अंशुमत्काश्यपागमः/प्रस्तरलक्षणपटलः १८

← पटलः १७ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः १९ →


अथ वक्ष्ये विशेषेण प्रस्तरस्य तु लक्षणम् ।

स्तंभार्धं मंचमानं तु आपोत्सेधांशमेव वा ॥ १ ॥


तदुच्चं त्वेकविंशांशं कृत्वा गुणांशकं तरम् ।

वाजनं चैकभागेन भूतमालां ततं त्रिभिः ॥ २ ॥


भूतमालोपरिष्टात्तु वाजनं त्वेकभागया ।

सप्तांशं तु कपोतोच्चं आलिंगं चैकभागया ॥ ३ ॥


अंशेनान्तरितं कुर्यात् प्रत्युत्सेधं गुणांशकम् ।

वाजनं त्वेकभागेन अथवान्यप्रकारतः ॥ ४ ॥


तुंगमेकोनविंशांशं कृतोत्तरं त्रिभागया ।

भागेन वाजनं कुर्यात् अग्न्यंशैर्वभी भवेत् ॥ ५ ॥


वाजनं त्वेकभागेन कपोतोच्चं रसांशकम् ।

आलिंगमंशमंगेन कुर्यादन्तरितं भवेत् ॥ ६ ॥


प्रत्युत्सेधं द्विभागेन वाजनं त्वेकभागया ।

उत्सेधं चैवमाख्यातं अंगनीव्रमथोच्यते ॥ ७ ॥


स्तंभात्तु बोधिकानीव्रं बोधिकादुत्तरं तथा ।

वाजनस्य तु निष्क्रान्तिं उत्तराद्वाजनोन्नतम् ॥ ८ ॥


वाजनं वलयीनीव्रं वलभीतुंग सादृशम् ।

त्रिपादं वा तदर्धं वा प्राग्वद् वाजननीव्रकम् ॥ ९ ॥


वाजनं तु कपोतस्य नीव्रं होमावसानकम् ।

उपानसीमावसानं वा जगत्यन्तं तथापि वा ॥ १० ॥


वाजनादर्धदण्डं वा द्विदण्डं सार्धद्विदण्डकम् ।

वाजनं तु कपोतस्य निव्रोच्चालंघनं समम् ॥ ११ ॥


कपोतं गोपानसहितं गोपनरहितं तु वा ।

पादबाह्यसमं प्रोक्तं आलिंगप्रतिरुच्यते ॥ १२ ॥


आलिंगान्तरितद्वेशं नीव्रं चोत्सेधसादृशम् ।

वाजनोच्चसमं प्रोक्तं वाजनस्य तु निर्गतिः ॥ १३ ॥


दण्डं त्रिपादमर्धं वा चोत्तरा तस्य नीव्रकम् ।

उत्तरस्यानुकूल्यं तु वाजने नीव्रवेशनम् ॥ १४ ॥


वलभीभूतहंसाद्यैः भूषयेदुत्तरोपरि ।

नानापत्रलताद्यैस्तु कपोते कर्णपालिकाः ॥ १५ ॥


प्रत्यग्रं ककरी बन्धं प्रतिसिंहादिभूषितम् ।

एवं प्रस्तरवर्गं तु प्रोच्यते द्विजसत्तम ! ॥ १६ ॥



इत्यंशुमान्काश्यपे प्रस्तरलक्षणपटलः (अष्टादश) ॥ १८ ॥