अंशुमत्काश्यपागमः/कंकालमूर्तिलक्षणपटलः ७५
← पटलः ७४ | अंशुमत्काश्यपागमः [[लेखकः :|]] |
पटलः ७६ → |
संमानितं सदानन्दं सेवितं तैः सुपूजितम् ।
वीथिं संमार्जयेद्वायुः पर्जन्यो जलसेचनम् ॥ १८ ॥
पुष्पवृष्टिं कृता देवाः शंख * * * * * * ।
ऋग्यजुस्सामाथर्वैश्च स्तुत्यं कुर्यात्पुरे पुरे ।
चर्मबन्धं च कंसं च कदम्बं सुषिरमेव वा ॥ २० ॥
शंखध्वनिसमायुक्तं पंचशब्द महारथैः ।
तुम्बुरु नारदाः सर्वैश्च गेयकर्म सलक्षणम् ॥ २१ ॥
छत्रं धृत्वा रविच्चित्रं चामरा दिव्ययोषितः ।
सर्वलोकोपकारार्थं इन्द्रस्य भवनादिषु ॥ २२ ॥
रक्षां करोम्यहं विप्र कंकालस्य तु मोक्षदम् ।
काश्यपोवाच ॥
त्वया वै धारितस्यास्य कंकालस्योद्भवं कथम् ॥ २३ ॥
इदानीं पुरतो विप्र मृत्युते तु जनार्दनः ।
तद्देहं भुवनादित्वं भये यस्तु स्वशक्तयः ॥ २४ ॥
कम्पितात्तु समस्ताण्डात् तदा स्वण्डाधिवासिनः ।
प्रार्थये युस्तु मां भक्त्या तेषां भयनिवृत्तये ॥ २५ ॥
अण्डानां सुस्थितार्थं तु सर्वे लोकोपकारकम् ।
कंकालं मोचनार्थं तु तद्धृतैव महद्विज ! ॥ २६ ॥
भिक्षान्ते मोचयेदेतत् कंकालं माधवे भवेत् ।
एवं कंकालमाख्यातं हर्यर्धं च ततः शृणु ॥ २७ ॥
इत्यंशुमान्काश्यपे कंकालमूर्तिलक्षणपटलः (पंचसप्ततितमः) ॥ ७५ ॥