अंशुमत्काश्यपागमः/कम्पद्वारलक्षणपटलः १७
← पटलः १६ | अंशुमत्काश्यपागमः [[लेखकः :|]] |
पटलः १८ → |
अथ वक्ष्ये विशेषेण कंपद्वारविधिं परम् ।
प्रासादमण्टपादीनां चतुर्दिक्षु विदिक्षु च ॥ १ ॥
तयोर्मध्यान्तराले वा ह्योमाभीष्टं तु यत्र वै ।
तत्रैव कल्पयेत्सम्यक् कंपद्वारं द्विजोत्तम ! ॥ २ ॥
वस्त्रचितकृतं पंक्तिव्यासं यत्तु विशालकम् ।
स्थालादुत्तरसीमान्तं कंपद्वारोदयं भवेत् ॥ ३ ॥
भुवंगं च पतंगं च योगं प्राग्वद्घनं ततम् ।
कृत्वा दृढतरं बध्व योजयेदन्तरंघ्रयः ॥ ४ ॥
योगव्यासनतन्दीर्घं अन्तरांघ्रिं तथा कुरु ।
मूलाग्रयोः शिखेह्येता तारांघ्रिं परिकल्पयेत् ॥ ५ ॥
भुवंगे च पतंगे च छिद्रे युज्याद् दृढीकृतम् ।
चतुः पंच षडष्टौ वा दश द्वादश एव वा ॥ ६ ॥
ममुषोडशसंख्या वा कल्पयेदन्तरांघ्रयः ।
अन्तरायन्तरामत्या गमागमक्षमं विना ॥ ७ ॥
अन्तरांघ्रीन्सुयुंजीयात् स्थापयेद्द्वारयोगवत् ।
योजयेत्तु कवाटं च व्योमै प्रत्येकमेव वा ॥ ८ ॥
कवाटं व्योमद्वयं ग्रासं त्रिव्योमग्रवस एव वा ।
कल्पयेत्सुदृढं द्वारं न चलं हस्तिनापि च ॥ ९ ॥
कंपद्वारं समाख्यातं प्रस्तरं तु ततः शृणु ।
इत्यंशुमान्काश्यपे कंपद्वारलक्षणपटलः (सप्तदश) ॥ १७ ॥