प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← पटलः ९४ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ९६ →



अथ बेरं ताम्रजं शैलं दारवं वा विधीयते ।
दारवान्मृण्मयं श्रेष्ठं मृण्मयाच्छैलमुत्तमम् ॥ १ ॥

शैलजात्ताम्रजं मुख्यं भवति ध्रुवार्च्चाचेत् ।
ताम्रजं शिलैर्वा कुर्यात् बेरायामं तदर्धायाममुत्तमम् ॥ २ ॥

गुणांशान्मध्यमं द्व्यंशं मध्यमात्तच्छरांशकम् ।

तद्धामविसृतार्धं द्विधा कृत्वा तस्या परार्धं
षड्विंशतिभागं कृत्वा तत् पूर्वार्धमंशेन
सहैकैकसमयोजयेत् । सप्तविंशति तदुत्सेधं भवति । गर्भागारस्य
चतुर्चतुर्भागं त्रिभागं द्विभागं शरांशाद् गुणांशगर्भार्धं
वा । तस्यापरार्धमपूर्ववत् कुर्यात् । पादोत्सेधं द्वारोत्सेधं वा ।
तत्पादहीनमर्धं वा * * वांशो हीनमष्टमांशोनं वा अधिष्ठानस्य
पादमर्धं त्रिपादसमं पादाधिकपादो द्विगुणं वा । तन्मानेन
गुणांश हस्तमानांगुलेन पंचविंशत्यंगुलाद्यैक
चत्वारिंशदंगुलान्तं द्व्यंगुलबृद्ध्यांगुलि भेदं न तथा भवति ।
यन्मान समन्ताष्टांशं कृत्वा एकद्वित्रि चतुरंशाधिन्नेत्रांस्य
बाहुस्तनान्तमित्येतद् नवधा भवति । एतेष्विष्टमानं विनिश्चित्य
पदादुष्णीषान्तं ध्रुवभेतकारयेत् । तच्चित्रं चित्रार्घं
चित्राभासमिति त्रिविधं भवति । उत्तमं चित्रं मध्यमचित्रमाभासमयं
षण्मानैः सहिअं चित्रनाहार्धसंदर्शनमर्धचित्रं नाहोन्नतिभ्यां
हीनं अयत्नदाभासा सा सर्वत्रलोहजं मृण्मयं चित्रमेवार्ध
चित्रमेवार्धचित्रं न कारयेत् । कुर्याच्चेदाभिचारिकं भवति । लोहजं
दारवं चित्रं अर्धं वा कारयेत् । आभासं पटकुट्यादि लेख्यं बेरे
चित्रर्चनमैहिकामुष्मिकप्रदं अर्धविचित्रार्चनं वा
केवलामुष्मिकफलप्रदं आभासेऽर्चनमैहिक फलप्रदं तथाभासं
द्विविधं भवति । अचलमित्यचलभित्तौ लिखितं च । लंपटे लिखितं
तस्मादचलमेव कारयेत् । दाभासं भित्तौ समुल्लिखितस्तन्नक्षिमोचनं
ध्रुवबेरशुद्धिं च कृत्वा । देवीमानं । देव्या बाहुस्तनान्तं वा
कण्ठान्तं वा देव्योर्मननम् । मन्योर्विंशशेषिकयोरन्येषां
परिवाराणां च तत्तत्समम् । पादहीनं मध्यपादं वा
तत्तदालयवशाद्वा कारयेत् । ब्रह्माणं शंकरं च ध्रुवबेरसमं
नवांशोनमष्टांशोनं वा कारयेत् । येन द्रव्येण देवः कृतः तेन
द्रव्येण देव्यादिपरिवान्तं तत्तदालयक्रमेण कारयेत् ।

इति श्री वैखानसे मरीचि प्रोक्त बेरोन्नतकल्पविधि पटलः ॥



अथ वक्ष्ये विशेषेण प्रतिमानां तु लक्षणम् ।
प्रकारं पापनाशं स्यात् तिकारं शान्तिकं विदुः ॥ १ ॥

मकारं पुत्रवृद्धिं स्यात् नकारं पुण्यदं भवेत् ।
मूलबेरस्य मानं तु आलयांशेन कारयेत् ॥ २ ॥

आलयांशविभागेन ज. * न्मांशकेन च ।
द्व्यंशेनैव कर्तव्यं प्रतिमानां तु कारयेत् ॥ ३ ॥

मूलबेरस्य सार्धं वात्त्रिभागं वा द्विभागकम् ।
अर्धांशेनोत्तमं विद्यात् तृतीयांशंतु मध्यमम् ॥ ४ ॥

तुरीयांशं च भागेन त्वधमं च प्रकीर्तितम् ।
उत्तमं मध्यमं वाप्य धमं वाथ कन्यसम् ॥ ५ ॥

बेरमानं च कर्तव्यं प्रतिमानां तु लक्षणम् ।
युक्तायुक्तं विचार्याथ प्रतिमानां च कारयेत् ॥ ६ ॥

बेरमानविधिः

शिलाग्रहणविधिः


अन्तर्गर्भास्तु विज्ञेया बाह्यलक्षणलक्षिताः ।
लक्षितेषां लेपयेत् * * * * * * * * * ।
ब्रह्माणं वज्रपाणिं च शूलपाणिं च वैष्णवम् ॥ १ ॥

अजक्षीरेण संयोज्य उपलं लेपयेत्तदा ।
लेपिते यत्क्लिन्नं स्यात् एकरात्रोषिते तथा ॥ २ ॥

स गर्भान्तर्विजानीयात् सितागोसासुवृश्चिकम् ।
श * * * कृष्णजीर्णे तु * * * * * * ।
कासीसं पीतलोध्रं च गोक्षीरेण तु षेषयेत् ॥ ३ ॥

लेपिते तु शिलां तेन रुधिराभा यदा भवेत् ।
दिवसैस्सक्थुभिश्चैव एकरात्रोषितं तथा ॥ ४ ॥

तद्दशस्तत्रिविज्ञेया कूर्मेवाथ न संशयः ।
पृथ्वीत्रशूलिनी ब्राह्मं महीं क्षीरं च षेषितम् ॥ ५ ॥

लेपिते तु शिलान्तेन रुधिराभयदा भवेत् ।
कृष्णमनो भवेत्तत्र कृकलासमथापि वा ॥ ६ ॥

मत्तकं करवीरं च कुष्ठमंजिफलत्रयम् ।
एतानि श्लिष्णयित्वा तु स्त्रीस्तन्येनैव पोषयेत् ॥ ७ ॥

अश्मानं शक्तमत्रयदि स्यात् ।
कालकूटविषं तत्र न तु हस्तेन संस्पृशेत् ॥ ८ ॥

ग्रहाणां लक्षणं ह्येवं शिलाग्रहणमारभेत् ।
शिला स्थापयित्वा तु भुवं पश्चात् समीपतः ॥ ९ ॥

ततो गुरुः ॥

पंचगव्येन संप्रोक्ष्य पवमानमुदीरयन् ।
गन्धं पुष्पं तथा धूपं दीपं नैवेद्यमेव च ॥ १० ॥

सद्यादि वामभिर्दत्वा शिलायां संप्रपूजयेत् ।
ततोऽस्य पूर्वभागे तु होमकर्म समारभेत् ॥ ११ ॥



पंचांशं लिंगविष्कंभं चतुरश्री कृते तु तत् ।
तत्कर्णद्विगुणांशं वा द्विगुणं वार्धमेव वा ॥ १ ॥

पीठव्यासमिति ख्यातं तेन तत्त्रिचतुर्गुणम् ।
गर्भगेहस्य विस्तारं कुड्यं गर्भसमं तु वा ॥ २ ॥

त्रिभागं वाग्निभागेशं गर्भगेहार्धमेव वा ।
अग्निव्यासमिति ख्यातं प्राग्वत् * * तु शक्तिकात् ॥ ३ ॥

रुद्रांशं नाहसदृशं पीठतारमुदाहृतम् ।
तेन द्वित्रिचतुर्गुण्यं गर्भगेहस्य विस्तरम् ॥ ४ ॥

नालीगृहं तु संकुंड्य तारं त्रिपादमेव वा ।
पूर्ववद्भित्तिकाख्यातं नाहं रुद्रांशकस्य तु ॥ ५ ॥

चतुरश्रीकृते कर्णं पीठव्यासमुदाहृतम् ।
तेनैव द्विगुणांशं वा त्रिगुणं वा चतुर्गुणम् ॥ ६ ॥

गर्भगेहविशालं स्यात् तस्यार्धं कुड्यविस्तृतम् ।
पंचभागैकभागं वा अग्न्यंशेंशमथापि वा ॥ ७ ॥

चतुर्भागैकभागं वा तुंगं प्रागिव कल्पयेत् ।
पूजांशोच्चे युगाश्रं तु द्विगुणे वा युगाश्रके ॥ ८ ॥

कर्णं पीठविशालं स्यात्तेन द्वित्रिचतुर्गुणम् ।
पंचांगुणं तु वा गर्भगेह व्यासमुदाहृतम् ॥ ९ ॥

त्रिचतुष्पंच षड्भागेकांशं कुड्यविशालकम् ।
शान्तिकाभ्युदयं ख्यातं पूर्ववद्द्विजसत्तम ! ॥ १० ॥

रुद्रांशतारद्विगुणं चतुरश्री कृते सति ।
कर्णपीठततं ख्यातं तद्द्वयं गर्भविस्तृतम् ॥ ११ ॥

त्रयं वा विसृतं तस्य चतुर्गुणमथापि वा ।
त्रिचतुष्पंच भागेंशं कुड्यस्य व्यासमुच्यते ॥ १२ ॥

पूजांशस्य परीणाहे द्विरष्टांशं विभाजिते ।
मंचांशं चतुरश्राभे कर्णपीठ विशालकम् ॥ १३ ॥

तेनैव द्विगुणं वापि त्रिगुणं वा चतुर्गुणम् ।
नालिगेहं विशालं स्यात् तदर्धं कुड्यविस्तृतम् ॥ १४ ॥

चतुर्भागैकभागं वा वस्वंशेंशमथापि वा ।
अग्निभागैकभागं वा गर्भकुड्यं तु पूर्ववत् ॥ १५ ॥

लिंगविष्कम्भकर्णं तु चतुरश्री कृते बुधः ।
तत्कर्णं तु दशांशेन पिण्डिका व्यासमुच्यते ॥ १६ ॥

तेन द्वित्रिगुणं वापि चतुष्पंचगुणं तु वा ।
नालीगृहविशालं स्यात् तस्यार्धं भित्ति विस्तृतम् ॥ १७ ॥

त्रिचतुष्पंच षट्सप्तभागैकांशं तु भावयेत् ।
कुट्टिमस्य विशालं तु तुंगं पूर्ववदेव हि ॥ १८ ॥

लिंगविष्कम्भत्रिगुणं पीठ व्यासमुदाहृतम् ।
तेन द्वित्रिगुणं वापि नालीगेहविशालकम् ॥ १९ ॥

तदर्धं त्रिचतुर्भागं भागं वा कुड्यविस्तृतम् ।
शान्तिकाभ्युदयं प्राग्वत् कर्तव्यं हि विशेषतः ॥ २० ॥

विष्कंभे चतुरश्रे तु कर्णमध्यर्धमेव वा ।
द्विगुणं द्विगुणार्धं वा त्रिगुणं पिण्डिका ततः ॥ २१ ॥

तेन द्वित्रिचतुष्पंच गुणं वा गर्भगेहकम् ।
पीठव्याससमं सार्धद्विगुणं द्विगुणार्धकम् ॥ २० ॥

कुड्यव्यासमिति ख्यातं तुंगं पूर्वतदेव हि ।
पूजांशस्यैव द्विगुणं पीठ व्यासमुदाहृतम् ॥ २३ ॥

तेन द्वित्रिचतुष्पंच गुणं वा नालिगेहकम् ।
तदर्धं त्रिपादमग्न्यंशं भित्तिव्यासमुदाहृतम् ॥ २४ ॥

शान्तिकाभ्युदयं प्राग्वत् कल्पयेद्देशिकोत्तमः ।
हीने हीनप्रमाणेषु द्वन्तरेष्टविभाजिते ॥ २५ ॥

प्रत्येकं नवधा पीठ व्यासन्नालीगृहं तथा ।
कुड्यव्यासं च हर्म्यैश्च कर्तव्यं नवधा द्विज ! ॥ २६ ॥

एकानेकतलं वापि कूटकोष्ठादिसंयुतम् ।
साधारं वा निराधारं प्रागुक्त विधिना कुरु ॥ २७ ॥

एवं स्वायंभुवानां च लिंगानां बाणसंज्ञताः ।
रत्नलोहजलिंगानां पीठनालीगृहायतम् ॥ २८ ॥

कारयेत्तु विशेषेण सर्वलोकहिताय वै ।
स्थूलमूलं शिरः स्थूलं मध्यस्थूलं तु आर्षकम् ॥ २९ ॥

स्थूलदेशे * * नाहं विष्कंभं चैव संगृहेत् ।
पाषाणं च शिरोमानं विना तुंगं तु संगृहेत् ॥ ३० ॥

पौरुषाद्यन्यलिंगानां नाहं त्रिस्सप्तधा भजे ।
तेष्वेकांशकलांशेंशं लिंगमध्यात्तु दक्षिणे ॥ ३१ ॥

व्यपोह्य निर्मितं सूत्रं गर्भगेहस्य मध्यमम् ।
प्रासादमध्यसूत्रं च द्वारमध्यं तदेव हि ॥ ३२ ॥

नेमयुक्त्यात्र्यक्लत् सूत्रं कल्प्य प्रासादमाचरेत् ।
येन लिंगेन यन्मानं निर्मितं सदनस्य तु ॥ ३३ ॥

युग्मं वा युग्महस्तं तु हस्तच्छेदं प्रपूरयेत् ।
यवादि रसमात्रान्तं हीनं वाप्यधिकं तु वा ॥ ३४ ।

गर्भगेहविशालं स्यात् समाश्रमायताश्रकम् ।
स पादं सार्धपादोनद्विगुणं त्रिगुणं तु वा ॥ ३५ ॥

गर्भगेहायतं ख्यातं कुड्यं तदर्धविस्तृतम् ।
त्रिपादं वा त्रिभागैकं शेषं पूर्ववदेव हि ॥ ३६ ॥

प्. ४०६) नागरे शान्तमूर्तीनां राजसानां तु द्राविडे ।
वेसरे नृत्तमूर्तीनां रौद्राणां यानमूर्तिनाम् ॥ ३७ ॥

क्रमेण सदनं ख्यातं तत्तद्युक्त्या तु कल्पयेत् ।
विपरीतं न कर्तव्यं सर्वोदय फलार्थिभिः ॥ ३८ ॥


इत्यंशुमान्काश्यपे लिंगप्रासादपटलः (पंचनवतितमः) ॥ ९५ ॥