प्रमुखा विकल्पसूचिः उद्घाट्यताम्
अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः २ →

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १ ॥


शशिधरं महादेवं सर्वलोकैकनायकम् ।

महेन्द्र मध्यगं शान्तं पार्वती सहितं परम् ॥ २ ॥


देवदानवसिद्धाद्यैः सेवितं सुरपूजितम् ।

प्रणम्य चरणौ देव संघैस्सह तु काश्यपः ॥ ३ ॥


शुचे परमसद्भाव प्रशान्तं सृष्टिकारणम् ।

जगतामभिवृद्ध्यर्थं योगिनामुपकारकम् ॥ ४ ॥


देवानां च हितार्थाय शिवज्ञानसमुद्भवम् ।

महार्थमल्पग्रन्थं च कर्षणादिज्ञानसीमकम् ॥ ५ ॥


अंशुमानिति तन्त्रं च त्वयोक्तं हि पुरातनम् ।

तन्त्रं तव च देवानां यन्त्राणामधिकारिणाम् ॥ ६ ॥


अल्पायुष्यादि धर्माणां नराणां चाधिकारिणाम् ।

अनुग्रहान्तं तत्तेषां संक्षेपाद्वद मे प्रभो ॥ ७ ॥


साधु साधु महाविप्र ! यत्त्वया परिचोदितम् ।

दुर्लभं तदहं वक्ष्ये शृणुष्वैकाग्रमानसः ॥ ८ ॥


पुष्यमासादि षण्मासा माघमासेतराः शुभाः ।

दक्षिणे चाश्वयुङ्मासं श्रावणी कृत्तिका तथा ॥ ९ ॥


पूजिता दक्षिणादीनां शेषा मासा विवर्जिताः ।

पौष्णादित्यमघास्वाती सावित्री त्वष्ट्ट मैत्रकः ॥ १० ॥


श्रवणार्द्रा प्रजेशस्तिष्याश्वयुक् च त्रयोत्तराः ।

दिनेषु पूजितास्त्वेताः प्रतिपत्षष्ठि सप्तमी ॥ ११ ॥


तृतीया पंचमी चैव द्वितीया च त्रयोदशी ।

दशमी तिथयः शस्ताः शुक्लपक्षे विशेषतः ॥ १२ ॥


प्रतिपत्पौर्णमासी च द्वितीया पंचमी तथा ।

तृतीया मध्यमा ख्याता कृष्णपक्षे द्विजोत्तम ! ॥ १३ ॥


षष्ठी च दशमी कृष्णे कनिष्ठा चैव गर्हिताः ।

सितसौम्यशशी जीववाराः श्रेष्ठतमाः शुभाः ॥ १४ ॥


तेषामंशोदयं होराद्रेक्काणाश्चैव दर्शिताः ।

शुभमेवेति विज्ञेयाः तत्र शश्युदयं विना ॥ १५ ॥


कटकं तौल्यमकरं मेषं च धनुषं विना ।

मेषराश्युदयं शस्तं सर्वसंपत्समृद्धिदम् ॥ १६ ॥


उच्चस्थानगतश्चन्द्रः सौख्यो मित्रगतस्तथा ।

शत्रुक्षेत्रगतश्चन्द्रो नीचस्थोऽपि धनक्षयम् ॥ १७ ॥


भौमादित्येन्दु राहुश्च सौरी वा लग्नसंस्थिते ।

आयुष्यं धनधान्यं च कर्तृनाशं न संशयः ॥ १८ ॥


धनस्थान गताः क्रूरा धनधान्यविनाशनाः ।

तथैव चन्द्रसंयुक्तं धनधान्यविवर्धनम् ॥ १९ ॥


भ्रातृस्थानगतास्सर्वे सर्वसंपत् समृद्धिदाः ।

बन्धुस्थानगताः पापाः सर्वदुःख भयावहाः ॥ २० ॥


पुत्रस्थानगताः क्रूराः मृत्युपीडा भविष्यति ।

शत्रुस्थान गताः सर्वे सर्वदुःख भयावहाः ॥ २१ ॥


भार्यास्थानगता जीवचन्द्र भार्गाश्च वै तथा ।

आयुष्यं धनधान्यं च सर्वसिद्धिप्रदाः सदा ॥ २२ ॥


निधनं संगतास्सर्वे कर्तुर्निधनमादिशेत् ।

शुभग्रहो नवस्थाने सर्वसौख्यधनावहः ॥ २३ ॥


कर्मस्थान गताः क्रूराः सर्वेवित्तायुषक्षयाः ।

शुभग्रहाश्च कर्मस्थाः सर्ववित्तायुष प्रदाः ॥ २४ ॥


अशुभाश्च शुभाश्चैव वलस्थानगताः शुभाः ।

द्वादशस्थो बुधो जीवो वित्तवृद्धिं समावहेत् ॥ २५ ॥


नक्षत्रान्ते च मासान्ते पक्षान्ते वेधितर्क्षके ।

व्यतीपाते परिघशूले वै घृते कालकण्ठके ॥ २६ ॥


कण्टके च तथा स्थूलं परिवेषे च दुर्दिने ।

उल्कापाते च भृगुजे वृद्ध्या च विषनाडिके ॥ २७ ॥


षडशीतिमुखे चैव मासशून्ये तथैव च ।

कर्षणादि प्रतिष्ठान्तं सर्वकर्म विवर्जयेत् ॥ २८ ॥


मर्त्यानामायुषच्छेदं कृष्णपक्षे तु चन्द्रवत् ।

तस्माद्युक्तेन शीघ्रं च कर्तव्यो धर्मसंग्रहः ॥ २९ ॥


अल्पदोषगुणाधिक्यं दिनं वृद्धिं च संग्रहेत् ।

अनेककोटि दोषाढ्यं दिनं लग्नं च मेव च ॥ ३० ॥


दोषहीनतमं याति जीवदृष्ट्या द्विजोत्तम ।

अनेककोटिदोषस्तु जीवैकेन विनाशनम् ॥ ३१ ॥


तमसा परिवृतौ रात्रौ ख्येकेन विनश्यति ।

तथैव जीवदृष्ट्या तु सर्वदोषसमुद्गमाः ॥ ३२ ॥


एवं परीक्ष्य बहुधा कर्षणादि समाचरेत् ।

पत्रैव सदनं कुर्यात् तद्देशं कर्षणं कुरु ॥ ३३ ॥


अष्टदिक्षु च कर्तव्यं ग्रामादिषु शिवालयम् ।

पैशाचिक पदे कुर्यात् आलयं तु पराङ्मुखम् ॥ ३४ ॥


परिखास्तु त्रिदण्डादि यावत्त्रिंशत्तदान्तकम् ।

तावदेवेष्टदिग्भागे कर्तव्यं शिवमन्दिरम् ॥ ३५ ॥


परिखाभ्यन्तरे वापि पैशाचिक पदे कुरु ।

मानुषे तु पदे वाथ कर्तव्यं शिवमंदिरम् ॥ ३६ ॥


विप्रक्षत्रियविट्छूद्राः अनुलोमास्तथैव च ।

समनिर्माणकर्तारः सर्वप्राणि हिताय वै ॥ ३७ ॥


हस्तमात्रं तु तद्घातं कृत्वातद्भूमि मध्यमे ।

पूरिते तन्मृदं धीमान् अधिके चोत्तमान्मही ॥ ३८ ॥


समता मध्यमाख्याता हीना सा कन्यसा स्मृता ।

गृहीता चोत्तमा मध्या गृहीता कन्यसा मही ॥ ३९ ॥


श्वेता रक्ता तथा पीता कृष्णा विप्रादयः क्रमात् ।

चतुर्विधा महीख्याता तत्तज्जात्यार्हता शुभा ॥ ४० ॥


परेषामपराः शस्ताः स्वपरेषां परं विना ।

तत्तद्योग्यमहीग्राह्या मर्त्यानामालयं कुरु ॥ ४१ ॥


सर्वा महीप्रशस्ता च देवानां तु विशेषतः ।

भूतप्रेतपिशाचेभ्यो दद्याद्दध्योदनं बलिम् ॥ ४२ ॥


अस्त्रेणोच्चाटयेदेतान् पश्चात्कर्षणमाचरेत् ।

श्वेतौ रक्तौ च कपिलौ कृष्णौ जात्यर्हकौ क्रमात् ॥ ४३ ॥


यौवने कर्षणे पूर्वौ नागहीनौ बलान्वितौ ।

हेमशृंगखुरोपेतौ वर्णान्तर न संस्पृशौ ॥ ४४ ॥


संपूज्य वृषगायत्र्या गन्धपुष्पादिभिर्बुधः ।

पूर्वं निवेदनं कृत्वा प्राङ्मुखौ संस्थितौ वृषौ ॥ ४५ ॥


याज्ञिकैस्सारवृक्षैर्वा लक्षणेन युगं हलम् ।

सीरायामं त्रिहस्तं स्यात् नाहं सप्तांगुलं भवेत् ॥ ४६ ॥


वृत्ताकारमशेषं तु मूलं वेदांशमश्रकम् ।

मेखलोच्चं त्रितालं स्यात् त्रिमात्रं तद्घनं भवेत् ॥ ४७ ॥


मूलं षण्मात्र विस्तारं घनं वेदांगुलं भवेत् ।

मूलादग्रं क्रमात्क्षीणं किंचित्क्षीणं तु मध्यमम् ॥ ४८ ॥


मेखलायास्तु मूले तु विर्यवेशं नवांगुलम् ।

वेशांशे द्व्यंगुलं व्यासं घनमर्धार्ध मात्रकम् ॥ ४९ ॥


चतुर्विंशांगुलायामं घ्राणदीर्घं तु काश्यप ।

सीरोर्ध्वे घ्राण तुंगं तु पंचांगुलमुदाहृतम् ॥ ५० ॥


घ्राणकुक्ष्युन्मुखं कुर्यात् मनुमात्रं तदायतम् ।

शेषं चित्रमिति ख्यातं सीरमेखलसन्धितौ ॥ ५१ ॥


षण्मात्रं घ्राणविस्तारं घनं वेदांगुलं भवेत् ।

अग्रं सूचिनिभाकारं अनुपूर्वात्कृशं भवेत् ॥ ५२ ॥


त्रिपंच मात्रमित्युक्तं सीरघ्राणाग्रकान्तकम् ।

अयसा हलजिह्वा तु घ्राणाग्रे योजयेद्बुधः ॥ ५३ ॥


सीरायामसमं नाहं युगं चिद्रं युगाश्रकम् ।

कनिष्ठांगुली परीणाहं गोचर्मद्विकरायतम् ॥ ५४ ॥


हृदयं मंत्रमुच्चार्य बध्वा युगाश्रयौ वृषौ ।

युगमध्ये हलं बध्वा किंचिद्दक्षिणमाश्रितम् ॥ ५५ ॥


कर्षयेन्मतिमान्विप्रः तृणादीनि व्यपोह्य च ।

तिलसर्षपमुद्गानि नेत्रमंत्रेण वापयेत् ॥ ५६ ॥


आचार्यं पूजयेत्तस्मै दद्याद्युगहलौ वृषौ ।

त्रिरात्रां कुरिते श्रेष्ठं वेदयत्रौ तु मध्यमम् ॥ ५७ ॥


अधमं भूतरात्रं स्यात् अधमं परिवर्जयेत् ।

आपुष्पात्फलगं रक्ष्य गोगणानां निवेदयेत् ॥ ५८ ॥


एकरात्रं द्विरात्रं वा गावस्तत्रैव वासयेत् ।

गोवक्त्रगतकेनैश्च गोमयेः प्रस्तवैरपि ॥ ५९ ॥


स्थपतिं पूजयेत्पश्चात् वस्त्राद्यैश्च यथा मति ।

प्रशस्तं भूतलं पश्चात् मध्ये समतलं गुरुः ॥ ६० ॥


गोमयालेपनं कृत्वा दिक्परिच्छेदनं कुरु ।

शंकुं कलांगुलायामं नाहं तत्सममुच्यते ॥ ६१ ॥


मूलताराष्टभागैकं हीनमग्रविशालकम् ।

मूलाग्रं मुकुलाकारं मूलाग्रं क्रमशात्कृशम् ॥ ६२ ॥


सुवृत्तमार्जवं कुर्यात् सारवृक्षं तु शोषितम् ।

शंकु द्विगुणमानेन तन्मध्ये मण्डलं लिखेत् ॥ ६३ ॥


तन्मध्ये स्थापयेच्छंकुं चतुर्दिक्षु समं तथा ।

पूर्वापराह्नयोः छायादिति तन्मण्डलान्तगौ ॥ ६४ ॥


छायाग्रमध्ये संलक्ष्य तथैव तु पराह्नके ।

तद्बिन्दुद्वयगं सूत्रं पूर्वापरदिगिष्यते ॥ ६५ ॥


तयो मध्यन्तरं भ्राम्यश्च पराननं पृश्चिवत् ।

दक्षिणोत्तरगं सूत्रं तन्मध्ये तु प्रसारयेत् ॥ ६६ ॥


ये मर्त्या मध्यमार्धी तु अवच्छायांगुलं व्रजेत् ।

मण्डलं कुब्जतालेन कन्यसं तु विभाजिते ॥ ६७ ॥


भानुर्वानेष्टविंशांशं सप्तं विंशांशयोत्तरे ।

गतेत्वार्जवमित्युक्तं कन्यायाश्च तथैव हि ॥ ६८ ॥


मीनेऽष्टविंशदंशादिभाग मध्यस्थ मात्रकम् ।

वर्धयेन्मिथुने सप्तविंशदंशावसानकम् ॥ ६९ ॥


ततोर्धमात्रं क्षीणं स्यात् भागं प्रति विशेषतः ।

कन्यायां चाष्टविंशांशात् अर्धमात्र विवर्धनात् ॥ ७० ॥


चापेऽष्टविंशदंशान्तं तथा ह्रस्वं तथैव हि ।

छायावृद्धिक्षयं ह्येवं कीर्तिता शंकुमध्यमात् ॥ ७१ ॥


छायामानं व्रजेन्मध्ये ब्रह्मसूत्रं प्रसारयेत् ।

पूर्वापराह्वयोर्मध्ये छायामानं च वर्जयेत् ॥ ७२ ॥


प्रागादि परितस्सूत्रं इष्टमानेन विन्यसेत् ।

पुण्याहं वाचयेपश्चात्खात्वा प्रासादमानकः ॥ ७३ ॥


यावत्प्रासादविस्तारं एकाशीतिपदं गुरुः ।

तत्पदे वास्तु देवांश्च पूजयित्वा तु नामतः ॥ ७४ ॥


दध्याज्यगुलसंमिश्रं ओदनं च बलिं ददेत् ।

प्रणवादीन्नाममध्ये स्वाहान्तं बलिमाचरेत् ॥ ७५ ॥


वास्तुहोमं ततः कृत्वा मध्ये वा चोत्तरेऽपि वा ।

वास्तुहोमं विनायत्र कृतं वास्तु विनश्यति ॥ ७६ ॥


पर्यग्निकरणं कृत्वा प्रोक्षयेत्पंचगव्यकैः ।

स्थपतिः कृत्ययोग्यः स्यात् स्थापको मन्त्रयोग्यकः ॥ ७७ ॥


कर्षणं ह्येवमाख्यातं शृणु प्रासादवास्तुकम् ।


इत्यंशुमत्काश्यपे कर्षणविधिपटलः (प्रथमः) ॥ १ ॥