प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← पटलः ५६ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ५८ →




मध्यमं दशतालेन स्त्रीमानमथ वक्ष्यते ।
उमासरस्वतीदुर्गा उषा भूषिश्च मातरः ॥ १ ॥

लक्ष्मीं ज्येष्ठां च अनेन विधिना कुरु ।
ईशो ब्रह्मा तथा विष्णुशक्तिरित्यभिधीयते ॥ २ ॥

तेषामनुगुणं मानं तत्तच्छक्तेस्तु मानकम् ।
शंभोर्नासाग्रसीमान्तं शक्त्युच्चं ह्युत्तमोत्तमम् ॥ ३ ॥

शंभोर्वास्तनसीमान्तं अधमाधममुच्यते ।
तयोर्मध्येऽष्टभागे तु नवधा शक्तिमानकम् ॥ ४ ॥

शंभोर्हिक्कान्तमुत्कृष्टं स्तनान्तमधमाधमम् ।
तयोर्मध्येऽष्टभागे तु नवधा शक्तिमानकम् ॥ ५ ॥

एवमष्टादशोत्सेधं पादादुष्णीषसीमकम् ।
तस्माज्जात्यंशमायांशं योजयेत्क्रममिच्छताम् ॥ ६ ॥

त्रिभंगासनमूर्तीनां अन्याभिधानमूर्तिनाम् ।
देव्युच्चं समपादस्य स्थानकं स्यैव युक्तितः ॥ ७ ॥

दुर्गा ज्येष्ठा च लक्ष्मी च मातरश्च विशेषतः ।
मानकल्पे तु लिंगानां मानैः संकल्प्य देशिकः ॥ ८ ॥

मूललिंगस्य गौरी तु लिंगमानेन कल्पयेत् ।
स विंशतिशतं भागं स्त्रीमाने तु विभाजिते ॥ ९ ॥

एकांशमंगुलं ख्यातं तदष्टांशं यवं भवेत् ।
तदंगुलैर्यवैश्चैव चांगमानं प्रमीयते ॥ १० ॥

उमादीनां तु देवीनां * * मेवांगुलं यवम् ।
उष्णीषोदयमेकांशं केशान्तं तु गुणांगुलम् ॥ ११ ॥

केशान्तादक्षिसूत्रान्तं स त्रिपाद युगांशकम् ।
अक्षिसूत्रात्पुटान्तं तु सार्धवेदांगुलं भवेत् ॥ १२ ॥

नासापुटात्तु हन्वन्तं स त्रिपादगुणांगुलम् ।
तस्याधः कण्ठमानं तु चतुर्भागमुदाहृतम् ॥ १३ ॥

हिक्काच्च हृदयान्तं च हृदयान्नाभि सीमकम् ।
नाभ्याश्च योनिपर्यन्तं समं त्रयोदशांगुलम् ॥ १४ ॥

ऊरुदीर्घं तु षड्विंशत् जानुमानं युगांगुलम् ।
ऊरुदीर्घ समं जंघा दीर्घं पादतलं युगम् ॥ १५ ॥

कलांशं पादतलायामं पार्ष्ण्या गुष्ठाग्रसीमकम् ।
तर्जन्यांगुष्ठयोर्दीर्घं चतुर्भागमुदाहृतम् ॥ १६ ॥

सार्धत्रिभागमं मध्यं त्रिभागं तु दनामिकम् ।
सार्धद्विभागमानं तु कनिष्ठांगुलिदीर्घकम् ॥ १७ ॥

द्विरष्टौ सार्धसप्तांशं पातालरसभिर्यवैः ।
अंगुष्ठादि कनिष्ठान्तं चरणांगुलि विस्तृतम् ॥ १८ ॥

त्रिद्व्यंशं तु नखव्यासं पादोनायत वर्तुलम् ।
अंगुलीनां मुखोच्चं तु नखव्याससमं भवेत् ॥ १९ ॥

पादं तलाग्रविस्तारं षण्मात्रमिति विद्यते ।
मध्ये पंचांगुलं पार्ष्णिः विस्तारं चतुरंगुलम् ॥ २० ॥

अक्षिगुल्फान्तविस्तारं पंचभागं विधीयते ।
नलकाततियेदांशं जंघामध्यं रसांगुलम् ॥ २१ ॥

जानुव्यासं तु सप्तांशं भान्वंशं ह्यूरुमूलकम् ।
भानुद्विगुणभागं तु विस्तारं कटिसंधयोः ॥ २२ ॥

योनिपीठविशालं तु सप्तांगुलमुदाहृतम् ।
योनितारं चतुर्भागं अधोगाश्वत्थपत्रवत् ॥ २३ ॥

विस्तारसदृशोत्सेधं योनिं कुर्यात्समांसलम् ।
श्रोणि स्थाने तु विस्तारं स यवं विंशदंगुलम् ॥ २४ ॥

नाभेश्च निम्नविस्तारं षड्यवं परिकीर्तितम् ।
मध्यमस्य विशालं तु रुद्रांगुलमुदाहृतम् ॥ २५ ॥

स्तनाधस्तात्तु विस्तारं सार्धत्रयोदशांगुलम् ।
स्तनतारं नवांशं स्यात् गुणांशं स्तन चूचुकम् ॥ २६ ॥

स्तनोच्चं सार्धवेदांशं अक्षं मध्यांगुलोन्नतम् ।
स्तनाक्षं च स्तनं चैव वृत्तं कृत्वाति सुन्दरम् ॥ २७ ॥

स्तनान्तरं यवाष्टांशं छन्नवीरं तु तत्र वै ।
कक्षयोरन्तरं विप्र सप्तादशांगुलं स्मृतम् ॥ २८ ॥

बाहुपर्यन्तविस्तारं एकत्रिंशांगुलं भवेत् ।
हिक्कासूत्रादधो बाहुदीर्घं षड्विंशदंगुलम् ॥ २९ ॥

कोर्परोच्चं द्विभागं स्यात् प्रकोष्ठं द्विनवांगुलम् ।
मणिबन्धात्तलायामं सप्तांगुलमुदाहृतम् ॥ ३० ॥

तस्मान्मध्यांगुलं षड्भिः पंचांशे तर्जनी भवेत् ।
अनामिका तर्जनीतुल्यं भागांगुष्ठकनिष्ठयोः ॥ ३१ ॥

अंगुलीनां तु दैर्घ्यं वा हस्तयोरुभयोरपि ।
नवसप्ताष्टसप्तं तु यवांगुष्ठादि विस्तृतम् ॥ ३२ ॥

तत्षडंशे चतुर्भागं नखतारमिहोच्यते ।
यवद्वयाधिकं तारात् नखायामं तु तीक्षणवत् ॥ ३३ ॥

हस्तस्य तलविस्तारं पंचांगुलं विधीयते ।
मणिबन्धविशालाग्नि भूतांशं कोर्परस्य तु ॥ ३४ ॥

षडंशं बाहुमध्ये तु सप्तांशं बाहुमूलके ।
तस्मात्तन्मणिबन्धान्तं तरुणं वेणुवत्कृशम् ॥ ३५ ॥

हस्तविस्तारमेवं स्यात् सप्तांशं ग्रीवविस्तृतम् ।
अग्रे मूले तु विस्तारं षडंशं स्याद्यवाधिकम् ॥ ३६ ॥

रुद्रांशं मुखविस्तारं कुक्कुटाण्डसमाकृतिः ।
भ्रूकेशान्तयोर्मध्यं सार्धद्व्यंगुलकं भवेत् ॥ ३७ ॥

भ्रूमध्यान्ते तु तत्रान्तं स पादद्व्यंगुलं भवेत् ।
पुटदास्यावसाअं तु स यवैकांगुलं भवेत् ॥ ३८ ॥

तदर्धं गोजिदीर्घं तु तस्यार्धं तस्य विस्तृतम् ।
अधरं स यवांगुल्यं शेषं हन्वन्तमानकम् ॥ ३९ ॥

कर्णवेशं तु चिबुकात् सार्धत्र्यंगुलकं भवेत् ।
द्विभागं कर्णविस्तारं स पादं चतुरंशकम् ॥ ४० ॥

कर्णदीर्घमिति ख्यातं तस्मान्नालं प्रलम्बयेत् ।
द्विभागं कर्णविस्तारं स पादं चतुरंशकम् ॥ ४१ ॥

कर्णदीर्घमिति ख्यातं तस्मान्नालं प्रलम्बयेत् ।
नालालम्बं तु पंचांशं कर्णबन्धनसंयुतम् ॥ ४२ ॥

हस्तिहस्तोपमं पादं हस्तं गोपुच्छवत्कृतम् ।
शेषमुत्तमतालोक्तमार्गेणैव समाचरेत् ॥ ४३ ॥

स्त्रीणां सामान्यमेतद्धि विशेषमधुना शृणु ।
गौरी वै द्विभुजा शान्ता प्रसन्नवदनाम्बुजा ॥ ४४ ॥

करण्डमुकुटा वाथ करीटमुकुटान्विता ।
मकुटं केशबन्धं वा तेषु तत्सुन्दरं कुरु ॥ ४५ ॥

केशान्तान्मकुटोत्तुंगं अष्टादशांगुलाधमम् ।
एकविंशांगुलं मध्यं श्रेष्ठं भानुद्वयांगुलम् ॥ ४६ ॥

शिरोनाहाद्यवाधिक्यं मकुटं मूलविशालकम् ।
मूलं सप्ताष्टधा भज्य भागोनाग्रविशालकम् ॥ ४७ ॥

किरीटमकुटे चैव केशबन्धमथाचरेत् ।
मूलादग्रं क्रमात्क्षीणं करण्डमकुटस्य तु ॥ ४८ ॥

पद्मस्य मुकुलाकारं मकुटाग्रं प्रकल्पयेत् ।
त्रिपंचसप्तनन्दैर्वा करण्डैस्तु विराजितम् ॥ ४९ ॥

चतुष्पूरिमसंयुक्तं नानापुष्पोभशोभितम् ।
ललाटपट्टसंयुक्तं मुक्तादामलकाकृतिः ॥ ५० ॥

कर्णे कुण्डलसंयुक्तं चतुर्मात्रोन्नतायतौ ।
मकरं कुण्डलं वाथ वृत्तकुण्डलमेव वा ॥ ५१ ॥

कटकैः कटिसूत्रैश्च हारोपग्रीवसंयुतम् ।
बाहुपूरिमसंयुक्तं छन्नवीरसमन्वितम् ॥ ५२ ॥

यज्ञोपवीतयुक्तं वा केयूराढ्य सुशोभिता ।
दुकूलवसना देवी श्यामवर्णांगसुन्दरी ॥ ५३ ॥

दक्षिणं सुस्थितं पादं वामपादं तु कुंचितम् ।
आभंगे तु गुणांशं तु वेदांशं समभंगके ॥ ५४ ॥

नतमानमिति ख्यातं सूत्रं वक्ष्ये यथाक्रमम् ।
ललाटमध्याद्वामे तु नेत्रान्ते च पुटान्तके ॥ ५५ ॥

हनोर्वामे समालंब्य * नयोरन्तरे तथा ।
नाभेर्दक्षिणपार्श्वे तु वामोरुर्दक्षिणं स्पृशेत् ॥ ५६ ॥

अवामचरणे पार्ष्णि वामपार्श्वे तु लम्बयेत् ।
पादांगुष्ठद्वयोश्चैव द्वन्तरं षोडशांगुलम् ॥ ५७ ॥

तत्त्रिभागैकभागं तु पार्ष्ण्यन्तरमुदाहृतम् ।
एवमाभंगमाख्यातं समभंगमथ शृणु ॥ ५८ ॥

ललाटमध्यान्नासाग्रात् पादपार्ष्ण्योश्च मध्यमे ।
प्रसार्य ब्रह्मसूत्रं तु द्वन्तरं तु वदाम्यहम् ॥ ५९ ॥

सूत्रास्तनयोर्मध्ये वामे स्यात्तु गुणांगुलम् ।
तत्सूत्राद्दक्षिणे नाभे नीव्रकं द्व्यंगुलं भवेत् ॥ ६० ॥

तत्सूत्राद्दक्षिणे योनिमूलमध्यं युगांगुलम् ।
तत्सूत्राद्वामतो जानु नीव्रं गुणांगुलं भवेत् ॥ ६१ ॥

पादांगुष्ठद्वयोश्चैव द्वन्तरं द्विनवांगुलम् ।
तत्त्रिभागैकभागं तु पाष्ण्यौ द्वन्तरमिष्यते ॥ ६२ ॥

उत्पलोद्धृतहस्तोर्ध्व स्तनक्षस्य समं भवेत् ।
नाभेस्तु मणिबन्धान्तं सार्धत्रयोदशांगुलम् ॥ ६३ ॥

पार्श्वमध्यमबाह्योश्च द्वन्तरं सप्तमात्रकम् ।
कटिसंधैस्तु वेदां(शं) लम्बहस्तस्य कोर्परम् ॥ ६४ ॥

ऊर्वोस्तु मणिबन्धान्तं द्वन्तरं मनुमात्रकम् ।
ऊर्वाग्रात्तत्कराग्रान्तं दशांगुलमुदाहृतम् ॥ ६५ ॥

एवं संकल्पयेद्गौरीमिदमन्यच्च वक्ष्यते ।
सुस्थितं वामपादं तु दक्षिणं कुंचितं भवेत् ॥ ६६ ॥

ललाटमध्यनासाग्रात् पादयोः पार्ष्णिमध्यमे ।
प्रसार्य ब्रह्मसूत्रं तु द्वन्तरं तु प्रमीयते ॥ ६७ ॥

तत्सूत्रात्स्तनयोर्मध्ये दक्षिणे तु गुणांगुलम् ।
तत्सूत्राद्वामतो नाभि नीव्रं द्व्यंगुलकं भवेत् ॥ ६८ ॥

तत्सूत्राद्वामतो योनिमुलमध्यं गुणांगुलम् ।
तत्सूत्राद्दक्षिणे जानु नीव्रं गुणांगुलं भवेत् ॥ ६९ ॥

शेषं पूर्ववदुद्दिष्टं गौरीलक्षणमेव हि ।
सरस्वत्यादि शक्तीनां प्रागेव प्रोच्यतेऽथवा ॥ ७० ॥


इत्यंशुमान्काश्यपे मध्यमदशतालस्त्रीमानपटलः (सप्तपंचाशः) ॥
५७ ॥