प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← पटलः ४ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ६ →


अथ वक्ष्ये विशेषेण उपपीठविधिं परम् ।

स्वाधिष्ठानसमोच्चं वा त्रिपादं वार्धमेव वा ॥ १ ॥


पंचभागाग्निभागं वा सपादं सार्धमेव वा ।

पादोनद्विगुणं वाथ द्विगुणं वा विशेषतः ॥ २ ॥


एवमष्टविधं ख्यातं उपपीठोदयं द्विज ।

दशधाभज्यमधिष्ठानं एकद्वित्रिचतुष्टयम् ॥ ३ ॥


पंचांशं वाथ निष्क्रान्तं अधिष्ठानस्य पादुका ।

उपपीठस्य नीर्वं तु पंचधा परिकीर्तितम् ॥ ४ ॥


तन्नीव्रमुपपीठे तु पादवाह्यं परिकल्पयेत् ।

अथवाग्रपादसदृशं द्विगुणद्विगुणं तथा ॥ ५ ॥


जगतेनीर्व तुल्यं वा उपानसदृशं तु वा ।

एवं हि पंच भेदं स्यात् उपपीठस्य निर्गमम् ॥ ६ ॥


सभादीनामुपपीठस्य निष्क्रान्तं दण्डमुच्यते ।

सभादीनां तु तद्बाह्ये निष्क्रान्तं दण्डमुच्यते ॥ ७ ॥


अथैकदण्डमारभ्य नवदण्डावसानकम् ।

उपानं नवधा तीव्रं अधमादित्रयं त्रयम् ॥ ८ ॥


तदुच्चे द्वादशांशे तु उपानोच्चं द्विभागया ।

पद्ममंशेन कर्तव्यं अर्धांशं कम्पमुच्यते ॥ ९ ॥


भूतांशकण्ठतुंगं तु कम्पमब्जं तु पूर्ववत् ।

सार्धांशं वाजिनं कुर्यात् कम्पमर्धेन कारयेत् ॥ १० ॥


अष्टांगमेवमाख्यातं षडंगं तद्विनाम्बुजम् ।

कंपेनाम्बुजमानं तु योज्यं भद्रोपपीठकम् ॥ ११ ॥


ऊर्ध्वकंपं विना वापि पंचांगमुपपीठकम् ।

उपपीठस्य चोत्सेधं सप्तविंशतिभाजिते ॥ १२ ॥


द्विभागं पादुकोत्सेधं पंकजं तत्समं भवेत् ।

कम्पमेकांशमित्युक्तं द्वादशांशं गलोदयम् ॥ १३ ॥


उत्तरं चैकभागेन तत्समं चोर्ध्वमम्बुजम् ।

अग्निभागं कपोतोच्चं मंशमालिं मिष्यते ॥ १४ ॥


त्र्यश्रमेकेनमन्तरितं कुर्यात्प्रतिद्विभागया ।

वाजनं चैकभागेन नाम्ना तत्प्रतिभद्रकम् ॥ १५ ॥


द्विभागं पादुकोत्सेधं द्विभागं पंकजोदयम् ।

कम्पमेकेन कर्तव्यं एकान्तरितं भवेत् ॥ १६ ॥


द्विभागं प्रतितुंगं तु त्वेकेनैव तु वाजिनम् ।

अष्टांशं गलमानं तु कम्पमेकेन कारयेत् ॥ १७ ॥


अब्जमेकेन कर्तव्यं कपोतोच्चं गुणांशकम् ।

एकेन लिंगमानं तु मन्तर्यंशेन कल्पयेत् ॥ १८ ॥


प्रतितुंगं द्विभागेन वाजनं चैकभागया ।

सप्तविंशतिभागे तु नाम्ना तत्प्रतिसुन्दरम् ॥ १९ ॥


उपपीठस्य चोत्सेधं एकविंशतिभाजिते ।

उपानं तु द्विभागेन तत्समं त्वम्बुजोदयम् ॥ २० ॥


कम्पमर्धेन कर्तव्यं पद्ममर्धेन कारयेत् ।

महापट्टी द्विभागेन पद्ममर्धेन कारयेत् ॥ २ ॥


कम्पमर्धेन कर्तव्यं कर्णोच्चं वसुभागया ।

भागेन कम्पमर्धेन पद्मकम्पे कपोतकम् ॥ २२ ॥


त्रिभिस्तत्कम्पमर्धेन नाम्ना सौभद्रमुच्यते ।

उपानद्विभागमर्धांशैः अम्बुजांशेन कन्धरम् ॥ २३ ॥


द्विभागेनाब्जं कर्तव्यं पट्टिका तत्समं भवेत् ।

पद्मकं सार्धभागेन कम्पमर्धेन कारयेत् ॥ २४ ॥


सप्तभागं गलोत्सेधं कम्पमर्धेन कारयेत् ।

अम्बुजं सार्धभागेन महापट्टी द्विभागया ॥ २५ ॥


अब्जमर्धार्धभागेन कम्पमर्धेन कारयेत् ।

पंचपंचोपपीठोच्च समभागद्विभाजिते ॥ २६ ॥


कल्याण कारिका नाम्ना सर्वधामसु पूजितम् ।

एवं षडंगमाख्यातं उपपीठं द्विजोत्तम ! ॥ २७ ॥


अंगनिष्क्रान्तवेशं च अधिष्ठानविधानवत् ।

भूतैव्यालेभसिंहैश्च मकरैः पत्रजातिभिः ॥ २८ ॥


उपपीठगले विप्र ! भूषयेत्सर्वलक्षणम् ।

प्रत्यग्रमकरस्याभा वालारूढसमस्तकम् ॥ २९ ॥


अवले बलवर्धं च अधिष्ठानोत्तमाचरेत् ।

उपपीठं समाख्यातं अधिष्ठानविधिं शृणु ॥ ३० ॥


इत्यंशुमान्काश्यपे उपपीठविधान पटलः (पंचमः) ॥ ५ ॥