महोपाध्यायश्रीयशोविजयकृता
                                                                             ।। जैनतर्कभाषा ।।
                                                                             १.प्रमाणपरिच्छेदः ।
                                                                       ऐन्द्रवृन्दनतं नत्वा जिनं तत्वार्थदेशिनम् ।
                                                                        प्रमाणनयनिक्षेपैस्तर्कभाषां तनोम्यहम् ।।
                                                                        (१.प्रमाणसामान्यस्य लक्षणनिरूपणम्)

१. तत्र- स्वपरव्यवसायि ज्ञानं प्रमाणम् - स्वम् आत्म ज्ञानस्यैव स्वरूपमित्यर्थः, परः तस्मादन्योऽर्थ इति यावत्, तौ व्यवस्यति यथास्थितत्वेन निश्चिनोतीत्येवंशीलं स्वपरव्यवसायि । अत्र दर्शनेऽतिव्याप्तिवारणाय ज्ञानपदम् । संशयविपर्ययानध्यवसायेषु तद्वारणाय व्यवसायिपदम् । परोक्षबुद्ध्यादिवादिनां मीमांसकादीनाम्, बाह्यर्थापलापिनां ज्ञानाद्यद्वैतवादिनां च मतनिरासाय स्वपरेति स्वरूपविशेषणार्थमुक्तम् । ननु यद्येवं सम्यग्ज्ञानमेव प्रमाणमिष्यते तदा किमन्यत् तत्फलं वाच्यमिति चेत्; सत्यम्; स्वार्थव्यवसितेरेव तत्फलत्वात् । नन्वेवं प्रमाणे स्वपरव्यवसायित्वं न स्यात्, प्रमाणस्य परव्यवसायित्वात् फलस्य च स्वपरव्यवसायित्वादिति चेत् ; न ; प्रमाण-फलयोःकञ्चिदभेदेन तदुपपत्तेः ।

"https://sa.wikisource.org/w/index.php?title=Yasovijaya_gani%27s_jaina_tarkabhasa&oldid=272455" इत्यस्माद् प्रतिप्राप्तम्