अंशुमत्काश्यपागमः/अधमदशतालविधिपटलः ५८

← पटलः ५७ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ५९ →



कन्यसं दशतालं तु शृणु वक्ष्ये द्विजोत्तम ।
चन्द्रादित्याश्विनी चैव ऋषयश्च ग्रहस्तथा ॥ १ ॥

आचार्यः शतमखश्चैव चण्डेशः क्षेत्रपालकम् ।
कन्यसं दशतालेन कारयेत्तु विचक्षणः ॥ २ ॥

उष्णीषमंगुलं प्रोक्तं केशमानं युगांगुलम् ।
केशान्ताद्धनु पर्यन्तं सार्धभान्वंगुलं भवेत् ॥ ३ ॥

युगांगुलमिति प्रोक्तं कर्णमानं द्विजोत्तम ! ।
हिक्कादिस्तनसूत्रान्तं सार्धभान्वंगुलं भवेत् ॥ ४ ॥

स्तनाधोनाभिपर्यन्तं तत्समं चेति कीर्तितम् ।
वामेस्तु मेढ्रमूलान्तं सार्धद्वादशमात्रकम् ॥ ५ ॥

तन्मेढ्रमूलादूर्वाग्रं पंचविंशतिमात्रकम् ।
वेदांगुलं तु जानु स्यात् जंघासमोरुसादृशम् ॥ ६ ॥

वेदांशं चरणोत्सेधं तुंगमेवं विधीयते ।
उष्णीषात्पृष्ठकेशान्तं सार्धभान्वंगुलं भवेत् ॥ ७ ॥

उष्णीषात्पार्श्वकेशान्तं अष्टांगुलमिति स्मृतम् ।
उष्णीषात्पूर्वकेशान्तं पंचांगुलमुदाहृतम् ॥ ८ ॥

केशान्ताद्धनु पर्यन्तं मानं तु गुणभाजिते ।
केशान्तादक्षिसूत्रान्तं व्योमांशमिति विद्यते ॥ ९ ॥

अक्षिसूत्रात्पुटान्तं च पुटान्ताद्धन्वन्तकं तथा ।
यवोपेतद्विमात्रं तु नेत्रयोरन्तरं द्विज ! ॥ १० ॥

तत्समं नयनायामं भूतमात्रं भ्रुवायतम् ।
भ्रूमध्यादूर्ध्वकेशान्तं सप्तादश यवस्तथा ॥ ११ ॥

यवं भ्रूमध्यमव्यासं अनुपूर्वात्कृशाग्रके ।
षडंशं नेत्र विस्तारं ऊर्ध्ववर्म यवार्धकम् ॥ १२ ॥

अधोवर्म च तत्तुल्यं करवीरं यवं भवेत् ।
नेत्रायामं त्रिधा कृत्वा एकांशं कृष्णमण्डलम् ॥ १३ ॥

कृष्णमण्डल मध्ये तु ज्योतिर्मण्डलकं यवम् ।
यूकमानेन दृष्टिः स्यात् ज्योतिर्मण्डलमध्यमे ॥ १४ ॥

अधोवर्मस्थितं नेत्रसूत्रे कुर्याद्विशेषतः ।
तस्य केशान्तयोर्मध्ये भ्रूस्थितिर्वार्धचन्द्रवत् ॥ १५ ॥

कर्णस्थानं च तन्मानं उत्तमं दशतालवत् ।
घ्राणमूलस्य विस्तारं यवमत्रमुदाहृतम् ॥ १६ ॥

नासिकाग्रविशालं तु व्योमांगुलमुदाहृतम् ।
अधरोष्ठस्य चायामं पक्षांगुलमुदाहृतम् ॥ १७ ॥

तदर्धं तस्य विस्तारं चिबुकं तु यवद्वयम् ।
विस्तारं तत्समं विद्यात् निम्नमर्धयवं भवेत् ॥ १८ ॥

तस्मादधरनिष्ठान्तं स यवं व्योममात्रकम् ।
ग्रीवामूलविशालं तु वस्वंगुलमुदाहृतम् ॥ १९ ॥

ग्रीवाग्रस्य तु विस्तारं सार्धसप्तांगुलं भवेत् ।
वक्षःस्थलस्य विस्तारं सप्तत्रिंशतिमात्रकम् ॥ २० ॥

पंचविंशति मात्रं तु बाहुदीर्घमुदाहृतम् ।
तस्मादधर निष्ठान्तं स यवं व्योममात्रकम् ॥ २१ ॥

ग्रीवामूलविशालं तु वस्वंगुलमुदाहृतम् ।
आयामं तु प्रकोष्ठस्य एकोन विंशदंगुलम् ॥ २२ ॥

तस्मात्तन्मध्यमाग्रान्तं सार्धद्वादशमात्रकम् ।
तदर्धं तु तलायामं शेषं मध्यांगुलं पदम् ॥ २३ ॥

अंगुष्ठस्य तु दीर्घं तु अष्टादशयवं स्मृतम् ।
सार्धवेदांगुलं प्रोक्तं अनामिकायास्तु दैर्घ्यकम् ॥ २४ ॥

तथैव तर्जनीदीर्घं कनिष्ठस्य युगांशकम् ।
धर्माब्धिवसु षड्भूत यवांगुष्ठादि विस्तृतम् ॥ २५ ॥

तन्मूलेऽष्टांशहीनं तु शेषमग्रविशालकम् ।
अग्रव्यासे तु भूतांशं वेदांशं न विस्तृतम् ॥ २६ ॥

विस्तारात्पादमाधिक्यं नखायाममुदाहृतम् ।
अंगुष्ठं तु द्विपर्व स्यात् अन्यांगुल्यः स्त्रिपर्वकाः ॥ २७ ॥

तलमध्ये त्रिरेखाभिः शूलाभं वाब्जपत्रवत् ।
तलमूलप्रदेशस्य घनं कोलकमध्यमे ॥ २८ ॥

अष्टांशं हीनमात्रं तु घनमित्यभिधीयते ।
तलायामसमं चैव तलस्यैव तु विस्तृतम् ॥ २९ ॥

मणिबन्धस्य विस्तारं त्रिमात्रं द्वियवाधिकम् ।
प्रकोष्ठमूलविस्तारं सार्धभूतांशमुच्यते ॥ ३० ॥

बाह्वग्रस्य तु विस्तारं सार्धषण्मात्रमुच्यते ।
बाहुमध्यविशालं तु सप्तांगुलमुदाहृतम् ॥ ३१ ॥

बाहुमूलस्य विस्तारं वस्वंगुलमुदाहृतम् ।
हिक्कासूत्रात्तु कक्षान्तं अष्टमात्रमुदाहृतम् ॥ ३२ ॥

द्वाविंशदंगुलं प्रोक्तं कक्षान्तरमुदाहृतम् ।
हृदयावधिविस्तारं अष्टादशांगुलं भवेत् ॥ ३३ ॥

उदरस्य विशालं तु सप्तदशांगुलं भवेत् ।
श्रोणी प्रदेशविस्तारं अष्टादशांगुलं भवेत् ॥ ३४ ॥

षड्यवं नाभिविस्तारं नाभिनिम्नं द्वयं भवेत् ।
स्तनमण्डलविस्तारं अर्धांगुलमुदाहृतम् ॥ ३५ ॥

चूचुकं द्वियवं प्रोक्तं उत्सेधं तत्समं भवेत् ।
उभयोस्तनयोरन्तः सार्धद्वादशमात्रकम् ॥ ३६ ॥

मुष्कायामं तु वेदांशं विस्तारं चैव तत्समम् ।
लिंगं पंचांगुलं दैर्घ्यं उत्पलं मुकुलोपमम् ॥ ३७ ॥

कटिप्रदेश विस्तारं षड्यवाष्टदशांगुलम् ।
ऊरुमूलविशालं तु सार्धद्वादशमात्रकम् ॥ ३८ ॥

जानुमध्यविशालं तु सार्धवस्वंगुलं भवेत् ।
जंघामूलविशालं तु सार्धषण्मात्रमुच्यते ॥ ३९ ॥

नलकायास्तु विस्तारं सार्धवेदांगुलं भवेत् ।
अंघ्रितलाग्रविस्तारं कौशिकांगुलमुच्यते ॥ ४० ॥

तलमध्यविशालं तु भूतांगुलमुदाहृतम् ।
पादांगुष्ठसमायामं चतुर्मात्रमुदाहृतम् ॥ ४१ ॥

तस्याग्राद्गुल्फमध्यान्तं सार्धद्वादशमात्रकम् ।
अनामिकाया दीर्घं तु त्रयस्त्रिंशद्यवं भवेत् ॥ ४२ ॥

मध्यांगुल्यं च तत्तुल्यं वेदांशं तदनामिका ।
कनिष्ठिकाया दीर्घं तु सार्धवह्न्यंगुलं भवेत् ॥ ४३ ॥

सप्ताष्टनवधर्मं तु त्रयोदशयवं क्रमात् ।
कनिष्ठाद्यंगुलीनां तु विस्तारं प्रविधीयते ॥ ४४ ॥

अग्रमूलसमं प्रोक्तं विस्तारं तत्त्रिभाजिते ।
द्विभागं नखविस्तारं तत्तुल्यायतवर्तुलम् ॥ ४५ ॥

तलाग्रांगुष्ठमूले तु सार्धवह्न्यंगुलं भवेत् ।
कनिष्ठिकाया मूले तु घनं तत्त्रियवं भवेत् ॥ ४६ ॥

अक्षात्पार्ष्ण्यन्तरं भागं पार्ष्ण्युत्सेधं च तत्समम् ।
पृष्ठमण्डलविस्तारं पादोन नवमात्रकम् ॥ ४७ ॥

वक्षस्थले परे व्यासं पंचविंशति मात्रकम् ।
कक्षयोरन्तरं पृष्ठे चतुर्विंशति मात्रकम् ॥ ४८ ॥

अत्रानुक्तं तु यत्सर्वं उत्तमं दशतालवत् ।
एवं लक्षणमाख्यातं तेषामाकृतिपूर्ववत् ॥ ४९ ॥


इत्यंशुमान्काश्यपे अधमदशतालविधिपटलः (अष्टपंचाशः) ॥ ५८ ॥