अंशुमत्काश्यपागमः/अधिष्ठानलक्षणपटलः ६
← पटलः ५ | अंशुमत्काश्यपागमः [[लेखकः :|]] |
पटलः ७ → |
अथ वक्ष्ये त्वधिष्ठान विधानं शृणु सुव्रत ! ।
धरातलमधिष्ठानं आधारं धरणी तया ॥ १ ॥
भुवनं पृथिवी भूमिः पर्याय वचनादिभिः ।
हर्म्यतारं तु कूटादि नीव्राधिष्ठाननीव्रकम् ॥ २ ॥
तस्मात्तदुपपीठं स्यात् नीव्रं होमा विनिर्गमम् ।
तस्मात्प्रकृति नीव्रं च सूत्र पातं तु कारयेत् ॥ ३ ॥
यत्रैवाद्येष्टकान्यासं तत्रैवं मानलक्षयेत् ।
तस्मात्तु घनभित्त्येवं प्रकृत्यन्तं प्रकल्पयेत् ॥ ४ ॥
स्वभाव प्रकृतेरूर्ध्वे प्रकृत्युच्चैकहस्तकम् ।
द्विहस्तं वा प्रकृत्युच्चं त्रिहस्तं वा घनाकृतिः ॥ ५ ॥
षडंगुल्यसमुत्सेधं षट्षडंगुलवर्धनात् ।
उत्तमं मध्यमं चैव अधमं च तथापि वा ॥ ६ ॥
प्रकृत्यन्तं स्थलं ख्यातं अन्तर्मण्डलकस्य तु ।
एवं कृत्वा प्रकृत्यूर्ध्वे होमं संकल्प्य देशिकः ॥ ७ ॥
भित्तिपादस्य विष्कंभं द्विगुणं त्रिगुणं तु वा ।
होमनीव्रमिति ख्यातं तदर्धं बहुलान्वितम् ॥ ८ ॥
तद्धोमाप्रकृतीनीव्रैः द्वित्रिदण्डमथापि वा ।
कुड्यपादाद् बहिर्नीव्र दुपपीठगलं तु वा ॥ ९ ॥
होमनीव्रसमं प्रोक्तं द्विविधं द्विजसत्तम ! ।
होमतुंगार्धमानेन होमोर्ध्वाब्जं प्रकल्पयेत् ॥ १० ॥
अब्जस्योच्चसमं वेशं अब्जाच्चोर्ध्वोपमानकम् ।
तस्योपरित्वधिष्ठानं सोपपीठान्वितं तु वा ॥ ११ ॥
अन्यद्धोमात्प्रकृत्यूर्ध्वे उपोपानं प्रकल्पयेत् ।
तत्तदूर्ध्वे धरातलं वाथ सोपपीठमथापि वा ॥ १२ ॥
उपापानं विनाधारं होमोर्ध्वे वा प्रकल्पयेत् ।
प्रकृतीसमसूत्रे तु कल्पयेच्छिल्पिकोत्तमः ॥ १३ ॥
होमापद्मोपपानादीन् हर्म्ये निवेशयेत् ।
आप्तोत्सेधांशमानेन त्वधिष्ठानस्य चोच्छ्रयम् ॥ १४ ॥
पादोदयार्धमानं वा षट्षडष्टांशमेव वा ।
अग्रपादविशालं तु दण्डमित्यभिधीयते ॥ १५ ॥
एकदण्डं समारभ्य त्वर्धदण्ड विवर्धनात् ।
यावता पंचसंख्या तु अग्निदण्डावसानकम् ॥ १६ ॥
पाद्बाह्ये परनिष्क्रान्तं तत्त्रिभागविभाजिते ।
उपानव्यासमेकांशं शेषं जगति विस्तरम् ॥ १७ ॥
कुमुदं वेदमेकांशं तन्निव्रं जगतेस्समम् ।
कुमुदोर्ध्वे पट्टवेशं तत्समं कण्ठवेशनम् ॥ १८ ॥
सर्वेषामम्बुजानां तु नीव्रतुंगसमं भवेत् ।
ऊर्ध्वपट्टमशेषं तत् समं वा कण्ठवेशनम् ॥ १९ ॥
कम्पानामपि सर्वेषां चतुर्भागेन नीव्रकम् ।
महावाजन्निष्क्रान्तं तुंगतुल्यार्धमेव वा ॥ २० ॥
त्रिपादं वाथ निष्क्रान्तिं यथाबलवशान्नयेत् ।
जन्मादिपंचवर्गेषु तत्तदंगावसानकम् ॥ २१ ॥
द्वारार्धं वा स्थलार्धं वा छेदयेत्तद्धरातलम् ।
उपानं जगतीं चैव कुमुदं कण्ठपट्टिका ॥ २२ ॥
पंचवर्गेति विख्यातं पादबन्धतले बुधः ।
द्वारं च जलधारं च स्थलं च प्रतिबन्धकैः ॥ २३ ॥
प्रतिरूर्ध्वे तु कर्तव्यं अंगच्छेदं न कारयेत् ।
प्रत्यंगच्छेदनं चेत्तु विपदामास्पदं सदा ॥ २४ ॥
तस्मात्सर्वप्रयत्नेन प्रत्यंगच्छेदनं विना ।
अधिष्ठानं द्विधा ज्ञेयं प्रतिबन्धांघ्रिबन्धनम् ॥ २५ ॥
प्रत्येकानेकभेदेन प्रोच्यते द्विजसत्तम ! ।
सर्वेषां प्रतिबन्धानां कुमुदं वृत्तमुच्यते ॥ २६ ॥
पादबन्धतलानां तु वस्वश्रं कुमुदं भवेत् ।
तयोस्संकरमेकस्मिन् कर्तव्ये कर्तृनाशनम् ॥ २७ ॥
प्रासादं प्रतिबन्धं च तत्तद्भेदेन संकरम् ।
कूटकोष्ठादिकानां तु कर्तव्यं तच्छुभावहम् ॥ २८ ॥
तथैवांघ्रिप्रबन्धं चेत् तस्मिन्संकरमुत्तमम् ।
अशुभं विपरीतं चेत् वास्तु राष्ट्रनृपस्य च ॥ २९ ॥
तस्मात्सर्वप्रयत्नेन वर्ज्यो वर्गेण संकरम् ।
अधिष्ठानस्य चोत्सेधं एकोनाविंशदंशके ॥ ३० ॥
उपानं चैकभागेन सप्तांशं जगती भवेत् ।
षट्त्रिंशं कुमुदोच्चं तु आलिंलं चैकभागया ॥ ३१ ॥
त्रिपट्टं चैकभागेन प्रत्युत्सेधाद्विभागया ।
वाजनं चैकभागेन प्रतिबन्धमिदं भवेत् ॥ ३२ ॥
उपानरहितं शेषं पूर्ववत् तत्त्वनेकधा ।
अधिष्ठानस्य चोत्सेधं पंचविंशतिभाजिते ॥ ३३ ॥
शिवांशं पादुकोत्सेधं जगती वसुभागया ।
धात्वंशं कुमुदोच्चं तु व्योमांशं कंपमानकम् ॥ ३४ ॥
अनलांशं गलोत्सेधं शश्यंशं चोर्ध्वकम्पकम् ।
महापट्टी गुणांशं तु तदूर्ध्वेऽंशेन कम्पकम् ॥ ३५ ॥
पादबन्धमितिख्यातं उपानरहितं तथा ।
एतच्च पादबन्धं च नानाभेदेन कीर्तितम् ॥ ३६ ॥
त्रिस्सप्तांशे तलोत्सेधं कृत्वांशेनैव पादुकाम् ।
अम्बुजं सार्धभागं स्यात् कम्पमर्धांशमुच्यते ॥ ३७ ॥
सप्तांशं जगतेरुच्चं रसांशं कुमुदोदयम् ।
आलिंगमेकभागेन त्रिपट्टं चैकभागया ॥ ३८ ॥
द्विभागं प्रतितुंगं स्यात् भागेनैकेन वाजनम् ।
प्रतिक्रममिदं नाम्ना प्रतिबन्धं तु भेदितम् ॥ ३९ ॥
तदेव पक्षभागेन उपानं परिकल्पयेत् ।
आलिंगोच्चं द्विभागेन शेषं पूर्ववदेव हि ॥ ४० ॥
उपानोपरि पद्मं च कम्पं चैव परित्यजेत् ।
तदुच्चं प्रतिक्रमं ख्यातं सर्वदेवालयावहम् ॥ ४१ ॥
षड्विंशद्विभजेदुच्चं उपानं चैकभागया ।
द्विभागेन दलं कुर्यात् कम्पमेकेन कारयेत् ॥ ४२ ॥
षडंशं जगते रुच्चं एकांशं दलमानकम् ।
कण्ठमेकेन कर्तव्यं कण्ठोच्चं तद्द्विभागया ॥ ४३ ॥
एकांशं कम्पतुंगन्तु तत्समं तु दलोदयम् ।
महापट्टी द्विभागेन दलमेकांशमानतः ॥ ४४ ॥
कम्पमेकेन कर्तव्यं अष्टाश्रं कुमुदान्वितम् ।
अंभोजकेसरं ख्यातं पादबन्धे तु भेदितम् ॥ ४५ ॥
एकोनविंशदंशं तु तलोत्सेधं विभाजिते ।
उपानमेकभागेन पद्मोच्चमनलांशकम् ॥ ४६ ॥
कम्पोच्चं त्वर्धभागेन जगत्युच्चं युगांशकम् ।
अम्बुजं चार्धभागेन गलमर्धांशमानतः ॥ ४७ ॥
अर्धांशं पद्म तुंगं तु गुणांशं पट्टमानकम् ।
पद्ममर्धांशमानेन तत्समं कम्पमुच्यते ॥ ४८ ॥
अध्यर्धांशं तु कंठोच्चं कम्पमर्धेन कारयेत् ।
पद्ममर्धेन कर्तव्यं पट्टिका सार्धभागया ॥ ४९ ॥
अम्बुजं चार्धभागेन कम्पमर्धेन कारयेत् ।
पुष्पपुष्कलमाख्यातं पादबन्धे तु भेदितम् ॥ ५० ॥
द्वात्रिंशद्विभजेदुच्चं उपोपानं द्विभागया ।
उपानं चैकभागं स्यात् सप्तांशं कमलोच्छ्रयम् ॥ ५१ ॥
कण्ठमेकेन कर्तव्यं पद्ममेकेन कारयेत् ।
कुमुदोच्चं चतुर्भागं एकांशं गलमुच्यते ॥ ५२ ॥
कम्पमेकेन कर्तव्यं गुणांशं गलमानकम् ।
एकेनकम्पमेकेन ऊर्ध्वे पद्मं प्रकल्पयेत् ॥ ५३ ॥
कपोतोच्चं युगांशेन आलिंगं चैकभागया ।
एकेनान्तरितं कुर्यात् प्रतितुंगं द्विभागया ॥ ५४ ॥
वाजनं चैकभागेन कल्पयेत्तु क्रमेण तु ।
प्रतिबन्धे तु भेदं स्यात् श्रीबन्धान्तरिताद्धृतम् ॥ ५५ ॥
अधिष्ठानस्य चोत्सेधं अष्टाविंशति भाजिते ।
उपानं चैकभागेन जगत्युच्चं रसांशकम् ॥ ५६ ॥
कुमुदं पंचभागेन कम्पमेकेन कारयेत् ।
गलांशं गुणमानं तु कम्पमेकेन कारयेत् ॥ ५७ ॥
पद्ममेकेन कर्तव्यं कपोतोच्चं गुणांशकम् ।
आलिंगमेकभागेन अन्तरीतं तु कल्पयेत् ॥ ५८ ॥
प्रतितुंगं द्विभागेन शिवांशं वाजनं तथा ।
प्रतिबन्धस्य वर्गस्य मंचबन्धमुदाहृतम् ॥ ५९ ॥
तदेवालिंगिकामूर्ध्वं ऊर्ध्वं द्वाविंशदंशकैः ।
कल्यं श्रीकान्तकं नाम्ना पादबन्धे तु भेदितः ॥ ६० ॥
तुंगे षट्विंशदंशे तु एकांशं पादुकं भवेत् ।
द्विभागं गलमानं तु कम्पोच्चं शशिभागया ॥ ६१ ॥
षडंशं तु जगत्युच्चं चतुर्भागं घटोदयम् ।
कम्पमेकेन कर्तव्यं कण्ठोच्चं तु द्विभागया ॥ ६२ ॥
ऊर्ध्वकम्पमथैकांशं अगमानं द्विभागया ।
वाजनं * * * * * द्विभागं कण्ठमुच्यते ॥ ६३ ॥
वाजनं चैकभागेन सार्धांशं कमलोदयम् ।
कम्पमर्धेन कर्तव्यं श्रोणीबन्धमिदं परम् ॥ ६४ ॥
पादबन्धे तु भेदं स्यात् संहव्यालैर्विभूषितम् ।
त्रिष्षडंगं तलोत्सेधं कृत्वा सार्धांश पादुकम् ॥ ६५ ॥
कम्पमर्धांशमित्युक्तं भूतांशं पंकजोदयम् ।
गलमेकेन कर्तव्यं पद्ममेकेन कारयेत् ॥ ६६ ॥
कुमुदोच्चं त्रिभिर्भागैः दलमेकांशमानतः ।
आलिंगमेकभागेन त्वन्तरीतत्समं भवेत् ॥ ६७ ॥
प्रतेरुच्चं द्विभागेन वाजनं चैकभागया ।
अब्जबन्धमिदं नाम्ना भेदं तत्प्रतिबन्धके ॥ ६८ ॥
तलं द्वाविंशदंशे तु द्विभागं पादुकोन्नतम् ।
अब्जमेकेन कम्पं तु त्वेकांशेन प्रकल्पयेत् ॥ ६९ ॥
जगती भाग तु कुमुदं चतुरंशकैः ।
पद्ममेकेन कर्तव्यं कम्पमेकेन कारयेत् ॥ ७० ॥
कण्ठतुंगं द्विभागेन कम्पमेकेन कारयेत् ।
शिवांशं दलमानं तु महापट्टीद्विभागया ॥ ७१ ॥
कम्पमेकेन कर्तव्यं वप्रबन्धमिदं स्मृतम् ।
पादबन्धस्य वर्गस्य सर्वधामसु पूजितम् ॥ ७२ ॥
तन्महापट्टिकामाने कपोतं कपोतबन्धकम् ।
कपोतोपरिकम्पोर्ध्वे त्रिपट्टं चैकभागया ॥ ७३ ॥
प्रत्युत्सेधं द्विभागेन वाजनं त्वेकभागया ।
तुंगे षड्विंशदंशे तु कल्पं तत्प्रतिसुन्दरम् ॥ ७४ ॥
अधिष्ठानस्य चोत्सेधं त्रयोविंशति भाजिते ।
उपानमेकभागेन पद्ममेकेन कम्पकम् ॥ ७५ ॥
कण्ठं द्विभागमंशेन कम्पमेकेन पद्मकम् ।
द्व्यंशेन पट्टिकां विद्यात् कम्पमेकेन कल्पयेत् ॥ ७६ ॥
पद्ममेकेन कण्ठं तु एकांशेनैव कल्पयेत् ।
एकांशेनाम्बुजं कुर्यात् गुणांशं कुमुदोदयम् ॥ ७७ ॥
पद्ममेकेन कर्तव्यं आलिंगं चैकभागया ।
त्रिपट्टं शिवभागेन द्विभागं प्रतिमानकम् ॥ ७८ ॥
वाजनं चैकभागेन कल्पयेत्तु यथाक्रमम् ।
प्रतिबन्धे तु भेदं स्यात् श्रीकण्ठं तदुदाहृतम् ॥ ७९ ॥
उपानमेकभागेन पद्ममंशेन कम्पकम् ।
कण्ठं द्विभागमंशेन कम्पं द्व्यंशेन पट्टिका ॥ ८० ॥
कम्पमेकेन पद्मं तु एकांशेन प्रकल्पयेत् ।
कुमुदं तु त्रियंशेन पद्ममेकांशमानतः ॥ ८१ ॥
आलिंगमेकभागेनान्तरितं शशिभागया ।
द्विभागेन प्रतिं कुर्याद् वाजनं चैक भागया ॥ ८२ ॥
अधिष्ठानस्य चोत्सेधं द्वाविंशति विभाजिते ।
एतत्करीरबन्धं स्यात् प्रतिबन्धे तु भेदितम् ॥ ८३ ॥
पादुकं चैकभागेन द्विभागेनाब्ज तुंगकम् ।
कम्पमेकेन कर्तव्यं कण्ठमानं द्विभागया ॥ ८४ ॥
कम्पमेकं द्विभागेन पट्टिकांशेन कम्पकम् ।
द्विभागं गलमानं तु गलमेकांशमानतः ॥ ८५ ॥
अम्बुजं चैकभागेन कुम्भमानं गुणांशकम् ।
एकांशं गलमानं तु द्व्यंशेनालिंगमुच्यते ॥ ८६ ॥
त्रिपट्टं चैकभागेन प्रतिमानं द्विभागया ।
वाजनं चैकभागेन भागं द्विगुणितांशके ॥ ८७ ॥
एतच्च प्रतिबन्धं स्यात् भेदं कलशबन्धनम् ।
अधिष्ठानस्य चोत्सेधं चतुर्विंशति भाजिते ॥ ८८ ॥
पादुकांशं तु भागेन तत्समं पंकजोदयम् ।
खुरमेकेन कर्तव्यं जगत्युच्चं रसांशकम् ॥ ८९ ॥
पद्ममेकेन भागेन कण्ठं पद्मं तु भागया ।
वेदांशं * * * त्सेधं कलशं चैकभागया ॥ ९० ॥
आलिंगमेकभागेन भागेनान्तरितं भवेत् ।
द्विभागं प्रतितुंगं तु वाजनं चैकभागया ॥ ९१ ॥
प्रतिबन्धं तु भेदं स्यात् श्रीकरं नामचोच्यते ।
भानुद्व्यंशे तलोच्चं तु द्विभागं पादुकं भवेत् ॥ ९२ ॥
उपोपानं शिवांशं स्यात् षडंशं गलमानकम् ।
कण्ठमंशेन कर्तव्यं अंशेनाब्जं प्रकल्पयेत् ॥ ९३ ॥
गुणांशं घटमानं तु गलमेकेन वृत्तकम् ।
कम्पमेकेन कण्ठं तु गुणांशमेकेन कम्पकम् ॥ ९४ ॥
व्योमांशं कम्पमंशं तु द्विभागं पट्टिका भवेत् ।
एकांशं गलमानं तु कम्पमेकेन कारयेत् ॥ ९५ ॥
सुन्दराम्बुज नाम्ना तु पादबन्धे तु भेदितम् ।
चतुस्सप्तद्विभागं तु तत्तन्मानं विभाजिते ॥ ९६ ॥
द्विभागं पादुकं ख्यातं दलमानं युगांशकम् ।
गलमेकेन कर्तव्यं अम्बुजं तु द्विभागया ॥ ९७ ॥
द्विभागं पट्टिकामानं अंशं पादुकमुच्यते ।
जगती चतुरंशं तु पद्ममंशे द्विजोत्तम ! ॥ ९८ ॥
कण्ठमंशेन पद्मं तु शश्यंशं प्रविधीयते ।
गुणांशं कुमुदोच्चं तु पद्ममंशेन कल्पयेत् ॥ ९९ ॥
कम्पमंशेन कर्तव्यं त्रिपट्टं चैकभागया ।
द्व्यंशेन प्रतिमानं तु वाजनं च शिवांशकम् ॥ १०० ॥
एवं नलिनकान्तं स्यात् सर्वदेवप्रियावहम् ।
त्रयोविंशति भागं तु तलोच्चं तु विभाजिते ॥ १०१ ॥
सार्धांशं पादुकोत्सेधं उपोपानं शिवांशकम् ।
अधः पद्मं द्विभागं स्यात् एकांशं कण्ठमुच्यते ॥ १०२ ॥
तदूर्ध्वे पद्ममेकांशं कुमुदोच्चं गुणांशकम् ।
तदूर्ध्वे पद्ममेकांशं एकांशं कम्पमानकम् ॥ १०३ ॥
कण्ठं द्व्यंशेन कर्तव्यं एकांशं चोर्ध्वपट्टिका ।
एकांशं पद्मतुंगं तु सार्धांशं वाजनोदयम् ॥ १०४ ॥
एकांशं पद्मतुंगं तु आलिंगं चैकभागया ।
त्रिपट्टं तु तथांशेन प्रतिमानं द्विभागया ॥ १०५ ॥
एकेन वाजनं कुर्यात् श्रीसौन्दर्यं समुच्यते ।
प्रतिबन्धस्य भेदं स्यात् एतच्चं पुरतस्तथा ॥ १०६ ॥
चतुर्विंशति भागं तु तलोच्चं तु विभाजिते ।
उपानं चैकभागेन द्विभागेन तु दलोदयम् ॥ १०७ ॥
तदूर्ध्वे कंपमेकांशं जगत्युच्चं शरांशकम् ।
वेदांशं कुमुदोच्चं तु पद्ममंशेन कल्पयेत् ॥ १०८ ॥
कण्ठमेकांशमित्युक्तं ऊर्ध्वपद्मं शिवांशकम् ।
वाजनोच्चं द्विभागेन एकांशं पद्मभागकम् ॥ १०९ ॥
आलिंगमेकभागेन त्रिपट्टं तत्समं भवेत् ।
प्रतिमानं द्विभागं स्यात् वाजनं चैकभागया ॥ ११० ॥
स्कन्दकान्तमिदं नाम्ना प्रतिबन्धस्य भेदिते ।
धरातलोच्चं विभजेत् त्रयोविंशति भागया ॥ १११ ॥
उपानोदयमेकांशं षडंशमम्बुजोदयम् ।
एकांशं कण्ठमानं तु ऊर्ध्वं पद्मं शिवांशकम् ॥ ११२ ॥
युमांशं कुंभकोत्सेधं एकांशं पद्ममानकम् ।
कम्पमेकेन कर्तव्यं द्विभागं कन्धरोदयम् ॥ ११३ ॥
एकांशं कंपमानं तु ऊर्ध्वपद्मं च तत्समम् ।
कपोतोच्चं गुणांशं तु आलिंगं चैकभागया ॥ ११४ ॥
एतच्चाम्बुजकान्तं स्यात् पादबन्धे तु भेदितम् ।
एवं त्वनेकभेदेन प्रोच्यते तु धरातलम् ॥ ११५ ॥
तथैवोच्चैकमात्रं वा हीनाधिकं न दोषभाक् ।
अर्धं वार्ध त्रिपादं वा बलांगद बलान्वितम् ॥ ११६ ॥
त्रिपट्टस्य विशालं तु द्विविधं प्रविधीयते ।
मूलपादस्य माव्यास पादमूले त्रिपट्टिकम् ॥ ११७ ॥
पादान्तरे त्रिपट्टानां व्यासं त्रिपादमर्धकम् ।
पादबाह्यसमावेशं नीव्रं चैव समं भवेत् ॥ ११८ ॥
युग्मा व युग संख्या वा पादान्तरेषु कल्पयेत् ।
सिंहेभमकरैर्व्यालैः भूतहंसैर्विभूषितम् ॥ ११९ ॥
प्रत्यग्रमकरैर्व्यालैः पादाधारस्य निर्गमम् ।
त्रिपट्टोर्ध्वे प्रतिं हेम सर्वत्र परिकल्पयेत् ॥ १२० ॥
ऊर्ध्वाधस्तम्बुजोपेतं कुमुदं वृत्तमाचरेत् ।
अन्ये द्वे कुसुमास्सर्वे प्रतिबन्धांघ्रि बन्धयेत् ॥ १२१ ॥
वृत्तं च वसुकोणं च क्रमेणैव तु कल्पयेत् ।
इत्यंशुमान्काश्यपे अधिष्ठानलक्षणपटलः (षष्ठः) ॥ ६ ॥