अंशुमत्काश्यपागमः/द्वितलमानपटलः २७

← पटलः २६ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः २८ →

अथ वक्ष्ये विशेषेण द्वितलस्य तु लक्षणम् ।
प्रासादमूलवत्कार्यं विस्तारोच्चं तु निर्गमम् ॥ १ ॥

विन्याससूत्रयोरन्तर्व्यासं सप्तर्तु वा भजेत् ।
एकांशं कूटविस्तारं कोष्ठं तद्द्विगुणा यतम् ॥ २ ॥

कूटव्याससमं कोष्ठं विस्तारे द्विजसत्तम ! ।
शेषं हारान्तरं कोष्ठं पार्श्वयोस्तु सपंजरम् ॥ ३ ॥

हारान्तरमशेषं वा त्रिपादं वार्धमेव वा ।
पंजरव्यासमाख्यातं कूटबाह्यसमोगतिम् ॥ ४ ॥

कूटात्किंचित् प्रवेशं वा मानसूत्रान्तनीव्रताः ।
पंजरं कर्णकूटाभं नासिकाकार एव वा ॥ ५ ॥

शालाकारं तु वा विप्र ! हस्तितुण्डाभमेव वा ।
प्रासादोच्चं तु विभजेदष्टाविंशति संख्यया ॥ ६ ॥

गुणांशं धरातलोत्सेधं रसांशं चरणोदयम् ।
प्रस्तरोत्सेधमग्न्यंशं भूतांशं चरणोदयम् ॥ ७ ॥

द्विभागं प्रस्तरोत्सेधं एकांशं वेदिकोदयम् ।
द्विभागं गलमानं तु सार्धवेदांशशीर्षकम् ॥ ८ ॥

स्तूप्युच्चं सार्धभागं तु कल्पितं शान्तिकं भवेत् ।
चतुस्त्रिंशति भागं तु कृत्वा तु सदनोदयम् ॥ ९ ॥

सार्धाग्न्यंशमधिष्ठानं तद्द्वयं चरणोदयम् ।
प्रस्तरोच्चं गुणांशं स्यात् तलिपं सार्धषड्भवेत् ॥ १० ॥

गुणांशं मंचमानं तु व्योमांशं वेदिकोदयम् ।
सार्धद्व्यंशं गलोत्सेधं भूतांशं शिखरोदयम् ॥ ११ ॥

अध्यर्धांशं शिखामानं पौष्टिकं सदनं भवेत् ।
तदेव गलमानं तु सार्धद्व्यंशेन कल्पयेत् ॥ १२ ॥

शेषं पूर्ववदेवं तु त्रयस्त्रिंशोदये कृते ।
जयदं सदनं ह्येतत् सर्वदेव प्रियावहम् ॥ १३ ॥

षट्त्रिंशद्विभजेदहर्म्यतुंगं धारातलं युगम् ।
वस्वंशपादमानं तु सार्धाग्न्यंशं तु प्रस्तरम् ॥ १४ ॥

सप्तांशं चरणोच्चं तु गुणांशं मंचमानकम् ।
एकांशं वेदिकोच्चं तु गुणांशं तु गलोदयम् ॥ १५ ॥

भूतांशं शिखरोच्चं तु स्तूप्युच्चं सार्धभागया ।
अद्भूतं सदनं ह्येवं कल्पयेत्कल्पवित्तमः ॥ १६ ॥

चत्वारिंशति भागं तु कर्तव्यं सदनोदयम् ।
अधिष्ठानोच्चं तु वेदांशं स्तंभं तद्द्विगुणायतम् ॥ १७ ॥

युगांशं मंचमानं तु तलिपं सार्धसप्तकम् ।
त्रिभागं प्रस्तरोत्सेधं द्विभागं वेदिकोदयम् ॥ १८ ॥

त्रिभागं ग्रीवमानं तु शिखरं सप्तभागया ।
शेषं शिखोदयं विद्याद्विमानं सर्वकामिकम् ॥ १९ ॥

होमादिस्तूपिपर्यन्तं युगाश्रं परिकल्पयेत् ।
चतुष्कूटं चतुश्शाला पंजराष्टकसंयुतम् ॥ २० ॥

षडष्टैवाल्पनास्यास्युः पादं प्रति तु कल्पयेत् ।
शिखरे तु चतुर्दिक्षु महानासीसमन्वितम् ॥ २१ ॥

कल्पितं वेदिकाद्यैस्तु नानाचित्रैर्विचित्रितम् ।
एवं स्वस्तिकमाख्यातं सर्वदेव प्रियावहम् ॥ २२ ॥

तदेव शिखरकोणेषु पार्श्वयोस्त्वल्पनासिका ।
स्वस्तिभद्रमितं ख्यातं मम प्रीतिकरं भवेत् ॥ २३ ॥

तदेव नतकूटं च कोष्ठोन्नतास्समंचकाः ।
नतपंजरसंयुक्तं एतद्विपुलसुन्दरम् ॥ २४ ॥

तदेवान्तरमंचाढ्यौ कूटकोष्ठौ विशेषतः ।
नतपंजरसंयुक्तं यथेष्टाकृति शीर्षकम् ॥ २५ ॥

स्तूपीघटं गलं तद्वद् श्रीकरं तदुदाहृतम् ।
तदेव नवशालाः स्युः कूटोन्नतसमंचकाः ॥ २६ ॥

निम्नपंजर संयुक्तं यत्तत्कैलासमुच्यते ।
तदेव कूटकोष्ठौ द्वौ निम्नोन्नतविहीनकौ ॥ २७ ॥

सान्तरप्रस्तरोपेतौ समसूत्रततोन्नतौ ।
हारान्तरे विशेषेण युग्मं वा युग्मपंजरम् ॥ २८ ॥

चतुष्कूटं चतुश्शाला षडष्टैवाल्पनासिकाः ।
वस्वश्रवेदिकोपेतं वर्तुलं शीर्षकं गलम् ॥ २९ ॥

शिखरं वसुनासाढ्यं भद्रं चैव चतुश्चतुः ।
वेदिका तोरणाढ्यं तु रुद्रकान्तमिदं परम् ॥ ३० ॥

तदेव शिखरं कण्ठं वस्वश्रं परिकल्पयेत् ।
विष्णुकान्तमिदं नाम्ना सर्वदेवार्हकं भवेत् ॥ ३१ ॥

तदेव वर्तुलं वेदीकन्धरं शिखरं तथा ।
चतुश्शालाष्टकूटाढ्यं सप्ताष्टैवाल्पनासिकाः ॥ ३२ ॥

एतत्पर्वतमित्युक्तं विमानं संपदास्पदम् ।
कूटात्कोष्ठस्य निष्क्रान्तं दण्डं वाध्यर्धदण्डकम् ॥ ३३ ॥

द्विदण्डं वा त्रिदण्डं वा कूटकोष्ठस्य निर्गतिः ।
नानाधिष्ठानसंयुक्तं नानास्तंभसमन्वितम् ॥ ३४ ॥

प्रागुक्तानां तु सर्वेषां कल्पितं वा विहीनकम् ।
तदेव शिखरोच्चार्ध कोष्ठकं तु चतुष्टयम् ॥ ३५ ॥

चतुरश्रशिरोपेतं चतुष्कूटसमन्वितम् ।
षडष्टनासिकोपेतं स्वस्तिबन्धमिदं स्मृतम् ॥ ३६ ॥

कूटकोष्ठौ द्वौ चतुश्चान्तरप्रस्तरान्वितौ ।
हारापंजरसंयुक्ता नवाष्टैवाल्पनासिकाः ॥ ३७ ॥

सर्वालंकारसंयुक्तं तत्तत्कल्याणसुन्दरम् ।
तदेव शिखरे चार्धकोष्ठकं तु विवर्जयेत् ॥ ३८ ॥

चत्वारनासिकोपेतं शिखरं परिकल्पयेत् ।
नानालंकारसंयुक्तं एतत्पांचालमिष्यते ॥ ३९ ॥

तदेवाष्टाश्र वेदी च कन्धरं शिखरं घटम् ।
शिखरेऽष्टौ महानासी युक्तं वै विष्णुकान्तकम् ॥ ४० ॥

सान्तरे प्रस्तरोपेतं कूटकोष्ठाश्चतुश्चतुः ।
पंजराष्टकसंयुक्तं वृत्तशीर्षककन्धरम् ॥ ४१ ॥

दण्डं वाध्यर्धदण्डं वा द्विदण्डं वा त्रिदण्डकम् ।
कर्णकूटात्तु कोष्ठादिनिष्क्रान्तं परिकल्पयेत् ॥ ४२ ॥

षडष्टाल्पनासिकोपेतं चत्वारि पङ्क्तिरेव वा ।
एतदीश्वरकान्तं स्यात् ईश्वरस्य प्रियावहम् ॥ ४३ ॥

तदेव त्रिचतुर्भागभागाधिक्यायताश्रकम् ।
तथा शीर्षककण्ठं च वेदिकां च प्रकल्पयेत् ॥ ४४ ॥

स्तूपि त्रयसमायुक्तं एतन्मंगलमुच्यते ।
तदेवायतवृत्ताभं गान्धारमिति विद्यते ॥ ४५ ॥

तारादर्धाधिकायामं आयताश्रं समाश्रं वा ।
द्व्यश्रवृत्तं शिरोयुक्तं वेदिका च गलं तथा ॥ ४६ ॥

नेत्रशालामुखाकारं हस्तिपृष्ठमिदं परम् ।
द्व्यश्रवृत्तमुपानादि कल्पितं वा तदेव हि ॥ ४७ ॥

समाश्रमायताश्रं वा बाह्यतः परिकल्पयेत् ।
वृत्तगर्भगृहोपेतां कूटकोष्ठादिसंयुतम् ॥ ४८ ॥

वृत्ताभं कर्णकूटानां श्रीकरं परिकल्पयेत् ।
कूटकोष्ठं च नीडं च समसूत्रे तु कल्पयेत् ॥ ४९ ॥

नाम्ना मनोहरं हर्म्यं सर्वदेवार्हकं परम् ।
उपानात्स्तूपि पर्यन्तं वृत्तं चैव बहिर्बहिः ॥ ५० ॥

शेषं प्रागिवमुद्दिष्टं शिवकान्तमिदं परम् ।
चतुरश्रमधिष्ठानं गर्भगेहं तथैव च ॥ ५१ ॥

अधिष्ठानोपरिष्ठात्तु स्तूप्यन्तं वर्तुलाकृतिः ।
कूटकोष्ठादि सर्वांगं युक्तं वृत्तग्रहं भवेत् ॥ ५२ ॥

चतुरश्रमधिष्ठानं आयताश्रमथापि वा ।
रसाश्रं शिखरं कण्ठं कूटकोष्ठादि संयुतम् ॥ ५३ ॥

यथोचितं तु संकल्प्य नाम्ना कौबेर कान्तकम् ।
एवं तु द्वितलं योग्यं भेदा अष्टादश स्मृताः ॥ ५४ ॥

इष्टकाभिश्शिलाभिर्वा होमादिस्तूपिकान्तकम् ।
कल्पितं संचितं हर्म्यं पुमानेव घनीकृतम् ॥ ५५ ॥

दृषत्रदेष्टकामिश्च मिश्रहर्म्यं तदेव हि ।
मिश्रेष्वादौदृषत्कार्यं तदूर्ध्वे त्विष्टका क्रिया ॥ ५६ ॥

वनिता संचिता ख्याता घनाघनमिति स्मृतम् ।
इष्टकादारुणा चैव तन्मिश्रं षण्डमुच्यते ॥ ५७ ॥

तदेवोपसंचितं ख्यातं घनाघनमुदाहृतम् ।
अंशेन रहितं कार्यं संचितं स्मृति विद्यते ॥ ५८ ॥

अघनं चेति तत्ख्यातं एतत्पुंषण्डयोषितः ।
वक्त्रमण्टपमानं च गर्भगेहविशालकम् ॥ ५९ ॥

भित्तिव्यासं च ते सर्वे प्राग्वदेकतलोक्तवत् ।
द्वारस्योभय पार्श्वे तु पादयोरन्तरे द्विज ! ॥ ६० ॥

द्वारपालगुहां कुर्यात् तलादुत्तरसीमकम् ।
बिम्बोदित विशालं तु दण्डमात्रं तु वेशरम् ॥ ६१ ॥

सर्वधाम्नि च कर्तव्यं वेशनारहितं तु वा ।
एवं द्वितलमाख्यातं त्रितलं तु तथा विदुः ॥ ६२ ॥


इत्यंशुमान्काश्यपे द्वितलमानपटलः (सप्ताविंशः) ॥ २७ ॥