प्रमुखा विकल्पसूचिः उद्घाट्यताम्

अंशुमत्काश्यपागमः/प्रासादवास्तुलक्षणपटलः २

← पटलः १ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ३ →


अथ वक्ष्ये विशेषेण प्रासादे वास्तुलक्षणम् ।

प्रासादस्य विशाले तु नवभाग विभाजिते ॥ १ ॥


प्रागग्रं दशसूत्रं स्यात् उदगग्रं तथैव च ।

एवं नवनवांशे तु ब्रह्मा मध्ये नवांशभुक् ॥ २ ॥


मरीचिः पूर्वभागे तु विवस्वान्दक्षिणे तथा ।

मित्रः पश्चिमभागे तु उत्तरे पृथिवीधरः ॥ ३ ॥


ब्रह्माणं च निरीक्ष्यैव स्थित्वा षट्पदभागिनः ।

आपश्चैवापवत्सश्च त्वैशान्यां दिशि संस्थितौ ॥ ४ ॥


सवित्रश्चैव सावित्रो ह्याग्नेय्यां दिशि संस्थितौ ।

इन्द्र इन्द्रजयश्चैव नैर्-ऋत्यां दिशि संस्थितौ ॥ ५ ॥


रुद्रो रुद्रजयश्चैव वायव्यां दिशि संस्थितौ ।

एते द्विपदभोक्तार अर्धमर्धद्वयं तथा ॥ ६ ॥


ईशानश्चैव पर्जन्यो जयन्तश्च महेन्द्रकः ।

आदित्यस्सत्यकश्चैव भ्रंशश्चैवान्तरिक्षकः ॥ ७ ॥


अग्निः पूषा च वितथो राक्षसश्च यमस्तथा ।

गन्धर्वो भृंगराजश्च मृगश्चैव तु दक्षिणे ॥ ८ ॥


निर्-ऋती चैव दौवारी सुग्रीवः पुष्पदन्तकः ।

वरुणः शोषरोगौ च पापयक्ष्मा च पश्चिमे ॥ ९ ॥


वायुर्नागस्तथा मुख्यो भल्लाटस्सोम एव च ।

ऋगादितिद्युतिश्चैव बाह्ये त्वेकांशभागिनः ॥ १० ॥


चरकी च विदारी च पूतना पापराक्षसी ।

ईशानादिषु कोणेषु बाह्यस्थाः पदवर्जिताः ॥ ११ ॥


पूर्वादिषु चतुर्दिक्षु स्कन्दो वैचार्यमा तथा ।

विजृम्भो बलिपिंछश्च पूर्ववत्पदवर्जिताः ॥ १२ ॥


एते चैकोन पंचाशद् देवताः परिकीर्तिताः ।

विंशत्सूत्रैस्तु ते सर्वे बध्वा वै वास्तुमूर्तिनाम् ॥ १३ ॥


अधोमुखान्शयित्वा तु उद्धृताः पीठधस्थिताः ।

वास्तुमूर्तिः कथं देव ! बध्वा तं शाययेत्कथम् ॥ १४ ॥


देवासुरमहायुद्धं वर्तते तु यदा तदा ।

असुराणां हितार्थाय शुक्रः प्रत्यादिहत्तपः ॥ १५ ॥


ततस्तपसिसंभूतो भूताकारं महाबलम् ।

अप्रबुद्धिस्तु तं भूतं देवैर्युद्धं प्रवर्तते ॥ १६ ॥


सर्वदेवायुधैर्देवोवाधं चैव न शक्यते ।

सर्वदेवाश्च तं भूतं शयनं तु ह्यधोमुखम् ॥ १७ ॥


विंशत्सूत्रैश्च तं भूतं बध्वा संपीड्य संस्थितः ।

समाप वास्तु पुरुषो वास्तुमूर्तिं तमुच्यते ॥ १८ ॥


तन्मूर्त्याधोमुखं ह्येवं सर्वेषां दुःखमावहेत् ।

यत्र यद्वास्तु विन्यासं तत्सर्वं वास्तुमूर्तिमान् ॥ १९ ॥


तदुद्धृतनिवृत्त्यर्थं सर्वदुःखनिवारणम् ।

सर्व ऋद्धिकरार्थं तु वास्तुहोमबलिं कुरु ॥ २० ॥


ब्रह्मादिदेवतानां तु तृप्ति होमबलिं द्विजः ।

तासां तृप्तिं कृते वास्तु पुरुषाच्च न बाध्यते ॥ २१ ॥


तस्मात्सर्वप्रयत्नेन ब्रह्मादीनां बलिं ददेत् ।

वास्तुहोमश्च कर्तव्यो ब्रह्मादीनां स्वनामतः ॥ २२ ॥


ईशाने तु शिरो न्येव पादौ निर्-ऋतिगोचरौ ।

आग्नेय्यां वायुदिग्भागे कोर्परौ जानुशायिनौ ॥ २३ ॥


मूर्तिगेहस्थिता देवा स्वीशानो शिरसन्धितः ।

नेत्रस्थाने च पर्जन्यो जयन्तश्च त्रिकं भृगः ॥ २४ ॥


आपः कृकादिकोर्ध्वे तु आपवत्सस्तथैव च ।

नाभिसूत्रे परब्रह्म बीजेत्विन्द्रस्तथैव च ॥ २५ ॥


लिंगे त्विन्द्रजयश्चैव पादयोर्निर्-ऋतिस्तथा ।

समरी पृथिवी चैव स्तनसूत्रपदे स्थितौ ॥ २६ ॥


विवस्वतः कुक्षिपार्श्वे * * * विवरे स्थितौ ।

ऊर्ध्वहस्ततले चैव सवितारं प्रकल्पयेत् ॥ २७ ॥


ऊरुप्रकोष्ठमध्ये च सावित्रं तु निधापयेत् ।

रुद्रोरुद्रजयश्चैव वामपार्श्वे तु पूर्ववत् ॥ २८ ॥


महेन्द्राद्यन्तरिक्षान्ताः सर्वावयसंस्थिताः ।

तज्जानुकोर्परे विप्र त्वग्निमूर्तिं निधापयेत् ॥ २९ ।


नामादि ऋगपर्यन्तं जंघाया दक्षिणे न्यसेत् ।

दौवारिपापयक्ष्मान्ताः जंघाया दक्षिणेन्तरे ॥ ३० ॥


वामकूर्पर जानूर्ध्वे वायुमूर्तिं निधापयेत् ।

नागादि ऋगपर्यन्ता वामबाह्वौ च संस्थिताः ॥ ३१ ॥


चरक्याद्याश्चतुष्कोणे कर्णसूत्राग्रके स्थिताः ।

एते स्वधोमुखा वास्तुमूर्तिदेव द्विजोत्तम ॥ ३२ ॥


प्रागिवैव बलिं दद्यात् वास्तु संकल्पयेद्द्विजः ।

प्रासादवास्तु चैवं हि वास्तु होमं ततः परम् ॥ ३३ ॥


इत्यंशुमान्काश्यपे प्रासादवास्तुलक्षणपटलः (द्वितीयः) ॥ २ ॥