अंशुमत्काश्यपागमः/गोपुरलक्षणपटलः ४४


← पटलः ४३ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ४५ →



अथ वक्ष्ये विशेषेण गोपुराणां तु लक्षणम् ।
अन्तर्मण्डल सालादिस्त्वधुना प्रोच्यते क्रमात् ॥ १ ॥

द्वारशोभा द्वारशाला द्वारप्रासादहर्म्यके ।
द्वारगोपुर इत्येते क्रमान्नाम्ना प्रकीर्तिताः ॥ २ ॥

एकद्वित्रितलं वापि द्वारशोभां तु कल्पयेत् ।
द्विभूमिर्वा त्रिभूमिर्वा चतुर्भूमिरथापि वा ॥ ३ ॥

द्वारशाला तु कर्तव्या साले स्यात्तु द्वितीयकम् ।
त्रिचतुष्पंचभूमिर्वा द्वारप्रासादमारभेत् ॥ ४ ॥

चतुष्पंचतलं वाथ षट्तलं वाथ हर्म्यकम् ।
पंचषट्सप्तभूमिर्वा द्वारगोपुरमिष्यते ॥ ५ ॥

अथवा सर्वसालेषु एकद्वित्रितलं तु वा ।
सोपपीठमधिष्ठानं विना वादुपपीठकम् ॥ ६ ॥

तयोरुच्चादयास्सर्वे नवपंचावदाम्यहम् ।
मूलप्रासादविस्तारं सप्ताष्टनवभाजिते ॥ ७ ॥

दशैकादशभागे च एकांशरहितं क्रमात् ।
शोभादि गोपुरान्तानां विपुलं कीर्तितं क्रमात् ॥ ८ ॥

विकल्पाभासहर्म्याणां गोपुराणां ततिस्त्विमे ।
मूलालयविशालं तु चतुष्पंचषडंशके ॥ ९ ॥

सप्ताष्टांशेन हीनं तु छन्दशोभादयं भवेत् ।
मूलगेहत्रिभागैकं भागमर्धांशमेव वा ॥ १० ॥

त्रिद्व्यंशचतुरंशे तु गुणांशं च तथैव च ।
पंचभागे तु वेदांशं सालेषु प्रथमादिषु ॥ ११ ॥

शोभादि गोपुरान्तानां ततिर्जात्यालयं क्रमात् ।
कल्प्यैवं हर्म्यमानं स्याद्धस्तमान वशात्ततः ॥ १२ ॥

द्विहस्तादि द्विरष्टान्तं एकहस्तविवर्धनात् ।
शोभादि गोपुरान्तानां प्रत्येकं त्रित्रिभेदकम् ॥ १३ ॥

विकल्पाभासयोरेवं छन्दहर्म्येऽथ वक्ष्यते ।
गुणहस्तं समारभ्य सप्तादशकरावधि ॥ १४ ॥

एकहस्त विवृद्ध्या तु शोभादीनां त्रयं त्रयम् ।
चतुर्हस्तं समारभ्य यावदष्टदशैः करैः ॥ १५ ॥

शोभादीनां तु विस्तारं जातिहर्म्ये तु विद्यते ।
प्रत्येकं त्रित्रिधा मानं छन्दं पंचविधं भवेत् ॥ १६ ॥

हस्तमानेन विस्तारं क्षुद्राणां महतीं क्रमात् ।
स्वस्वोदितः प्रकर्तव्यं विपरीतं विपत्करम् ॥ १७ ॥

अथवा त्रिचतुष्पंच षट्सप्ताष्टनवांशकम् ।
दशैकादशहस्तं तु अधमादित्रयं त्रयम् ॥ १८ ॥

सर्वसालेषु कर्तव्यं तस्मात्ते सार्वदेशिकम् ।
अथवान्यप्रकारेण शोभादीनां तु विस्तरम् ॥ १९ ॥

पंचहस्तं समारभ्य द्विद्विहस्तविवर्धनात् ।
त्रयोदशकरान्तं तु शोभाव्यासं तु पंचधा ॥ २० ॥

त्रिपंचहस्तमारभ्य द्विद्विहस्तविवर्धनात् ।
त्रयोविंशत्करान्तं तु द्वारशाला तु पंचधा ॥ २१ ॥

पंचविंशत्करारभ्य त्रयोविंशत्करान्तकम् ।
द्वारप्रासादविस्तारं पंचधा परिकीर्तितम् ॥ २२ ॥

पंचत्रिंशत्करारभ्य चत्वारिंशत्त्रयावधि ।
पंचधा द्वारहर्म्यस्य विस्तारं परिकीर्तितम् ॥ २३ ॥

स पंच चत्वारिंशत्तु पंचाशत्त्रिकरान्तकम् ।
द्विद्विहस्तविवृद्ध्या तु पंचधा गोपुरस्ततम् ॥ २४ ॥

द्वारायतनव्यासास्ते नतस्तदायतं शृणु ।
स पादं सार्धपादोन द्विगुणं द्विगुणं तु वा ॥ २५ ॥

स त्रिभागैकभागं तु द्विभागस्त्वायतं भवेत् ।
शोभादि गोपुरान्तानां एवं ह्येवं प्रगृह्यताम् ॥ २६ ॥

तेषु किंचिद्विशेषोऽस्ति तद्विशेषं शृणुष्वपि ।
हस्तमानेन विस्तारं गृहीते तु विशेषतः ॥ २७ ॥

आयामं पूर्ववत्कल्प्य अनेकेष्विष्टमायतम् ।
हस्तच्छेदं प्रवृद्ध्या वा हन्या वा पूर्वमाचरेत् ॥ २८ ॥

आयादि शोभनोपेतं हस्तमानेन कल्पितम् ।
तौ विना हर्म्यमूलस्य वशं संकल्पितस्य तु ॥ २९ ॥

व्यासायामं समाख्यातं तेषां तुंगमथोच्यते ।
विस्तारं सप्तधा भज्य शोभोच्चं रुद्रभागया ॥ ३० ॥

तारादर्धाधिकं तुंगं द्वारशालोच्छ्रयं भवेत् ।
सप्ताभागेन रुद्रांशं भान्वंशं वा तृतीयके ॥ ३१ ॥

विस्तारे तु नवांशे तु मन्वंशोच्चं चतुर्थके ।
विस्तारद्विगुणोत्सेधं महागोपुरमिष्यते ॥ ३२ ॥

होमादि स्थूपि पर्यन्तं प्रोक्तोच्चं तु प्रगृह्यताम् ।
विस्तारायामयोर्मानं सूत्रं पाद्बाह्यमुच्यते ॥ ३३ ॥

तद्बाह्ये कूटकोष्ठादि नीव्रं प्रासादवद्भवेत् ।
विस्तारस्य त्रिभागैकं चतुर्भागैकमेव वा ॥ ३४ ॥

पंचभागे द्विभागं वा सालाद्बाह्ये तु निर्गतिः ।
सार्धहस्तं समारभ्य षट्षडंगुलवर्धनात् ॥ ३५ ॥

पंचहस्तावधिर्यावत् क्षुद्राणां द्वारविस्तृतम् ।
अल्पानां च त्रिधा प्रोक्तं द्व्यन्तराणां ततः शृणु ॥ ३६ ॥

त्रिहस्तं तु समारभ्य यावत्सप्तकरावधि ।
षडंगुलविवृद्ध्या तु द्वारव्यासं प्रकीर्तितम् ॥ ३७ ॥

चतुर्हस्तं समारभ्य यावन्नवकरान्तकम् ।
रसमत्रविवृद्ध्या तु महते द्वारविस्तृतम् ॥ ३८ ॥

तारे पंचांश सप्तांशं सप्तांशे तु दशायतम् ।
अध्यर्धं पादहीनं तु द्विगुणं द्विगुणोन्नतम् ॥ ३९ ॥

सार्धपादं तु पादं वा द्वारोत्सेधं तु सप्तधा ।
लिंगस्य मध्यमं द्वारं मध्यमं तु वदाम्यहम् ॥ ४० ॥

शिवाग्निभूतधा कृत्वा नवांगुलं विशेषतः ।
लिंगमध्यात्तु वामे वा द्वारमध्यं प्रकल्पयेत् ॥ ४१ ॥

शोभादि गोपुरान्तानां द्वारमध्यं क्रमाद्विदुः ।
तन्मध्याद्गोपुरायामं उभयोः पार्श्वयोस्समम् ॥ ४२ ॥

द्वरयोगं कवाटं च द्वारलक्षणवत् कुरु ।
गुणभक्तिसमारभ्य यावदेकोन विंशतिः ॥ ४३ ॥

ताअत्पंक्तिस्तु विस्तारे एवमेवं प्रकल्पयेत् ।
यावद्द्विपंक्तयोर्व्यासे तावदेवायपंक्तयः ॥ ४४ ॥

विस्तारे पंचभागे तु गुणांशे गर्भगेहकम् ।
शेषं कुड्यविशालं स्या तारार्धं वाग्रहस्तकम् ॥ ४५ ॥

शेषं भक्ति विशालं स्यादेकभूमौ द्विजोत्तमौ ।
परितः कुड्यविस्तारं अनेनैव प्रकल्पयेत् ॥ ४६ ॥

एवं एकतलं ख्यातं द्वितलं तु तथोच्यते ।
विस्तारे पंचभागं स्यात् आयामेऽपि तथैव च ॥ ४७ ॥

द्व्यंशांशं गर्भगेहं तु सार्धांशं कुड्यविस्तृतम् ।
एकांशं कर्णकूटं स्यात् गुणांशं कोष्ठदीर्घकम् ॥ ४८ ॥

हारान्तरं शिवांशं स्यात् कल्पयेदेवमेव वा ।
विस्तारं सप्तभागं स्यात् नवभागं तदायतम् ॥ ४९ ॥

युगांशं गर्भगेहं तु सार्धांशं कुड्यविस्तृतम् ।
कर्णकूटं तु तारेंशं शालादीर्घं गुणांशकम् ॥ ५० ॥

हारान्तरं तदंशेन विस्तारे चैवमेव वा ।
शालादीर्घं तु पंचांशं आयामं तु प्रकल्पयेत् ॥ ५१ ॥

हारान्तरं च कूटं च एकैकांशेन कल्पयेत् ।
कूटान्तरसमायामं शेषं हारान्वितं भवेत् ॥ ५२ ॥

हारान्तरार्धमानेन भद्रं वा भद्रपंजरम् ।
द्वितलं ह्येवमाख्यातं त्रितलं त्वधुनोच्यते ॥ ५३ ॥

नवांशं विभजेद् व्यासं आयामं च तथा भवेत् ।
गर्भगेहं गुणांशं स्याद् अंशेन गृहपिण्डिका ॥ ५४ ॥

आलिन्दं चैकभागेन हारव्यासं शिवांशकम् ।
कर्णकूटं शिवांशेन शालादीर्घं गुणांशकम् ॥ ५५ ॥

एकांशं पंजरव्यासं अर्धांशं हारयोन्तरम् ।
कल्प्येवमादिभूमं तु द्वितलं पूर्ववद्विदुः ॥ ५६ ॥

अथवान्यप्रकारेण त्रितलं शृणु सुव्रत ! ।
द्वारशोभं तु विस्तारं रुद्रांशं तु तदायतम् ॥ ५७ ॥

गुणांशं गर्भगेहं तु गृहपिण्ड्यंशमुच्यते ।
अलिन्दं तत्समं ख्यातं हारं भागेन कल्पयेत् ॥ ५८ ॥

अलिन्दांशं तु कुड्यं वा गर्भगेहान्वितं तु वा ।
आयामे पंचभागेन कोष्ठदीर्घं प्रकल्पयेत् ॥ ५९ ॥

शेषं पूर्ववदुद्दिष्टं द्वितीयं द्वितलोक्तवत् ।
त्रितलं ह्येवमाख्यातं चतुर्भूमिमिदं परम् ॥ ६० ॥

विस्तारे तु दशांशे तु तद्वदायामपंक्तयः ।
गर्भगेहं त्रिभागादि सार्धांशं कुड्यविस्तृतम् ॥ ६१ ॥

अलिन्दं शिवभागेन हारव्यासं तथैव च ।
पंजरं कर्णकूटं च त्वेकैकांशेन कल्पयेत् ॥ ६२ ॥

कूटतारसमायामं शेषं हारान्तरान्वितम् ।
शालायामे तु वेदांशं अर्धांशं हारयोन्तरम् ॥ ६३ ॥

आदिभूम्येवमाख्यातं ऊर्ध्वं पूर्ववदाचरेत् ।
विस्तारे तु दशांशे तु भान्वंशं तु तदायतम् ॥ ६४ ॥

पूर्वे परे च शालायां पंचभागेन कल्पयेत् ।
शेषं पूर्ववदुद्दिष्टं चतुभूमिमिदं परम् ॥ ६५ ॥

तारमेकादशांशं तु आयामं च तथैव च ।
पूर्वे परे च पार्श्वे च शाला पंचांशमायतम् ॥ ६६ ॥

एकांशं पंजरव्यासं कूटव्यासं शिवांशकम् ।
हारान्तरं तथांशं च कल्प्येवं प्रथमं तलम् ॥ ६७ ॥

तस्योर्ध्वभूमयस्सर्वाः पूर्ववत्परिकल्पयेत् ।
तारमेकादशांशे तु तद्दीर्घं तु त्रयोदश ॥ ६८ ॥

गुणांशं गर्भगेहं तु द्विभागं भित्तिविस्तृतम् ।
अलिन्दं चैकभागेन हाराभागेन कल्पयेत् ॥ ६९ ॥

कूटकोष्ठादि सर्वांगं प्रागिवैव प्रकल्पेय्त् ।
पंचभूमेस्समाख्यातं षट्तलं त्वधुना शृणु ॥ ७० ॥

तारे तु द्वादशांशे तु मंचंशे तु तदायतम् ।
युगांशं गर्भगेहं तु द्विभागं भक्ति विस्तृतम् ॥ ७१ ॥

अलिन्दं भागया कल्प्य हारा भागेन कल्पयेत् ।
पार्श्वशाला तु वेदांशं षडंशं मुखपृष्ठयोः ॥ ७२ ॥

हारान्तरं शिवांशं स्यात् व्योमं पंजरकूटयोः ।
शेषं पूर्ववदुद्दिष्टं रसभूम्यैवमेव तु ॥ ७३ ॥

त्रयोदशांशे विष्कंभे आयामे च तथैव हि ।
भूतांशं गर्भगेहं तु गृहपिण्डी द्विभागया ॥ ७४ ॥

अलिन्दं तु शिवांशेन खण्डहर्म्यं शिवांशकम् ।
कोष्ठायामं तु भूतांशं सर्वत्रांशेन पंजरम् ॥ ७५ ॥

कूटमंशेन कर्तव्यं हारान्तरं तथैव हि ।
अथवा त्रयोदशंतारं आयामं तु त्रिपंचकम् ॥ ७६ ॥

मुखे मुखे महाशाला सप्तांशेन प्रकल्पयेत् ।
पंचभागेन कर्तव्यं कर्तव्यं पार्श्वदीर्घकम् ॥ ७७ ॥

शेषं पूर्ववदुद्दिष्टं सर्वालंकारसंयुतम् ।
सप्तभूमिस्समाख्याता तन्महागोपुरं भवेत् ॥ ७८ ॥

सालिन्दं वा विनालिन्दं कल्पयेत्कल्पवित्तमः ।
विनालिन्दं कृतं चेत्तु कुड्यगर्भगृहं तु वा ॥ ७९ ॥

अलिन्दांशं तु संयोज्य कारयेत्तु द्विजोत्तम ! ।
आदिभूम्यैवमाख्यातं ऊर्ध्वं षट्तलवद्भवेत् ॥ ८० ॥

सप्तभूमिं समाख्यातं तेषां गण्यमथोच्यते ।
पादाधिष्ठानयोस्तुंगं मूलप्रासादमूलकम् ॥ ८१ ॥

चतुःपंचषडंशं वा सप्ताष्ट नव एव वा ।
दशैकादशभागं वा सप्ताष्ट नव एव वा ॥ ८२ ॥

दशैकादशभागं वा कृत्वैकांशोपपीठकम् ।
शेषं चानलभागं तु कृत्वैकांशं धरातलम् ॥ ८३ ॥

द्विभागं चरणोत्तुंगं कल्पयेत्कल्पवित्तमः ।
उपपीठविधानोक्त तुंगं चैवोपपीठकम् ॥ ८४ ॥

अथवा हस्तमानेन द्वारमानं यथोचितम् ।
तदुच्चं तु चतुष्पंच षट्सप्ताष्टौ तु वा भवेत् ॥ ८५ ॥

नवरुद्रविभागं वा कृत्वैकांशोपपीठकम् ।
उपपीठोन्नतं ख्यातं शेषं तु गुणभाजिते ॥ ८६ ॥

अधिष्ठानं तदेकांशं द्विभागं चरणायतम् ।
होमादुत्तरसीमान्तं द्वारमानं विधीयते ॥ ८७ ॥

पादबन्धमधिष्ठानं द्वारशोभादिना कुरु ।
स्थूप्यन्तमुत्तराद्यं च रसभागं विभाजिते ॥ ८८ ॥

प्रस्तरस्तु सपादांशं शश्यंशं गलमानकम् ।
पादोन गुणभागं तु शिरश्शेषं शिखोदयम् ॥ ८९ ॥

एवमेकतलं प्रोक्तं द्वितलं शृणु सुव्रत ! ।
उत्तरादि शिखान्तं च नवभागं विभाजिते ॥ ९० ॥

प्रस्तरोच्चं स पादांशं द्विभागं चरणोदयम् ।
मंचमानं शिवांशं स्यात् तत्समं कन्धरोदयम् ॥ ९१ ॥

शिखरं सार्धपक्षांशं सपादांशं शिखोदयम् ।
द्वितलं ह्येवमाख्यातं त्रितलं त्वधुना शृणु ॥ ९२ ॥

उत्तरादि शिखान्तं च द्वादशांशं विभाजिते ।
सपादं प्रस्तरोत्सेधं सार्धद्व्यंशांघ्रिणोदयम् ॥ ९३ ॥

प्रस्तरं शशि भागेन द्विभागं चरणोदयम् ।
मंचमानं शिवांशं स्याद् अंशं ग्रीवोदयं भवेत् ॥ ९४ ॥

सपादाक्षांशेन शिखरं एकांशं स्थूपि मानकम् ।
त्रितलं ह्येवमाख्यातं चतुर्भूमि मथोच्यते ॥ ९५ ॥

उत्तरादि शिखान्तं च द्विनवांशं विभाजिते ।
पादोन द्व्यंशमंचोच्चं गुणांशं चरणोदयम् ॥ ९६ ॥

तदर्धं प्रस्तरोत्सेधं सार्धद्व्यंशांघ्रिणोदयम् ।
तदर्धं प्रस्तरोत्सेधं द्विभागं चरणोदयम् ॥ ९७ ॥

तदर्धं मंचमानं तु तत्समं गलमुच्यते ।
गुणांशं शिखरोत्सेधं शिखामानं शिवांशकम् ॥ ९८ ॥

चतुर्हूमिं समाख्यातं पंचभूमि मतः शृणु ।
शिखान्तमुत्तराद्यं च त्रयोविंशति भाजिते ॥ ९९ ॥

द्विभागं प्रस्तरोत्सेधं सार्धाग्न्यंशांघ्रि तुंगकम् ।
तदर्धं मंचमानं स्यात् पादायामं गुणांशकम् ॥ १०० ॥

तस्यार्धं प्रस्तरोत्सेधं सार्धद्व्यंशांघ्रि तुंगकम् ।
तदर्धं मंचमानं तु द्विभागं चरणोदयम् ॥ १०१ ॥

प्रस्तरोच्चं शिवांशेन कन्धरोच्चं तथैव च ।
सार्धद्व्यंशं शिरोत्तुंगं एकादशं स्थूपि मानकम् ॥ १०२ ॥

पंचभूमिं समाख्यातं षट्तलं चाधुना शृणु ।
उत्तरादि शिखान्तं च एकोन त्रिंशदंशके ॥ १०३ ॥

द्विभागं प्रस्तरोत्सेधं पादोच्चं चतुरंसकम् ।
स त्रिपादशिवांशं तु प्रस्तरोदयमीरितम् ॥ १०४ ॥

सार्धाग्न्यंशांघ्रि तुंगं तु तदर्धं प्रस्तरोदयम् ।
सार्धद्व्यंशांघ्रि तुंगं तु तस्यार्धं प्रस्तरोदयम् ॥ १०५ ॥

द्विभागं चरणोत्सेधं तस्यार्धं मंचमानकम् ।
शिवांशं गलमानं तु सार्धद्व्यंशं शिरोदयम् ॥ १०६ ॥

स पादांशं शिखामानं सप्तभौममथोच्यते ।
उत्तरादि शिखान्तं च मानं षट्त्रिंशदंशके ॥ १०७ ॥

स पादिभागमंचोच्चं सार्धवेदांशमंघ्रिकम् ।
द्विभागं प्रस्तरोच्चं तु वेदांशं चरणोदयम् ॥ १०८ ॥

पादोनं द्विभागमंचं स्यात् सार्धाग्न्यंशांघ्रि तुंगकम् ।
पादोन द्व्यंशमंचोच्चं गुणांशं पादमानकम् ॥ १०९ ॥

सार्धांशं प्रस्तरोत्सेधं सार्धाक्षांशांघ्रि तुंगकम् ।
तदर्धं मंचमानं तु द्विभागं तलिपायतम् ॥ ११० ॥

प्रस्तरं शशिभागेन शिवांशं गलमानकम् ।
पादहीनाग्निभागं तु शिरश्शेषं शिखोदयम् ॥ १११ ॥

एवं सप्ततलं ख्यातं अलंकारमथोच्यते ।
मण्टपसा यथा द्वारशालां कुर्याद् द्विजोत्तम ॥ ११२ ॥

दण्डं वा द्वारशाला स्याद् प्रासादं सदनाकृतिः ।
मालिकाकृति कर्तव्यं द्वारहर्म्यं द्विजोत्तम ! ॥ ११३ ॥

शालाकारं प्रकर्तव्यं द्वारगोपुरमुच्यते ।
सर्वे वै गोपुराभं वा कल्पयेत्कल्पवित्तमः ॥ ११४ ॥

तेष्वादौ द्वारशोभं तु वक्ष्येऽहं द्विजसत्तम ! ।
एकद्वित्रितलं वापि सर्वालंकारसंयुतम् ॥ ११५ ॥

मुखे मुखे महानासी पार्श्वयोर्वंशनासिका ।
वस्वकृत्याल्पनासाढ्यं प्रागुक्तविधिना द्विज ! ॥ ११६ ॥

युग्मस्थूपि समायुक्तं लूपारोहशिरस्तु वा ।
मण्टपाकृतिकं वापि श्रीकान्तं तदुदाहृतम् ॥ ११७ ॥

शालाकारशिरस्तस्मिन् षण्णासीमुखपृष्ठयोः ।
पाश्वयोर्वंशनासाढ्यं अयुग्मस्थूपसमन्वितम् ॥ ११८ ॥

अन्तः पादोत्तरैर्युक्तं इतिकान्तमिदं परम् ।
मुखे मुखे च षण्णासी पार्श्वयोर्वंशनासिका ॥ ११९ ॥

सभाकारं शिरस्कन्धं कान्तं विजयमेव हि ।
एवं त्रिविधनीत्या तु द्वारशोभाः प्रकल्पयेत् ॥ १२० ॥

मुखे मुखे महानासी पार्श्वयोश्च तथैव च ।
अर्धकोटि चतस्राढ्यं पंजरं च तदाकृतिः ॥ १२१ ॥

शालाकारं शिरोपेतं अयुग्मं स्थूपिसंचितम् ।
विजयं विशालमेतद्धि विशालायाममुच्यते ॥ १२२ ॥

अर्धकोटिसभ्द्रागं भद्रनासी मुखे मुखे ।
पार्श्वयोर्वंशनासाढ्यं शिरोभद्रसमन्वितम् ॥ १२३ ॥

पादं प्रत्यल्पनासाढ्यं सर्वावयवसंयुतम् ।
विप्रतीकान्तलंकारं वक्ष्यते तु विशेषतः ॥ १२४ ॥

पूर्ववद्भूमिभागं च चतुर्दिग्भद्रसंयुतम् ।
महानासी चतस्राढ्यं शिरोभद्रसमन्वितम् ॥ १२५ ॥

अन्तः पादोत्तरैर्युक्तं अयुग्मस्थूपिकान्वितम् ।
त्रिविधा द्वारशालास्याद् द्वारप्रासादमुच्यते ॥ १२६ ॥

अन्तः पादोत्तरैर्युक्तं मन्धराद्यैरलंकृतम् ।
द्वारोर्ध्वे रंगसंयुक्तं द्वारं तद्भद्रसंयुतम् ॥ १२७ ॥

पूर्वे परे महानासी पार्श्वयोर्वंशनासिका ।
स्वस्तिका कृतिनासाढ्यं चतुष्पंजरसंयुतम् ॥ १२८ ॥

कूटकोष्ठदिसर्वांगं प्रागुक्त विधिना कुरु ।
श्रीकेशालंकृतं वक्ष्ये भूमिभागादि पूर्ववत् ॥ १२९ ॥

पूर्वे परे च शालायां सभद्रं भद्रनासिका ।
नानामसूरकस्तम्भं वेदिजालकतोरणैः ॥ १३० ॥

अन्तः पादोत्तरैर्युक्तं मध्यावरणसंयुतम् ।
पार्श्वयोर्दण्डवक्त्राढ्यं क्षुद्रनासीविभूषितम् ॥ १३१ ॥

शालाकारं शिरोपेतं जालकादिविभूषितम् ।
केशविशालालंकारं भूमिभागादि पूर्ववत् ॥ १३२ ॥

पार्श्वयोश्च मुखे पृष्ठे महानासी चतुष्टयम् ।
अयुग्मस्थूपि संयुक्तं द्वारप्रासादकं त्रयम् ॥ १३३ ॥

वक्ष्येऽहं द्वारहर्म्यस्य लक्षणं द्विजसत्तम ! ।
प्रागुक्तवत्प्रकर्तव्यं भूमिभागे द्विजोत्तम ! ॥ १३४ ॥

सभाशिखरसंयुक्तं स्वस्तिकाकृतिनासिकाम् ।
शिखरं चाष्टनासाढ्यं अयुग्मस्थूपिसंयुतम् ॥ १३५ ॥

स्वस्तिकं चेति विख्यातं दिशा शान्तिकमुच्यते ।
मुखे मुखे च भद्रांगं शिरश्चायतमण्डनम् ॥ १३६ ॥

चतुर्दिक्षु महानासी विदिक्षु क्षुद्रनासिका ।
अन्तः पादोत्तरैर्युक्तं अयुग्मस्थूपिकान्वितम् ॥ १३७ ॥

कूटादिभूमिभागं च प्रागिवैव प्रकल्पयेत् ।
पुरे परे महानासी सतारे द्व्यंशनीव्रकम् ॥ १३८ ॥

शालाकार्या शिरः कार्यं अयुग्मस्थूपिकान्वितम् ।
शालाक्रान्तं संयुक्तं नानालंकारशोभितम् ॥ १३९ ॥

नानाधिष्ठान चरणैः युक्तं तत्सोपपीठकम् ।
द्वारहर्म्यं त्रिधा प्रोक्तं शृणु गोपुरलक्षणम् ॥ १४० ॥

चतुर्दिग्भद्रसंयुक्तं अन्तः पादोत्तरैर्युतम् ।
शालाकारं शिरोयुक्तं भद्रनासी मुखे मुखे ॥ १४१ ॥

पार्श्वयोश्च महानासी पार्श्वयोर्द्विर्द्विनासिकाः ।
मातृखण्डमिदं ख्यातं श्रीविशालमथ शृणु ॥ १४२ ॥

पूर्ववद्भूमिभागं च मूलकन्तु करीकृतम् ।
शीर्षं च तसाकारं सभाकारमथापि वा ॥ १४३ ॥

नानामसूरकस्तम्भ वेदिकाभिरलंकृतम् ।
चतुर्दिशि महानासी विदिक्षु क्षुद्रनासिकाः ॥ १४४ ॥

चतुर्मुखं ततो वक्ष्ये भूमिभागादि पूर्ववत् ।
दिशिभद्रसमायुक्तं मध्यवारणसंयुतम् ॥ १४५ ॥

नानामसूरकस्तम्भं वेदिकादिरलंकृतम् ।
सभाकारशिरोवापि शालाकारमथापि वा ॥ १४६ ॥

मुखे मुखे महानासी पाश्वयोर्द्विर्द्विनासिकाः ।
अन्तः पादोत्तरैर्युक्तं प्रस्तरे तु तलं प्रति ॥ १४७ ॥

अन्तस्सोपानसंयुक्तं त्रिविधं द्वारगोपुरम् ।
अलीन्दंशं तु कुड्यं वा वर्षस्थलमथापि वा ॥ १४८ ॥

तुलाद्यैः प्रतरावधि अलीन्दांगं यथोचितम् ।
शालाकारं सभागं वा मालिका कृतिरेव वा ॥ १४९ ॥

द्वयेष्विष्टयकद्वारे कृततत्रैव प्रकल्पयेत् ।
बाह्ये बाह्येंघ्रियस्थाप्य मध्ये मध्ये युतं तु वा ॥ १५० ॥

गृहपिण्डिं गर्भगेहं च प्रागिवैव प्रकल्पयेत् ।
अलीन्दं हारयोर्माने विवृत्तांघ्रिकमेव वा ॥ १५१ ॥

प्रस्तरोद्दिष्टभूम्यन्तः सोपानादिसमन्वितम् ।
कूटकोष्ठाद्यलंकारं ऊर्ध्वस्थवत् प्रकल्पयेत् ॥ १५२ ॥

भूमिभागमलंकारं गलान्तं परिकल्पयेत् ।
शीर्षदण्डकशालाभं शालाकारं तदुच्यते ॥ १५३ ॥

लुपारो व्योक्तमांगं यत् सभाकारं समुच्यते ।
प्रस्तरं प्रतिसंछाद्यं मण्ड्यं यश्वीष्टरं विना ॥ १५४ ॥

मालिका कृतिकं ख्यातं मण्टपे तु परस्परम् ।
गोपुरं ह्येवमाख्यातं परिवारमथ शृणु ॥ १५५ ॥

इत्यंशुमान्काश्यपे गोपुरलक्षणपटलः (चतुश्चत्वारिंशः) ॥ ४४ ॥