प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← पटलः ६४ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ६६ →


अथ वक्ष्ये विशेषेण सोमास्कन्देश्वरं द्विज ! ।
सुखासनं यथा प्रोक्तं तथा देवो विधीयते ॥ १ ॥

देवस्य वामपार्श्वे तु पार्वती तत्सुखासने ।
शाययेद्दक्षिणं पादं वामपादं प्रलम्बयेत् ॥ २ ॥

आसनस्योपरिष्टात्तु स्फिग्मानं चतुरंगुलम् ।
ऊर्ध्वकायसमायुक्तं आसनोपरिकल्पयेत् ॥ ३ ॥

किंचिद्देवाश्रितं वक्त्रं लम्बितं भंगसंयुतम् ।
वरदं वामहस्तं तु उत्पलं दक्षिणे करे ॥ ४ ॥

किंचिद्वक्रांगुलाः सर्वे वामहस्ततलोर्ध्वगम् ।
वरदं चाति विख्यातं पुष्पधृत्सिंहकर्णवत् ॥ ५ ॥

सस्यश्यामनिभा देवी सर्वाभरणभूषिता ।
रक्ताम्बरधरा देवी छन्नवीरसमन्विता ॥ ६ ॥

अथवान्यप्रकारेण देवीभंगं वदामि ते ।
वामोरु बाह्यपीठात्तु वामहस्ते तले न्यसेत् ॥ ७ ॥

प्राग्वदुत्पलसंयुक्तं दक्षिणं हस्तमुच्यते ।
पीठात्तु दक्षिणं जानुं किंचिदुद्धृतसंयुतम् ॥ ८ ॥

त्रिचतुःपंचमात्रं वा पीठाज्जान्वन्तरं भवेत् ।
षट्सप्ताष्टांगुलं वाथ पीठाज्जान्वन्तरं भवेत् ॥ ९ ॥

एवं द्विविधरीत्या तु देवीभंगं विधीयते ।
स्त्रीमानस्योक्तमार्गेण देवीमानं तु गृह्यताम् ॥ १० ॥

स्थानकानां तु देवीनां देवीं च स्थानकं भवेत् ।
आसने चासनं ख्यातं विपरीतं विपत्करम् ॥ ११ ॥

देवी लक्षणमेवोक्तं स्कन्दलक्षणमुच्यते ।
देवी देवेशयोर्मध्ये स्थापयेत्स्कन्दमूर्तिनम् ॥ १२ ॥

देव्या हिक्कावसानान्तं स्कन्दमानं तदुत्तमम् ।
स्तनाक्षान्तं कनिष्ठ स्यात्तयोर्मध्येऽष्टभाजिते ॥ १३ ॥

नवधा स्कन्दमानं तु उत्तमादित्रयं त्रयम् ।
जात्यंशकयुतं वापि हीनं वापि प्रकल्पयेत् ॥ १४ ॥

वेदषड्धर्मभागं तु तन्मानं तु विभाजिते ।
एकांशमंगुलं ख्यातं तदष्टांशं यवं भवेत् ॥ १५ ॥

एकांगुलं शिरोमानं केशान्तं चैव तत्समम् ।
द्विभागं नेत्रसूत्रान्तं पुटान्तं चैव तत्समम् ॥ १६ ॥

गुणांशं हनुसीमान्तं ग्रीवोच्चं तु गुणांगुलम् ।
हिक्कासूत्रात्स्तनान्तं तु नवभागमुदाहृतम् ॥ १७ ॥

स्तनान्तान्नाभिसीमान्तं वस्वंगुलमुदाहृतम् ।
वामेस्तु मेढ्रमूलान्तं सप्तभागमिति स्मृतम् ॥ १८ ॥

भान्वंशमूरुदीर्घं स्यात् जानुदीर्घं द्वियंगुलम् ।
जंघादीर्घोरुतत्तुल्यं मध्यं पादतलान्वितम् ॥ १९ ॥

दशांघ्रेस्तु तलायामं बाहुदीर्घं चतुर्दश ।
कोष्ठायामं दशांशं तु तलं वेदांगुलायतम् ॥ २० ॥

युगांशं मध्यमायां सार्धहीन मनामिका ।
तत्समं तर्जनी दीर्घं कनिष्ठोच्चं गुणांगुलम् ॥ २१ ॥

अंगुष्ठायाममग्न्यंशं युगांशं तलविस्तृतम् ।
प्रकोष्ठाग्रं गुणांशं तु तन्मूलं चतुरंगुलम् ॥ २२ ॥

भूतांशं बाहुमूलं तु विस्तारं द्विजसत्तम ! ।
सार्धाष्टांशं मुख व्यासं सप्तांशं कर्णविस्तृतम् ॥ २८ ॥

कक्षयोरन्तरव्यासं त्रयोदशांगुलं भवेत् ।
भान्वंशं हृदयविस्तारं रुद्रांशं मध्यविस्तृतम् ॥ २४ ॥

श्रोणिस्थाने तु भान्वंशं कटिस्थाने त्रयोदश ।
उरुमूलविशालं तु वस्वंगुलमुदाहृतम् ॥ २५ ॥

षडंशं जानुविस्तारं जंघामूलं युगांगुलम् ।
गुणांशं नलकातारं षडंशं तलविस्तृतम् ॥ २६ ॥

पार्ष्णिव्यासं युगांशं स्याच्छेषं युक्त्या तु कल्पयेत् ।
केशान्ते वासिकोपेतं करण्डमकुटान्वितम् ॥ २७ ॥

उभयोर्हस्तयोः पुष्पं वामं वरदमेव वा ।
कटकं वाथ तद्धस्ते सिंहकर्णमथापि वा ॥ २८ ॥

दक्षिणं पुष्पहस्तं वा कपित्थाम्रफलं तु वा ।
कटिसूत्रयुतं नग्नं छन्नवीरसमन्वितम् ॥ २९ ॥

मुद्रिका चोपग्रीवादिबालभूषणभूषितम् ।
आसीनो वा स्थितो वाथ नृत्तं वा स्कन्दमाचरेत् ॥ ३० ॥

आसीने चरणौ द्वौ तु विष्टरोपरि शाययेत् ।
स्थिते पादतलौ द्वौ तु समभंगमिव स्थितौ ॥ ३१ ॥

चरणौ कुंचितौ द्वौ तु किंचिद्गमनमेव वा ।
नृत्तं चेत्सुस्थितं सव्यपादं वक्रसमन्वितम् ॥ ३२ ॥

उद्धृत्य चान्यपादं तु पीठात्सप्तांगुलावधि ।
षण्मात्रमथवा पंचमात्रान्तं वा समुद्धरेत् ॥ ३३ ॥

फलेन वरदं वामहस्त न्यस्तं तु सूपितम् ।
अथवा वामहस्तं तु फलं न्यस्त्वा प्रसारयेत् ॥ ३४ ॥

हिक्कासूत्रसमोद्धृत्य मणिबन्धोर्ध्वसीमकम् ।
द्वन्तरं लम्बसूत्रं च नृत्तमूर्तिवदाचरेत् ॥ ३५ ॥

उमास्कन्दसहितं प्रोक्तं शृणुष्वेन्दुधरं हरम् ।


इत्यंशुमान्काश्यपे उमास्कन्दसहितलक्षणपटलः (पंचषष्टितमः) ॥ ६५ ॥