अंशुमत्काश्यपागमः/हर्यर्धमूर्तिलक्षणपटलः ७६
← पटलः ७५ | अंशुमत्काश्यपागमः [[लेखकः :|]] |
पटलः ७७ → |
अथ कंकालमूर्तेस्तु लक्षणं वक्ष्यतेऽधुना ।
पादौ तु पादुकोपेतौ वामपादं तु सुस्थितम् ॥ १ ॥
प्रेक्ष्यधा सव्यपादं तु त्वीषच्चैव समुद्धृतम् ।
शुद्ध श्वेतानिभं वर्णं च सर्वाभरणभूषितम् ॥ २ ॥
रत्नकंचुकबद्धांग जटामकुटमण्डितम् ।
धूर्धूरपुष्पं नागं च वामे सव्येन्दुशेखरम् ॥ ३ ॥
हसितं वक्त्रं संधार्य सुगेयगणसेवितम् ।
किंचित्प्रकाशितान्तस्थ दर्शनं सुविलासितम् ॥ ४ ॥
गेयशृंगारसंयुक्तं आस्यमेवं प्रकीर्तितम् ।
कर्णौ कुण्डलसंयुक्तौ वामे शाखादलं तु वा ॥ ५ ॥
पूर्वहस्तद्वयोर्वामे ढक्का सव्ये प्रहारकम् ।
दक्षिणं हरिणी वक्त्रे व्याहितं सिंहकर्णवत् ॥ ६ ॥
वामहस्ते तु पिंछं च कंकालास्थीं च धारयेत् ।
ततस्थ्या कृति निर्माणद्विपादद्विकरान्वितम् ॥ ७ ॥
कृष्णश्यामनिभाकारं अपाने दण्डवेशनम् ।
दण्डं कंकालपादौ द्वौ रज्जुना बन्धयेद्बुधः ॥ ८ ॥
केतुकिंकिणि नेत्राढ्य निष्कान्तं रुचिरं तु वा ।
एतत्कंकाल नाम्ना तु वामस्कन्धोपरि न्यसेत् ॥ ९ ॥
अनेकभूतैर्जायाभिः सेवितं त्वादरान्वितैः ।
बलिपात्रधरं भूतं वामाग्रे गमनान्वितम् ॥ १० ॥
दर्व्यात्वनन्तु तत्पात्रे निधाय कृतिजायया ।
किंचित्प्रकाशितं योनि संयुक्ता नग्नवाससः ॥ ११ ॥
संभ्रान्तमनसोपेताः जायास्सर्वास्त्वनेकशः ।
ललाटवामपार्श्वे तु नेत्रान्ते तत्पुटान्तके ॥ १२ ॥
हन्वन्तस्य तु वामे तु हिक्कामध्ये हृदिस्तथा ।
नाभेस्सव्ये युगांगुल्ये वामपादस्य गुल्फके ॥ १३ ॥
मध्ये तु लम्बयेद् ब्रह्मसूत्रं हीनाधिकं विना ।
आभंगस्योक्त मार्गेण नतमानं प्रकल्पयेत् ॥ १४ ॥
व्याघ्रचर्माम्बरोपेतं दूकूलवसनान्वितम् ।
दक्षिणे कटिपार्श्वे तु क्षुरिकाश्चैव बन्धयेत् ॥ १५ ॥
क्षुरिकां हेमसंकाशां उपबन्धसमन्विताम् ।
उभयोः पार्श्वयोर्हस्ते नानानागविभूषितम् ॥ १६ ॥
ऋषिभिर्देवगन्धर्व सिद्धविद्याधरादिभिः ।
हृदयांजलि संयुक्ते संभ्रान्तमनसान्वितैः ॥ १७ ॥
अथ वक्ष्ये विशेषेण हर्यर्धं तु हरं परम् ।
आर्जवं सुस्थितं देवं स्थानकं समपादकम् ॥ १ ॥
दक्षिणे त्वभयं वामे कटकं ह्यूरुमाश्रितम् ।
परशुं दक्षिणे हस्ते वामे शंखायुधं परम् ॥ २ ॥
सव्ये वामे च मुकुटे जटाकीटं प्रकल्पयेत् ।
प्रवालश्यामवर्णं च तद्योग्याभरणान्वितम् ॥ ३ ॥
दक्षिणं तूग्रदृष्टिं स्यात् वामे दृष्ट्याति शीतलम् ।
किंचित्प्रकाशितं चोर्ध्वदृष्ट्या चैव ललाटके ॥ ४ ॥
सर्वाभरणसंयुक्तं उचिताम्बरभूषितम् ।
शिरश्चक्रसमायुक्तं तस्यलक्षणमुच्यते ॥ ५ ॥
रुद्रांगुल विशालं तु तद्भान्वंशेन तद्घनम् ।
सुवृत्तं चक्रवद्विप्र ! पद्माकृतिरथापि वा ॥ ६ ॥
शिरश्चक्रविशालं तु सप्तभागैकभागिकम् ।
शिरश्चक्रस्य नालस्य विस्तारं द्विजसत्तम ॥ ७ ॥
चक्रतार त्रिभागैकं चक्रादाशिरसोत्तमम् ।
अग्रे ललाटपट्टस्य शिरश्चक्रस्य नालकम् ॥ ८ ॥
गुणांगुले कृकाट्योर्ध्वे चक्रनालस्थितिर्भवेत् ।
चक्राद्गुणांगुलं लम्ब्य पुष्पमाला तु मध्यमात् ॥ ९ ॥
सर्वेषामपि देवानां देवीनां ह्येवमाचरेत् ।
इत्यंशुमान्काश्यपे हर्यर्धमूर्तिलक्षणपटलः (षट्सप्ततितमः) ॥ ७६ ॥