प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← पटलः २५ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः २७ →


अथ वक्ष्ये विशेषेण हर्म्यमेकतलं शृणु ।
तस्य विस्तारतुंगं च प्रोक्तं प्रासादमानके ॥ १ ॥

युगाश्रं वृत्तमायाश्रं द्व्यश्रं वृत्तं षडश्रकम् ।
अष्टाश्रं चाकृतिष्वेषां शिखरेऽपि तथैव च ॥ २ ॥

हर्म्य तारार्धमानं तु कन्यसं मुखमण्टपम् ।
हर्म्य तारसमं श्रेष्ठं तयोर्मध्येष्ट भाजिते ॥ ३ ॥

मुखमण्टपदीर्घं तु नवधा कथिता मया ।
प्रासाद सदृशं व्यासं उत्तमत्रय मण्टपम् ॥ ४ ॥

प्रासादादविशेषिता दण्डमध्यर्धदण्डकम् ।
द्विदण्डं वा प्रवेशं तु मानसूत्राद्द्विजोत्तम ! ॥ ५ ॥

सार्धदण्डैक दण्डं वा मानसूत्रात्तु वेशनम् ।
युग्मस्तंभसमायुक्तं युक्त्या सर्वांगशोभितम् ॥ ६ ॥

सावकाशान्तरालं वा कुड्यद्वारं सजालकम् ।
सावकाशान्तरालं चेत् तद्दीर्घं द्वित्रिचतुष्करम् ॥ ७ ॥

सोपानं पाश्वयोः कुर्यात् गजहस्त विभूषितम् ।
प्रासादभित्तिविस्तारतुल्यं वार्धं त्रिपादकम् ॥ ८ ॥

अन्तरालस्य भित्तेस्तु व्यासास्युर्मण्टपं तथा ।
कूटकोष्ठादि युक्तं वा भिन्नं मुखमण्टपम् ॥ ९ ॥

त्रिवर्गसहितं वापि तोरणाद्यैर्विचित्रितम् ।
एकानेकतलं वाथ कर्तव्यं मुखमण्टपम् ॥ १० ॥

हर्म्यतारे त्रिभागैकं गर्भगेहस्य विस्तृतम् ।
पंचभागे त्रिभागं च वेदांशं सप्तभाजिते ॥ ११ ॥

दशांशे भूतभागं तु रसांशं रुद्रभाजिते ।
त्रयोदशांशे सप्तांशं वस्वंशं तिथि भाजिते ॥ १२ ॥

सप्तादशांशे नवांशं च व्यासार्धं च द्विजोत्तम ! ।
गर्भगेहस्य विस्तारं नवधा कीर्तितां मया ॥ १३ ॥

शेषंभित्ति विशालं स्यात् परितः कल्पयेद्बुधः ।
एकद्वित्रिचतुष्पंच भित्तिः स्यादेकभूमिके ॥ १४ ॥

हर्म्ये च वसुधा भज्य एकांशं हि तलोन्नतम् ।
द्विभागं चरणायामं प्रस्तरार्धैकभागया ॥ १५ ॥

गलोच्चं त्वेकभागेन द्विभागं शिखरोदयम् ।
एकांशं स्तूपि तुंगं तु कल्प्येवं शान्तिकं भवेत् ॥ १६ ॥

शान्तिके मंचमानं तु दशाष्टसप्तभागिकम् ।
एकांशं रहितं शेषं मंचं वा प्राग्वदेव वा ॥ १७ ॥

एवं शान्तिकमाख्यातं पौष्टिकं चाधुना शृणु ।
सदनोच्चे नवांशे तु शिवांशं तु तलोदयम् ॥ १८ ॥

अर्धपादसमायुक्तं द्व्यंशं तु चरणोदयम् ।
मंचमानं तथैकांशं सार्धपादांशकं गलम् ॥ १९ ॥

सत्रिभागत्रिभागं तु शिखरोदयमीरितम् ।
स्तूप्युत्सेधं तथैकांशं पौष्टिकं सदनान्वितम् ॥ २० ॥

सदनोच्चदशांशे तु अधिष्ठानोदयं शिवम् ।
सार्धद्व्यंशं तु पादोच्चं प्रस्तरं तु शिवांशकम् ॥ २१ ॥

सार्धांशगलमानं तु गुणांशं शिखरोदयम् ।
एकांशंस्तूपिमानं तु जयदं तदुदाहृतम् ॥ २२ ॥

रुद्रांशे हर्म्य तुंगं तु सपादांशं धरातलम् ।
सार्धद्व्यंशं तु पादोच्चं प्रस्तरं तु शिवांशकम् ॥ २३ ॥

अध्यर्धांशं तु कण्ठोच्चं सार्धत्र्यंशं तु शीर्षकम् ।
शेषं स्तूप्युदयं ख्यातं त्वद्भुतं सदनं भवेत् ॥ २४ ॥

तुंगे सप्तांशभागे तु त्रिपादांशं धरातलम् ।
पक्षांशं पादतुंगं तु त्रिपादांशं तु प्रस्तरम् ॥ २५ ॥

त्रिपादांशं गलं मानं शिखरोच्चं द्विभागकम् ।
स्तूप्युत्सेधं तथैकांशं एतत्स्यात्सार्वकामिकम् ॥ २६ ॥

शान्तिकाद्युदयोपेतं हर्म्यगण्यं क्रमोदितम् ।
विपरीते नृपादीनां विपत्तिं नित्यमावहेत् ॥ २७ ॥

तस्माच्छान्त्यादिगण्यं च दुदयं चैव कारयेत् ।
रुद्रांशे सदनोत्सेधे तलमेकांशमानतः ॥ २८ ॥

द्व्यंशं तु चरणायामं प्रस्तरं तु शिवांशकम् ।
उपग्रीवस्तु सार्धांशं त्रिपादं प्रस्तरोदयम् ॥ २९ ॥

सपादांशं गलोत्सेधं सार्धद्व्यंशं तु शीर्षकम् ।
एकांशं स्तूपिमानं तु एवं चैवाद्भुतं स्मृतम् ॥ ३० ॥

अथवाष्टौ द्विरष्टौ वा नवसप्ताष्टकं तु वा ।
पक्षमाधारपादं च मंचोपग्रीवमंचकम् ॥ ३१ ॥

गलमूर्ध्नि शिखामानं समोवेष्टं नृपांशके ।
सोपग्रीवसमंचौ ता एकभूरेव विद्येते ॥ ३२ ॥

अथवाष्टौ द्विरष्टौ च सप्ताष्टशरधातुकम् ।
कृत्वाचाधारपादं च मंचोपग्रीवमंचकम् ॥ ३३ ॥

गलमूर्ध्नि शिखामानं समौ चाष्टनवांशके ।
ऊर्ध्वमंचोपरिष्टात्तु चतुष्कोणेषु सुव्रत ! ॥ ३४ ॥

कर्णकूटसमायुक्तं हीनं वा तद्विशेषतः ।
अधिष्ठानादि सर्वांगं प्रागिवैव प्रकल्पयेत् ॥ ३५ ॥

वृत्तग्रीवसमायुक्तं तथैव शिखरं घटम् ।
शिखरे तु महानासी चत्वारस्तु महादिशि ॥ ३६ ॥

दिशिभद्रयुतं वास्ते मंचाल्पानासिका कलाः ।
प्रस्तरे चाल्पनासीं वा विजयं तदुदाहृतम् ॥ ३७ ॥

तदेव कर्णकूटाढ्यं वर्गपंचांशवानतम् ।
नागराद्युचितं कर्णकूटाकारं प्रकल्पयेत् ॥ ३८ ॥

कर्णकूटस्य मध्यं भद्रं तत्तद्भद्रनासिका ।
अन्तरालं च तत्तुल्यं क्षुद्रपंजरसंयुतम् ॥ ३९ ॥

सुभद्रं वा कर्णकूटं पंजरं त्वल्पनासिका ।
मध्यनासी विशालं वा मध्य भद्रविशालकम् ॥ ४० ॥

त्रिचतुष्पंचषट्सप्तभागं वा सदनस्ततम् ।
कूटमेकद्विभागं वा मध्यभद्रविशालकम् ॥ ४१ ॥

दण्डं वाध्यर्ध दण्डं वा सर्वदेवार्हकं परम् ।
तदेव सदने बाह्ये मध्यभद्रयुतं तु वा ॥ ४२ ॥

तदन्तो जालकैश्चाढ्यं श्रीशैलं तदुदाहृतम् ।
तदेव वेदिकाकण्ठं शिखरं च घटं तथा ॥ ४३ ॥

वस्वश्र पट्टसंयुक्तं चतुर्दिग्भद्रनासिका ।
अभद्रनासी चत्वार शिखरे तु विदिक् स्थिताः ॥ ४४ ॥

पादं प्रत्याल्पनास्याढ्यं स्वस्तिबन्धं तदुच्यते ।
तदेवमध्यभद्रं च कर्णकूटविहीनकम् ॥ ४५ ॥

सुशोभनावहं ख्यातं सर्वदेव प्रियावहम् ।
शिखरे तु महानासी प्रस्तरेऽष्टौ द्विरष्ट वा ॥ ४६ ॥

युगाश्रं शिखरं कंठं वेदिका चैव श्रीकरम् ।
तदेव शिखरे चाष्टावल्पनासी समन्वितम् ॥ ४७ ॥

चतुर्महानासिकोपेतं श्रीकण्ठं तदुदाहृतम् ।
तानि वैद्वयश्र वृत्ताभं हस्ति पृष्ठमुदाहृतम् ॥ ४८ ॥

वेदिकाकण्ठमूर्धा च षडश्रं परिकल्पयेत् ।
पट्टं प्रतिमहानास्यं कल्पयेत्स्कन्दकान्तकम् ॥ ४९ ॥

मध्यभद्रसमायुक्तं कर्णकूटसमन्वितम् ।
महानास्यपरे कोष्ठसंयुक्तं शीर्षकं भवेत् ॥ ५० ॥

नासिका विस्तृतं दण्डं द्वयं वाथ त्रिदण्डकम् ।
कोष्ठदीर्घसमाख्यातं उत्सेधं नासिकासमम् ॥ ५१ ॥

विदिक्षु भद्रनास्याढ्यं शिखरं परिकल्पयेत् ।
वृत्तमस्तककर्णास्यं वस्वश्रं वा गलं शिरः ॥ ५२ ॥

वृत्तकेसरमाख्यातं वस्वश्रं राजकेसरम् ।
प्रासादस्य तु विस्तारं पंचसप्ताष्ट वा भजेत् ॥ ५३ ॥

द्विभागं वा त्रिभागं वा प्राग्वद्वा मध्यभद्रकम् ।
दण्डं वाध्यर्धदण्डं वा द्विदण्डं वा त्रिदण्डकम् ॥ ५४ ॥

मध्यभद्रस्य निष्क्रान्तं भद्रावेष्टितहर्म्यकम् ।
चतुर्महानासिकोपेतं शिखरायतवृत्तकम् ॥ ५५ ॥

पादं प्रत्याल्पनास्याढ्यं कण्ठं वै शीर्षकाकृतिः ।
कल्याणसुन्दरं ख्यातं सर्वदेवार्हकं भवेत् ॥ ५६ ॥

तदेवभद्रनास्याढ्यं पूर्वे परे द्विजोत्तम ! ।
ललाटनासिकोपेतं पार्श्वयोर्द्विजसत्तम ! ॥ ५७ ॥

समं वा सायतं वाथ कल्पितं कौसलं भवेत् ।
तलं प्रतिविमानानां दिङ्मूर्तिमथ वक्ष्यते ॥ ५८ ॥

स्कन्दं वै पूर्वदिग्भागे दक्षिणामूर्तिं दक्षिणे ।
पश्चिमे विष्णुमूर्तिं वा लिंगोद्भवमथापि वा ॥ ५९ ॥

धातारमुत्तरे विप्र द्वारस्थाने तु वर्जयेत् ।
मण्टपे दक्षिणे भद्रे स्थापयेत्तु विनायकम् ॥ ६० ॥

पूर्वे च पश्चिमे तस्य नृत्तमूर्तिं प्रकल्पयेत् ।
दुर्गामुत्तरदिग्भागे क्षेत्रपालं तथैव च ॥ ६१ ॥

स्थानकं वासनं वाथ दिशां मूर्तिं प्रकल्पयेत् ।
एवं धरातलोर्ध्वे तु कर्तव्यं द्विजसत्तम ! ॥ ६२ ॥

स्कन्दं वा पूर्वदिग्भागे शक्रो वा हस्ति रोहितौ ।
हस्ती विनाब्जकानासी नासिका रग्निविस्तरम् ॥ ६३ ॥

दक्षिणे दक्षिणा मूर्तिं वीरभद्रमथापि वा ।
पश्चिमे नारसिंहं तु सौम्य मूर्तिमथापि वा ॥ ६४ ॥

उत्तरे तु विधातारं धनदेवं द्विजोत्तम ! ।
प्रस्तरोपरिकर्तव्यं एकद्वित्रितले तथा ॥ ६५ ॥

चतुर्भूम्यादि महाशासु महेशास्तु यथेष्टकम् ।
उमास्कन्दादि सहिता महेशाः परिकीर्तिताः ॥ ६५ ॥

अन्यामराश्च गन्धर्वान्सिद्धाद्यैवमरुद्गणाः ।
कलान्तं युगभूम्यादि ग्रीवे च प्रस्तरान्तके ॥ ६७ ॥

एष्वष्टमूर्तिमष्टासु कल्पयेत्कल्पवित्तमः ।
गलाधस्तात्तु मंचोर्ध्वे कोणेषु वृषभं कुरु ॥ ६८ ॥

कोणं प्रति द्वयं वैकं वृषभं शयनं कुरु ।
भूतं वाथ चतुष्कोणे हृदयांजलि संयुतम् ॥ ६९ ॥

कल्पयेत्पद्मपीठोर्ध्वे त्वासीनं तु वृहत्तनु ।
आमोदमग्नि कोणे तु प्रमोदं नैर्-ऋते भवेत् ॥ ७० ॥

प्रमुखं वायु कोणे तु दुर्मुखं त्वीश कोणके ।
श्वेतं रक्तं तथा पीतं कृष्णमग्न्यादिषु क्रमात् ॥ ७१ ॥

ममैव ताद्येषां तासां वैवाहनं कुरु ।
करालमुद्गीकुल्माषकल्कचिक्कण लेपनम् ॥ ७२ ॥

नानालंकारसंयुक्तं नानालीलासमन्वितम् ।
नानाक्रीडासमायुक्तं सुधया दारुभिस्तथा ॥ ७३ ॥

उचितं कल्पयेद्धीमान् चरुदार्वेष्टका भवेत् ।
एवमेकतलं ख्यातं द्वितलं तु ततो विदु ॥ ७४ ॥


इत्यंशुमान्काश्यपे एकतलविधिपटलः (षड्विंशः) ॥ २६ ॥