अंशुमत्काश्यपागमः/नवभूमिविधानपटलः ३५

← पटलः ३४ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ३६ →




अथ वक्ष्ये विशेषेण नवभूमिविधिं परम् ।
प्रासादमानवत्कार्यं गेहव्यासं तदुन्नतम् ॥ १ ॥

पंचादश भजेत्तारं गुणांशं गर्भगेहकम् ।
द्विभागा गृहपिण्डी स्यात् अलिन्दं चैक भागया ॥ २ ॥

व्योमांशं कुड्यविस्तारं अलिन्दं तत्समं भवेत् ।
हाराव्यासं शिवांशेन कल्पयेत्कल्पवित्तमः ॥ ३ ॥

अथवा षोडशांशं तु प्रासादं विभजेत्ततः ।
युगांशं गर्भगेहं तु द्विभागं ग्रहपिण्डिकाः ॥ ४ ॥

अलिन्दं व्योमभागेन हारा चैव तु तत्समम् ।
विन्याससूत्ररन्तं वा कलांशं विभजेत्समम् ॥ ५ ॥

एकांशं सौष्टिकव्यासं कोष्ठं तद्द्विगुणायतम् ।
पंजरव्यासमेकांशं कर्णकूटशिवाकृतिः ॥ ६ ॥

हारान्तरमथांशेन कल्पयेत्कल्पवित्तमः ।
चतुष्कूटाच्चतुश्शाला कलापंजर संयुतम् ॥ ७ ॥

हारान्तरं च द्वात्रिंशत्कल्पयेदादि भूतले ।
एवमेव प्रकर्तव्यं द्वितीयं च महीतलम् ॥ ८ ॥

तृतीयभूतलव्यासं मुनिभागविभाजिते ।
अर्धांशं पंजर व्यासं शेषं पूर्ववदाचरेत् ॥ ९ ॥

तद्वच्चतुस्तलं चैव कल्पयेत्कल्पवित्तमः ।
पंचभूमिविशालं च भानुभागविभाजिते ॥ १० ॥

१३६) एकांशं कूटविस्तारं शाला तद्द्विगुणायतम् ।
अर्धांशं पंजरव्यासं स्यादर्धं हारयोन्तरम् ॥ ११ ॥

भानुशाला चतुष्कूटं पंजरं षोडशैव तु ।
हारान्तरं तु द्वात्रिंशत् कल्पयेत्कल्पवित्तमः ॥ १२ ॥

दशांशं षट्तलव्यासं कृत्वैकांशं तु सौष्टिकम् ।
कोष्ठं तद्द्विगुणायामं अर्धांशं हारयोन्तरम् ॥ १३ ॥

लम्बपंजरसंयुक्तं हारान्तरं प्रकल्पयेत् ।
तदूर्ध्वभूविशालं तु रसभाग विभाजिते ॥ १४ ॥

एकांशं कूटविस्तारं कोष्ठदीर्घं तु तद्द्वयम् ।
पंजरव्यासमर्धांशं शेषं हारान्तरं भवेत् ॥ १५ ॥

तदूर्ध्व भूविशालं तु गुणभागविभाजिते ।
मध्येंशं दण्डमानेन निर्गमं परिकल्पयेत् ॥ १६ ॥

साष्टाशीति द्विभागं तु कृत्वा हर्म्योदयं बुधः ।
पादोनचतुरंशं तु धरातलमुदाहृतम् ॥ १७ ॥

पादोच्चं सार्धसप्तांशं सार्धाग्न्यंशं तु प्रस्तरम् ।
सप्तांशं चरणोच्चं तु सपादाग्न्यंश मंचकम् ॥ १८ ॥

सार्धषट्कांघ्रि तुंगं तु गुणांशं मंचमानकम् ।
षड्भागं पादमानं तु पादोनाग्न्यंशमंचकम् ॥ १९ ॥

पादोच्चं सार्धभूतांशं सार्धपक्षांशमंचकम् ।
सपादं पंचभागं तु पादस्योत्सेधमुच्यते ॥ २० ॥

प्रस्तरं सार्ध पक्षांशं भूतांशं चरणोदयम् ।
पादाधिकद्विभागं तु प्रस्तरस्योदयं भवेत् ॥ २१ ॥

पादोनपंचकं पादं प्रस्तरोच्चं द्विभागया ।
प्. १३७) सार्धवेदांशकं पादं पादोनद्व्यंशमंचकम् ॥ २२ ॥

शिवांशं वेदिकोत्सेधं कर्णं चाध्यर्ध भागया ।
शीर्षकं सार्धवेदांशं पादोन द्व्यंशकुड्मलम् ॥ २३ ॥

पादं प्रत्यल्पनासाढ्यं शीर्षके वेदनासिका ।
समंचोन्नतकूटाढ्यं कूटाग्रं चतुरश्रकम् ॥ २४ ॥

होमादि स्थूपि पर्यन्तं युगाश्रं परिकल्पयेत् ।
अशेषमध्यशालास्तु पार्श्वकोष्ठस्तु निर्गतिः ॥ २५ ॥

दण्डं वाऽध्यर्धदण्डं वा नाम्ना लम्बितभद्रकम् ।
तदेवोन्नतकोष्ठाः स्युः मंचोन्नतकूटकम् ॥ २६ ॥

ब्रह्मकान्तमिदं नाम्ना सर्वदेव प्रियावहम् ।
समंचं वा विमंचं वा कूटकोष्ठौ समुन्नतौ ॥ २७ ॥

प्रादेशमिति विख्यातं देवानां तु हितं परम् ।
तदेव शिखरं कण्ठं वस्वश्रं चाष्टनासिकाः ॥ २८ ॥

युगाश्रं वसुकोष्ठं च वृत्तं सौष्टि पुनः पुनः ।
सौष्ट्यंशेन युगाश्रं वा श्रीवर्धनमिदं परम् ॥ २९ ॥

समंचौ कूटकोष्ठौ द्वौ विमंचौ वाथ सादृशौ ।
वृत्तग्रीवाशिरोपेतं चतुर्दिग्भद्रनासिकाः ॥ ३० ॥

विदिक्षु भद्रनासाढ्य युग्मं वाऽयुग्ममेव वा ।
युग्मपंजरसंयुक्तं सुपद्ममिति विद्यते ॥ ३१ ॥

तदेव प्रतिसौष्ट्यग्रं क्रतुवर्धनमुच्यते ।
प्. १३८) तदेवगर्भगेहं तु वृत्तं वृत्त गृहं भवेत् ॥ ३२ ॥

एवं नवतलं ख्यातं दशभूमिमथोपरि ॥ ३२/½ ॥

इत्यंशुमान्काश्यपे नवभूमिविधानपटलः (पंचत्रिंशः) ॥ ३५ ॥