शाब्दपरीक्षा।
       अथ शाब्दपरीक्षा।
अनुमानतः परस्तादुपमानं वर्णयन्ति तर्कविदः।
वादिपरिग्रहभूम्ना वयं तु शाब्दं पुरस्कुर्मः ॥ ९० ॥
तत्र तावत् पदैर्शीतैः पदार्थस्मरणे कृते ।
असन्निकृष्टवाक्यार्थज्ञानं शाब्दमितीर्यते ॥ ९१३ ॥
       तदिदं शाब्दज्ञानं व्युत्पत्त्यधीनमिति तत्प्रकारमादौ प्रदर्शयामः । बालो हि 'गामानय', 'पुत्रस्ते जात' इत्यादिवाक्यानन्तरं प्रवृत्तिं हर्षादिकं वा कस्यचिदुपलभ्य तयोर्बुद्धिपूर्वकत्वाद् गवानयनपुत्रजननाद्यर्थबुद्ध्यनन्तरमेवास्य प्रवृत्तिहर्षादिकं जातमिति बुध्यमानस्तादृशार्थबुद्धेश्च शब्दानन्तरमेव जातत्वाद् गामानयेत्यादिशब्दस्य गवानयनाद्यर्थबोधकत्वमवबुध्यते। तदा च पिण्डित एव शब्दः पिण्डितस्यैवार्थस्य बोधकतया ज्ञातः । ततश्च 'गां बधान, अश्वमानये'त्यादिप्रयोगान्तरेषु

१. 'मा शाब्दं तु वयं पु' क. पाठः,


पदान्तरयोगत्यागरूपावापोहापौ दृष्टा गोशब्दः सास्लादिमतो वाचकः, आनय(न?)शब्द आनयनक्रियावाचक इत्यादिपदार्थविवेकमवधारयति । तच्च पदैः पदार्थबोधनं शब्दशक्तिजन्यत्वादभिधानमेवेति पार्थसारथिप्रभृतयः । शब्दोऽपि संस्कारोबोधनद्वारेणैव पदार्थ बोधयतीति स्मरणमेव पदार्थज्ञानमिति चिदानन्दादयः। तथाच पदानां प्रत्येकार्थेषु नियमितानामप्यादितः प्रभृति परिदृष्टमेकविशिष्टार्थज्ञानतात्पर्य तावदवतिष्ठते । एवं पदार्थज्ञाने स्थिते यत् पुनस्तदनन्तरनेकविशिष्टार्थज्ञानरूपं वाक्यार्थज्ञानं जायते, तत् परेव वा पदार्थस्मृतिभिर्वा जन्यत इति चिन्तायां पदानां पदार्थबोधीपक्षीणत्वाद् व्यवहितत्वाच्च पदार्था एव स्वसंसर्गरूपं वाक्यार्थ बोधयन्तीत्ययं तावत् तार्किकादिसाधारणः पक्षः । वयं तु पदार्था लक्षणथैव वाक्यार्थ बोधयन्तीति ब्रूमः । वाच्यार्थानुपपत्त्या हि लक्षणा भवति । अत्र च पदैः स्मार्यमाणा गवादिपदार्था यद्यन्योन्यान्वयं विना सामान्यरूपा एवावतिष्ठेरन्, तर्हि पदानां व्युत्पत्तिसमयावधृतमेकविशिष्टार्थबोधैतात्पर्य विरुध्येतेति सामान्यरूपस्य वाच्यस्यानुपपत्तेरन्योन्यान्वयरूपे विशेष एव पदार्थाः पर्यवस्यन्ति । ततश्व गौरियमानीयमानैव, आनयनं च गोसम्बद्धमेवेति परस्परान्वयलाभाद् गवानयनरूपवाक्यार्थसिद्धिः । तेनात्र पदावगताः पुनः पदार्था मिथोऽन्वयं यान्ति । इत्येवमभिहितान्वयसिद्धान्तो दर्शितोऽस्मदादीनाम्॥


१. 'तार्कि' ख. पाठः. २. 'धकता' क. पाठः. ३. 'ध्यत इ' क. पाठः.



सकलपदान्तरपूर्तावितरपदार्थैः समन्वितं स्वार्थम्। 

सर्वपदानि वदन्तीत्यन्येषामन्विताभिधानमतम् ॥९३३॥

    गामानयेति प्रथमश्रवणे हि गवानयनरूपस्यान्वितस्यार्थस्य शब्द एव बोधकतया ज्ञातः । अतस्तदनुसारेण पुनरपि पदानामेवान्वितार्थबोधकत्वं वाच्यं, न तु पदार्थानाम् । आवापोहापाभ्यां हि पदार्थेषु विविच्यमानेष्वपि तत्र तत्र तैस्तैरन्विता एव पदार्था दृष्टाः, न त्वेकाकिन इत्यन्विते स्वार्थे पदानां शक्तिर्न परित्यज्यते । ननु किं केवलपदार्थबोधः पदेभ्यो नास्त्येव । अस्तीति ब्रूमः । पदानि तावत् पृथक् पदार्थान् स्मारयन्त्येव, न तु तावता विरमन्ति । स्मारितमेव तु स्वं स्वमर्थ पुनरितरपदार्थान्वितत्वेनाभिधायैव विरमन्तीति राधान्तः । अतः पदाभिधेय एवान्वितरूपी वाक्यार्थः, न तु पदार्थगम्यः। पदार्थगम्यत्वे च प्रमाणान्तरप्रतिपन्नानामपि पदार्थानामन्वयः स्याद्, न चासौ दृश्यत इति । तदिदं गुरुमतं गौरवादेव हेयम् । अस्मन्मते हि पदार्थानां स्मृतिसिद्धत्वाद् वाक्यार्थस्यापि लक्षणासिद्धत्वाच्छक्त्यन्तरकल्पनैव नास्तीति पदेषु शक्तिकल्पनाप्रस्ताव एव भवतां गौरवमायातम् । किञ्च पदशक्तितः पदार्थशक्तिरेव लघीयसी । तदा खलु गमनरूपस्यैकस्यैवार्थस्यान्वयबोधकत्वे कल्पिते गमनपर्यायाणामन्येषामप्यन्वयः सिध्यति । पदशक्तौ तु गमनार्थानामनन्तानों पदानां शक्तिः कल्पनीयेति

१.] शक्तिर्न पदानां परि' ख. पाठः. २. 'णां सर्वेषां' ख. पाठः. ३. 'नामपि श' क. पाठः,



महागौरवम् । एकवाक्ये च सर्वपदैः प्रत्येकमितरान्वितस्वार्थे बोध्यमाने पदे पदे वाक्यार्थप्रत्ययोऽपि बलादापन्न इति कष्टतरमेतदिति । यत्तु पदार्थानामन्वयबोधकत्वे प्रमाणान्तरप्रतिपन्नानामप्यन्वयः स्यादित्युक्तं, तत्र ब्रूमः । भवतामपि गां बधानेत्युक्ते विगलितरशनो बन्धनापेक्षोऽपि दृश्यमानस्तुरगो बन्धनेन कथं नान्वयं भजते । तत्र खल्वश्वस्य शब्दप्रतिपन्नत्वाभावादनन्वय इति बलाद् वक्तव्यम् । तथाच तहदेव प्रमाणान्तरप्रतिपन्नानामपि शब्दप्रतिपन्नत्वाभावादेवानन्वयः सिद्ध इति तत्रापि नास्माकं किञ्चिदधिकं कल्पनीयम् । तस्मादस्मदुक्त एवान्वयप्रकारो लघीयानिति ।

अत्राकाङ्क्षा च योग्यत्वं सन्निधिश्चेति तत् त्रयम् ।

वाक्यार्थावगमैः सर्वैः कारणत्वेन कल्प्यते ॥ ९४३ ॥
गौरश्वः पुरुषो हस्तीत्याकाङ्क्षारहितेष्विह ।
अन्वयादर्शनात् तावदाकाङ्क्षा परिगृह्यते ॥ ९५३ ॥ 

अग्निना सिञ्चतीत्यादावयोग्यानामनन्वयात् ।

योग्यतापि परिग्राह्या सन्निधिस्त्वथ कथ्यते ॥ ९६३ ॥

शब्दैः सन्निहितत्वेन बोधितत्वं हि पदार्थानां सन्निधिरित्युच्यते। अतः सन्निहितत्वाभावाच्छब्दबोधितत्वाभावाच्च द्वेधा सन्निध्यभावो भवति । तत्र भिन्नकालोच्चारितयोर्गामानयेति पदयोः सन्निहितत्वाभावादनन्वयः । गां बधानेत्यत्र बन्धनापेक्षस्य दृश्यमानस्याश्वस्य शब्दबोधितत्वाभावादेवानन्वयः । अतः शब्दप्रतिपन्नानामेवान्वय इति नियमः सिद्धः । गुरुस्तु बुद्धिस


न्निधिमात्रमेव सन्निधिं मन्यते, न तु शाब्दसन्निधिम् । सोऽपि गां बधानेत्यत्राश्वस्यान्वयं वारयितुमशक्नुवन् शाब्दानामेवान्वय इत्यकामेनाप्यनुमंस्यत इति प्रागुक्तम् । ननु तत्र वाक्यस्याश्वं प्रति तात्पर्याभावादेव तस्यानन्वयोऽस्तु, न शाब्दत्वाभावात् । मैवम् । तथा सत्यभिना सिञ्चेदित्यादावपि तात्पर्याभावादेवानन्वय इति योग्यत्वादीनामप्यपरिग्रहप्रसङ्गात् ।
तस्मादन्वयसिद्धौ तात्पर्य न स्वयं क्वचिद्धेतुः ।
सामग्रयन्तरभावे नियमार्थ त्वर्थ्यते पुनस्तदपि ॥९७३॥

इति स्थितिः। एवं गत्यन्तराभावाद् गुरुणापि समाश्रितः। शाब्दानामेव संसर्ग इत्य नियमोऽधुना ॥ ९८३ ॥

तेन द्वेधोपकारो नस्तकः पूर्वमीरितः।
मानान्तरावबुद्धानां नान्यः स्यादितीदृशः ॥ ९९१ ॥ 

अन्योऽपि द्वारमित्यादावध्याहारे भविष्यति ।

शाब्दस्यैवान्वयाहत्वाद् द्वारमात्रियतामिति ॥ १००३ ॥
शब्दामाहार एव स्यादित्येवं मादृशां मतम् ।
गुरुस्त्वावरणार्थस्य तत्राध्याहारमिच्छति ॥ १०१३ ॥
बद्धिसन्निधिदात्रेणाप्यन्वेतीति दुराशया।
तत्र यद्यवलिप्तोऽयं गुरु यैव शिक्ष्यते ॥ १०२३ ॥
अर्थाध्याहृतिरे ति तर्हि गर्जिति ध्रुवम् ॥ १०३ ॥

१. तिः इति ।' ख. पाठः.




इत्यास्तामेतत् । उक्तस्तावद् वाक्यार्थज्ञानप्रकारः। असन्निकृष्टवाक्यार्थज्ञानं च शाब्दमित्युक्तम् । इदमेवागम इति चोच्यते । असन्निकृष्टपदेन चानुवादानां बाधितार्थानां च वाक्यानामप्रामाण्यमुक्तम् । तच्च शाब्दं द्विविधं पौरुषेयमपौरुषेयं च । तत्राप्तवचः पौरुषेयं, वेदवचोऽपौरुषेयम् । गुरुस्त्वाह-वैदिकमेव शाब्दमस्ति । पुरुषवचनानि तु वऋभिप्रायानुमापकान्येव, न स्वयमेव वाक्यार्थ बोधयन्ति, शङ्काकुण्ठितशक्तित्वात् । व्युत्पत्तिसमयसिद्धापि शब्दानां बोधकत्वशक्तिर्व्यभिचारबहुलेषु पौरुषेयवचनेषु तदाशङ्काशङ्कया कुण्ठिता भवति । तत्र चानेन वक्रामुमर्थमवबुध्यैव वाक्यं प्रयुक्तमिति यावन्नानुमीयते, तावदन्यथात्वशङ्का न निवर्तत इति वाक्यमुदास्त एव । तथा तात्पर्यमपि नरगिरां तद्बुद्ध्यधीनमिति वक्तुबुद्ध्यनुमानं विना तात्पर्यानिश्चयादपि वाक्यमुदास्ते । तस्माद् वक्तृधीस्तावद्नुमातव्या । तत्र नद्यास्तीरे फलानि सन्तीति वाक्ये श्रुते पदार्थेषु च पृथक पृथक् स्मृतेष्वनुमिनोति 'एतानि पदान्येतेषां पदार्थानां संसर्गमवबुध्यैव प्रयुक्तानि आप्तप्रणीतपदत्वाद् गामानयेति पदवदि'ति । एवञ्च वक्तुः पदार्थसंसर्गज्ञानमवगन्तुं परिश्रान्तः श्रोता पदार्थसंसर्गरूपं वाक्यार्थमपि बलाल्लभत इत्यनुमेय एव नरवचस्सु वाक्यार्थः।
एवं व्यभिचारभये गलिते वाक्यार्थनिर्णये जाते।
पुनरभिधत्ते शब्दोऽप्यनुवादतयेति तस्य राधान्तः॥१०४॥

१. 'नं शा' क. पाठः. २. 'क् स्मृ' ख. पाठः. पाठः. १. 'तात्पनि' ख. पाठः. ३. 'तत्वा ________________________________________________________


तदिदमयुक्तम् ।

व्यभिचारविशङ्कामप्यनादृत्येन्द्रियादिवत् ।

स्वमर्थमभिधातुं किं समर्था न पदावली ॥१०५॥ 

तात्पर्यमपि सुज्ञानं स्वतो ज्ञानानुमां विना।

यथा वेदे यथा चान्येष्वनालोचितकर्तृषु ॥ १०६ ॥ 

वक्तृज्ञानानुमानान्तं यदि च प्रतिपाल्यते।

तर्हि तस्याप्यशक्यत्वाद् भग्नाशः किं करिष्यसि ॥१०७॥

आप्तप्रणीतत्वं खल्वत्र हेतुत्वेनोक्तम् । आप्तत्वं च भ्रान्त्याद्यभावोऽभिमतः । भ्रान्तिश्चास्य पुरुषस्य नास्त्येवेति कचिदपि न निरूपयितुं शक्यते । 'ऋषीणामपि भ्रान्तिराशङ्कयते, किमङ्ग! पुनरर्वाचीनानामि'त्युक्तत्वात् । एवमस्मिन् देशे काले वास्य भ्रान्ति स्तीत्यपि दुर्निरूपमेव । तस्मादन्ततोऽस्मिन् वाक्यार्थेऽस्य भ्रमो नास्तीति वाक्यार्थज्ञानपुरस्सरमेव भ्रान्तिर्निवारणीया । अतो वाक्यार्थावगमात् पूर्वमाप्तत्वमसिद्धमेवेति कथं तेनानुमीयत इति हतं गुरुमतम् ।

एवं लौकिकशब्दानामनुमानत्ववारणात् । 

सर्वशाब्दानुमानत्ववादिनोऽपि हि खेदिताः ॥ १०८ ॥ हिप्रमाणा हि काणादादयो गुरूक्तप्रकारेणैव सर्ववाक्यार्थानामनुमेयत्वमाहुः । तेऽप्यनेनैव निरसनीयाः । तैरपि निर्दोषवाक्यत्वादिहेतुभिरेव वाक्यार्थोऽनुमातव्यः । निर्दोषत्वं च


१. 'स्वार्थ बोधयितुं कस्मादसमर्था पदावली' क. पाठः,




भ्रान्त्यादिराहित्यम् । तच्च वाक्यार्थनिरूपणपुरस्सरमेव निरूपणीयमिति पूर्वोक्तप्रकारेण तेषामपि हेत्वसिद्धिरेवेत्यास्तां तावत् । तदेवं लौकिकं वैदिकमपि शाब्दं सिद्धम् । तत्र-

दुष्टवक्तृप्रणीतत्वदोषः शब्दे यदा भवेत् ।

तदा स्याद् व्यभिचारोऽपि पौरुषेयगिरां कचित् ॥१०९॥
अपौरुषेये वेदे तु पुरुषस्पर्शसङ्गतः । 

कलको न विशङ्कयेत तत् कुतो व्यभिचारिता ॥११०॥ वैदिकं च विधिमन्त्रार्थवादभेदेनोपदेशातिदेशभेदेन च बहुविधमित्यादि तु परिमितकथया न बोधयितुं शक्यत इत्युपरम्यते ।

                    इति मानमेयोदये
                    प्रमाणपरिच्छेदे शाब्दपरीक्षा।
 ------------------------------------------------------------------------------
"https://sa.wikisource.org/w/index.php?title=Manameyodaya&oldid=270644" इत्यस्माद् प्रतिप्राप्तम्