अंशुमत्काश्यपागमः/मण्टपलक्षणविधिपटलः ४३

← पटलः ४२ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ४४ →


शिरस्सन्धानमीशेन मकुटं कवचेन तु ।
अस्त्रेण हस्तसन्धानं पादौ सद्येन सन्धयेत् ॥ १ ॥

पादाद्यंगानि सर्वाणि आत्मवत्परिकल्पयेत् ।
आदौ पश्चात्तु संधानं क्रमात्संपूर्णमाचरेत् ॥ २ ॥

उपांगं तु ततः कुर्याद् प्रत्यंगं तु ततः कुरु ।
अष्टत्रिंशत्कलान्यासं स्थानमंगमुदाहृतम् ॥ ३ ॥

वस्त्रमाभरणं शस्त्रं सूत्रं चोपांगमिष्यते ।
धर्मतालात्त्रितालान्त श्रेष्ठान्तराधमं त्रिधा ॥ ४ ॥

उत्तमं दशतालाख्यं चतुर्विंशच्छतांगुलम् ।
मध्यमं दशतालं स्या भनुपंक्त्यांगुलं भवेत् ॥ ५ ॥

कलाधिकशतांगुल्यं अधमम् दशतालकम् ।
सद्वादशशतं भागं नव तालोत्तमं भवेत् ॥ ६ ॥

अष्टोत्तरशतांशं तु मध्यमं नवतालकम् ।
कन्यसं नवतालं स्याद् वेदाधिकशतं भवेत् ॥ ७ ॥

तालं प्रत्येवमेवं तु क्रमाद्वेदांगुलं हरेत् ।
उत्तमं दशतालेन ब्रह्मविष्णुमहेश्वरान् ॥ ८ ॥

मध्यमं दशतालेन उमां सरस्वतीं तथा ।
उषाभूमी च दुर्गां च लक्ष्मी वै मातरस्तथा ॥ ९ ॥

गुहं शतमखं चैव चण्डेशं क्षेत्रपालकम् ।
कन्यसं दशतालेन कारयेद्द्विजसत्तम ! ॥ १० ॥

वसवश्चाष्टमीमूर्तीश्च विद्येशान्लोकपालकान् ।
अन्ये च देवताश्चैव नवतालोत्तमेन तु ॥ ११ ॥

यक्षाप्सरगणाश्चैव अष्टमूर्ती मरुद्गणाः ।
पंचतालोत्तमेनैव विघ्नेशं कारयेद्बुधः ॥ १२ ॥

तन्मध्यमाधमेनैव सर्वभूतगणान्कुरु ।
बालास्तु वेदतालेन त्रितालेनैव किंनरः ॥ १३ ॥

किं पुरुषादयश्चैव त्रितालेनैव कारयेत् ।
एवं तालक्रमं प्रोक्तं बेराणामनुकूल्यकम् ॥ १४ ॥

अथ वक्ष्ये विशेषेण मण्टपानां तु लक्षणम् ।
प्रासादे त्वेकभूमौ तु प्रोच्यते मुखमण्टपम् ॥ १५ ॥

जातिश्छन्दविकल्पं च आभासानां तथैव च ।
प्रासादाभिमुखे चैव दिशासु विदिशासु च ॥ १६ ॥

ग्रामादीनां तु मध्ये वा दिशासु विदिशासु च ।
उद्याने वा नदी तीरे तटाकर्तार एव वा ॥ १७ ॥

देवार्थं मण्टपं कुर्यात् यथेष्टं मुखसंयुतम् ।
प्रासादस्याग्रके कुर्यात् मण्टपं चतुरश्रकम् ॥ १८ ॥

मुखमण्टपमादौ तु प्रतिमा मण्टपं तथा ।
स्नपनार्थं तृतीयं तु नर्तनान्तु चतुर्थकम् ॥ १९ ॥

तेषु प्रथमं प्राग्वत् द्वितीयादिमिहोच्यते ।
अन्तर्मण्डलहारादि अन्तर्हारान्त वा कुरु ॥ २० ॥

मण्टपं तु त्रयं कल्प्य शेषं बाह्ये यथेष्टदिक् ।
मण्टपान्मण्टपान्तं तु सालाद्वा मण्टपान्तकम् ॥ २१ ॥

अन्तरालमिति ख्यातं आदौ तल्लक्षणं शृणु ।
एकद्वित्रिचतुष्पंच षट्सप्ताष्टकरं तु वा ॥ २२ ॥

नवधर्मकरं वापि रुद्रहस्तमथापि वा ।
अन्तरालविशालं तु रुद्रसंख्याः प्रकीर्तिताः ॥ २३ ॥

यत्र यन्मण्टपं कुर्यात् तस्मिन्भक्त्या विशेषतः ।
एकद्वित्रिचतुष्पंच भक्त्या वाभ्यन्तरालकम् ॥ २४ ॥

सावकाशान्तरालं वा भित्तिबन्धमथापि वा ।
भित्तिबन्धान्तरालं चेत् पार्श्वयोर्वेशसंयुतम् ॥ २५ ॥

एकद्वित्रियपादं वा वेशं भक्त्यैकमेव वा ।
पार्श्वयोर्मध्यमे द्वारं जालकं वा प्रकल्पयेत् ॥ २६ ॥

उत्तरे जलधारां च स्नानार्थं परिकल्पयेत् ।
अयुग्मकां वा भित्तिर्वाऽभ्यन्तरालं द्विजोत्तम ! ॥ २७ ॥

अधिष्ठानादि सर्वांगं मण्टपस्य समं भवेत् ।
अथवा वेशहीनं तु मण्टपस्य समम् भवेत् ॥ २८ ॥

अन्तरालं समाख्यातं शृणुमण्टपमानकम् ।
त्रिहस्तं तु समारभ्य द्विद्विहस्तविवर्धनात् ॥ २९ ॥

यावदेकोन विंशं तु नवधा मण्टपस्ततम् ।
आभास सदनानां तु आभासं मण्टपस्त्विमे ॥ ३० ॥

एकविंशति हस्तादि द्विद्विहस्तविवर्धनात् ।
सप्तत्रिंशति हस्तान्तं विकल्पं नवधा भवेत् ॥ ३१ ॥

आभासानां तु तद्योग्यं स्वस्वयोग्यमथापि वा ।
नवत्रिंशत्करारभ्य द्विद्विहस्त विवर्धनात् ॥ ३२ ॥

पंचाधिकं तु पंचाशत् करान्तं छन्दमुच्यते ।
सप्तपंचाशदारभ्य द्विद्विहस्तविवर्धनात् ॥ ३३ ॥

साग्निसप्तति हस्तान्तं विस्तृतं जातिरुच्यते ।
तद्विस्तारसमं दीर्घं समश्रं मण्टपं भवेत् ॥ ३४ ॥

अध्यर्ध हस्तमारभ्य षट्षडंगुल वर्धनात् ।
पंचहस्तावधिर्यावत् भक्तिव्यासं त्रिपंचधा ॥ ३५ ॥

अर्धहस्तं समारभ्य यावत्पंचकरावधि ।
गुणांगुल विवृद्ध्या तु भक्तिव्यासं प्रकल्पयेत् ॥ ३६ ॥

सार्ध द्विहस्तमारभ्य षट्षडंगुल वर्धनात् ।
अष्टहस्तावधिर्यावत् त्रयोविंशांघ्रिभेदकम् ॥ ३७ ॥

उपानादुत्तरान्त स्व गुणांगुल विवर्धनात् ।
स्तम्भानामुदयं ह्येवं स्तम्भव्यासमथोच्यते ॥ ३८ ॥

वस्वंगुलं समारभ्य अर्धांगुलविवर्धनात् ।
एकोनविंशमात्रान्तं त्रयोविंशांघ्रिविस्तरम् ॥ ३९ ॥

पादोच्चं भानुरुद्रांशे दशनवाष्टांश वा भजेत् ।
मूलतारं तदेकांशं तत्तदंशो नवाग्रकम् ॥ ४० ॥

तलीपार्धतलोत्तुंगं सामान्यं सर्वमण्टपम् ।
तलिपोच्चं तु भूतांशे द्विभागं वा तलोदयम् ॥ ४१ ॥

अंघ्रितुंगाग्निवेदैक भागं वापि मसूरकम् ।
सोपपीठमधिष्ठानं केवलं वा मसूरकम् ॥ ४२ ॥

धरातल समोच्चं वा द्विगुणं त्रिगुणं तु वा ।
उपपीठोदयं ख्यातं उपपीठोच्छ्रयं तु वा ॥ ४३ ॥

उपपीठमधिष्ठानं चरणं प्रस्तरं तथा ।
नीव्रवेशमलंकारं गण्यं प्रागिव विद्यते ॥ ४४ ॥

भक्तित्रयसमायुक्तं षोडशस्तम्भसंयुतम् ।
कलाल्पनासिकोपेतं मध्ये कूटं तु एव वा ॥ ४५ ॥

मण्डितं वाथ सर्वत्र चतुर्द्वार युतं तु वा ।
इष्टदिग्द्वारमेवं वा द्वयजालककोष्ठदिक् ॥ ४६ ॥

बाह्ये सोपानसंयुक्तं चित्रं तत्तोरणादिभिः ।
तोरणादि विहीनं वा कल्प्येवं प्रथमं भवेत् ॥ ४७ ॥

चतुर्भक्त्या विशालं तु इष्टदिग्द्वारसंयुतम् ।
पूर्वे परे द्विभक्त्यैकं भक्त्या विस्तृत नीव्रकम् ॥ ४८ ॥

मध्यस्थांघ्रिं परित्यज्य ऊर्ध्वे कूटद्विभक्तिकम् ।
भानुद्विगुणसंख्यांघ्रि युक्तं विंशतिनासिका ॥ ४९ ॥

द्वाराशासु च सोपानं कर्णे लांगल भित्तिकम् ।
वसुपंजरसंयुक्तं द्वितीयं मण्टपं भवेत् ॥ ५० ॥

पंचभक्त्या युगाश्रं तु मध्ये कूटं त्रिभागया ।
मण्टपं परित्ॐशेन द्वात्रिंशच्चरणान्वितम् ॥ ५१ ॥

भानुद्विगुणनासाढ्यं पंजराष्टकसंयुतम् ।
इष्टदिग्द्वारसंयुक्तं द्वारान्यत्रैव कुड्यकम् ॥ ५२ ॥

द्वारस्थाने तु सोपानं सर्वालंकारसंयुतम् ।
कुड्यं कुंभलताद्यैस्तु भूषितं तु तृतीयकम् ॥ ५३ ॥

चतुरश्रं तु षड्भक्त्या मध्ये कूटं द्विभागया ।
तत्कूटमष्टपादाढ्यं मध्ये रंगसमायुतम् ॥ ५४ ॥

चतुर्द्वारसमायुक्तं इष्टदिग्द्वारमेव वा ।
द्विभक्तिविस्तृतं चैव भक्त्या नीव्रं समायुतम् ॥ ५५ ॥

इष्टदिग्भद्रसंयुक्तं चतुर्दिग्भद्रमेव वा ।
चत्वारिंशति चाष्टांघ्रि युक्तं वा तत्र योजयेत् ॥ ५६ ॥

चतुर्विंशाल्पनासाढ्यं कुड्यं कुंभलतान्वितम् ।
तोरणाष्टकसंयुक्तं चतुर्थं मण्टपान्वितम् ॥ ५७ ॥

चतुरश्रं तु सप्तांशं षष्ठ्यंघ्रिकसमायुतम् ।
नवभागेन तन्मध्ये कूटं वा मण्दितां कणम् ॥ ५८ ॥

द्वात्रिंशदल्पनासाढ्यं चतुर्दिग्भद्रसंयुतम् ।
त्रिभागैकांशविस्तारं निर्गमं मुखभद्रकम् ॥ ५९ ॥

मध्ये रंगसमोपेतं इष्टदिक्कुड्यसंयुतम् ।
सर्वालंकारसंयुक्तं पंचमं परिकीर्तितम् ॥ ६० ॥

युगाश्रमष्टभक्त्या तु अशीति चरणान्वितम् ।
चतुर्भागेन तन्मध्ये ह्यूर्ध्वकूटं प्रकल्पयेत् ॥ ६१ ॥

चतुर्दिग्द्वारसंयुक्तं मध्येकांशेन कूटकम् ।
सर्वालंकारसंयुक्तं षष्ठमं मण्टपं भवेत् ॥ ६२ ॥

नवभक्त्या युगाश्रं तु शतं पादसमन्वितम् ।
गुणांशकांशविंशं तु नीव्रभद्रं चतुश्चकः ॥ ६३ ॥

चतुर्द्वारसमायुक्तं इष्टदिग्द्वारमेव वा ।
मुखे सोपानमग्न्यंशैः व्यासदीर्घसमन्वितम् ॥ ६४ ॥

मध्यरंगसमायुक्तं षडष्टौ नासिकान्वितम् ।
सर्वालंकारसंयुक्तं सप्तमं मण्टपं भवेत् ॥ ६५ ॥

चतुरश्रं दशांशं तु भान्वाधिकदशांशकम् ।
मध्ये चैवाष्टदिशि च नवकूटसमायुतम् ॥ ६६ ॥

कूटं पूरिवृतांशेन अन्तरालं प्रकल्पयेत् ।
प्राग्वन्मुखेन सोपानं दिशि भद्रसमन्वितम् ॥ ६७ ॥

सर्वालंकारसंयुक्तं अष्टमं मण्टपं भवेत् ।
रुद्रभक्त्या युगाश्रं तु मध्येऽग्न्यंशेन कूटकम् ॥ ६८ ॥

मुखे सोपानसंयुक्तं इष्टदिग्भद्रसंयुतम् ।
द्वारान्यत्रैव कुड्यं वा इष्टभागावसानकम् ॥ ६९ ॥

सर्वालंकारसंयुक्तं नवमं मण्टपं भवेत् ।
द्वादशांशे युगाश्रं तु मध्ये द्व्यंशेन कूटकम् ॥ ७० ॥

मण्टपस्य तु बाह्ये तु अंशेनालिन्दमिष्यते ।
चतुर्द्व्यंशेन विस्तारं निष्क्रान्तं स्याच्चतुर्दिशि ॥ ७१ ॥

साष्टषष्टिशतं पादं मध्यरंगे तु कल्पयेत् ।
सर्वालंकारसंयुक्तं दशमं मण्टपं भवेत् ॥ ७२ ॥

युगाश्रं त्रयोदशांशेन मध्येऽग्न्यंशेन कूटकम् ।
इष्टदिक्कुड्यसंयुक्तं चतुर्दिग्भद्रसंयुतम् ॥ ७३ ॥

प्राङ्मुखे नन्दभागेन मुखभद्रं प्रकल्पयेत् ।
सद्वयं नवतीयुक्तं अंघ्रि च समन्वितम् ॥ ७४ ॥

तोरणैर्जालकैश्चान्यैः अलंकारसमन्वितम् ।
सर्वालंकारसंयुक्तं रुद्रांशं मण्टपं भवेत् ॥ ७५ ॥

मनुभागैर्युगाश्रं तु मध्ये द्व्यंशेन कूटकम् ।
वेदाधिक्यं तु विंशांशं द्विशतं चरणान्वितम् ॥ ७६ ॥

मण्टपं कुड्यसंयुक्तं चतुर्दिग्भद्रसंयुतम् ।
नन्दादि भद्रसंयुक्तं इष्टभक्त्या विशेषतः ॥ ७७ ॥

सर्वालंकारसंयुक्तं द्वादशं मण्टपं भवेत् ।
त्रिपंचभित्तिविस्तारं आयतं चतुरश्रकम् ॥ ७८ ॥

मध्ये कूटं गुणांशेन ऊर्ध्वकूटसमन्वितम् ।
गुणांशं विस्तृतायामं मुखभद्रसमन्वितम् ॥ ७९ ॥

इष्टदिक्कुड्यसंयुक्तं अन्यत्रांघ्रिसमन्वितम् ।
तोरणैर्जालकैश्चान्यैः अलंकृत्य समन्वितम् ॥ ८० ॥

पंचाशद्द्वयवाधिक्यं द्विशतं चरणान्वितम् ।
सर्वालंकारसंयुक्तं मण्टपं तु त्रयोदश ॥ ८१ ॥

एवं हि मानभेदेन युगाश्रं मण्टपं विदुः ।
इत ऊर्ध्वं चतुस्त्रिंशत् दशसीमावसानकम् ॥ ८२ ॥

चतुरश्रं मण्टपं कुर्यात् सर्वालंकारसंयुतम् ।
भित्तिस्तम्भं च परितः कर्तुरिच्छावशान्नयेत् ॥ ८३ ॥

समाश्रमण्टपं कुर्यात् आयताश्रमथोच्यते ।
विस्तारभित्तितुल्यं वा यातं वा यतभित्ति यः ॥ ८४ ॥

विस्तारं भक्तिमानं तु गुणांगुलविवर्धनात् ।
सप्तविंशांगुलं यावत् तावत्पादेन वोदितम् ॥ ८५ ॥

वृद्ध्या क्षीणं तु यावाऽथ मण्टपानां करोदितम् ।
नाश्रये तु करं पूर्य मण्टपं तु समाचरेत् ॥ ८६ ॥

अंशेष्टपादसंख्या तु प्राग्वदायादिमाचरेत् ।
आयादीष्ट शुभौपेतं मण्टपस्य तदायतम् ॥ ८७ ॥

तस्योचित विभागं तु कृत्वा वा मण्टपं कुरु ।
भक्तित्रयविशालं तु पंचभक्त्यायतान्वितम् ॥ ८८ ॥

एकपार्श्वे पुरे वाथ द्वारमंशेन कल्पयेत् ।
पार्श्वे वारयुतं चेत्तु त्रिंशदंघ्रि समन्वितम् ॥ ८९ ॥

तदेव परित्ॐशेन मण्टपाभ्यन्तरस्य च ।
लूपारोहणकं कुर्यात् अष्टविंशांघ्रिसंयुतम् ॥ ९० ॥

पुरे वारयुतं चेत्तु चरणं चाष्टविंशतिः ।
अथवा वारहीनं तु त्रिरष्टचरणान्वितम् ॥ ९१ ॥

पादं प्रत्यल्पनास्याड्यं वेदिजालकतोरणम् ।
नानाकुंभलताद्यैस्तु कल्पितं प्रथमं भवेत् ॥ ९२ ॥

चतुर्भक्ति विशालं तु आयामे तु षडंशकम् ।
मण्टपं परित्ॐशेन कूटमभ्यन्तरेतरम् ॥ ९३ ॥

द्विभक्ति विस्तृतं चैक भक्त्यायत मुखभद्रकम् ।
द्वात्रिंशच्चरणोपेतं मण्टपस्य द्वितीयकम् ॥ ९४ ॥

विशाले पंचभक्तिः स्या आयामे सप्तभक्ति यः ।
त्रिपंचभक्ति विस्तारं दीर्घमध्ये सभा भवेत् ॥ ९५ ॥

मण्टपं परित्ॐशेन इष्टदिग्भद्रसंयुतम् ।
चत्वारिंशति पाड्यं वा सर्वालंकारसंयुतम् ॥ ९६ ॥

वेदिकाद्यैः समायुक्तं तृतीयं मण्टपं भवेत् ।
रसभक्तिविशालं तु वसुभक्त्या यताश्रकम् ॥ ९७ ॥

द्विचतुर्भक्तिविस्तारं दीर्घं मध्ये सभोदयम् ।
मण्टपं परितोऽक्षांशं इष्टदिङ्मुखभद्रकम् ॥ ९८ ॥

षष्टिसंख्यांघ्रिसंयुक्तं नासिकादि विभूषितम् ।
नानालंकारसंयुक्तं चतुर्थं मण्टपं भवेत् ॥ ९९ ॥

तारे सप्तविभागे तु नवभक्त्यायतान्वितम् ।
त्रिभक्तिविस्तृतं पंच भक्त्यायामं सभांकणम् ॥ १०० ॥

मण्टपं परितोक्षांशं इष्टदिग्भद्रसंयुतम् ।
त्रिभक्तिविस्तृतं चैक भक्त्यायाममुखभद्रकम् ॥ १०१ ॥

सप्ततिः स्याद्द्वयाधिक्यं पादमित्यभिधीयते ।
सर्वालंकार संयुक्तं पंचमं मण्टपं भवेत् ॥ १०२ ॥

वसुभक्तिविशालं तु दशभक्त्यायतान्वितम् ।
द्विचतुर्भागविस्तारं दीर्घमध्ये सभोदयम् ॥ १०३ ॥

परितो मण्टपोऽग्न्यंश मध्यस्तम्भ विवर्जितम् ।
इष्टदिङ्मुखभद्रांशं चतुर्द्व्यंशे च सुव्रत ! ॥ १०४ ॥

षण्णवत्यंघ्रिसंयुक्तं सर्वालंकारसंयुतम् ।
षष्ठमं मण्टपं ह्येवं प्रोच्यते तु शिवार्हकम् ॥ १०५ ॥

नवभक्त्या विशालं तु रुद्रभक्त्यायतान्वितम् ।
एकांशं भक्ति विस्तारं दीर्घमध्ये सभा भवेत् ॥ १०६ ॥

परितो वेदभागं तु मण्टपं परिकल्पयेत् ।
त्रिचतुर्भागविस्तारं दीर्घं स्यान्मुखमण्टपम् ॥ १०७ ॥

सर्वालंकारसंयुक्तं सप्तमं मण्टपं भवेत् ।
दशभक्त्याविशालं तु द्विभक्त्याधिकमायतम् ॥ १०८ ॥

द्विचतुर्भागायतं तारं तयोर्मध्ये सभांकणम् ।
परितो लिन्दमेकांशं मण्टपाद्द्व्यंशबाह्यतः ॥ १०९ ॥

तद्बाह्येऽलिन्दमेकांशं युक्त्यान्तस्तम्भसंयुतम् ।
इष्टदिग्भद्रसंयुक्तं अष्टमं मण्टपं भवेत् ॥ ११० ॥

तदेव शिवांशाधिकं विस्तृतायामे त्रिपंचांशेन सभांकणम् ।
परितोऽलिन्दमेकांशं मण्टपं द्व्यंशबाह्यतः ॥ १११ ॥

तद्बाह्येऽलिन्दमेकांशं नवमं मण्टपं भवेत् ।
आदित्यांशविशाले तु द्विभागाधिकमायतम् ॥ ११२ ॥

चतुष्षडंशम्ध्ये तु सभायारं कणं तु वा ।
बाह्यकेऽलिन्दमेकांशं मण्टपे द्व्यंशबाह्यके ॥ ११३ ॥

सान्ततालीन्दमेकांशं दशमं मण्टपं भवेत् ।
विस्तृते तु जगत्यांशे तद्द्व्यंशाधिकं मायतम् ॥ ११४ ॥

त्रिपंचांशे सभामध्ये तस्मालिन्दांशमावृतम् ।
मण्टपेऽत्र विमानं तु तद्बाह्येऽलिन्दभागया ॥ ११५ ॥

आलिन्दं तु विना वापि मण्टपं तु युगांशकम् ।
भद्रमण्टपमाख्यातं इष्टदिग्भद्रसंयुतम् ॥ ११६ ॥

मन्वंशे तु च विस्तारे द्विभागाधिकमायतम् ।
द्विचतुर्भागधायामं तारमध्ये सभांकणम् ॥ ११७ ॥

तद्बाह्येऽलिन्दमेकांशं मण्टपं चतुरश्रकम् ।
मण्टपाद्बाह्यतोऽलिन्दं भागमेवं विधीयते ॥ ११८ ॥

चतुर्दशं मण्टपं ख्यातं इष्टदिग्भद्रसंयुतम् ।
त्रिपंचांशे विशालं तु द्विभागाधिकमायतम् ॥ ११९ ॥

तिथ्यंशमण्टपं मध्ये सभां कणमिति स्मृतम् ।
अंकणावृतमेकांशं अलिन्दं तु विधीयते ॥ १२० ॥

तद्बाह्ये चतुरश्रं स्यात् मण्टपं प्रविधीयते ।
तस्यावृतांशतोऽलिन्दं त्रयोदशं मण्टपं भवेत् ॥ १२१ ॥

षोडशांशे विशालं तु द्विभागाधिकमायतम् ।
चतुर्विंशांकणोपेतं बाह्येऽलिन्दांश मानतः ॥ १२२ ॥

तद्बाह्ये चतुरंशेन मण्टपं स्याद्विशेषतः ।
तस्या वृतांशतोऽलिन्दं चतुर्दशं मण्टपं भवेत् ॥ १२३ ॥

जात्यादि आयतं विद्यात् तत्तद्विन्यासमुच्यते ।
जालकं च कवाटं च ग्राह्यं युक्त्या विशेषतः ॥ १२४ ॥

इष्टदिक्चरणं कुड्यं कल्पयेत्परितो बुधः ।
एवं हि मनुभेदं च सायतं मण्टपं विदुः ॥ १२५ ॥

त्रिचतुष्पंचषट्सप्तचरणव्यास एव वा ।
सर्वेषां मण्टपानां तु भित्तिव्यासं तु पंचधा ॥ १२६ ॥

पादायामविशाले न दारुपादेन वाप्ययम् ।
सर्वेषां मुखभद्राणां अंकणं मण्टपाकृतिः ॥ १२७ ॥

पार्श्वे सोपानसंयुक्तं हस्तिहस्त विभूषितम् ।
पंचषट्सप्तनन्दाष्ट दण्डं वा तस्य विस्तृतम् ॥ १२८ ॥

स पादं सार्धदण्डं वा हस्ति हस्तोदयं तथा ।
यष्टिनाभ्युतकल्प्येवं वस्वश्रं गजहस्तकम् ॥ १२९ ॥

तनीव्र किंपुरीरास्यं लम्बाग्रं कुक्कुटाकृतिः ।
मूलादष्टांशहीनं तद् अग्रव्यासं क्रमात्कृशम् ॥ १३० ॥

हस्तिहस्तान्तरं विप्र ! युग्मं वा युग्मयष्टयः ।
दण्डं सपाददण्डं वा सार्ध त्रिपादपादकम् ॥ १३१ ॥

द्विदण्डं वाथ यष्टिश्च विस्तारं स्यात्तदेव हि ।
तेन द्विगुण नीव्रं तु अधस्तान्मण्टपं भवेत् ॥ १३२ ॥

यथेष्टरुचांगनी भागैकं भागं स्यान्ममलोदयम् ।
आदौ तस्मिन्स्थले स्थित्वा सव्यपादपुरस्सरम् ॥ १३३ ॥

सोपानारोहणं विद्यात् मर्त्यानां तु विधीयते ।
मण्टपं ह्येवमाख्यातं गोपुरं शृणु सुव्रत ! ॥ १३४ ॥


इत्यंशुमान्काश्यपे मण्टपलक्षणविधिपटलः (त्रिचत्वारिंशः) ॥ ४३ ॥