प्रमुखा विकल्पसूचिः उद्घाट्यताम्

अंशुमत्काश्यपागमः/चतुर्भूमिविधानपटलः २९

← पटलः २८ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ३० →


अथ वक्ष्ये विशेषेण चतुर्भूमेस्तु लक्षणम् ।
विस्तरोत्सेधमानं तु प्रोक्तं प्रासादमानके ॥ १ ॥

रव्यंशं मानसूत्रान्तं कृते गर्भगृहं रसम् ।
गृहपिण्ड्यालिंदहारादि प्रत्येकं चैकभागया ॥ २ ॥

विन्याससूत्रयोरन्तर वसुधा विभजेत्समम् ।
कर्णकूटं ततांशं तु कोष्ठं तद् द्विगुणायतम् ॥ ३ ॥

पंजरव्यासमंशेन शेषं हारान्तरं भवेत् ।
पुनरप्यूर्ध्व भूमिं च वसुभागविभाजिते ॥ ४ ॥

कर्णकूटं च कोष्ठं च पंजरं पूर्ववद्भवेत् ।
तदूर्ध्वे अष्टभागे तु शिवांशं कूटविस्तृतम् ॥ ५ ॥

कोष्ठायामाश्वनीभागं अर्धांशं पंजरस्य तु ।
शेषं हारान्तरं प्रोक्तं हीनाधिक्यं तु नाश्रयेत् ॥ ६ ॥

ऊर्ध्वभूम्यग्निभागे तु व्योमांशं मध्यभद्रकम् ।
दण्डं वाध्यर्ध दण्डं वा द्विदण्डं वाथ निर्गतम् ॥ ७ ॥

प्रासादोच्चं तु विभजेत् संग्रहं त्रिंशदंशकम् ।
सार्धाष्टांशं अधिष्ठानं भूतांशं चरणोदयम् ॥ ८ ॥

अधिष्ठानसमं मंचं तलिपं पादोन पंचकम् ।
सपक्षांशं च मंचोच्चं कल्पयेद्द्विजसत्तम ! ॥ ९ ॥

सार्धवेदांश पादोच्चं पक्षांशं प्रस्तरोदयम् ।
सपादवेदभागं तु चरणोदयमिष्यते ॥ १० ॥

पादोन(प)क्षांशं चोच्चं शिवांशं वेदिकोदयम् ।
कर्णोच्चं तु द्विभागं स्यात् सार्धवेदांश शीर्षकम् ॥ ११ ॥

स्तूप्युच्चं तु द्विभागं स्यात् शान्तिकं भवनं भवेत् ।
चत्वारिंशद् द्वयाधिक्य भागं कृत्वा गृहोन्नतम् ॥ १२ ॥

गुणांशं तलमानं तु रसांशं चरणोदयम् ।
प्रस्तरं चाग्निभागेन भूतांशं तलिपायतम् ॥ १३ ॥

पादोनाग्न्यंशमंचं स्यात् भूतांशं चरणोदयम् ।
सपादद्विभागमंचोच्चं सार्धवेदांघ्रिणोदयम् ॥ १४ ॥

द्विभागं मंचमानं तु शिवांशं वेदिकोदयम् ।
अध्यर्धांशं गलोत्सेधं युगांशं शिखरोदयम् ॥ १५ ॥

द्विभागं तु शिखामानं पौष्टिकं तदुदाहृतम् ।
पंचाशद्विभजेद्धामतुंगं स्तूप्यवसानकम् ॥ १६ ॥

सार्धत्रिंशमधिष्ठानं सप्तांशं चरणोदयम् ।
तदर्धं मंचमानं तु षडंशं चरणोदयम् ॥ १७ ॥

गुणांशं मंचमानं तु ऊर्ध्वपादं तु तद्द्वयम् ।
त्रिभागं प्रस्तरोत्सेधं पादोच्चं सार्धपंचकम् ॥ १८ ॥

प्रस्तरोच्चं त्रिभागं स्यात् अंशेन वेदिकोदयम् ।
द्विभागं गलमानं तु शरांशं शिखरोदयम् ॥ १९ ॥

सार्धांशं स्थूपिमानं तु जयदं तदुदाहृतम् ।
उपानादि स्थूपिपर्यन्तं पंचाशद्विभजेद्बुधः ॥ २० ॥

तलोच्चं सार्धमग्न्यंशं सप्तांशं चरणोदयम् ।
तलोच्च सदृशं मंचतलीपं सार्धषड्भवेत् ॥ २१ ॥

पादाधिकत्रिभागांशं मंचमानमुदाहृतम् ।
पादोच्चं रसभागेन गुणांशं प्रस्तरोदयम् ॥ २२ ॥

सार्धपंचांशमंघ्र्युच्चं मंचं सार्ध द्विभागया ।
एकांशं वेदिकामानं द्विभागं स्याद्गलोदयम् ॥ २३ ॥

पंचांशं शिखरोत्तुंगं सपादं शिखरोदयम् ।
अद्भुतं सदनं ह्येवं कल्पयेत्कल्पवित्तमः ॥ २४ ॥

आरामोच्चं तु पंचाशत् भागं कृत्वा विशेषतः ।
सार्धाग्न्यंशमधिष्ठानं धाल्वंशं चरणोदयम् ॥ २५ ॥

प्रस्तरोच्चं त्रिभागेन चरणं सार्धषड्भवेत् ।
सपादाग्न्यंश मंचं स्यात् तलिपं सार्धषट्ककम् ॥ २६ ॥

त्रिभागं प्रस्तरोत्सेधं पादोच्चं सार्धपंचकम् ।
पादोनाग्न्यंशमंचोच्चं शिवांशं वेदिकोदयम् ॥ २७ ॥

द्विभागं गलमानं तु पादांशं शिखरोदयम् ।
व्योमांशं तु शिखामानं विमानं सार्वदेशिकम् ॥ २८ ॥

होमादिस्तूपि वर्गान्तं वेदाश्रं परिकल्पयेत् ।
भानुकूटं तथा कोष्ठं भानुद्विगुणपंजरम् ॥ २९ ॥


शिखरे तु चतुर्दिक्षु भद्रनासी चतुष्टयम् ।
पादं प्रत्यल्पनास्याढ्यं शिखरोल्पाष्टनासिकाः ॥ ३० ॥

कूटकोष्ठादि सर्वांगं नागराद्युचितं कुरु ।
एकाकारतलस्तंभं सुभद्रमिति विद्यते ॥ ३१ ॥

तदेव शिखरेष्टाल्पनासिकारहितं भवेत् ।
तद्ब्राह्म्यमिति विख्यातं सर्वदेव प्रियावहम् ॥ ३२ ॥

तदेवं शिखरं कण्ठं वृत्तं श्रीकान्तमुच्यते ।
वस्वश्रं शीर्षकं कण्ठं श्रीमण्डनमुदाहृतम् ॥ ३३ ॥

तदेव शिखरे चाष्टौ महानासी समन्वितम् ।
श्रीवन्तमिति ख्यातं शालाभद्रयुतं तु वा ॥ ३४ ॥

विभद्रं वाथ कर्तव्यं सर्वेषां सदनामपि ।
श्रीकान्तं शिखरेल्पाष्ट नास्याढ्यं श्रीविशालकम् ॥ ३५ ॥

नानांघ्रितलसंयुक्तं तत्तन्नाम्ना प्रकीर्तिताः ।
विस्ताराध्यर्धमायामं सभाकारं तु शीर्षकम् ॥ ३६ ॥

संपदालयमित्युक्तं सर्वदेवार्हकं परम् ।
मानसूत्रान्तरं नन्दभागं कृत्वा विशेषतः ॥ ३७ ॥

गर्भगेहं गुणांशं स्याद् भागेन गृहपिण्डिका ।
अलिन्दमंशेन कर्तव्यं हारभागेन कल्पयेत् ॥ ३८ ॥

ततो विन्याससूत्रान्तं सदनं नवभाजिते ।
एकांशं कूटविस्तारं गुणांशं कोष्ठदीर्घकम् ॥ ३९ ॥

एकांशं पंजरव्यासं सार्धांशं हारयोन्तरम् ।
शालामध्ये महानासी नीव्रं तदर्धभागया ॥ ४० ॥

ऊर्ध्वभूम्यष्टभागे तु कूटमंशेन कल्पयेत् ।
शाला तद्द्विगुणायामं शिवांशं पंजरं भवेत् ॥ ४१ ॥

शेषं भारान्तरं चोर्ध्वे भूतांशं रसभाजिते ।
कूटमेकेन कर्तव्यं कोष्ठं तद्द्विगुणायतम् ॥ ४२ ॥

अर्धांशं पंजरव्यासं शेषं हारान्तरं भवेत् ।
ऊर्ध्वे भूमिस्तदर्धं तु मध्ये दण्डेन निर्गतिः ॥ ४३ ॥

चतुरष्टाश्र वृत्ताभं कूटानां शीर्षकं क्रमात् ।
ककरीदण्डवत्कोष्ठं वस्वश्रं हर्म्यशीर्षकम् ॥ ४४ ॥

महानास्यष्टकोपेतं शीर्षकं परिकल्पयेत् ।
रविकोष्ठं च कूटं च रविद्विगुणपंजरम् ॥ ४५ ॥

प्रागिवोच्चांशमानं तु भद्रकोष्ठमिदं परम् ।
गेहव्यासं तु धर्मांशं कृत्वा नालीग्रहं चतुः ॥ ४६ ॥

ग्रहपिंड्यंशमानेन अलिन्दं चैकभागया ।
हारव्यासं शिवांशेन परितः परिकल्पयेत् ॥ ४७ ॥

विन्याससूत्रयोरन्तर्व्यासाद्धर्मद्विभाजिते ।
कर्णकूटं तदेकांशं कोष्ठायामं तु तद्वयम् ॥ ४८ ॥

अर्धांशं पंजरव्यासं शेषं हारान्तरं भवेत् ।
चतुष्कूटाष्टकोष्ठं च पंजरं भानुसंख्यया ॥ ४९ ॥

हारान्तरं चतुर्विंशत् कल्पयेत्प्रथमे तले ।
अलिन्दं जलपादाढ्यात् प्रस्तरान्तघनी कृतम् ॥ ५० ॥

ऊर्ध्वं तु वसुभागे तु शिवांशं कूटविस्तृतम् ।
कोष्ठं तद्द्विगुणायामं पंजरं चांशमानकम् ॥ ५१ ॥

शेषं हारान्तरं ख्यातं चोर्ध्वे वसुभाजिते ।
कूटं भागेन कर्तव्यं कोष्ठं तद्द्विगुणायतम् ॥ ५२ ॥

शेषं हारान्तरं ख्यातं क्षुद्रपंजरसंयुतम् ।
ऊर्ध्वभूमं त्रिभागैकं मध्ये दण्डेन निर्गमम् ॥ ५३ ॥

चतुरश्रमधिष्ठानं अष्टाश्रं मस्तकं गलम् ।
शिखरेऽष्टमहानासी पादं प्रत्यल्पनासिका ॥ ५४ ॥

कर्णकूटं तु भानुः स्यात् कोष्ठं षोडशभिर्युतम् ।
नतं कूटोन्नतं कोष्ठं अन्तरप्रस्तरान्वितम् ॥ ५५ ॥

क्षुद्रनीडाष्टविंशः स्यात् नानामसूरकांघ्रि च ।
नानालंकारसंयुक्तं नाना जालक तोरणैः ॥ ५६ ॥

नानाचित्रं विचित्रं तु तुंभभागं तु पूर्ववत् ।
जयावहमिदं ख्यातं सर्वदेवार्हकं परम् ॥ ५७ ॥

तदेव वर्तुलं कर्णं शीर्षकं सार्वकामिकम् ।
तदेवान्तरमंचं स्यात् कूटकोष्ठं च पंजरम् ॥ ५८ ॥

कूटानां शीर्षकं स्थूपी कुम्भं कर्णं च वर्तुलम् ।
एवं स्यान्मूलभूमं तु वस्वश्रं मध्यमे तले ॥ ५९ ॥

युगाश्रं चोर्ध्वभूमौ तु कर्णकूटं प्रकल्पयेत् ।
सुखावहमिदं ख्यातं सर्वदेवार्हकं परम् ॥ ६० ॥

तदेव कूटकोष्ठं च अन्तरप्रस्तरं विना ।
सह्योश्च समसूत्रं तु तदव्ययगृहं भवेत् ॥ ६१ ॥

तदेव शिखरं कर्णं युगाश्रं धातृकान्तकम् ।


इत्यंशुमान्काश्यपे चतुर्भूमिविधानपटलः (एकोनत्रिंशः) ॥ २९ ॥