अलङ्कारान्तरप्रतीतिरतत्परतया ध्वनेरध्वतामेव नोपयाति इति चेन्मैवम् । उपमाद्यभिधानतयैव दीपकादिषु भगिभणितिस्वरूपसिद्धिः तादृशदीपकादेरपेक्षया च प्रतीयमानल्य चारुत्वम्, चारुत्वनिबन्धना च ध्वनिव्यवहृतिः । एवं च प्रतीयमानोपमादेश्चारुत्वेन तत्परत्वमेव वाच्यस्य प्राप्तं तथा "अलङ्कारान्तरस्यापि प्रताताणवि यत्र तत्परत्वं न वाच्यस्येति उक्तिः स्वरूपतोऽसिद्धा । इति । ननु अन्यथानुपपत्तिसिद्धस्यार्थस्य शब्देनोपादानं व्यर्थमिति परोक्तिमा प्रकृतं “लक्षणे शब्दानुपादानम्” उपपादयितुमारभते-अथार्थेति। अर्थप्रतीतेरन्याथनुपपत्त्या एव अभिधायाः सद्भावस्य सत्ताया अवगमः । अनन्तरं च अर्थशब्दया सर्जनीकृतस्वार्थत्वोक्तः हेतोरभिधाया उपसर्जनीभावस्य गुणीभावल्य अवगतिरिति उपसर्जनीभावार्थमभिधोपादानप्रसङ्गो व्यर्थ इति प्राप्ते । अत्रेति शब्दः प्रामा "न व्यर्थः" इति मूलपाठे "न" इति पाठो व्यर्थः। उत्तरति। एवं तहीति। तर्हि एकमपि अभिधाया उपसर्जनीभावस्य अन्यथानुपत्या प्राप्तावपि । अर्थस्यैव केवलस्य उपसर्जनीभावो विधेयः। अभिधाया इव तस्य शब्दस्यापि अर्थोपसर्जनीभाव- कथनवलादेव उपसर्जनीभावावगतिसिद्धः । इत्यतः लक्षणवाक्ये ध्वनिलक्षणवाय शब्दग्रहणं शब्दोपादानं व्यर्थम् । अन्यथा अनुपपत्तिप्राप्तार्थास्वीकारे अभिधोपादानमपि कर्त्तव्यमिति प्रसज्येत प्राप्येत, शब्दाभिधयोरुभयोर्विशेषाभावात् । अनुपपत्तिप्राप्तोपसर्जनत्वस्य सामान्यात् । अन्यच्च केवलं स्वार्थाभिधाने समापन रस्य शब्दस्य व्यापारान्तरं ध्वननादिकं नोपपन्नं भवति येन ध्वननाख्यव्यापारान्तरेण अयं शब्दः अर्थान्तरं वाच्यातिरिक्तमवगमयेद्बोधयेत् । तथा तदपेक्षं अर्थान्तरबोधाधोने च उससर्जनीकृतार्थत्वमियात् प्राप्नुयात् । उपपत्तिद्वारा अर्थस्यैव केवलमुपसर्जनीभता सिद्धयति । न शब्दस्य तत्सिद्धयति इत्यतो लक्षणे शब्दो नोपादेयः इति प्रघट्टार्थः । सर्व एवेति । यः कश्चिच्छन्दजन्यो व्यवहारः स सर्व एव साध्यमनमाप्यम साधनमनुमापकं हेतुः। तयोर्भावः। तत्स्वरूपः सम्बन्धो गर्भ यस्य तस्य भावस्तत्ता तया। अनुमाप्यानुमापक- भावरूपसम्वन्धमध्यगत्वहेतुना स शाब्दो व्यवहारः प्रायेण बाहुल्येन अनुमानरूपः अभ्युपगन्तव्यः स्वीकार्यः। तस्य शाब्दव्यवहारस्य प्रवृत्तिनिवृत्योः कारणत्वान्निबन्धनत्वात् सम्प्रत्ययासम्प्रत्ययात्मनोः ज्ञानाऽज्ञानस्वरूपयोः तयोः मधुसूदनीविवृतिः। प्रवत्तिनिवृत्योश्च अन्यथाकर्तुम् अनुमानं विना प्रवृत्तिनिवृत्ती सम्पादयितुमशक्यत्वात् । नहि युक्तिमनुमानम् अनवगच्छन् अजानन् कश्चिदू विपश्चिदू केवलं वचनात सम्प्रत्ययभाग ज्ञानवान् भवति । सम्प्रत्ययासम्प्रत्ययार्थ तु अनुमानमेवाश्रयणीयं भविष्यतीति भावः । शाब्दे व्यवहारे कारणल्य शब्दस्य स्वरूपं दर्शयितुमुपक्रमते-द्विविध इति । शब्दः द्विस्वरूपः । एकं पदम् । अन्यच्च वाक्यम् । इदं तत्वम् । साध्यसाधनभावो हि सम्बन्धः अनुयोगिप्रतियोगिसापेक्षः, अखण्डे पदे न तत् संजाघटीति । अतस्तदुपयोगि सखण्डं वाक्यमेव। किन्तु वाक्यं पदसमूहात्मकमिति पदमपि परम्परया शाब्दव्यवहारोपयोगीति संगृहीतमिति । तत्र तयोः पदवाक्ययोर्मध्ये पदं सुबन्ततिङन्तरूपमन प्रकारं नानाजातीयं नामादिभेदैः । नाम च स्त्रीत्वपुंस्त्वनपुंसकत्वविशिष्टम्, आख्यात कर्तृकर्मभाववचनम् । उपसर्गः आडादिः । निपात इवादिः । कर्मप्रवचनीयः प्रतिपय्य नप्रभृतिः । तत्र सत्वं लिङ्गसंख्ययोः सद्भावः प्रधानं येषु तानि नामानि नमन्त्याख्या शब्दे गुणभावेन, नमयन्ति वा स्वमर्थमाख्यातशब्दे गुणभावेनेति । तान्यपि नामान्यपि बहुप्रकाराणि बहुभेदवन्ति सम्भवन्ति । तेषां नाम्नां प्रवृत्तिनिमित्तानां संकेताश्रयाणां जातिगुणक्रियाद्रव्याणां बहुत्वात् । तद्यथा- घटः पट इति जातिशब्दः जातिवाचकः शब्दः । एवं गुणवाचकः क्रियावाचकः द्रव्यवाचकः शब्द इति योजनीयम् । केचिदिति । केचिदाचार्याः पुनरेषां जातिगुणक्रियाव्यवाचकानां शब्दानां क्रिया एव एका प्रवृत्ती व्यवहारे निमित्तं कारणमित्यतः सर्वेषां नामपदानां क्रियाशब्दत्वमेवो पगच्छन्ति स्वीकुर्वन्ति । तथाहि इत्यादिना तन्मतमुपन्यस्यति घटप्रभृतिशब्दाः स्वार्थे घटत्वादिरूपे प्रवर्नमानाः अन्वयव्यतिरेकाभ्यां कारणाभ्यां प्रवृत्तिनिमित्तत्वेन घटनादिरूपां क्रियामेव अवलम्बमाना आश्रयमाणा दृश्यन्ते । न घटत्वादिरूपं सामान्य जातिमवलम्बमाना दृश्यन्ते । अन्वयव्यतिरेकी च घटतीत्यस्य सद्भावे घटत्वमपि भवतीत्यन्वयः, अघटन् सन् अर्थात् घटतीत्यस्याभावे घटत्वमपि नास्तीति व्यतिरेकः । सा च एषा घटनादिक्रिया घटत्वरूपसामान्यस्य जातेः योगात्सम्बन्धात् अन्यथा रूपान्तरं गता वास्तु भवतु । किन्तु एतावता अन्यथाभावेन तस्या क्रियायाः प्रवृत्तिनिमित्तत्वस्य अर्थत्वस्येति यावत् व्याघातः तिरस्कारो न भवति । एवं च घटत्वरूपायां जातौ सत्यामपि यदि स्वयं स्वरूपेण अघटन घटनरूपया क्रियया रहितस्तदा घटात्मतां घटस्वरूपत्वमनापद्यमानः अप्राप्नुवन् एव भवति । ततश्चासौ घटः घट इति व्यपदेशभाक् भवितुं नाहति न योग्यः । एवंति घटनादिक्रियाया अभावे हि पटोपि घटव्यपदेशभाक् घट इति नाम्नो विषयः स्यात् । यदि घटनादिक्रियया अन्वयव्यतिरेकाभावेऽपि घटः घटपदव्यपदेशभाक् तदा घटनक्रियाकर्मत्वाऽभावस्य घट इव पटेऽपि अविशेषात् तौल्थात् पटोपि घटपदव्यपदेश्यो भवत्विति भावः। नहि शुक्लत्वमनापद्यमानः शुक्लत्वमनाप्नुवन्नेवार्थः शुक्ल इति व्यपदेष्टु कीर्तयितुं शक्यते इति। तस्मात्कारणात् घटनक्रियाकर्तृत्वं लक्षणं स्वरूपं यस्य तत तथाभूतमेव- घटत्वं सामान्य घटशब्दस्य प्रवृत्तौ अर्थाभिधाने निमित्तं कारणमिति अवसेयं ज्ञातव्यम् न केवलं घटत्वं प्रवृत्तौ निमित्तम् । तदेव घटत्वमिह शास्त्रे घटनमित्युक्तं भवतीति सिद्धम् । पक्षान्तरोपन्योसस्य वैयर्थ्यमुपजिहीर्षुः प्रकृतसंगतिमापदार्थमाचिनोति-नन्विति। नन्विति शंकायाम् । चेष्टादिरों वाच्यो यस्य तस्मात् घटत्यादेः धातोः सकाशाद् घटत इत्याद्यर्थे अजादौ प्रत्यये कृते निष्पन्नघटशब्दनिष्ठा घटनादिक्रिया एव सर्वेषां घटादि शब्दानां प्रवृत्तिनिमित्तभावेन अस्माभिरपि इष्यत एव इत्यतः पक्षान्तरस्योपन्यासः व्यर्थः । उत्तरति- सत्यमिति । सत्यमिति अर्धाङ्गीकारे। भवद्भिरिष्यते एव किन्तु सा घटनादिक्रिया शब्दस्य व्युत्पत्तौ निमित्तम् कारणम् । न प्रवृत्तौ निमित्तम् । तथा कथमित्यत आह-यथेति । यथा एकेषामाचार्याणां मते सिद्धान्ते गवादिश गमनादिक्रिया व्युत्पत्ती निमित्तम् । एकस्मिन् गोरूपेऽर्थे गमनक्रियागोजात्या वायात नित्यसम्बन्धात् , जातिव्यक्तयोः क्रियाक्रियावतोश्च समवायसम्बन्धोक्तेः गोत्वादिसामान्यं प्रवृत्तिनिमित्तीकरोति। अत एव गमनादिक्रियागोत्वादिरूपयोरर्थयोः द्रव्येण सह समवायसम्बन्धस्वीकारादेव गच्छति संचलति अगच्छति असंचलति च गवि व्यक्तौ गोशब्दः सिद्धो भवति । एवं गोशब्दवत् । इहापि पटेऽपि चेष्टादिरूपा क्रिया घटादिशब्दानां व्युत्पत्तिनिमित्तमिति सिद्धं भवति । तदपेक्षमेव घटनादिक्रियापेक्षमेव च (चेष्टादिक्रियापेक्षमेव) विपच्य घटो भवतीत्यादौ प्रयोगे विपाकादिक्रियायाः पौर्वकाल्यं पूर्वकालत्वं क्त्वाप्रत्ययस्य विषयः स्थलं वेदितिव्यम् । यथा अधिश्रित्य पाचको भवति इत्यादौ उदाहरणे पाकाद्यपेक्षमधिश्रयणादेः पूर्वकालत्वं क्त्वाप्रत्यस्य विषयोः नतु भवनक्रियापेक्षम् ।। अयं भावः । “समानकर्तृकयोः पूर्वकाले” इति सूत्रम् । समानस्तुल्यः कर्त्ता ययोस्तयोः धात्वर्थयोर्मध्ये यो धातुः पूर्वकाले विद्यमानस्तस्मादू धातोः क्त्वाप्रत्ययो भवतीति तस्यार्थः । दृष्टान्त:-"सम्बन्धिनां भुक्त्वा व्रजनं भवति" इत्यत्र भुजिव्रज्योरेकः कर्ता । स पूर्व भुजि कृत्वा पश्चादू वर्जि करोतीत्यतः व्रज्यपेक्षया भुजौ पूर्वकालत्वं वर्त्तते, एवमिहापि अधिश्रित्य पाचको भवतीति प्रयोगे पूर्व चुल्यामधिनयति पश्चात्पचति इत्यतः अधिश्रयतेः पूर्वकालत्वं तदेव क्त्वाप्रत्ययस्य विषयो न तन्त्र भवत्यपेक्षम् तद्वहिपच्य घटोभवतीतीहापि इति । ननु कुतोऽत्र न भवत्यपेक्षेत्यत आह-सेति । सा भवति क्रिया अवश्यं न प्रयुज्यते; वाक्येषु तां विनाऽपि ( अथवा आक्षेपेणापि ) व्यवहारसिद्धः। किन्तु अनुक्ताऽपि सा पदार्थानां मध्ये प्रतीयते सत्ताया अव्यभिचारात्। नैवं तावता अव्यभिचरितप्रत्ययेन तदपेक्ष भवत्यपेक्षं तत् पूर्वकालत्वमिति मन्तव्यम् स्वीकार्यम् । तस्याः भवतिक्रियायाः पच्यादिक्रियापेक्षया वहिरङ्गत्वात् अर्थस्य असंगतिप्रसंगात् पदार्थस्य अवकरताप्रसक्तेश्च। असंगतिमुजिघटिषुराह-प्रयुज्यमानेति । प्रायेण वाहुल्येन प्रयुज्यमानक्रियापेक्षमेव उच्चार्यमाणाक्रियासम्बद्धमेव पूर्वकालत्वं क्त्वम्प्रत्ययल्य विषयोः न प्रतीयमानक्रियापेक्षं तदिति । इतरथा प्रयुज्यमानक्रियापेक्षमेवेति नियमाऽस्वीकारे श्रुत्वापि नामेति । यः देशकालकार्याणां व्यपेक्षया नियमेनेति परमार्थः, श्रुत्वाऽपि बधिरः अण्वन् , दृष्ट्वापि अन्धः अपश्यन् , विदित्वापि जडः अजानन् । अस्तीति भवतेरत्राक्षेपः कर्तव्यः। स पुमान् पुरुषः पण्डितः सदसद्विवेकशीलः । इत्यादिप्रयोगजातम् ( जातशब्दो गणवाची) अनुपन्नमसङ्गतमेव स्यात् श्रवणादिनां क्रियाणां मध्ये तस्या नियमेन प्रतीयमानाया भवतेरपेक्षया पूर्वकालत्वस्याऽभावात् पूर्वकालत्वभवनयोग्यताविरहात् नहि यः शृणोति सोऽस्ति इति वाक्यार्थेन एतद्गुणविशिष्टः पुमान पण्डित इति पार्यन्तिके वाक्यार्थे कापिविच्छित्तिराधीयते इत्यर्थासङ्गतिरेव स्यात् । ननु श्रवणादीनां मध्ये नियतप्रतीयमानभवतिक्रियापेक्षस्य पूर्वकालत्वस्य अनङ्गीकारात् क्रियान्तरस्य चात्र अभावात् किमेतदनुपपन्नं प्रयोगजातमित्यत आह अन त्विति । अत्र तु प्रयुज्यमानक्रियापेक्षमेवेतिनियमस्वीकारे तु श्रुत्यादिरूपायाः। ५ पदात् दर्शनज्ञाने ग्राह्ये । शक्तः विरहलक्षणा अभावरूपा या वाधियादि उत्व जय । तस्या अपेक्षा यस्मिस्तदेव श्रवणादीनां मध्य पूर्वकालत्वमिति रीत्या न काचिदनुपपत्तिः असंगतिः । ननु किमेवं भवतेः केवलं योजनं प्रयोजनमित्याह-बहीष्विति। वह्वीषु तासु उत्तरोत्तरस्यां क्रियायामपेक्षितं पूर्वपूर्वक्रियानिष्ठं पूर्वकालत्वं संगतिमत् । यथा स्नात्वेत्यादौ भुज्यपेक्षं स्नातेः, पिबत्यपेक्षं भुजे; व्रज्यपेक्ष पिवतेः। एवमत्रापि विपचनादिक्रियाणां बाहुल्ये घटनापेक्षं विपचनस्य भवत्यपेक्षं घटनस्य तत्पूर्वकालत्वं भवितमई. त्येव युक्तमेव । उभयत्रापि घट इति भवतीति द्वयोर्मध्ये कर्तृवाचकप्रत्यययोरतिपोः निर्देशस्य अविशेषात् तुल्यत्वात,। एवं यत्र यत्र एककर्त्तकत्वं तत्र सर्वत्रापि उत्तरोत्तरक्रियापेक्षं पूर्वपूर्वक्रियापूर्वकालत्वं बोध्यमिति भावः । ननु यद्येवं तर्हि कुतो न सर्वत्र प्रतीयते इति चेत्प्रतीयते परं यत्र क्रिया कृदादिभिः पिहितस्वरूपा भवति तत्र भ्रमो भवतीति निरूपयति-केवलमिति । कृता लक्षणया कृत्संज्ञकप्रत्यययेन वाच्या द्वाच्या तस्या भावस्तत्ता तया प्रकृतिप्रत्ययौ सहार्थ ब्रूतस्तत्र प्रत्ययार्थः प्रधानमिति नयेन कृतः प्राधान्यत् तत्प्रकृतेः क्रियाया अप्राधान्यात् । सा कर्तुरूपाधिभावं विशेषणत्वं गमिता प्राप्ता । इति हेतोः तत्र भिन्नकर्तकत्वभ्रमः । यथा शिशिरकालमिति। शिशिरकालमपास्य विहाय, शीतं हरतीति तस्य शिशिरताविनाशकस्य नोऽस्माकमस्य कुचोष्मणः स्तनतापस्य क इव गुणः फलं स्यात् इति धिया बुद्धया अस्ता रुषो याभिस्ताः त्यक्तक्रोधाः प्रिया नायिका नमतः प्रणतान अत एव अनुमतान् स्वान् प्रियानिति शेषः । घनं दृढं यथा स्यात्तथा परिरेभिरे आशिश्लिषुः । इति धियेतिरोषत्यागपूर्वकपरिरम्भः कुचोष्मसाफल्यायोत्प्रेक्ष्यते तच्चोत्प्रेक्षणं व्यञ्जकशब्दा- प्रयोगाद्गम्यम् । अत्र पद्ये कुचोष्मणः कर्तुर्या शीतहरणक्रिया तदपेक्षमपासनक्रियायाः पूर्वकालत्वम् । किन्तु हरतेनुघमनेऽजिति कृताचा वाच्यतया कत्तुः कुचोष्मणो विशेषणभावं प्रापितेति भिन्नकर्तृकत्वभ्राति संभावयति । अत एव तादृशभ्रमादेव । केचिद्विद्वांस अपास्येत्ययं ल्यबन्तप्रतिरूपको निपातः। अपरे मल्लिनाथादयोऽत्र विद्यमान गम्यमानक्रियापेक्षया क्त्वानिर्देश इति व्याख्यातवन्तः। मतान्तरे अपास्येत्यस्य निपाततया उदाहरणान्तरमुपन्यस्यति-निरी संरंभेण कोपेन निरस्तं त्याजितं धैर्य निविकारचित्तत्वं येन तं तथाभूतम् । आग तः सेवितः जामदग्न्यः परशुरामो येन तं तथाभूतम् । जामदग्न्यादधिगतशस्त्रशाखण्ड स्यम् । राधेयं राधासुतं कर्ण निरीक्ष्य समीक्ष्य मृत्योरपि यमस्यामि असंस्कृतेषु असंस्तुतेषु अपरिचितेष्वित्यर्थः । भयेषु प्रसभं बलात्कारेण पक्षपातः परिचयो जायेता यमोप्यस्माद्भयमुपगच्छेत्किमुतापर इति भावः । संभावनायां लिङ् । अन्न भयसम्बन्धशून्यस्य मृत्योः भयसम्बन्धकथनादसम्बन्धे सम्बन्धरूपातिशयोक्तिरलंकृतिः । अन्न ईक्षण-भय-पक्षपतन-क्रियाणां मृत्युरेकः कर्ता यतः स एव राधेयं निरीक्षते ततो विभेति तत्पक्षे पतति च । ततश्च निरीक्षणक्रियायाः पूर्वकालत्वं तदुत्तरभूतक्त्वा प्रत्ययस्य विषय इति वेदितव्यम्, ते च विभेतिपतती क्रिये परस्परं विषयविषयिभावस्य भङ्गया विधया उपात्ते स्वीकृते । तत्र पक्षपतनक्रियाया विषयित्वं विशेष्यत्वं तदपेक्षया भयक्रियाया विषयत्वं विशेषणत्वमिति वोध्यम् । स्फुटत्वाय शिष्यबुद्धिवैशधाय च तामेव विशेष्यविशेषणभावविधां पुनदर्शयतियां दृष्टति । यां नायिकां दृष्ट्वा समुत्सुकेऽपि उत्कलिकाप्रायेऽपि मे मनात चेतसि अन्या काचित् आस्पदं स्थिति न करोतीत्यन्वयः । अन्न दर्शनसमुत्सुका भवनक्रिययोरेक मनः कर्तृ । यतः तदेव पश्यति समुत्सुकीभवति च । ततश्च समुत्त कीभवनक्रियापेक्षं दर्शनक्रियायाः पूर्वकालत्वम् । सा च औत्सुक्यक्रियाया, त्सकीभवनक्रिया अन्यनायिकाकर्तृकायाः आस्पदक्रियायायाः स्थितिक्रियाः अना णभाषेन अनाश्रयतया । अत्र अधिकरणभावनेत्यन्न अनधिकरणभाषेनेति पाठ । तस्य दर्शनकर्तुमनसः विशेषणभावेन उपात्ता निर्दिष्टा । औत्सुक्यं चित्तवृत्तिः। वृत्तिश्च व्यापारो भावना क्रियेत्यनर्थान्तरम् । अत एव औत्सुक्यक्रियेति निर्दिष्टम् । क्वचिदुदाहरणे कर्तुः सम्बन्धिभावं प्राप्ता तत्त्वेन पिहितस्वरूपेति भावः, असौ क्रिया भ्रमहेतुः अक्रियात्वभ्रान्तिकारणम् । स्मर संस्मृत्येति । हे स्मरै ? काम ? तां कामिनी संस्मृत्याऽपि मे न शान्तिरस्ति । अत्र स्मृशम्योरेकः मे इति पदवोध्यः अस्मदर्थः कर्ता प्रतियोगी तस्यानुयोगिनी शमिक्रिया तदपेक्षम् स्मरणक्रियायाः पौर्वकाल्यं क्त्वाप्रत्ययस्य विषयः । अयं भावः । मे इति षष्ठ्यन्तं पदम् । षष्ठ्यर्थः सम्बन्धो द्विनिष्ठः तदर्थमस्मदर्थः प्रतियोगी षष्टयत्पत्तिस्तु भेदका"दित्युक्तः । शमिक्रियाऽनुयोगिनोति सम्बन्धितया पिहितस्वरूपा अक्रियात्वभ्रान्ति जनयति इति । केचिदिति । केचिदाचार्याः वाक्ये कर्तुः क्रियायाश्च अनुपादानमपि भ्रान्तेः हेतुम् कारणमिच्छन्ति । नन्विति। ननु इति प्रश्ने । हे कुरुनरेन्द्र । युधिष्ठिर ? सर्व एव लोकः कमपि ग स्वप्रयोजनं श्रुतशीलादिकं वावेक्ष्य पर्यालोच्य स्वाधीनीकृत्य वा पूज्यतां सत्कारमेति अयं पूज्यः सत्कारार्ह ति जानाति गत्यर्थानां ज्ञानार्थत्वास्वीकारात्, प्राप्नोति भागविरहितस्य शून्यस्य हरेः कृष्णस्य परिपूजया सत्कारेण को गुणः को लाभः इति भावः । अत्र समवेक्षति पूर्व कंचिद्गुणम् ततस्तं पूजयति पूज्यो भवतीति वेत्यतः एकः कर्ता । स च लोकरूपः कर्ता सामर्थ्येन सिद्धः प्राप्तः इति हेतोः नोपात्तः पूजा च उपात्तापि कृत्संज्ञकयत्प्रत्ययनिष्पन्ने द्रव्यवदासमाने एतिक्रियानिरूपिते कर्मणि उपसर्जनीभूता गुणीभूता इत्यतः उभयम् अनुपात्तः कर्ता गुणभूता उपात्ता क्रिया चेतिद्वयं भ्रमस्य हेतुः । पूर्वमापतत एत्यपेक्षया ईक्षणक्रियायाः पूर्वकालत्वमवगतं भवन पश्चात्पर्यालोचनया नैत्यपेक्षमीक्षणक्रियायाः पूर्वकालत्वमिति उत्तरकालजायमानवासात भ्रान्तिर्भवति, तस्याश्च हेतुर्निर्दिष्टमुभयमिति तत्वम् । अनुपात्तायाः क्रियायाः भमहेतुत्वं यथा-अकृत्वेति । परस्य स्वातिरिक्तस्य सन्तापं दुःखमकृत्वा अनुत्पाद्य । खलस्य पुरो नम्रतां विनीततामगत्वा असंपाद्य सतां महानुभावानाम् मार्ग तदाचरितपन्थानम् अनुत्सृज्य यत्स्वल्पमपि लभेतेति आन्तरालो बोधः तद्वहु तदेव ज्यायः । अत्रोदाहरणे प्रकरणं वक्तृश्रोत्रोः बुद्धिस्थत्वम् । तदादिना गम्यायाः प्रतीयमानायाः लाभक्रियाया अनुपादानम्, करणादीनां करणगमनोत्सर्जनानाम् क्रियाणां कश्चित् भिन्नः कत्तेति भ्रमं नान्यः कनेति उत्तरकालीनवाधादू जनयति । यः कर्ता लभतेः स एव करोत्यादीनाम् । लभत्यपेक्षं करोत्यदीनां पूर्वकालत्वम् । ननु पूर्व प्रयुज्यमानक्रियापेक्षमेव क्त्वः पूर्वकालत्वम् न तु प्रतीयमानापेक्षमुक्तम् अन्न च लभतीति प्रतीयमानक्रियापेक्षमेव पूर्वकालत्वमुच्यते इतिपूर्वापरग्रन्थविरोध इति चेन्न । अयं श्लोकः प्रकरणान्तःपाती कयोश्चिदू भोः किमुपायंते, भगवन् किं पृच्छते ? स्वल्पमेव लभ्यते, अस्तु, परसंतापाद्यकृत्वा स्वल्पमपि लाभं बहु मन्यताम् इति गुह्यं मन्त्रयताः वक्तृश्रोत्रोः वाकोवाक्यमनुसन्धायैव रचितोऽतो न लभतिक्रियायाः प्रतीयमानत्वम् । अथवा प्रायेणेत्युक्त्या उक्तनियमस्य प्रायिकत्वम् कल्पनीयम् । इति सर्व निरवद्यम् । उक्तोदाहरणोदिशाक्त्वि भिन्नकर्तृकत्वभ्रमो भवतीत्येतद वृद्धोक्त्या संवाद संगृह्णति-तदुक्तमिति । कतुरिति । कृतद्वाच्यतया कर्तुः क्रियायां स्वातन्त्र्यण क्षितस्य उपाधितया विशेषणभावेन सम्बन्धितयावा उक्ता, अथवा अन्यस्य कत्ता कर्मादेः गुणतां उपसर्जनत्वं गता प्राप्ता वा क्रिया, अथ च तयोः कर्तृक्रिययोरवचः अकथनं च क्त्वः क्त्वाप्रत्ययप्रकृतिभूतधातोः भिन्नकर्त्तकत्वभ्रमाय उपात्तातिरिक्तकर्तकत्वभ्रान्तिहेतुर्भवति । भिन्नकर्तकत्वभ्रमः क्रियाया विशेषणभावेन उक्त्या, गुणत्वेनोक्त्या, कर्तृक्रिययोरुभयोरनुक्त्येति प्रकारत्रयेण संभाव्य इति तत्वम् ।। ननु शिशिरकालमपास्येत्यादौ प्रधानक्रियामुपेक्ष्य किमिति गुणीभूतहरतिप्रभृतिक्रियापेक्षमपास्तिप्रभृतिक्रियाणां पूर्वकालिकत्वमङ्गीक्रियत इति चेत्तत्राह-पौर्वापर्यमिति । अपेक्षिणि साकांक्षे क्त्वाप्रत्ययप्रतिपाद्ये पौर्वकाल्ये यत् क्रियाणां पौर्वापर्यं तद् वास्तवम् वस्तुवललब्धम् अपेक्षाकृतमितिभावः । ततः तासां क्रियाणां प्राधान्येतरयोश्चिन्तया किम् , अनावश्यकमिति भावः । इदं तत्वम् । इह क्रियाणां पूर्वापरीभावः शाब्दः वास्तवश्चेति द्विविधः । तत्र शाब्दः स भावः प्रायशः आख्यातपदप्रतिपाद्यया प्रधानक्रियया सह गुणक्रियाणां संभाव्यः। गुणीभूतक्रियाणां प्रधानीभूतक्रियया सह अङ्गाङ्गिभावेनान्वयस्यौचित्यात् । गुणक्रियाणां च परस्परं समन्वयस्य "गुणनां च परार्थत्वादसम्बन्धः समत्वात्” इति न्यायेन वाधितत्वाच्च अतो नायं शाब्दो गुणप्रधानभावः क्त्वाप्रत्यये उपयुज्यते । यस्तु वास्तवः अर्थादापेक्षिकः स तु प्रधानक्रियाणां गुणक्रियाणामपि च संभवत्येव यत् आपेक्षिकस्य गुणप्रधानभावल्य सर्वत्रापि सद्भावात् समन्वयस्य स्वीकारात् । यथा “पश्य मृगो धावति' इति दृशिधाव्योः प्रधानक्रिययोरपि धावन्तं मृगं पश्येत्यनया, दिशा कर्मक्रियाभावेन समन्वयस्य जागरूकत्वात्। एवं हि गुणीभूतक्रियागतापेक्षिकपूर्वापरीभावबुद्ध्या क्त्वाप्रत्ययार्थस्य निरूप्यमाणत्वात् शब्दप्राप्तप्राधान्येतरभावचिन्तनेनालमिति । इत्यलमनेनेति । इतिरवान्तरप्रसंगसमाप्तौ। अलम् पर्याप्तमनेन प्रसक्तानुप्रसक्तलेखनेन । अत्र यद्यपि वाच्यः अनुमेयश्चेति द्विविधार्थभूमिकाभूतस्य शब्दस्य विधानिरूपणमेवालमासीत् किन्तु शब्दैकदेशपदस्य स्वरूपनिरूपणावश्यकतया तत्प्रसकानुप्रसक्तमिदमपि वहूपकारकत्वात् निरूपितमिति सर्व समञ्जसम् । घटतीति । घटति चेष्टते इति हेतोः घटः अर्थात् चेष्टादिक्रियाहेतुक एव घट इति व्यपदेशः। ननु यदि चेष्टनस्वरूपं घटत्वमाश्रित्यैव कम्बुग्रीवादिमति व्यक्तो घटव्यपदेशस्त हि तादृशं घटनं पटादिष्वपि अस्त्येवेति तत्र कुतो न तादृशव्यपदेश इति नाशङ्कनायम् । सति नैमत्तिके निमित्तं परिकल्प्यते, न निमित्तमस्तीति नैमित्तिकपरिकल्पनात सिम न्तः । तस्मात न पटादौ घटादिव्यवहारः । अघटन घटनादिक्रियारहितः घटत भावं न इयात् न प्राप्नुयात् । अन्यथा अघटत्वाविशेषेण घटनक्रियाकत्तेत्वाभा षेण। अन्यथेत्यस्यैव, विवरणम् अघटत्वावि- शेषेणेति । पटोपीति वस्तुमात्रोपक्षणं तेन वस्तुमानमपि घटः स्यात् घटव्यपदेशविषयो भवेत् । घटनञ्चेति । च अन्यच्च घटनं नाम तदात्मत्वापत्तिरूपा घटस्वरूपत्वप्राप्तिरूपा क्रिया मता अर्थात् घटनक्रियापेक्षैव घटत्वलब्धिः । तस्याः क्रियायाः मूलं हेतुश्च ईशितुः परमेश्वरस्य चित्राणाम् नानाविधानाम् अर्थानां वस्तूनाम् आभासाय अयं घटः अयं पट इति ज्ञानाय आविष्कृतिः निर्माणम् । विचित्राणाम् पदार्थानाम् लोकसमीक्षायै स्वरूपपरिष्कृतिरेव क्रियाव्याप्तौ कारणमिति भावः । अयं गूढाशयः “प्रदेशोऽपि ब्रह्मणः सारूप्यमनतिक्रान्तश्चाविकल्प्यश्चेति" दार्शनिकसिद्धान्तानुगत्या ब्रह्मणः प्रदेशो घटादिः ब्रह्मणः सारूप्यं सादृश्यं प्रकाशस्वरूपत्वं तथा कर्तृत्वादिकं च न अतिक्रमते अर्थात् प्रकाशस्वभावः कर्ता विकल्परहितश्च भवति । विकल्पः सन्देहः। एवं ब्रह्मसादृश्यात् जडेष्वपि]वटादिषु क्रिया वर्त्तते । सा च आत्मधारणानुकूलसत्तारिक्तक्रिया भवितुं नाहेत्यनुसन्धायोक्तम्-मूलं च तस्या इति ।

"https://sa.wikisource.org/w/index.php?title=Madhusoodani_commentary_on_Vyaktiviveka&oldid=270657" इत्यस्माद् प्रतिप्राप्तम्