अंशुमत्काश्यपागमः/चन्द्रशेखरमूर्तिलक्षणपटलः ६६
← पटलः ६५ | अंशुमत्काश्यपागमः [[लेखकः :|]] |
पटलः ६७ → |
अथ वक्ष्ये विशेषेण चन्द्रशेखरलक्षणम् ।
केवलं गौरीसहितं आलिंगं त्रिविधं भवेत् ॥ १ ॥
केवलं गौरीसहितं सहजं गौरिसंयुतम् ।
आलिंगमेकहस्तेन देवो देवी परस्परम् ॥ २ ॥
उमालिंगमिदं ख्यातं एवं त्रिविधमुच्यते ।
केवलं समपादं तु स्थानकं सहितं तु वा ॥ ३ ॥
समभंगं वातिभंगं वा लिंगं चन्द्रशेखरम् ।
केवलं मुक्तिदं ख्यातं सहजं ह्युभयप्रदम् ॥ ४ ॥
सा लिंगमिन्दुधृन्मूर्तिं सर्वकामफलप्रदम् ।
तेष्वादौ समपादं तु स्थानकं शृणु सुव्रत ! ॥ ५ ॥
बिम्बमानोदयाः सर्वे प्रागेव परिकल्पयेत् ।
लम्बमानोपमानं च त्वधुना वक्ष्यते क्रमात् ॥ ६ ॥
प्रलम्बफलकायामं चत्वारिंशच्छिवार्धकम् ।
अष्टादशांगुलं तारं सार्धं वा द्व्यंगुलं घनम् ॥ ७ ॥
चतुष्पादसमायुक्तं पादोच्चं प्रतिमोन्नतम् ।
ऋक्षांगुलसमायुक्तं स्थापयेत्समभूतले ॥ ८ ॥
सीमासूत्रं विनिश्चित्य प्रलम्बफलकोपरि ।
पूर्वे परे च पार्श्वे च मानसूत्रं प्रसारयेत् ॥ ९ ॥
तदन्ते सुषिरं कल्प्य सूत्राण्यालम्बयेत्ततः ।
सूत्रस्यानुगुणं बिम्बं कारयेद् द्विजसत्तम ! ॥ १० ॥
पूर्वे च पार्श्वयोः पृष्ठे कायमध्ये च लम्बयेत् ।
एतानि पंचसूत्राणि ब्रह्मसूत्रमुदाहृतम् ॥ ११ ॥
कक्षान्तरे मुखान्ते च द्वौ सूत्रे च प्रलम्बयेत् ।
एवं हि नवसूत्राढ्यं स्थानकं चासमन्तथा ॥ १२ ॥
मकुटस्य तु मध्ये च ललाटस्य तु मध्यमात् ।
नासाग्र मध्यमे चैव हनोर्मध्ये तथैव च ॥ १३ ॥
हिक्काद्धृन्मध्यमाच्चैव नाभेश्चैव तु मध्यमात् ।
लिंगमध्योरुमध्यात्तु पादयोश्च तलान्तरे ॥ १४ ॥
लम्ब्यैवं पूर्वसूत्रं स्यात् अपरस्तमथोच्यते ।
मकुटस्य मध्यमाच्चकृकटीकायां तु मध्यमात् ॥ १५ ॥
ककुन्मध्याद्वंशमध्या स्फिक्पिण्डयोन्तरे तथा ।
ऊरुजान्वोश्च जंघान्तं पार्ष्णिद्वयोन्तरे तथा ॥ १६ ॥
एवमालम्बयेत्सूत्रं अपराश्रितमेव हि ।
पार्श्वयोः कर्णपाल्यन्तात् ग्रीवामध्यात्तथैव च ॥ १७ ॥
वाह्वोस्तु मध्यमालंब्य गुल्फमध्ये तु लम्बयेत् ।
देहमध्यगते नैव पंचसूत्रं प्रलम्बयेत् ॥ १८ ॥
श्रोत्राभ्यन्तरगं सूत्रं स्तनचूचुकमध्यगम् ।
पादमध्यप्रदेशिन्यां मध्यमे तु प्रलम्बयेत् ॥ १९ ॥
ऊरुजान्वोश्च जंघान्ते पार्ष्णिद्वयान्तरे तथा ।
अक्षमध्ये कटी पार्श्वे मध्ये चैव तु लम्बयेत् ॥ २० ॥
पूर्वसूत्रात्तु मौल्याग्रमध्यं द्वादशमात्रकम् ।
अपरसूत्रात्तु मौल्यग्रं मध्यं षण्मात्रमुच्यते ॥ २१ ॥
पूर्वसूत्राल्ललाटान्तं अन्तरं तु द्विमात्रकम् ।
अपरसूत्राच्छिरः पृष्ठं पादोनं तु युगांगुलम् ॥ २२ ॥
पूर्वसूत्रात्तु हन्वन्तं स यव द्व्यंशमुच्यते ।
कृकाटिकापरसूत्रं तु यवोनाग्न्यंगुलान्तरम् ॥ २३ ॥
पूर्वसूत्रात्तु हिक्कान्तं त्वभ्यन्तररसांगुलम् ।
ककुथोपरसूत्रा तु षोडशं तु यवान्तरम् ॥ २४ ॥
उरसः पूर्वसूत्रात्तु द्व्यन्तरं तु द्विमात्रकम् ।
ककुन्मध्यात्परसूत्राद्यन्तरं मनुयवार्धकम् ॥ २५ ॥
मध्योदरं स्पृशेत् पूर्वसूत्रं वै तत्समे परे ।
वंशनिम्नापरं सूत्रं पादोन द्व्यंशकान्तरम् ॥ २६ ॥
प्राक्सूत्रान्नाभिमध्यात्तु त्वन्तरं सार्धमात्रकम् ।
नाभिसूत्रसमे पृष्ठे सार्धपक्षांगुलं भवेत् ॥ २७ ॥
प्राक् सूत्रान्मेढ्रमूलान्तं गुणांगुलमुदाहृतम् ।
तत्समे त्वपरे सूत्रात् अन्तरं सार्धमात्रकम् ॥ २८ ॥
ऊरु मध्ये तु पुरतो जानुमध्ये तथैव च ।
जंघामध्ये च नलका मध्ये चैव पुरोगतम् ॥ २९ ॥
तिर्यक् सूत्रं तु संकल्प्य त्वन्तरं तु प्रमीयते ।
तत्तत्स्थाने परे चैव तिर्यक् सूत्रं प्रकल्पयेत् ॥ ३० ॥
ऊरुमध्यगसूत्रात्तु पूर्वसूत्रद्वयांगुलम् ।
तत्रैवापरसूत्रान्तं यवोन चतुरंगुलम् ॥ ३१ ॥
जानुमध्यगसूत्रात्तु पूर्वसूत्राद्रसांगुलम् ।
तत्रैव परसूत्रान्तात् पादो न पंचमात्रकम् ॥ ३२ ॥
जंघामध्यं तु प्राक् सूत्राद्वस्वंगुलमुदाहृतम् ।
तत्रैवापरसूत्रान्तं षड्विंशति यवं भवेत् ॥ ३३ ॥
प्राक्सूत्रान्नलकामध्यं सार्धवस्वंगुलं भवेत् ।
नलकापरसूत्रान्तं पादोन पंचमात्रकम् ॥ ३४ ॥
द्व्यर्धमंगुष्ठयोरग्रं पूर्वसूत्राद्विशेषतः ।
तत्सूत्रात्पार्ष्णिपर्यन्तं सार्धमन्वंशमिष्यते ॥ ३५ ॥
प्राक्सूत्रात्कायमध्यस्थ सूत्रं स्याद्द्विनवांगुलम् ।
तत्कायमध्यसूत्रात्तु शिरः पृष्ठं युगार्धकम् ॥ ३६ ॥
तत्कायमध्यसूत्रात्तु ककुत्पंचांगुलार्धकम् ।
उरोमध्यप्रदेशे तु पृष्ठे सार्ध षडंगुलम् ॥ ३७ ॥
सूत्रान्मध्योदरः पृष्ठे सार्धवेदांगुलं भवेत् ।
नाभिप्रदेशे पृष्ठे तु सार्धभूतांगुलं भवेत् ॥ ३८ ॥
कटि नीव्रं षडर्धं स्यात्सार्धाष्टांश स्फिगग्रकम् ।
ऊरुमध्यापरं वेदजानु पृष्ठं तथैव च ॥ ३९ ॥
जंघामध्ये गुणांशं तु नलका द्व्यंगुलं भवेत् ।
पार्श्वसूत्रौ च मध्यस्थं समसूत्रे तु संस्थिताः ॥ ४० ॥
पार्श्वसूत्रात्पुरो बाहु पर्यन्तं चतुरंगुलम् ।
तत्सूत्रादपरे बाहु पर्यन्तं वसुमात्रकम् ॥ ४१ ॥
पूर्वापरकरौ मध्यौ कोर्परान्तं तु लग्नकौ ।
तत्करे बाह्यविस्तृतौ चतुरंगुलमिष्यते ॥ ४२ ॥
कर्तरी परहस्ताग्रौ हिक्कासूत्रसमाभवेत् ।
मध्यांगुलाग्रमुभयोस्तनसूत्रसमं भवेत् ॥ ४३ ॥
अभयं दक्षिणं हस्तं वरदं वाममुच्यते ।
प्राक्सूत्रादभये हस्ते मध्यं पंचदशांगुलम् ॥ ४४ ॥
वरदं वामहस्तं तु अधोमुखं तु प्रकल्पयेत् ।
तलमूलं कटिं स्पृष्ट्वा मेढ्रान्तं तु च तत्करे ॥ ४५ ॥
मध्यांगुल्यग्रमालम्ब्य ऊरोर्नीव्रं युगांगुलम् ।
ऊर्ध्ववक्त्रं तु वरदात् पृष्ठनाभिसमेढ्रकम् ॥ ४६ ॥
वरदं हस्ततले मध्यात् सर्वसूत्रात्कलांगुलम् ।
कर्तरी मणिबन्धास्तु बाहु बाह्यमुखं भवेत् ॥ ४७ ॥
अथवा रुद्रभागं तु दशांगुलमथापि वा ।
कोर्परात् पूर्वसूत्रान्तं रससप्तदशांगुलम् ॥ ४८ ॥
अष्टादशांगुलं वाथ एकोन विंशदेव वा ।
ऊरुमूलाद् द्वयोरन्तः एकांगुलमुदाहृतम् ॥ ४९ ॥
ऊरोर्मध्यान्तरं विंशत् यवमानमुदाहृतम् ।
जान्वन्तरं चतुर्मात्रं जंघयोः पंचमात्रकम् ॥ ५० ॥
नलकान्तरं रसांशं तु भूतांशं गुल्फयोन्तरम् ।
पार्ष्ण्यन्तरं चतुर्मात्रं रसांशं पादतलान्तरम् ॥ ५१ ॥
पदांगुष्ठाग्रयोरन्तः व्यान्तरं वसुमात्रकम् ।
आर्जवं राजसंभावं कल्प्येवं द्विजसत्तम ! ॥ ५२ ॥
कर्तरी परहस्तौ द्वौ जटामकुटसंयुतम् ।
वामेन्दु शेखरं वाथ प्रवालसदृशं प्रभुम् ।
त्रिनेत्रं सौम्यवदनं सर्वाभरणभूषितम् ॥ ५४ ॥
पीताम्बरधरं देवं वस्त्राग्रौ नलकान्तकौ ।
उभयोः पार्श्वयोरेवं अम्बरं ऊरुमध्यगम् ॥ ५५ ॥
केवलं ह्येवमाख्यातं वामे गौरी समन्वितम् ।
तद्गौरी सहितं ख्यातं भिन्नपीठैक एव वा ॥ ५६ ॥
तदेव भंग संयुक्ते देवी देवौ परस्परम् ।
देवो वरदहस्तेन देवीं बाह्य पराश्रिताम् ॥ ५७ ॥
स्तननाभ्यन्तरं वामपार्श्वमालिंगतं कुरु ।
पार्श्वसूत्रात्परे वामबाहुमालिंगनं तु वा ॥ ५८ ॥
देवी दक्षिणहस्तेन शम्भोर्दक्षिण पार्श्वतः ।
कटिसूत्रोपरि स्पृष्ट्वा पुष्पं वामकरोद्धृतम् ॥ ५९ ॥
अथवा प्राग्वद्देवेशो देव्यास्तु दक्षिणे करे ।
रक्तोत्पलं परिग्राह्य वामहस्तं प्रलम्बितम् ॥ ६० ॥
एवमालिंगमूर्तिस्तु त्रिधा मार्गेण कल्पयेत् ।
सर्वाभरणसंयुक्तं प्रभामण्डलसंयुतम् ॥ ६१ ॥
चन्द्रशेखरमाख्यातं वृषारूढमतः शृणु ।
इत्यंशुमान्काश्यपे चन्द्रशेखरमूर्तिलक्षणपटलः (षष्षष्टितमः) ॥ ६६ ॥