अंशुमत्काश्यपागमः/दशभूमिविधानपटलः ३६

← पटलः ३५ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ३७ →


अथ वक्ष्ये विशेषेण दशभूमेस्तु लक्षणम् ।
प्राग्वत्प्रासादमानोक्तमार्गेणैवोदयं तथा ॥ १ ॥

कल्पयित्वा तु तत्तारं मुनिभागविभाजिते ।
वेदांशगर्भगेहं तु गृहपिण्डी त्रिभागया ॥ २ ॥

अलिन्दं चैकभागेन हारातारं शिवांशकम् ।
विन्याससूत्रयोरन्तर मुनिभागविभाजिते ॥ ३ ॥

तेष्वेकं कूटविस्तारं शालादीर्घं तु तद्द्वयम् ।
एकांशं पंजरव्यासं पादं हारान्तरं भवेत् ॥ ४ ॥

चतुष्कूटांच्च शाला च पंजरं षोडशान्वितम् ।
हारान्तरं च द्वात्रिंशत् कल्पयेदादि भूतले ॥ ५ ॥

तदूर्ध्व भूमिविस्तारं त्रयोदशविभाजिते ।
एकांशकर्णकूटं तु शाला तद्द्विगुणायता ॥ ६ ॥

त्रिपादं पंजरव्यासं पादं हारान्तरं भवेत् ।
कूटादीनां तु संख्या तु आदिभूमिसमं भवेत् ॥ ७ ॥

प्. १३९) ऊर्ध्वभूविस्तृतं भानु भागं कृत्वानु सौष्टिकम् ।
द्विगुणं कोष्ठदीर्घं तु अर्धांशं पंजरस्ततम् ॥ ८ ॥

पादं हारान्तरव्यासं तेषां संख्या तु पूर्ववत् ।
तस्योर्ध्वतलविस्तारं रुद्रभागविभाजिते ॥ ९ ॥

पादं पंजरविस्तारं शेषं पूर्ववदेव हि ।
ऊर्ध्वभूमि विशालं तु व्योमांशं कूटविस्तृतम् ॥ १० ॥

कोष्ठं तद्द्विगुणं ख्यातं शेषं हारान्तरं समम् ।
हारान्तर त्रिभागैकं पंजरव्यासमुच्यते ॥ ११ ॥

तस्योर्ध्वभू नवांशे तु शिवांशं सौष्टिकं भवेत् ।
अध्यर्धांशं तु कोष्ठं स्यात् शेषं हारान्तरं समम् ॥ १२ ॥

हारान्तर त्रिभागैकं पंजरव्यासमुच्यते ।
प्राग्वत्कूटादिनां संख्या रसभूरेवमेव हि ॥ १३ ॥

अष्टांशं विभजेत्सप्ततलविस्तारमेव हि ।
कूटमेकांशमानेन मध्ये शाला द्विभागया ॥ १४ ॥

पंजरव्यासमेकांशं हारान्तरं तदर्धकम् ।
चतुष्कूटं चतुश्शाला पंजराष्टकसंयुतम् ॥ १५ ॥

हारान्तरं कलासंख्या कल्प्येवं सप्तमं तलम् ।
सप्तांशं विभजेदष्टभूमेश्चैव तु विस्तरम् ॥ १६ ॥

प्राग्वत्कूटं च कोष्ठं च शेषं हारान्तरं भवेत् ।
हारान्तराग्नि भागैकं मध्यपंजर विस्तृतम् ॥ १७ ॥

नवभूमि विशालं तु षड्भागं विभजेत्समम् ।
प्राग्वत्कूटं च कोष्ठं च पंजरं च प्रकल्पयेत् ॥ १८ ॥

तदूर्ध्वभूमिविस्तारं नवांशं तु विभाजिते ।
मध्ये भद्रं तदेकांशं दण्डमानेन निर्गतिः ॥ १९ ॥

प्रासादस्य चोत्सेधं शतभागविभाजिते ।
युगांशं तदधिष्ठानं अष्टांशं चरणायतम् ॥ २० ॥

पादोन वेदभागं तु मंचमानमुदाहृतम् ।
पादोच्चं सार्धसप्तांशं प्रस्तरं सार्धवह्निकम् ॥ २१ ॥

धात्वंशं चरणोच्चं तु स पादाग्न्यंशमंचकम् ।
सार्धषट्कांघ्रि तुंगं तु प्रस्तरं चाग्नि भागया ॥ २२ ॥

रसांशं पाददीर्घं तु पादोनाग्न्यंशमंचकम् ।
पादोच्चं सार्धपंचांशं सार्धपंचांशमंचकम् ॥ २३ ॥

पादाधिकं तु पंचांशं पादोत्सेधं तदुच्यते ।
सार्धपक्षांश मंचोच्चं पंचांशं पाददीर्घकम् ॥ २४ ॥

पादाधिकं तु पक्षांशं मंचमानमुदाहृतम् ।
स त्रिपादयुगांशं तु पाददीर्घमुदाहृतम् ॥ २५ ॥

प्रस्तरोच्चं द्विभागं तु सार्धवेदांशमंघ्रिकम् ।
पादोन द्व्यंशमंचं स्यात् शश्यंशं तु वितर्दिकम् ॥ २६ ॥

प्. १४१) कण्ठमध्यर्धभागेन शीर्षकं सार्धवेदकम् ।
पादहीनद्विभागं तु स्थूप्युत्सेधमुदाहृतम् ॥ २७ ॥

अग्नाकारं युगाश्रं तु शिखरे युग्मनासिका ।
पादं प्रत्यल्पनास्याढ्यं नानापादं रसातलम् ॥ २८ ॥

अत्यन्ताकारसंयुक्तं सर्वदेवप्रियावहम् ।
तदेवोन्नतकूटं चेत् इन्द्रकान्तमिति स्मृतम् ॥ २९ ॥

तदेवोन्नत कोष्ठं च नतं वोन्नतसौष्टिकम् ।
पक्षशाला तु मध्यस्था शाला दण्डेन नीव्रकम् ॥ ३० ॥

अष्टाश्रशिखरं कण्ठं शिखरेष्टौ तु नासिकाः ।
नानालंकारसंयुक्तं चतुष्कूटमिदं तथा ॥ ३१ ॥

तदेव कूटकोष्ठं च सान्तरप्रस्तरं समम् ।
कूटकोष्ठादिसंयुक्तं समसूत्रमथोपरि ॥ ३२ ॥

मंत्रपूतमिति ख्यातं विमानं सार्वदेशिकम् ।
तदेवशिखरं कण्ठं वृत्ताभं परिकल्पयेत् ॥ ३३ ॥

श्रीकान्तमिति विख्यातं सर्वदेवार्हकं गृहम् ।
तदेव कर्णकूटानां शीर्षकं च गलं तथा ॥ ३४ ॥

वृत्ताकारं प्रकर्तव्यं यत्तदीश्वरकान्तकम् ।
दशभूम्येवमाख्यातं ततस्त्वेकादशं तलम् ॥ ३५ ॥


इत्यंशुमान्काश्यपे दशभूमिविधानपटलः (षट्त्रिंशः) ॥ ३६ ॥