प्रमाण लक्षणम् (मध्वाचार्यः)

॥ श्री गुरुभ्यो नमः हरिः ॐ ॥ अशेषगुरुमीशेशं नारायणमनामयम् । सम्प्रणम्य प्रवक्ष्यामि प्रमाणानां स्वलक्षणम् ॥ यथार्थं प्रमाणम् । तद्द्विविधम् । केवलमनुप्रमाणं च । यथार्थज्ञानं केवलम् । तत्साधनमनुप्रमाणम् । केवलं चतुर्विधम् । ईशलक्ष्मीयोग्योगिभेदेन । पूर्वद्वयमनादिनित्यम् । स्वातंत्रपारतंत्राभ्यां तद्विशेषः । पूर्वं स्वपरगताखिलविशेष विषयम् । द्वितीयं ईशेऽन्येभ्योऽधिकम् । । असार्वत्रिकम् । अन्यत्र सर्वविषयम् । स्पष्टत्वे भेदः । । योगिज्ञानं ऋजूनामनादिनित्यम् । ईशे जीवेभ्योऽधिकम् । अन्यत्रालोचने सर्वविशयम् क्रमेण वर्धमानम् ।

आमुक्तेः ।  ततोऽव्ययम् ।  ।

ततोऽर्वाक्क्रमेण ह्रसितम् । सादि च तात्त्विकेभ्योऽन्यत्र । । अयोगिज्ञानं उत्पत्तिविनाशवत् । अल्पम् । अनुप्रमाणं त्रिविधम् । प्रत्यक्षमनुमानमागमं इति। निर्दोषार्थेन्द्रियसन्निकर्षः प्रत्यक्षम् । निर्दोषोपपत्तिरनुमानम् । निर्दोषः शब्दः आगमः । अर्थापत्त्युपमे अनुमा विशेषः । अभावोऽनुमाप्रत्यक्षं च । । परामर्शापरामर्शविशेषात् । संभवपरिशेषानुमा । । आत्मान्योन्याश्रय चक्रकानवस्थाकल्पनागौरव श्रुतदृष्टहानादयोदूषणानुमा । । उपक्रमोपसंहार तदैकरूपाभ्यासापूर्वताफलार्थवादाश्च । उपपत्तिविशेषाः । । त एव सोपपत्तयो लिङ्गानि । समाख्या वाक्यप्रकरणस्थानानि च । लिङ्गविशेषाः । । व्याप्तिरुपपपत्तिमूलम् । सा प्रतिज्ञाहेतुदृष्टांतरूपा । । हेतुगर्भा प्रतिज्ञा केवलाऽपि । सिद्धौ प्रतिज्ञायां हेतुमात्रं च । । दृष्टांतः स प्रतिज्ञो हेतुगर्भः । उपपत्तिदोषौ विरोधासङ्गति । । न्यूनाधिके वाचनिके । संवादानुक्तियुतास्तु एव निग्रहाः । । प्रत्यक्षं सप्तविधम् । साक्षि षडिन्द्रियभेदेन । मानसप्रत्यक्षजा स्मृतिः । । स्मृत्यनुवादयोर्नाप्रामाण्यम् । यथार्थत्वानुभवात् । अहानेश्च । । विरोधो मानस्ववाक्याभ्याम् । स्ववाक्यविरोधोऽपसिद्धांतजातिरूपेण । । जातिर्न मेये मानापेक्षेत्यादिका । मेये मानापेक्षास्तीति च तेनैव न्यायेन सिद्धत्वात् । मानविरोधश्च । छलमसङ्गति । अन्यच्च । अन्यच्च । गृष्टिविवक्षया गामानयेत्युक्ते पृथिवी विवक्षया गवानयनमशक्यमितिवत् । त्रिविधो विरोधः । प्रतिज्ञाहेतुदृष्टांतभेदेन । । प्रमाणविरुद्धार्थप्रतिज्ञा प्रतिज्ञाविरोधः । हेतुस्वरूपासिद्धिरव्याप्तिश्चेति हेतुविरोधः । । साध्यस्य साधनस्य वाऽननुगमो दृष्टांत विरोधः । प्रतिज्ञायाः समबलविरोध एव सप्रतिसाधनः । । स एवोपाधि दोषोऽपि । सर्व एते दृश्यत्वानुमाने दृष्टव्याः । प्रत्यक्षागमादिभिर्जगतः सत्यत्वात् । । तत्पक्षे दृश्यत्वस्य च मिथ्यात्वात् । अनिर्वचनीयस्य प्रतिवादिनोऽसिद्धत्वात् । । अनिर्वचनीयस्येति । आत्मनोऽपि दृश्यत्वात् । शुक्तिरजतादेरनिर्वचनीयत्वाभावात् । । अनिर्वचनीय दृश्यत्वाभावात् ।

मानसिद्धत्वादिति सप्रतिसाधनत्वात् ।  ।

जगत्सत्यत्वग्राहि प्रत्यक्षस्य वर्तमानमात्रग्राहित्वे अनुमानागमप्रामाण्य ग्राहिणोऽपि प्रत्यक्षत्वाविशेषादुत्तरक्षणे प्रामाण्यं न सेत्स्यतीति भेदादिवाक्यानामेव प्रामाण्यं स्यात् । । तस्य साक्षिसिद्धत्वं चेज्जगत्सत्यत्वमपि साक्षिसिद्धम् । व्यभिचारिश्चेदागमार्थानुमानिर्दोषत्वाध्यवसाये च समः । अत उत्तरदिवसेऽभेदवाक्यस्य भेदोऽर्थः स्यात् । निर्दोषानुमायाः सदोषत्वम् । । सदोषानुमायाः निर्दोषत्वम् । इत्यव्यवस्था । आश्रयसाध्यवधिकरणासिद्धयो न दूषणम् । । अतिप्रसङ्गाभावात् । अतिप्रसङ्गेन हि दोषत्वादोषत्वे कल्प्ये । व्याप्तिरेव हि प्रयोजिका । । असत्यपि व्याप्तिरस्त्येव । असदाश्रयस्य साधकत्वं नेत्यपि व्याप्तिं विना कथं निवार्यते ।। असदाश्रयमित्यादि विशेषणत्वसंभवे कथमव्याप्तिः । न चात्यंताभावोऽपि सर्वधर्मरहितः । प्रमेयत्वाद्यनुभवात् । । परिशेषार्थापत्तिप्रामाण्याभ्युपगमाच्च । विमतं सकर्तृकमित्यत्र सर्वज्ञत्वस्य पक्षधर्मता बलेन सिद्ध्यङ्गीकारात् । । परिशेषोऽर्थापत्तिरनुमानमित्यविशेषः । उपपत्तिमात्रत्वात् । उपपत्तेश्च व्याप्त्यपेक्षा सर्वथाङ्गीकार्येत्याग्रह मात्रेण भेदः । । उपमानस्यापि व्याप्तिरूपत्वात् । न हि स्वसदृशेनासदृशं क्वचिद्दृष्टम् । योग्यानुपलब्धेश्च लिङ्गत्वम् । । अविशेषात् । । अविशेषात् । । अविशेषात् । अविशेषात् । उक्तदोषेष्वेवाशेषानुमानदोषाणामंतर्भावः । । साध्याविशिष्टोऽसिद्धिः । सिद्धसाधकोऽसङ्गतिः । न प्रमासाधनं प्रमाणम् । । ज्ञानव्यतिरिक्तप्रमायां प्रमाणाभावात् । न चाज्ञातपरिच्छित्तिरेव प्रमेत्यत्र किञ्चिन्मानम् । । याथार्थ्यमेव प्रामाण्यमित्यङ्गीकारात् । न चानुभूतिरेव प्रमाणम् । स्मृत्यादावव्याप्तेः । । वेदानुमानादि प्रामाण्यप्रसिद्धेश्च । स्मृतिः प्रत्यक्षमैतिह्यमनुमानश्चतुष्टयम् । प्रमाणमिति विज्ञेयं धर्माद्यर्थे बुभूषुभिः ॥ इति श्रुतेश्च । । ऐतिह्यमागमभेदः । । न च सम्यगनुभवसाधनं प्रमाणम् ।

 ईश्वरज्ञानादावव्यप्तेः ।  ।

अप्रामाण्ये प्रमाणाभावच्च । प्रामाण्यज्ञाने च । तत्राप्यङ्गीकारेऽनवस्थितेः । । स्वप्रकाशात्माङ्गीकारे तत्राव्याप्तेः । स्मृतेश्च प्रामाण्यानङ्गीकारेऽनुभूतं मयेत्यत्र प्रमाणाभावात् । । लिङ्गत्वेन प्रामाण्ये कल्पनागौरवम् । दृष्टहानिश्च । स्मृतिप्रमाणद्वैविध्यमात्रकल्पने मिथ्याज्ञानादेर्निरासादनुभवविरोधः । । तदनुभवाभाव इत्युक्तेऽनुभवः स्मृतिश्च नास्तीत्युक्ते किमुत्तरम् । स्वसिद्धैः साधनं परसिद्धैर्दूषणम् । अतो न दूषणे अपसिद्धांतादि । । इष्टापत्तिः सिद्धसाधनत्वादसङ्गतमेव ।

आनंदतीर्थमुनिना ब्रह्मतर्कोक्तमार्गतः । मानलक्षणमित्युक्तं सङ्क्षेपाद्ब्रह्मसिद्धये ॥ ॥ अशेषमानमेयैक साक्षिणेऽक्षयमूर्तये । अजेश पुरुहूतेड्य नमो नारायणाय ते ॥

इति श्रीमदानंदतीर्थ भगवत्पादाचार्यविरचितं प्रमाणलक्षणग्रन्थोत्तमं सम्पूर्णम् ॥

"https://sa.wikisource.org/w/index.php?title=Pramana_lakshana&oldid=270407" इत्यस्माद् प्रतिप्राप्तम्