अंशुमत्काश्यपागमः/जीर्णोद्धारपटलः ९६

← पटलः ९५ अंशुमत्काश्यपागमः
[[लेखकः :|]]




अथ वक्ष्ये विशेषेणं जीर्णोद्धारविधिं परम् ।
जीर्णदेहं त्यजेद्देही तदन्यं परिपठ्यते ॥ १ ॥

तदा तज्जीर्णदेहं तु असुरादि गुणाश्रिताः ।
तस्माच्छीघ्रं प्रयत्नेन जीर्णोद्धारं समाचरेत् ॥ २ ॥

लिंग वा प्रतिमाहर्म्यं मण्टपं गोपुरं तु वा ।
प्रकारं परिवारं वा जीर्णास्ते तु स लक्षणम् ॥ ३ ॥

तेन द्रव्येण चोत्कृष्टैः पूर्ववत्परिकल्पयेत् ।
पंजरं कूटकोष्ठं वा महानास्यल्पमेव वा ॥ ४ ॥

धरातलांघ्रिवस्तूपी वेदीजालकतोरणम् ।
यदंगं तेषु विच्छिन्नं तदंगं प्राग्वदाचरेत् ॥ ५ ॥

उपानादौ च सदने भिन्ने छिन्ने तु पातके ।
तांस्त्यक्त्वाद्येष्टकादीनि प्रथमारंभवत्कुरु ॥ ६ ॥

मानादिष्वधिकं हीनं कर्तव्यं तत्सलक्षणैः ।
मोहाद्धीने तु वाधिक्ये कर्तुर्वित्तायुषक्षयम् ॥ ७ ॥

राष्ट्रक्षोभं सदाप्येते नृपतेर्मृत्युमाचरेत् ।
तस्मात्सर्वप्रयतेन सदनं प्राग्वदाचरेत् ॥ ८ ॥

जीर्णावस्थौ तु मानं तद् अनुक्तमार्गेण चाश्रितौ ।
पुनश्शास्त्रोक्तमार्गेणाधिक मानादिभिर्युतम् ॥ ९ ॥

कर्तव्यं विजयायुष्यं नृपतेर्नित्यमावहेत् ।
पूर्वमानादिषु क्षीणं पुनः कर्म न कारयेत् ॥ १० ॥

अति मोहेन कुर्वीत सर्वदोषास्पदं भवेत् ।
परिवारालयं पीठं प्राकारं गोपुरं तथा ॥ ११ ॥

प्रतिमामण्टपादीनि मण्टपाश्च सभास्तथा ।
पुरा सुमाननीयापि पुनः कर्माधिकं शुभम् ॥ १२ ॥

सोक्तस्थाने गते वापि पुनर्बाह्यगतं शुभम् ।
प्राग्वच्च सुदृढं कृत्वा संप्रोक्षणमथाचरेत् ॥ १३ ॥

लोहजानां तु बिम्बानां अंगहीनं तु संभवे ।
तदंगं पूर्ववत्कृत्वा स्थापनं सम्यगाचरेत् ॥ १४ ॥

हिक्कादूर्ध्वे तु विच्छिन्ने त्यक्त्वान्यं परिपठ्यते ।
नलकादिषु विच्छिन्ने पादयोर्हस्तयोऽस्तु वा ॥ १५ ॥

तेनैव जीर्णलोहेन पूर्ववद्बिम्बमाचरेत् ।
अब्दत्रयं तु तल्लोहं खात्वा भूमौ विशेषतः ॥ १६ ॥

पश्चादग्नौ द्रुतं कृत्वा पुनर्बिम्बं समाचरेत् ।
मृण्मये वर्णहीने तु पुनः कृत्वा तु पूर्ववत् ॥ १७ ॥

कल्करज्जु मृदो वापि भिन्नच्छिन्नादि संभवेत् ।
तत्तदंगं पुनः कार्यं शूलं चैव तथैव हि ॥ १८ ॥

दारुशूलेष्टका वापि शूलदोषविहीनकम् ।
तदेव संगृहेद्धीमान् दोषाढ्यं परिवर्जयेत् ॥ १९ ॥

लिंगे पीठेश्रहीने तु सूत्रहीने तु वा लिखेत् ।
व्यपोह्य लिंगपीठं च स्थापयेत् पूर्ववद्बुधः ॥ २० ॥

जीर्णलिंगं च पीठं च बिम्बं वै सागरे न्यसेत् ।
आर्षे च पौरुषे वापि पूर्वमेवा कृतालये ॥ २१ ॥

पश्चात्कृतं शिवं हर्म्यं पूर्वद्रव्यैर्नवाधिकम् ।
कल्पयेत्पंचसालानां बाह्ये बाह्यन्तरेऽपि वा ॥ २२ ॥

मूलवस्तु समं चैवाधिकालयं विशेषतः ।
महामर्यादि सालस्या भ्यन्तरे तु न कारयेत् ॥ २३ ॥

क्षीणालयं प्रकर्तव्यं बाह्ये त्रित्रिगुणानु वा ।
महामर्यादि बाह्ये तु गत्वालयं प्रकल्पयेत् ॥ २४ ॥

उत्तमान्तरमाख्यातं एवमेवं प्रकल्पितम् ।
मर्यादेर्महाशायां बाह्ये वा प्राग्वदन्तरम् ॥ २५ ॥

नीत्वा तु नाशनं कर्तृप्रजानाशं महाव्याधिं विशेषतः ।
कलहंसस्य नाशं च सिध्यते नात्र संशयः ॥ २६ ॥

परितः शेष देवानां भागेषु शिवमन्दिरम् ।
कर्तव्यं विजयायुष्यं पुत्रपौत्रादिवर्धनम् ॥ २७ ॥

यत्रैव कल्पितं हर्म्यं पूर्वे परिपश्चिमाननम् ।
मूलवस्तु समीक्ष्यैवं कल्पयेत्कल्पवित्तमः ॥ २८ ॥

मध्योत्तमान्तरे विप्र ! परिवारसमन्वितम् ।
परिवारविहीनं तु कल्पितं कन्यसान्तरम् ॥ २९ ॥

एवमेवान्य देवानां आलये विप्र कल्पयेत् ।
मूलगेहेर्चितं देवं चान्यं वा तत्र पूजयेत् ॥ ३० ॥

पौषाच्चदार्षकं श्रेष्ठं आर्षाद्वैगाणवं वरम् ।
गाणवाद्देविकं श्रेष्ठं तस्मात्स्वायंभुवं वरम् ॥ ३१ ॥

क्षेत्रहर्म्यं समाख्यातं कोटिवृद्ध्युत्तरं फलम् ।
फलार्थिभिः कल्पितं तदनुकर्म द्विजोत्तम ! ॥ ३२ ॥

इत्यंशुमान्काश्यपे जीर्णोद्धारपटलः (षण्णवतितमः) ॥ ९६ ॥




बाह्य लक्षणमुद्दिष्टं शृणुष्वाभ्यन्तरं तु यत् ।
चतुरश्रां शिलां सम्यक् छेदयेत् तु विचक्षणः ॥ १ ॥

तक्षकच्छेदके चैव शूलं यत्र प्रदृश्यते ।
स गर्भान्तं विजानीयाद्यत्नेन तु परीक्ष्यते ॥ २ ॥

मंजिष्ठवर्णे मण्डूकं कर्कटं हरितालके ।
पीतकोयासिता सर्पं खद्योतमधुवर्णकैः ॥ ३ ॥

कपिले मूषिकं विद्यात् स्फटिकाभे जपं स्मृतम् ।
रक्तमण्डलिकं तत्र चित्रवर्णेन वृश्चिका ॥ ४ ॥

शफरं कृष्णचित्रे तु किंशुकाभेन्द्रगोपकम् ।

एते ....

शंकोत्सेधे षण्णवत्यष्टभागं
एकैकांशं द्व्यंगुलं तस्य धीमान् ।
युक्त्या युक्त्या शंकुतुंगस्य मानं
छायाश्चायाद् दक्षिणे दक्षिणे च ॥ ५ ॥

अर्थलाभगृहच्छेदं गृहिणी मरणं तथा ।
क्लेशोऽर्थ लाभो मरणं सुखमैश्वर्यमेव च ॥ ६ ॥

क्रमाच्चक्रादिकं विद्यान्मध्ये कूपं विनाशयेत् ।
मध्यकोणं तथा रज्जु द्वारपार्श्वे तु वर्जयेत् ॥ ७ ॥

क्षेत्रारामगृणाणां तु कूपन्यासविधिक्रमम् ।
देवालये च चाग्नेय्यां विशेषेण विधीयते ॥ ८ ॥

कर्तुराश्यानुकूलं वा वास्तु क्षेत्रे विधीयते ।
अधोमुखं निरीक्ष्याणि पूजितानि विशेषतः ॥ ९ ॥

तिर्यङ्मुखानि मध्यानि वर्जयेदूर्ध्ववक्त्रकम् ।
पक्षच्छिद्राणि रिक्तां च वर्जयेत् कृष्ण ऋक्षकम् ॥ १० ॥

व्यतीपातं च परिघं वैधृतिं परिवर्जयेत् ।
गुरुशुक्रज्ञवारेषु सोमवारेषु खानयेत् ॥ ११ ॥

दशाहे कूपसूतिः स्यात् पश्चात् पुण्याहमाचरेत् ।
एवमेव विधानेन कूपन्यासविधिक्रमम् ॥ १२ ॥

अष्टविद्येश्वरा ह्येते त्रिणेत्राश्च चतुर्भुजाः ।
अभया वरदोपेताः टंकशूलसमन्विताः ॥ १३ ॥

रक्तं श्वेतं तथा नीलं पीतं कृष्णं च कुंकुमम् ।
अरुणाभांजनप्रख्यं क्रमाद्वर्ण प्रमाणकम् ॥ १४ ॥

अनन्तादि शिखण्ड्यन्तं प्राग्दलादिषु पूजयेत् ।
आयुधानां मुखं दीर्घं कारयेत् तु विचक्षणः ॥ १५ ॥

एकादि चेष्टपर्यन्तं नाहमानं विधीयते ।
पूर्णमुष्टिस्तु नाहं स्यात् कारयेत् तु विचक्षणः ॥ १६ ॥

सहजं चलनं चैव आयुधानां विधीयते ॥




महाशिवाराधनं वक्ष्ये शृणुत्वं शरवणोद्भव ! ।
लिंगे बेरे तथा चान्ये पीठे वा पूजयेच्छिवम् ॥ १ ॥

निष्कलं निष्कलं ज्ञेयं सकलं सकलाकृतिम् ।
तयोस्तु पीठमाख्यातं कल्पयेत् कल्पवित्तमः ॥ २ ॥

पूर्वे वा पश्चिमे वापि दक्षिणे चोत्तरेऽपि वा ।
द्वारं कुर्याद्विशेषेण पश्चिमं मुक्तिदं गुह ॥ ३ ॥

उत्तरं शान्तिदं ज्ञेयं विजयं दक्षिणामुखम् ।

देविकं मानवं तद्वान्नरैर्दक्षिणोत्तरम् ।
स्वायंभूर्देविकं बाणं सर्वदेवदिगाश्रयम् ॥ ५ ॥

लिंगं प्रधानमेवं हि रन्ध्रं कुर्यात्तु षण्मुख ! ।
बेरं चैव तथै * हं देविके चार्षकेऽपि वा ॥ ६ ॥

शैलजे लोहजे वाथ सौधजेनैव कारयेत् ।
सौधजेनैव सिध्यर्थं शैलजं मुक्तिदं परम् ॥ ७ ॥

लोहजं सुखदं ज्ञेयं शैलं चैव चलाचलम् ।
स्थानकं चासनं यानं नृत्तरूपं तथैव च ॥ ८ ॥

स्थानकं सर्व सिध्यर्थं आसनं सौख्यदं स्मृतम् ।
स्थानकं चासनाख्यं च तामसं शयनं गुह ! ॥ ९ ॥

धर्मकामार्थमोक्षार्थं नृत्तरूपं सुखावहम् ।
लिंगे चैव विशेषेण स्थानकासनकं शृणु ॥ १० ॥

वर्धमानं स्थितं लिंगं आसीनं तु शिवाधिकम् ।
या कर्म शिवं ज्ञेयं एवं तद्भेदमुच्यते ॥ ११ ॥

हर्म्यमानेन लिंगं वा बेरं वापि प्रकल्पयेत् ।
लिंगबेरवशाद्धाम कारयेद्वा विजायते ॥ १२ ॥

कल्पनाद्रूपमेवोक्तं ध्यानरूपमथ शृणु ।
त्रिणेत्रं चतुर्भुजं वापि द्विनेत्रं द्विभुजं तु वा ॥ १३ ॥

एकवक्त्रं द्विवक्त्रं वा त्रिवक्त्रं वेदवक्त्रकम् ।
पंचवक्त्रयुतो वापि शतसाहस्रमेव वा ॥ १४ ॥

द्विशतादि सहस्रान्तं एवमेवं विधीयते ।
एकपादं द्विपादं वा त्रिपादं सहस्रमेव वा ॥ १५ ॥

श्वेतवर्णं च रक्तं च श्यामवर्णं तथैव च ।
नीलवर्णं च कृष्णं च वर्णमेवं विधीयते ॥ १६ ॥

जटाजूटोर्ध्वकेशं वा जटापिंगसमोऽपि वा ।
नागखड्गायुधो वापि शूलपाशायुधोऽपि वा ॥ १७ ॥

टंकशूलायुधो वापि सर्वायुधकरोऽपि वा ।
निरायुधकरो वापि एवमेवं तु कारयेत् ॥ १८ ॥

सर्वायुध धृतो वापि निरायुध करोऽपि वा ।
जटाग्रे जाह्नवीं चैव त्रिधारूपं तु मेव वा ॥ १९ ॥

पूर्णचन्द्रधरो वापि भूषयेन्मकुटोपरि ।
हर्यर्धं गिरिजार्धं वा कल्पयेत्तु महाशिवम् ॥ २० ॥

हर्यर्धं दक्षिणे भागे वामभागेऽर्धनारिणम् ।
वामे तु गिरिजार्धं स्याद् दक्षिणे रुद्ररूपकम् ॥ २१ ॥

विपरीतनृपां सर्वधर्मकामार्थमोक्षदम् ।
विष्णुं प्रजापतिं चैव धनदो विजयोऽपि वा ॥ २२ ॥

गौरी स्कन्दो वृषो वापि सव्यवामे सहासने ।
प्राग्वच्च स्थापयेद्वापि कारयेद्द्विविधा मतः ॥ २३ ॥

लिंगं वा सकलं वापि केवलं कारयेत्पुनः ।
तयोर्योगप्रतिष्ठां चेत् सकलं भित्तिमाश्रितम् ॥ २४ ॥

बाणं वा मानुषं लिंगं स्थापयेद्धाममध्यमे ।
चललिंगं तु वा वत्स ! पूजयेच्छिवसंनिधौ ॥ २५ ॥

बाणं रत्नजलिंगं वा स्फटिकं चलमेव च ।
पट्टिकान्तं गलान्तं वा होमान्तं कुमुदान्तकम् ॥ २६ ॥

तत्सीमे जलनिस्रा वा नालं तत्रैव विन्यसेत् ।
पूर्वे वा चोत्तरे वापि नालस्थानं वदाम्यहम् ॥ २७ ॥

प्रतिबन्धं पद्मबन्धं पादबन्धमथापि वा ।
अधिष्ठानं तथा शक्तिमार्गेणैव तु कारयेत् ॥ २८ ॥

जातिच्छन्दविकल्पाद्यैः एकमेकेन कारयेत् ।
नागरं द्राविडं वापि वेसरं चतुरायतम् ॥ २९ ॥

वृत्तं वृत्तायतं चैव सभाकृतिरथापि वा ।
विस्तारद्विगुणोत्तुंगं अल्प्य हर्म्येति चोच्यते ॥ ३० ॥

एकनासियुतो वापि देवनासियुतोऽपि वा ।
नासिकारहितो वापि वाहनं रहितोऽपि वा ॥ ३१ ॥

सिंहारूढं वृषारूढं भूतारूढमथापि वा ।
दिङ्मूर्तिरहितं वापि एभिमूर्तिरथापि वा ॥ ३२ ॥

देवाश्च दानवाश्चैव यक्षराप्स ऋषिस्तथा ।
नानानासिसमायुक्तं नानायोनिसमाकुलम् ॥ ३३ ॥

एवमेवक्रमं धाम कल्पयेत् तु षडानन ! ।
बेरस्योच्छ्रार्धमानाश्च मानेनैवासनं गुरुः ॥ ३४ ॥

पूजापीठं तु कर्तव्यं सप्तमात्रप्रमाणतः ।
मेखलत्रयसंयुक्तं दलाष्टकसमन्वितम् ॥ ३५ ॥

अर्चापीठमिति ख्यातं कल्पयेदेवमेव तु ।
अर्चारूपमिदं प्रोक्तं पूजाभागन्न विद्यते ॥ ३६ ॥

आवाहनोद्वहं नोक्तं पूजाभेदं न विद्यते ।
आवहनोद्वहं नोक्तं पूजयेत्प्रति संधिषु ॥ ३७ ॥

प्रतिदिनं प्रतिपक्षं प्रतिमासं प्रतिवत्सरम् ।
युगे युगेषु पे वत्स पूजां कुर्याद्विशेषतः ॥ ३८ ॥

वैदिकैस्तांत्रिकैर्मन्त्रैः एतत् तन्त्रोक्तमार्गतः ।
पूजयेद्देव देवेशं अन्यतन्त्रैर्नकारयेत् ॥ ३९ ॥






रथाकारं लिखेच्चक्रं नवावयवसंयुतम् ।
रथांगानां चतुष्कं च द्वयं तत्रैव कीलकम् ॥ १ ॥

अग्रे द्वयं तथा पीठे स्वामिनक्षत्रमादिनः ।
रथांगं च त्रयं पूर्वं कीलके भत्रयं तथा ॥ २ ॥

रज्जु द्वयं रथांगानां द्वयं कीलकमेव च ।
पश्चाद्रथांगं पीठं च क्रमादक्षाणि विन्यसेत् ॥ ३ ॥

स्थानेष्वेतेषु ऋक्षाणां विन्यसेच्च त्रयं त्रयम् ।
त्वक् स्थाने शास्तु मन्दारा स्थिता तत्र विनाशदा ॥ ४ ॥

रथांगेर्कधरासूनुशनिराह्वादयः स्थिताः ।
तदिग्भागरथांगे तु भिन्नं भवति भूतले ॥ ५ ॥

रव्यादयः कीलके च द्विग्रहो वा त्रयोऽपि वा ।
रविलुप्तकरा नीचाः तस्य भंगं विनिर्दिशेत् ॥ ६ ॥

रज्जौ रज्जु विनाशं च पीठे देवस्य नाशनम् ।
क्षीणे नीचारिमूढस्थाः चन्द्रयोगे ध्रुवं फलम् ॥ ७ ॥

शुक्रः पणफरे ज्ञो वा आपोक्लीवगतोऽपि वा ।
रथचक्रं विजानीयाद् दारुभिन्दन्न संशयः ॥ ८ ॥

केन्द्रे पणफरे चक्रे मन्दारफणवीक्षिते ।
रथचक्रं नरं हन्ति रज्जुभीन्नं न संशयः ॥ ९ ॥

उत्सवे चरलग्ने च स्थापने च स्थिरे तथा ।
रथारोहे ध्वजारोहे चरे चोभय राशिषु ॥ १० ॥

नेष्टं चतुष्टये वक्रं भयभे तद्वर्गोऽपि विलग्नकः ।
करोति वसुधा नाशं तद्द्वारेऽपि शुयासतः ॥ ११ ॥

चरामुख्यास्तत्र व्ययकटकतौलि तु धनुर्मीने ।
चावस्थितः सकल पापाः शुभकराः ॥ १२ ॥

शशिन्यापोक्लीबे गुरुभृगुज केन्द्रेऽपि च तथा ।
रथानां यात्रा स्युः शुचिनि निधने पंचम पदे ॥ १२ ॥

यात्रालग्ने नैधने नाम पुंत्रिकोणे मातेद्युने ।
चन्द्रसूर्यारसौराद्य पश्चाच्छक्र भिद्यते राहुदण्डताकेतुः कर्ता पुत्र
भार्यार्थ हानिम् ॥ १३ ॥

त्रिषडायगतैः पापैः कण्टकाद्यैः शुभयुतैः ।
रथमायाति तच्छीघ्रं शरत्काले च भानुवत् ॥ १४ ॥

लग्नेशे बलवर्जिते निधनगे क्रूरेक्षिते संयुते ।
रज्जुर्मृतिलग्नगे दिनपतौ भौ पेतन्ति ध्वजाः ।
मन्दे विप्रतिचक्रकीलसहितः राहौ * * संयुते ।
चिद्यः स्याच्छदिलग्नगे रथपतिभूमौ निवेशस्तथा ॥ १५ ॥

रथप्रयाणलग्नेशे चक्रेशे क्रूरसंयुते ।
चक्रं निपतितं भूमौ कीलेन सह भिद्यते ॥ १६ ॥

त्रिकोणे सबले जीवे केन्द्रे च बलसंयुते ।
रथमायाति तच्छीघ्रं शरत्काले च भानुवत् ॥ १७ ॥

रथप्रयाणकेन्द्रेषु रविराह्वारभानुजाः ।
निघ्नन्ति रज्जुकीलाद्यैः तच्चक्रं च पतेद्भुवि ॥ १८ ॥

यात्रोदये यदा भानुः अस्तगे तत्सुतो यदि ।
विनाशयति तच्छीघ्रं चक्रं कीलेन रज्जुभिः ॥ १९ ॥

निमज्जति रथं चक्रं न भूमेर्मन्दिरो यथा ।
आदित्ये सबले केन्द्रे न गच्छति * कं पतिः ॥ २० ॥

सबले केन्द्रगे सौम्ये त्रिकोणो वाथ नायके ।
त्रिषडायगताः पापाः रथं सम्यक् प्रवर्तते ॥ २१ ॥

त्रिकोणे कण्टके पापे रथयात्रोदये सति ।
कर्ता मरणमायाति स राष्ट्रं नाशयत्यसौ ॥ २२ ॥

विनाशती च तच्चक्रं सरथं रज्जुना सह ॥ २३ ॥

रथयात्रा चरेष्विष्टा द्विस्वभावेषु मध्यमा ।
केन्द्र त्रिकोणगे पापे शुभषष्ठान्त्यगो यदि ॥ २४ ॥

पापेक्षिते शुभैर्मुक्ते रथयानं चिराद्भवेत् ।
केन्द्र त्रिकोणगे मन्दे द्वादशाष्टमगो यदि ॥ २५ ॥

दिनत्रयेणरित्यादि रथभंगं च निर्दिशेत् ।
केन्द्रे चन्द्रे गुरौ कोणे भृणु सौम्य निरीक्षिते ॥ २६ ॥

चरलग्ने यदा यानं घटिकानां त्रयोदश ।
द्वादशे नवमे पापे पापलग्ने शुभेक्षिते ॥ २७ ॥

द्वितीये केन्द्रगे सौम्ये रथयानं दिनार्धतः ।
पीठे राहुसमायुक्ते रथांगे शनिसंगते ॥ २८ ॥

कीलके पापसंयुक्ते रथभंगोऽत्र विद्यते ।
पीठे दिनमणौ भौमे रथांगे पापसंयुते ॥ २९ ॥

रज्जौ च कीलके सौम्ये रथयानं चिरेण तु ।
अचिराद्रथयानं स्यात् पीठे दे * न्दु पूजिते ॥ ३० ॥

रथांगे शशिविच्छक्रा रज्जौ सूर्ये शुभेक्षिते ॥




बलि पीठं प्रवक्ष्यामि बाह्ये पीठ चतुष्टयम् ।
प्राच्यां वै स्थापिते पीठे श्रीकरं चेति कीर्तितम् ॥ १ ॥

दक्षिणे स्थापिते पीठे श्रीविशालमिति स्मृतम् ।
पश्चिमे स्थापिते पीठे श्रीभद्रमिति कीर्तितम् ॥ २ ॥

उत्तरे स्थापितं पीठं श्रीनिवासमिति स्मृतम् ।
प्राच्यां श्रीकरस्य प्रतिष्ठायां ब्राह्मणानां तु वृद्धये ॥ ३ ॥

श्रीविशालप्रतिष्ठायां क्षत्रियाणां च वृद्धये ।
श्रीभद्रस्य प्रतिष्ठायां वैश्यानां च विवृद्धये ॥ ४ ॥

श्रीनिवासप्रतिष्ठायां शूद्राणां चाभिवृद्धये ।
एवमेव प्रकारेण चतुर्द्वारे विशेषतः ॥ ५ ॥

श्रीश्च सरस्वती चैव ब्राह्मी सावित्रि एव च ।
पीठस्याधिपतीनां तु पूर्वादीनां यथाक्रमम् ॥ ६ ॥

सुप्रभेदे -------- बलि पीठलक्षणम् ॥

४२०) गर्भगेहस्य पंचांशे चतुष्कं चोत्तमोन्नतम् ।
त्रिभागं मध्यमं प्रोक्तं द्विभागमधमं स्मृतम् ॥ ७ ॥

द्वारोत्सेधसमं श्रेष्ठं तत्त्रिभागं तु मध्यमम् ।
द्वारार्धमधमं विद्यात् उत्सेध समविस्तृतम् ॥ ८ ॥

उत्सेधं सुविभज्याथ भागमेकोनविंशति ।
भागेनोपानकोच्चं तु चतुर्भिर्जगती भवेत् ॥ ९ ॥

कुमुदं तु त्रिभागे तु तदूर्ध्वैकेन पट्टिका ।
कर्णं कुर्यात्त्रिभागैः एकेनैवोर्ध्व पट्टिका ॥ १० ॥

महापट्टिका द्व्यंशेन दलोत्सेधं त्रिदलाष्टकम् ।
कर्णिका चैकभागेन प्रोक्तमुत्सेधमुत्तमम् ॥ ११ ॥

प्रवेशनिर्गमं वक्ष्ये विस्तारोत्सेधकांशकम् ।
समस्तांशमुपानन्तु मन्वंशं जगती तथा ॥ १२ ॥

भान्वंशं कुमुदं विद्यात् दिगंशं पट्टिका तथा ।
अष्टांशं कण्ठविस्तारं दशांशं चोर्ध्वपट्टिका ॥ १३ ॥

द्वादशांशं महापट्टी दशांशमष्टदलविस्तरम् ।

चतुरश्रं यथा पीठं कुर्यात्पद्मदलं विना ।
स्थापनान्ते त्वथैतानि पूजयेत् तु विशेषतः ॥ १५ ॥

प्रतिष्ठाविधिमार्गेण कारयेद्देशिकोत्तमः ।




कारणे परिवारबलिः ॥

मूलधाम्नश्च द्वारोच्चं उत्तमं पीठविस्तृतम् ।
त्रिपादं मध्यमं प्रोक्तं द्वारतुंगार्धकन्यसम् ॥ १ ॥

शुद्धद्वारस्य विस्तारं अधमं पीठमुच्यते ।
द्विगुणं मध्यमं प्रोक्तं त्रिगुणं श्रेष्ठमुच्यते ॥ २ ॥

अथवा व्योमहस्तेन अधमं पीठविस्तृतम् ।
द्विहस्तं मध्यमं प्रोक्तं त्रिहस्तं श्रेष्ठमुच्यते ॥ ३ ॥

तद्विस्तारसमं तुंगं कृत्वा चैवाष्टविंशति ।
उपानोच्चं द्विभागं स्यात् षडंशं जगती भवेत् ॥ ४ ॥

कुमुदोच्चं तु भूतांशं कंपमेकांशमुच्यते ।
वेदांशं कर्णमानं तु ऊर्ध्वकंपं शिवांशकम् ॥ ५ ॥

महापट्टीद्वयांशं तु द्विभागं वा विशेषतः ।
वेदांशं पद्मतुंगं तु द्विभागं कर्णिकोदयम् ॥ ६ ॥

अथवा कर्णिकोत्सेधं गुणांशं द्विजसत्तम ! ।
पद्मोच्चं पंचभागं तु महापट्टी द्विभागतः ॥ ७ ॥

उपानोच्चं शिवांशेन शेषं पूर्ववदेव हि ।

क्षुद्रपीठलक्षणम् ॥

अन्तर्मण्डलमध्ये तु भित्याश्रयमथापि वा ॥ ८ ॥

बलिपीठं प्रकर्तव्यं कौशिकांगुलसंयुतम् ।
अधमं द्विगुणं मध्यं त्रिगुणं चोत्तमोन्नतम् ॥ ९ ॥

वेदाश्रं वाथ वृत्तं वा सर्वपीठं प्रकल्पयेत् ।
विस्तारसमतुंगं स्यात् त्रिपादं चार्धमेव वा ॥ १० ॥

त्रिमेखलं तु कुर्वीत द्विमेखलमथापि वा ।
एकमेखलया युक्तं ऊर्ध्वे पद्मसमन्वितम् ॥ ११ ॥

पद्मपीठं तु कुर्वीत पद्माकारं स कर्णिकम् ।
मातॄणां नवपीठं स्यात् ज्येष्ठायां पीठकत्रयम् ॥ १२ ॥

अन्येषामेकमेवं स्यात् चण्डेशस्य तथैव हि ।
अन्तर्मण्डलदेशे तु इन्द्रादि बलिपीठकम् ॥ १३ ॥

स्थापयेत् तु क्रमेणैव मण्डपोपान बाह्यतः ।
अन्तर्मण्डलतारस्य सदृशं द्विगुणं तु वा ॥ १४ ॥

अन्तस्तारस्य बाह्ये तु कल्पयेत्कल्पवित्तमः ।
तस्यास्तु मध्यमे भागे परिवाराष्ट विन्यसेत् ॥ १५ ॥

वृषादि चण्डपर्यन्तं स्थापयेदष्टदिक्षु च ।
यस्य विस्तारपचत आयामं च विधीयते ॥ १६ ॥

चतुर्भागाधिकं पंचभागं वाधिकमेव वा ।
त्रिभागेनाधिकं चैव द्विद्धं पंचार्धमाधिकम् ॥ १७ ॥

मेव वा द्विगुणं तद्द्विगुणं पादाधिकं तु वा ।
द्विगुणार्धं तु आयामं गोपुरेषु विधीयते ॥ १८ ॥

प्रासादस्य विस्तारं यत्तद्दण्डमिहोच्यते ।
मूलहर्म्यं समारभ्य षडष्टदण्डमानतः ॥ १९ ॥

दशद्वादशदण्डो वा मनुदण्डावसानकम् ।
षोडशाष्टादशो वापि महापीठं प्रकल्पयेत् ॥ २० ॥

अथवान्यप्रकारेण पीठस्थानं विधीयते ।
तृतीय साले चतुष्पंचसाले चैव तु मध्यमे ॥ २१ ॥

महापीठं प्रकर्तव्यं तस्य लक्षणमुच्यते ।
मूलधामस्य द्वारोच्चं उत्तमं पीठविस्तृतम् ॥ २२ ॥

त्रिपादं मध्यमं प्रोक्तं द्वारतुंगार्धकन्यसम् ।
शुद्धद्वारस्य विस्तारं अधमं पीठविस्तृतम् ॥ २३ ॥

द्विहस्तं मध्यमं प्रोक्तं त्रिहस्तं श्रेष्ठमुच्यते ।
तद्विस्तारसमं तुंगं कृत्वा चैवाष्टविंशति ॥ २४ ॥

उपानोच्चं द्विभागं स्यात् षडंशं जगतिर्भवेत् ।
कुमुदोच्चं तु भूतांशं कंपमेकांशमुच्यते ॥ २५ ॥

वेदांशं कर्णमानं तु ऊर्ध्वकंपं शिवांशकम् ।
महापट्टी गुणांशं तु द्विभागं वा विशेषतः ॥ २६ ॥

वेदांशं पद्मतुंगं तु महापट्टी द्विभागया ।
उपानोच्चं शिवांशेन द्विभागं कर्णिकोदयम् ॥ २७ ॥

अथवा कर्णिकोत्सेधं गुणांशं द्विजसत्तम ! ।
पद्मोच्चं पंचभागं तु महापट्टी द्विभागया ॥ २८ ॥

उपानोच्चं शिवांशेन शेषं पूर्ववदेव हि ।
अथवा पीठोदयं विप्र धरातलं यथा कुरु ॥ २९ ॥

तदूर्ध्व पद्ममानं तु पीठोच्चे न्यंशमुच्यते ।
अधिष्ठानोक्तमार्गेण वेशनिष्क्रान्तमाचरेत् ॥ ३० ॥

पद्मतारे युगांशं वा भूतांशं कर्णिकायतम् ।
पीठागारं युगाश्रं वा वृत्तं वाष्टाश्रमेव वा ॥ ३१ ॥

कलाश्रं वाथ कर्तव्यं तद्द्व्यया मण्डलाम्बुजम् ।
लोहजं शैलजं वाथ इष्टकामयमेव वा ॥ ३२ ॥

सुधया वेष्टकागर्भं नानाचित्रैर्विचित्रितम् ।
भूतैश्च मकरैर्व्यालैः वृषभैश्च विभूषितम् ॥ ३३ ॥

नानावर्णैर्विचित्रं यत् भूषयेद्धेमराजतैः ।
पीठव्यासे तु षट्सप्त वसुनन्दांशकेऽपि वा ॥ ३४ ॥

अंशमस्योपपीठोच्चं उपपीठोक्तवत् कुरु ।
तदूर्ध्वे तु महापीठं उक्तवस्योदयान्वितम् ॥ ३५ ॥

उपपीठं विना पीठं कर्तव्यं वा द्विजोत्तम ! ।
आमोदं प्राग्दले चैव प्रमोदो याम्यदिग्दले ॥ ३६ ॥

प्रमुखः पश्चिमे चैव उत्तरे विमुखस्तथा ।
अविघ्नस्त्वीशदिग्भागे विघ्नकर्तारमानले ॥ ३७ ॥

सात्विकं नैर्-ऋते भागे राजसं वायुकोणके ।
तामसं कर्णिकामध्ये नीलरुद्रस्वरूपकम् ॥ ३८ ॥

भूम्यन्तरिक्ष स्वर्गं च सर्वभूतगुणात्मकम् ।
तत्सर्वात्मकमित्युक्तं महापीठं द्विजोत्तम ! ॥ ३९ ॥

पश्चिमाभिमुखे हर्म्ये किंचिद्भेदं वदाम्यहम् ।
वृषस्थाने कुमारं तु कौमारे वृषभं न्यसेत् ॥ ४० ॥

वारुणे तु महापीठं शेषं पूर्ववदाचरेत् ।
परिवारविधिः प्रोक्तः पश्चाल्लिंगस्य लक्षणम् ॥ ४१ ॥

क्रमुकं वेणुदण्डं वा चन्दनं वापि खादिरम् ।
चम्पका देवदारुश्च स्तवका जाति बिल्वकम् ॥ ४२ ॥

अवक्रं निर्व्रणं चैव कृमिकोटरवर्जितम् ।
प्रासादस्य समं वापि प्रासादग्रीवमेव वा ॥ ४३ ॥

वृषस्थल समं वापि गोपुरोत्सेधमेव वा ।
द्वितल त्रितलान्तं वा दण्डस्योत्सेधमुच्यते ॥ ४४ ॥

पूगनालिकतालं च चम्पकं बिल्वचन्दनम् ।
अश्वत्थं खादिरं चैव न्यग्रोर्धसार तिंत्रिणी ॥ ४५ ॥

पलाशं नृपसारं च बिल्वसारं तथैव च ।
मधूकसारवृक्षं च ध्वजदण्डमिहोच्यते ॥ ४६ ॥

वृषस्थलावसानान्तं ग्रीवान्तं गोपुरान्तकम् ।
दण्डमानमिति प्रोक्तं ध्वजदण्डमिहोच्यते ॥ ४७ ॥

बलिपीठं तु तन्मानं उच्छ्रयं कर्णिकासमम् ।
गेहगोपुरयोर्मध्ये बलिपीठं तु विन्यसेत् ॥ ४८ ॥

वाहनं बलिपीठं तु ध्वजपीठं तु विन्यसेत् ।
महत्यल्पं च द्विविधं ध्वजमुत्तुंगमिष्यते ॥ ४९ ॥

क्षुद्रं प्रासादमुत्सेधं ध्वजदण्डमिति स्मृतम् ।
स्तूप्यन्तं शिखरान्तं च नासिकान्तं गलान्तकम् ॥ ५० ॥

प्रस्तरान्तसमुत्सेधं उपदण्डं द्विहस्तकम् ।
हस्तार्धपादहीनं तु एकहस्तावसानकम् ॥ ५१ ॥

एवं दीर्घविधि प्रोक्तं अयदूर्ध्वं तु पद्मकम् ।
मूलप्रासादविस्तारं तत्समं वा त्रिपादकम् ॥ ५२ ॥

ध्वजदण्डोच्छ्रयं प्रोक्तं मानमार्गमितीष्यते ।
गोपुरात्पूर्वा परान्तं तु प्रासादसममेव वा ॥ ५३ ॥

पैशाच पीठं न्यस्ताध धामार्ध त्रिपदांशकम् ।
हस्त त्रिपंचसप्ताभि नवहस्तान्तमेव वा ॥ ५४ ॥

उच्छ्रयेति दशा सप्त पद्मत्रयंशं तु गजासरा ।
एकांशं पद्मतुंगं तु कम्पमंशांशमम्बुजम् ॥ ५५ ॥

कुमुदं त्रिभागमेवं तु ऊर्ध्वपद्मं शिवांशकम् ।
मधोकंपपद्मांशं प्रोक्तं वेदांशं कण्ठमुच्यते ॥ ५६ ॥

कम्पभागेन कर्तव्यं पद्मांशं पट्टिका गुणम् ।
एकपत्रपद्ममधा कम्पमंशं मथकर्णिका ॥ ५७ ॥

पंचमधोर्ध्वपद्मं तु गुणभागं विधीयते ।
चक्रं वापि त्रिशूलं वा प्रासाद स्यार्धमेव वा ॥ ५८ ॥

पादोनाष्टांशभागेन आयुधस्य समुच्छ्रयम् ।
एकादि नवहस्तान्तं माननिर्णयमिष्यते ॥ ५९ ॥

एवं तु परिवाराणि प्रोक्तानि शास्त्रपारग ।
नन्दाष्टपंक्त्याष्ट नव विंशदष्टा-
कुम्भे च मूर्ध्नि गलप्रस्तरान्तम् ।
पादोन पादादि अधस्तूपिकान्तं
नारायण्यमेकभूमं प्रधानम् ॥ ६० ॥

यानकं स्थानकं शयनमासनं च चतुर्विधम् ।
आर्षकं स्थानकं चैव स्वायंभुवमथासनम् ॥ ६१ ॥

मानुषं राक्षसं बाणं गाणवं शयनं भवेत् ।
देविकं यानकं प्रोक्तं एवं लक्षणमुच्यते ॥ ६२ ॥

चतुरश्रं स्थानकं प्रोक्तं आसनं तु सुवृत्तकम् ।
यानकं त्वश्रमेवोक्तं अष्टाश्रं शयनं भवेत् ॥ ६३ ॥

पीठाकृतितताश्चैव एवं लक्षणमुच्यते ।
वृत्तपीठस्थिता गौरी भद्रपीठं तु चासनम् ॥ ६४ ॥

शयनं पद्मपीठा च बलिपीठाधिपीशक्तिमिहोच्यते ।
आमोदश्च प्रमोदश्च प्रमुखो विमुखस्तथा ॥ ६५ ॥

अविघ्नो विघ्नकर्तारो बलिपीठाधिदेवताः ।
विस्तारस्तम्भतो बाह्ये जन्मात् स्तूप्यन्तमुन्नतम् ॥ ६६ ॥

अथवा शिखरान्तं स्यात् विमानानां समुन्नतम् ।

बलिदेवताः ॥

दैविकं तु भवादीनां इन्द्रादीनां तु मानुषम् ॥ ६७ ॥

भूतादीनां स्वयं भूतं आर्षकं परिवारकम् ।
वसूनां बाणलिंगे तु विद्येशानां तु दैविकम् ॥ ६८ ॥

यक्षादि राक्षसा लिंगं बलिदेवाः प्रकीर्तिताः ।
भवश्शर्वस्तथेशानः पशुपतिर्नीललोहितः ॥ ६९ ॥

उग्रो भीमो महा देवो इत्यष्टौ मूर्तयस्तथा ।
पीतं च कुंकुमं कृष्णं अरुणं भिन्नांजनप्रभम् ॥ ७० ॥

नीलं श्वेतं तथा रक्तं अष्टमूर्तेश्च वर्णकम् ।
अभयवरदाः सर्वे पाशांकुश चतुर्भुजाः ॥ ७१ ॥

त्रिणेत्रास्त्वेकवक्त्राश्च द्विपादाश्चैव नूपुराः ।
जटामकुटसंयुक्ता मूर्तिरूपाः प्रकीर्तिताः ॥ ७२ ॥

सालास्सालान्तरे मध्ये ध्वजस्थानं विधीयते ।
अथवा दण्डमानेन मूलं प्रासादमारभेत् ॥ ७३ ॥

द्वित्रिदण्डविवृद्ध्या तु पंचसप्तनवान्तकम् ।
रुद्रत्रयोदशान्तं वा दशपंचसुसप्तकम् ॥ ७४ ॥

एकोनविंशतिश्चैव दण्डमानं प्रकीर्तितम् ।
पंचभागद्विभागं तु सप्तभागे त्रिभागिकम् ॥ ७५ ॥

नवभागे चतुर्भागं प्राकाराणां विधीयते ।
पूर्वं शून्यविशालं चेत् यथाशोभं यथा रुचि ॥ ७६ ॥

एवं तु बहुधा प्रोक्तं कल्पयेत् तु यथारुचि ।
अन्तर्मण्डल सालादिमध्यगोपुरमध्यतः ॥ ७७ ॥

नवपंचैकदण्डोऽपि वसुदिक्षु चतसृषु ।
प्रधान स्वग्रदेशस्था ध्वजं तत्संख्यया मताः ॥ ७८ ॥

॥ शुभमस्तु ॥

पीठरन्ध्रे भगाकारं योनिमध्ये सलक्षणम् ।
ऊर्ध्वाग्रं तत्प्रकर्तव्यं अथवा रन्ध्रमुच्यते ॥ ७९ ॥

भगाकारं कृताख्याता योनि मध्ये क्रमोध्वयुक् ।
बाणरत्नादिकं चैव देवी पीठस्य लक्षणम् ॥ ८० ॥

रन्ध्रमध्ये भगाकारं ऊर्ध्वाग्रं लक्ष्मपीठकम् ।
रन्ध्रस्यैव द्विभागेन तन्मूले भ्रमरे लिखेत् ॥ ८१ ॥

पीठोदयकलांशं तु एकांशं रत्नमेव च ।
दशांशं सिकतैर्युक्तं पंचांशं बन्धयेत् क्रमात् ॥ ८२ ॥

पूजांश षोडशांशैकं उत्सेधं तु विधीयते ।
तन्मानं पदविस्तारं अष्टबन्धं तथोच्यते ॥ ८३ ॥

भिन्ने घटे यथाकाशे तथाकाशे प्रलीयते ।
जीर्णबेरं तु न त्याज्यं पूजितं निष्फलं भवेत् ॥ ८४ ॥

न दर्शनं न सेवा च नार्चनं नाभिवन्दितम् ।
मोहेन पूजनं कुर्यात् तत्कर्ता मरणं व्रजेत् ॥ ८५ ॥

देवे जीर्णे पुनः सृष्टे देव्या प्राच्या पति स्थितः ।
ताभिरेव पुनर्देव्या योज्यानन्य सृजेत् पुनः ॥ ८६ ॥

नोद्वाहं च न कर्तव्यं सन्तदेवासु पूजयेत् ।
लिंगे जीर्णे पुनः सृष्टे योगे प्राच्या पतिस्थितः ॥ ८७ ॥

भोगवीरं तथा प्राच्या योज्यानन्यत् सृजेत् पुनः ।
नोद्वाहं च कर्तव्यं सन्तदेवासु पूजने ॥ ८८ ॥

लिंगस्य जीर्णिते सत्ति लिंगमात्रं परित्यजेत् ।
पीठस्य जीर्णिते सत्ति पीठमात्रं परित्यजेत् ॥ ८९ ॥

लिंगपिण्डिसमं जीर्णं लिंगपीठं परित्यजेत् ।
भोगवीरं तथा प्राच्या योज्यानन्यत् सृजेत् पुनः ॥ ९० ॥

लिंगं चतुर्विधं ज्ञात्वा स्थावरं शास्त्रचोदितम् ।
दैविकं चार्षकं चैव गाणवं मानुषं तथा ॥ ९१ ॥

चतुर्विधेषु भेदेषु दैविकं लक्षणं शृणु ।


दैविकलिंगम् ॥

दीर्घाकारं भवेल्लिंगं निम्नोन्नतसमन्वितम् ॥ ९२ ॥

रेखाकोटर संयुक्तं मुखे तारायतोन्नतम् ।
पार्वताग्राकृतिं लिंगं वह्वग्रं त्वग्रतः शिखा ॥ ९३ ॥

कराभ्यां संपुटाकारं ब्रह्मसूत्रविवर्जितम् ।
इत्येतैर्लक्षणैर्युक्तं लिंगं दैविकमुच्यते ॥ ९४ ॥

आर्षलिंगम् ॥

मूलस्थूलं भवेल्लिंगं अग्रमूलं तथैव च ।
मध्यस्थूलं तु लिंगानां नालिकेरफलाकृति ॥ ९५ ॥

कदलीफलाकृति श्रीबिल्वस्यैव फलाकृतिः ।
लिंगमार्षकमाख्यातं ब्रह्मसूत्रविवर्जितम् ॥ ९६ ॥

गाणवलिंगम् ॥

कूष्माण्डस्य फलाकारं मातुलुंगफलाकृति ।
उर्वारुकफलाकारं कपित्थस्य फलाकृति ॥ ९७ ॥

तालफलवदाकारं गाणवं लिंगमुच्यते ।

मानुष लिंगम् ॥

द्वारं वा गर्भमानं वा हस्तमानमथापि वा ॥ ९८ ॥

शिल्पशास्त्रोक्तमानं वा छत्राकारशिरोन्नतम् ।
एकवर्णं सुसंस्निग्धं ब्रह्मसूत्रसमन्वितम् ॥ ९९ ॥

इत्येतैर्लक्षणैर्युक्तं लिंगं मानुषमुच्यते ।
अथ वक्ष्ये विशेषेण शिवरात्रिं सुपूजयेत् ॥ १०० ॥

कृतत्रेतायुगे चैव द्वापरे च कलौ युगे ।
युगे युगे तु संपूज्य कृतायां तु गुहो यजेत् ॥ १०१ ॥

त्रेतायां विघ्नराजेन द्वापरे चाच्युतो यजेत् ।
ब्रह्मेन्द्र ऋषिभिश्चैव कलौ संपूजितो हरः ॥ १०२ ॥

माघकृष्णचतुर्दश्यां फाल्गुने च द्वितीयके ।
चैत्रमासे त्रयोदश्यां वैशाखे कृष्णपंचमी ॥ १०३ ॥

ज्येष्ठे शुक्लतृतीये च आषाढे चाष्टमी यजेत् ।
द्वादश्यां श्रावणे चैव पूर्वाषाढे तु पंचमी ॥ १०४ ॥

तुलायां सप्तमी चैव कृष्णाष्टम्यां तु कृत्तिकाम् ।
द्वादश्याभार्द्रमासे तु पुष्यमासे तु सप्तमी ॥ १०५ ॥

एवं संवत्सरे पूज्यशिवरात्र्युपवासके ।
माघमासे चतुर्दश्यां तत्फलं शिवरात्रिकम् ॥ १०६ ॥

एकमासे द्विपक्षे तु रात्राधिक्य तिथिर्वरम् ।
शिवं संपूज्य तद्रात्रौ तत्फलं लभते नरः ॥ १०७ ॥

पक्षाक्षं सममेवं स्यात् पूर्वरात्रौ शिवं यजेत् ।
तस्मात् सर्वप्रयत्नेन सर्वरात्रौ विशेषतः ॥ १०८ ॥

रात्रावधिकपक्षे तु शिवपूजा विधीयते ।
तद्रात्रौ शिवरात्रिः स्याद्देवसान्निध्यमेव च ॥ १०९ ॥

शर्वरी पक्षहीनं तु सा दोषाबहुलास्तथा ।
तस्मात् सर्वप्रयत्नेन सर्वमासं क्रमेण तु ॥ ११० ॥

नित्यसिध्यवसने तु शिवरात्रिं समाचरेत् ।
यामं प्रतिविशेषेण शिवपूजां विशेषतः ॥ ११ ॥

 न वाहे चैव सप्ताहे पंचाहे वांकुरार्पणम् ।
अंकुराण्यर्पयेत् पश्चात् पूर्वोक्त विधिना सह ॥ ११२ ॥

तद्दिनस्य तु पूर्वे तु मण्डपं शोधयेत्ततः ।
पंचगव्येन संपूज्य कौतुकं बन्धयेत् ततः ॥ ११३ ॥

बिल्वपत्रं तु संपूज्य सर्वगन्धसमन्वितम् ।
वस्त्रेण वेष्टयेद्धीमान् बिलपत्राधिवासनम् ॥ ११४ ॥

प्रभाते विमले धीमान् देशिकः स्नानमाचरेत् ।
पूर्वाह्ने तर्पणं चैव मध्याह्ने तु प्रदक्षिणम् ॥ ११५ ॥

सायाह्ने पूजनं कृत्वाप्येवमेवं व्रतं चरेत् ।
ब्रह्मक्षत्त्रिय विट्छूद्रा उपवाससमन्विताः ॥ ११६ ॥

द्विजानां शिवभक्तानां सर्वेषां प्राणिनामपि ।
सर्वासां चैव नारीणां उपवासं तथैव च ॥ ११७ ॥

न निद्रानं प्रयत्नेन सर्वकार्याणि साधयेत् ।
यत्फलं सर्वसिद्धिं च इष्टकाम्यं तथैव च ॥ ११८ ॥

आयुष्यकं च सिद्धिं च सर्वमोक्षं तथैव च ।
अमंगल्योपवासी च पुनर्जन्म सुमंगली ॥ ११९ ॥

अपत्नीकोपवासी च पुनः पत्नी समन्वितः ।
इष्टकाम्यफलं काम्यं शिवरात्र्युपवासके ॥ १२० ॥

निद्रायां तु फलं हीनं निद्राहीनं तु तत्फलम् ।
तस्मात् सर्वप्रयत्नेन उपवासमनिद्रकम् ॥ १२१ ॥

ऋग्यजुस्सामवेदानां चतुर्भिः प्रतियामके ।
ब्राह्मणैर्मुनिभिस्सार्धं देशिकस्संप्रपूजयेत् ॥ १२ ॥

विघ्नेशं पूजयेत् पूर्वं सौरपूजामतः परम् ।
शालिभिः स्थण्डिलं कृत्वा पुण्याहं वाचयेत्ततः ॥ १२॥

पूर्वे तु पंचगव्यं स्यात् पंचामृतं द्वितीयके ।
तृतीये स्नानमाप्यं तु इक्षुसारं चतुर्थके ॥ १२४ ॥

यामं प्रतिविशेषेण पूजयेद्देशिकोत्तमः ।
पूर्वे तु स्नपनं प्रोक्तं अष्टोत्तरशतं भवेत् ॥ १२५ ॥

द्वितीये स्नपनं प्रोक्तं पंचाशत्कलशं भवेत् ।
तृतीये स्नपनं चैव पंचविंशति संख्यया ॥ १२६ ॥

चतुर्थे स्नपनं चैव नवकुम्भेन पूजयेत् ।
यामं प्रति विशेषेण स्नपनं कारयेद्बुधः ॥ १२७ ॥

पूर्वयामे तु संस्थाप्य बिल्वपत्रैस्समर्चयेत् ।
द्वितीये पद्मपुष्पैश्च तृतीये जातिपुष्पकैः ॥ १२८ ॥

नन्द्यावर्तैश्च संपूज्य चतुर्यामं तु पूजयेत् ।
चतुस्संध्यार्चनं कुर्यात् बिल्वपत्रैस्समन्वितम् ॥ १२९ ॥

मुद्गान्नं प्रथमे चैव द्वितीये पायसान्नकम् ।
तृतीये कृसरान्नं स्यात् शुद्धान्नं स्याच्चतुर्थके ॥ १३० ॥

यामं प्रतिविशेषेण क्षेत्रपालं समर्चयेत् ।
यामं प्रतिविशेषेण बलिहोमं समाचरेत् ॥ १३१ ॥

देशिकं पूजयेत्तत्र वस्त्र हेमांगुलीयकैः ।
एवं संपूज्य विधिवत् शिवलोके महीयते ।

---------------------------------

सूर्येन्दु वह्निमय भास्वर दीप्य पीठां
स्वेच्छा गृहीत सृणिपाशशरेक्षु चापाम् ।
बालेन्दु मौलिमलकाभरणां त्रिणेत्रां
नित्यं नमामि मनसा महनीयकीर्तितम् ॥ १३३ ॥

पृथ्वी गृहं सुरदलाम्बुजमष्टपत्रं
लोकाश्रकं द्विदशकोणमथाष्टकोणम् ।
अन्तस्त्रिकोणमदि मध्यममादि पीठं
तत्सर्वमम्ब तव रूपमनुस्मरामि ॥ १३४ ॥

बालार्क मण्डलाभासं चतुर्बाहुं त्रिलोचनाम् ।
पाशांकुशधनुर्बाणान् धारयन्तीं शिवांभजे ॥

(शुभमस्तु)