अंशुमत्काश्यपागमः/कूटकोष्ठादिलक्षणपटलः ३०
← पटलः २९ | अंशुमत्काश्यपागमः [[लेखकः :|]] |
पटलः ३१ → |
वक्ष्येहं कूटकोष्ठानां पंजराणां च लक्षणम् ।
द्वितलादिकलान्तानां सममेव प्रकीर्तितम् ॥ १ ॥
तलं प्रत्युदितव्याससमाश्रं कर्णकूटकम् ।
आयताश्रं तु कोष्ठं स्यात् चतुष्पादैकभित्तितः ॥ २ ॥
अधिष्ठानस्तंभ वर्ग प्रस्तरं कण्ठशीर्षकम् ।
स्थूपिवर्गसमायुक्तं कूटकोष्ठौ विशेषतः ॥ ३ ॥
एवमादितले कुर्यात् धरातलं विमोर्ध्वतः ।
कूटशालोच्चा कर्तव्या पंजराश्च तथैव च ॥ ४ ॥
ऊर्ध्वपादोदयं सप्तभागं कुर्याद्विशेषतः ।
एकांशं वेदिकोत्सेधं सार्धांशं गलमानकम् ॥ ५ ॥
शीर्षकं तु गुणांशेन शेषं स्थूप्युदयं भवेत् ।
एवं तु कूटकोष्ठौ द्वौ कल्पयेत्तु तलं प्रति ॥ ६ ॥
अथवा कूटकोष्ठानां उदयं तु वदाम्यहम् ।
उत्तरास्योर्ध्वसीमान्तं हंसमालोर्ध्वसीमकम् ॥ ७ ॥
कपोतलम्बावसानं वा भागं पूर्वमेव तु ।
सान्तरप्रस्तरं चेत्तु प्रस्तरस्योर्ध्वसीमकम् ॥ ८ ॥
वैदिकोर्ध्वे समं वाथ सान्तरप्रस्तरान्वितम् ।
तदुच्चं रुद्रधा भज्य एकांशं वेदिकोदयम् ॥ ९ ॥
गुणांशं चरणोच्चं तु पादोनद्व्यंशमंचकम् ।
सपादांशं गलोत्सेधं पादोन द्व्यंशशीर्षकम् ॥ १० ॥
स्थूप्युत्सेधं सपादांशं क्रमशः परिकल्पयेत् ।
एवं हि कूटकोष्ठौ द्वौ कल्पयेत् कल्पवित्तमः ॥ ११ ॥
कूटव्यासत्रिभागैक स्वनासी विस्तृतं भवेत् ।
तद्व्यासे त्रिचतुष्पंचभागे भागे तु नीव्रकम् ॥ १२१ ॥
कर्णकूटकपोपातात्तुनासिका निर्गमं भवेत् ।
चतुर्दिक्षु चतुर्नासी कूटानां परिकल्पयेत् ॥ १३ ॥
एकस्थूपी समायुक्तं नीव्रवेशं विमानवत् ।
वेदाश्रं वसुकोणं वा वृत्ताभं वा गलं शिरः ॥ १४ ॥
नागराद्युचितं कल्प्य कर्णकूटं विशेषतः ।
शालानां पार्श्वयोर्विप्र ललाटाख्यानु नासिकाः ॥ १५ ॥
शालायास्तु विशालं तु रत्नतामुखपट्टिका ।
स्थूप्याग्रसमं प्रोक्तं ललाटनास्याग्रसीमकम् ॥ १६ ॥
शालादीर्घं त्रिभागैकं मुखनासी विशालकम् ।
कूटानां नासिका नीव्रं महानासी वदाचरेत् ॥ १७ ॥
स्थूपित्रयसमायुक्तं नागरे भवनं द्विज ! ।
शालानां द्राविडानां तु स्थूपिरश्विनि संख्यया ॥ १८ ॥
शालानां वेसराणां तु स्थूप्येकं वा चतुष्टयम् ।
गलांशे कूटकोष्ठानां देवताद्यास्तु कल्पयेत् ॥ १९ ॥
एवं हि कूटकोष्ठं स्यात् पंजरास्त्वधुनोच्यते ।
उपानादुत्तरान्तं तु नवभागविभाजिते ॥ २० ॥
उपपीठमथांशेन पक्षांशं तु धरातलम् ।
वेदांशं चरणायामं मंचमध्यर्धभागया ॥ २१ ॥
अर्धांशं वेदिकामानं कपोतान्तं गलोदयम् ।
प्रतिवाजनसीमान्तं पंजरोच्चमुदाहृतम् ॥ २२ ॥
प्रासादस्य च बाह्ये तु यथा शोभांशनिर्गतिः ।
पंजरं नासिकाकारं कूटकोष्ठाकृतिस्तु वा ॥ २३ ॥
हस्तिपृष्ठविमानस्य शिखराभमथापि वा ।
एवं त्वनेकभेदेन पंजराकृतिरुच्यते ॥ २४ ॥
यथेष्टं तत्र कर्तव्यं हर्म्येष्वनेकभूमिषु ।
एवमादितले कुर्यात् अन्तरप्रस्तरान्वितम् ॥ २५ ॥
मानसूत्रात्तु निष्क्रान्तं युक्तमेवं समाचरेत् ।
पंजरं नीव्ररहितं प्रस्तरोर्ध्वे विशेषतः ॥ २६ ॥
कर्णकूटसमं सार्धं त्रिपादं वाथ विस्तृतम् ।
तदव्याससदृशं तुंगं युक्त्या पंजरमाचरेत् ॥ २७ ॥
तलं प्रत्यूर्ध्व पादोच्चं प्रागिवैव नवांशके ।
गुणांशं घटभि स्यात् छत्रशीर्षकसंयुतम् ॥ २८ ॥
पादायामं चतुर्भागं अध्यर्धांशं तु प्रस्तरम् ।
अर्धांशं वेदिकामानं कपोतान्तं गलोदयम् ॥ २९ ॥
प्रतिवाजनसीमान्तं पंजरोदयमीरितम् ।
शेषं प्रागिव कर्तव्यं एवं निष्क्रान्तपंजरम् ॥ ३० ॥
निष्क्रान्तरहितं चैव प्रस्तरोर्ध्वे तु प्रागिवा ।
पंजरे कूटकोष्ठे च पादे पादान्तरेऽपि वा ॥ ३१ ॥
गोपान धारकान्कल्प्य महाबलपराक्रमान् ।
हस्तौ पादौ द्वयोपेतं दान्तं कीर्ण जटान्वितम् ॥ ३२ ॥
रौद्रदृष्टि समायुक्तं रक्ताभांजनसंनिभम् ।
गोपानं यत्ततो धृत्वा हंसौ पादौ तदन्वितौ ॥ ३३ ॥
एवं वा गजहंसाभं सिंहव्यालाभमेव वा ।
गोपानं शिरसा बाह्यं स्थापयेत्तु यथेष्टकौ ॥ ३४ ॥
कूटादिलक्षणं प्रोक्तं पंचभूमिविधिं तथा ।
इत्यंशुमान्काश्यपे कूटकोष्ठादिलक्षणपटलः (त्रिंशः) ॥ ३० ॥