अंशुमत्काश्यपागमः/परिवारविधिपटलः ५०

← पटलः ४९ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ५१ →


द्विभुजांजनसंकाशां लम्बोष्ठांगनासिकाम् ।
लम्बमानस्तनोकुक्षी नीलं वा रक्त वाससम् ॥ १ ॥

उत्पलं दक्षिणे हस्ते पीठे वामकरं न्यसेत् ।
भद्रपीठस्थितासीनां द्विपादं चैव लम्बितम् ॥ २ ॥

सर्वाभरणसंपन्नां वासिकाबद्धमाकुटीम् ।
काकध्वजसमायुक्तां अलकातिलकान्विताम् ॥ ३ ॥

तस्या दक्षिणपार्श्वे तु वृषो वै वृषभाननः ।
द्विभुजो दक्षिणे हस्ते दण्डं वामे तु सूचिधृक् ॥ ४ ॥

लम्बयेद्दक्षिणं पादं वाममुत्कुटिकासनम् ।
श्वेतवर्णं महाकायं सर्वाभरणभूषितम् ॥ ५ ॥

वृषं वै दक्षिणे त्वेवं वामे मण तथोच्यते ।
सुस्तना यौवनांगा च सर्वाभरणभूषिता ॥ ६ ॥

कृष्णाजिननिभा रक्तवस्त्रेणैव विभूषिता ।
द्विनेत्रा करण्डमकुटा वामपादं प्रलम्बितम् ॥ ७ ॥

सव्ये तत्कुटिकासीना हस्ते उत्पलधारिणी ।
एवं ज्येष्ठा समाख्याता दुर्गालक्षणमुच्यते ॥ ८ ॥

चतुर्भुजा द्विनेत्रा च सस्यश्यामनिभा वरा ।
सौम्या पीताम्बरोपेता पीनोरुजघनस्तनी ॥ ९ ॥

करण्डमकुटोपेता सर्वाभरणभूषिता ।
अभयं दक्षिणं हस्तं खड्गं वै वामहस्तकम् ॥ १० ॥

पर हस्ते तु सव्ये तु चक्रं वामे तु शंखभृत् ।
समपात्स्थानकं कुर्यात् पद्मपीठोपरि स्थिता ॥ ११ ॥

नागेन्द्रेण स्तनौ बध्वा रक्तकंचुकधारिणी ।
एवं दुर्गा समाख्याता विष्णुलक्षणमुच्यते ॥ १२ ॥

विष्णुं किरीटमकुटं कटिसूत्रादि भूषितम् ।
पीताम्बरधरं सौम्यं चतुर्भुजसमन्वितम् ॥ १३ ॥

अभयं दक्षिणे हस्ते कटकं वामहस्तके ।
परहस्ते तु वामे तु शंखं चक्रं तु दक्षिणे ॥ १४ ॥

पद्मपीठोपरिष्टात्तु सस्यश्यामनिभाकृतिम् ।
आसीनं वा स्थितं वापि सव्यासव्ये श्रियावनी ॥ १५ ॥

संयुक्ता केवलं वाथ कर्तव्यं विष्णुमूर्तिनः ।
एकवक्त्रं द्विहस्तं च जातिलिंगसमप्रभम् ॥ १६ ॥

ईषद्विजृम्भपद्मौ द्वौ स्कन्धेनैव करोद्धृतौ ।
करण्डमकुटोपेतं स्वमण्डलमकुटो परे ॥ १७ ॥

छन्नवीरसमायुक्तं उपवीतयुतं तु वा ।
रक्तरंजकबद्धाभं सर्वाभरणभूषितम् ॥ १८ ॥

समपात्स्थानकं कुर्यात् पद्मपीठोपरि स्थितम् ।
सौम्यनेत्रद्वयोपेतं सौरमेवं प्रकल्पयेत् ॥ १९ ॥

श्यामवर्णं द्विहस्तं च रक्ताम्बरधरं शुभम् ।
किरीटमकुटोपेतं सर्वाभरणभूषितम् ॥ २० ॥

शक्तिं दक्षिणहस्ते तु वामहस्तेंकुशं धृतम् ।
विशालोदरं तथाग्रीवं * शची समन्वितम् ॥ २१ ॥

द्विनेत्रं सौम्यवदनं सिंहासनोपरि स्थितम् ।
आसीनं वा प्रकर्तव्यं गजारूढमथापि वा ॥ २२ ॥

इन्द्रमेवं समाख्यातं अश्विनी तु तथोच्यते ।
एकसिंहासनासीनावश्विन्यौ विश्वरूपिणौ ॥ २३ ॥

दाडिमी पुष्पसंकाशौ उभयोः सोपवीतिनौ ।
फुल्लरक्तोत्मलाक्षौ च पीतासृग्वस्त्रधारिणौ ॥ २४ ॥

नासत्यौ नाकमरुतौ चूडामुकुट धारिणौ ।
करद्वयसमायुक्तौ स्त्रीभूषण विभूषितौ ॥ २५ ॥

अभयं दक्षिणे हस्ते पुस्तकं वामहस्तके ।
लम्बितौ दक्षिणौ पादौ वामे वैकुटिकासनौ ॥ २६ ॥

देवानां भिषजोपेतौ यत्किंचित्सापिधायकौ ।
तयोः पार्श्वद्वये विप्र दक्षिणादक्षिणे क्रमात् ॥ २७ ॥

मृतसंजीविनी चैव संस्थितौ चामरा धरौ ।
परिविशालकरणी वश्विन्यौ पीतपिंगलौ ॥ २८ ॥

वामे सधन्वन्तरिश्चैव मत्रयं च तथैव च ।
पीतरक्तनिभोपेतौ * * * कृष्णवाससौ ॥ २९ ॥

खड्गखेटकहस्तौ द्वौ सर्वाभरणभूषितौ ।
अश्विन्येवं समाख्यातौ पितृरुपमथोच्यते ॥ ३० ॥

पितरस्सुभगा वृद्धकेशबन्धसमन्विताः ।
पीतवर्णांग केशास्ते वासीकाबद्धमस्तकाः ॥ ३१ ॥

यज्ञसूत्रसमायुक्ताः द्विभुजाः श्वेतवाससः ।
नागाभरणसंयुक्ताः भस्मोद्धूलितविग्रहाः ॥ ३२ ॥

सितदन्तसमायुक्ताः सौम्यदृग्वदनान्विताः ।
फलका भद्रपीठे वा पितरस्तु महासनाः ॥ ३३ ॥

वामजानूपरिन्यस्त वामहस्तसमन्विताः ।
सूचिर्दक्षिणहस्तास्तु पितरस्त्रय उच्यते ॥ ३४ ॥

पितरस्तु समाख्याता शृणु वैवस्वतं ततः ।
द्विभुजं कृष्णवर्णं तु खड्गखेटकधारिणम् ॥ ३५ ॥

करालदंष्ट्रवदनं रक्तमाल्यानुलेपनम् ।
रक्तवस्त्रधरं चोग्रं किरीटमकुटान्वितम् ॥ ३६ ॥

दीप्ताग्नि सदृशाक्षं च महामहिषवाहनम् ।
यमवत्तस्य पार्श्वस्थौ तमिवश्मश्रुवक्त्रकौ ॥ ३७ ॥

चित्रगुप्त कली चैव द्वारपार्श्वे तु संस्थितौ ।
कृष्ण श्याम निभो पेतौ रक्तवस्त्रधरावुभौ ॥ ३८ ॥

पीठपार्श्वस्थितौ मृत्युसहितावुग्रतेजसौ ।
नीललोहितसंकाशौ द्वौ चामरधृतिस्त्रियौ ॥ ३९ ॥

पुरतः संस्थितौ विप्र ! धर्माधर्मसमाह्वयौ ।
यमः सिंहासनासीनो महिषोपरि रोहितः ॥ ४० ॥

यमलक्षणमाख्यातं रोहिणी लक्षणं तथा ।
करण्डमकुटा रक्ता द्विभुजा च सुशोभना ॥ ४१ ॥

सर्वाभरणसंयुक्ता नागहस्ता सिताम्बरा ।
आसीनो वा स्थितो वापि सप्तसंख्या च रोहिणी ॥ ४२ ॥

रोहिण्या लक्षणं ख्यातं निर्-ऋतेर्लक्षणं तथा ।
निर्-ऋतिं रक्तवर्णं तु द्विभुजं च महातनुम् ॥ ४३ ॥

खड्गं दक्षिणहस्ते तु वामहस्ते तु खेटकम् ।
पीतवस्त्रधरं रौद्रं करालवसुदंष्ट्रकम् ॥ ४४ ॥

सर्वाभरणसंयुक्तं शवारूढं जगत्पतिम् ।
रक्तकेशसमायुक्तं स्थितं वासीनमेव वा ॥ ४५ ॥

निर्-ऋतेश्चैवमाख्यातं ततश्चाप्सरसो विदुः ।
अतिकान्ता युवा रक्ता केशभारालकान्विता ॥ ४६ ॥

नानाभरणसंयुक्ता नानापुष्पैरलंकृता ।
दुकूलवसनास्सर्वा पीनोरूजघनस्थलाः ॥ ४७ ॥

मध्यै क्षौमादिसंयुक्ताः किंचित्प्रहसिताननाः ।
गन्धाद्यैरनुलिप्तांगा भद्रपीठोपरि स्थिताः ॥ ४८ ॥

समभंगसमायुक्ताः सप्तसंख्याप्सराः स्मृताः ।
अप्सरास्त्वेवमाख्याता वरुणस्त्वथ वक्ष्यते ॥ ४९ ॥

वरुणं शुक्लवर्णं तु द्विभुजं पाशहस्तकम् ।
सर्वाभरणसंयुक्तं करण्डमकुटान्वितम् ॥ ५० ॥

पीतवस्त्रधरं जातं महाबलपराक्रमम् ।
यज्ञसूत्रेणसंयुक्तं मकरस्थानकान्वितम् ॥ ५१ ॥

ऋषयः पीतवर्णास्तु नानावर्णाम्बरान्विताः ।
वृद्धाश्च द्विभुजाः शान्ताः जटाचूडसमन्विताः ॥ ५२ ॥

चिबुकाहृदयान्ताश्च उपवीतसमायुताः ।
भस्मना च त्रिपुण्ट्रास्ते स्थानकास्त्वासनास्तु वा ॥ ५३ ॥

दण्डं दक्षिणहस्ते तु छत्रं वामकरे धृताः ।
दण्डं विनाथवा (हस्ते) सव्ये वै ज्ञानमुद्रिकाः ॥ ५४ ॥

वामजानूपरिन्यस्त वामहस्त समन्विताः ।
अत्र्यगस्त्थौ वसिष्ठश्च गौतमांगिरसौ तथा ॥ ५५ ॥

विश्वामित्रो भरद्वाजः ऋषयः सप्तकीर्तिताः ।
द्विभुजस्तु महावीर्यः ताम्राक्षो धूम्रसंनिभः ॥ ५६ ॥

ध्वजं वै दक्षिणे हस्ते वामहस्तेन दण्डधृक् ।
कुंचितांघ्रियुतो वायुः शाललम्बरभूषितः ॥ ५७ ॥

नानाभरणसंयुक्तः केशास्य सुविकीर्णकः ।
सिंहासनोपरिष्टात्तु शीघ्रयात्रो सुखस्थितः ॥ ५८ ॥

वायुरेवं समाख्यातो रुद्रलक्षणमुच्यते ।
चतुर्भुजास्त्रिणेत्राश्च जटामकुटमण्डिताः ॥ ५९ ॥

शुक्लवस्त्रधरास्सर्वे शुक्लवर्णाः प्रकीर्तिताः ।
समपादाः स्थानकाश्च सर्वे पद्मोपरि स्थिताः ॥ ६० ॥

सर्वाभरणसंयुक्ताः सर्वपुष्पैरलंकृताः ।
अभयं परशुं सव्ये वरदं कृष्णवामके ॥ ६१ ॥

महादेवः शिवो रुद्रः शंकरो नीललोहितः ।
ईशानो विजयो भीमो देवदेवो भवोद्भवः ॥ ६२ ॥

कपालीशस्त्विमे विप्र रुद्रा एकादशस्मृताः ।
सोमस्सिंहासनासीनः कुन्दशंखनिभान्वितः ॥ ६३ ॥

प्रभामण्डलसंयुक्तो द्विभुजस्सौम्यवक्त्रकः ।
आसीनो वा स्थितो वापि कुमुदाभ्यां ज्वलत्करः ॥ ६४ ॥

हेमयज्ञोपवीतांगः सर्वाभरणभूषितः ।
शुक्लवस्त्रधरश्शान्तः सर्वपुष्पैरलंकृतः ॥ ६५ ॥

त्रिविधः क्षेत्रपालस्तु सात्विको राजतामसः ।
श्वेतं रक्तं तथा कृष्णं साल्विकादि गुणं भवेत् ॥ ६६ ॥

द्विभुजं चतुर्भुजं शान्तं राजसं षड्भुजान्वितम् ।
तामसंचाष्टदोर्दण्डं इत्येवं सात्विकादिकम् ॥ ६७ ॥

स्थानकं पद्मपीठे तु भद्रपीठे तु वा विदुः ।
शूलं दक्षिणहस्ते तु कपालं त्वितरे धृतम् ॥ ६८ ॥

द्विभुजं ह्येवमाख्यातं चतुर्भुजमथोच्यते ।
परहस्ते तु सव्ये खट्वांगं जंगमन्यके ॥ ६९ ॥

अथवा पूर्वहस्ते तु अभयं वरदान्वितम् ।
पूर्ववत्परहस्तौ द्वौ घण्टा वामहस्तके ॥ ७० ॥

सात्विकं त्वेवमाख्यातं राजसं तु ततः शृणु ।
शूलं खड्गं च घण्टां च दक्षिणे तु करत्रये ॥ ७१ ॥

खेटकं च कपालं च नागपाशं च वामके ।
तामसं तु धनुर्बाणं दक्षिणेऽदक्षिणे धृतम् ॥ ७२ ॥

शेषं राजसवत्ख्यातं रक्तकेशोर्ध्वमण्डलम् ।
उग्रदृष्टि समायुक्तं नानानागविभूषितम् ॥ ७३ ॥

त्रिणेत्रं नग्नकं चैव क्षेत्रपालं प्रकल्पयेत् ।
ईशो वै द्विभुजः शान्तः सर्वाभरणभूषितः ॥ ७४ ॥

जटामकुटसंयुक्तं शुक्लवर्णद्युतिस्सदा ।
शुक्लयज्ञोपवीतश्च शुक्लपद्मोपरि स्थितः ॥ ७५ ॥

शूलं दक्षिणहस्ते तु कपालं वामहस्तके ।
ईशमेवं समाख्यातं ततो वै भास्करं क्रमात् ॥ ७६ ॥

द्विभुजाः पद्महस्ताश्च रक्तपद्मासने स्थिताः ।
रक्तमण्डलसंसक्ताः करण्डमकुटान्विताः ॥ ४७ ॥

रक्तपद्मधरास्सर्वे सर्वाभरणभूषिताः ।
छन्नवीरसमायुक्ता भास्करा द्वादशैव तु ॥ ७८ ॥

वैकर्तनो विवस्वांश्च मार्ताण्डो भास्करो रविः ।
लोकप्रकाशकश्चैव लोकसाक्षी त्रिविक्रमः ॥ ७९ ॥

आदित्यश्च महासूर्यस्त्वंशुमाली दिवाकरः ।
एते वै द्वादशादित्या उत्तरादि क्रमात् स्थिताः ॥ ८० ॥

एवं षोडशमाख्यातं द्वात्रिंशदथ वक्ष्यते ।
अनन्तं चतुर्भुजं सौम्यं सर्वाभरणभूषितम् ॥ ८१ ॥

जपापुष्पनिभाकारं करण्डमकुटान्वितम् ।
सितवस्त्रधरं शान्तं त्रिणेत्रं पद्मसंस्थितम् ॥ ८२ ॥

अभयं वरदोपेतं टंकशूलधरं शुचिम् ।
आचार्यं चतुर्भुजं शान्तं सर्वाभरणभूषितम् ॥ ८३ ॥

हिरण्यसदृशप्रख्यं दुकूलवसनान्वितम् ।
अभयं वरदोपेतं खड्गखेटकधारिणम् ॥ ८४ ॥

सुस्थितः पद्मपीठे तु कुर्यादेवं प्रकल्पयेत् ।
अभयश्चतुर्भुजश्शान्तो जटामकुटमण्डितः ॥ ८५ ॥

अतिरक्तसमप्रख्यः सर्वाभरणभूषितः ।
अभयं वरदोपेतः शूलपाशधरो भवेत् ॥ ८६ ॥

मोटी हस्तद्वयोपेता सौम्याननद्विनेत्रका ।
अत्यन्त सुन्दरा शान्ता सर्वाभरणभूषिता ॥ ८७ ॥

नानागन्धानुलिप्तांगा नानापुष्पोपशोभिता ।
करण्डमकुटोपेता पद्मपीठोपरि स्थिता ॥ ८८ ॥

किंचिद्विशाअलकुक्षी च पीनोरुजघनस्तनी ।
दुकूलपट्टदेवांगैः नानावस्त्रधरा वरा ॥ ८९ ॥

सस्य श्यामनिभाकारा रक्तोत्पलधृतः करा ।
आजानुलम्ब्य वामे तु हस्ता च समभंगिका ॥ ९० ॥

सूक्ष्मा नीलनिभाशान्ता हेमवस्त्रधरा वरा ।
चतुर्भुजा त्रिणेत्रा च सर्वाभरणभूषिता ॥ ९१ ॥

अभया वरदोपेता टंकशूलधरा तथा ।
गौरीलक्षणमाख्यातं यथा सकललक्षणम् ॥ ९२ ॥

तथैव कारयेद्धीमान् स्थापयेत्केवलात्मिकाम् ।
शिवश्चतुर्भुजः शान्तः सर्वाभरणभूषितः ॥ ९३ ॥

जटामकुटसंयुक्तः शंखकुन्देन्दुसंनिभः ।
अभयं वरदोपेतः खड्गखेटकधारणः ॥ ९४ ॥

पद्मपीठपरिष्टात्तु स्थानकासन एव हि ।
चतुर्वक्त्रश्चतुर्बाहुः हरितालसमप्रभः ॥ ९५ ॥

जटामकुटसंयुक्तः पिंगाक्षस्सर्वभूषणः ।
कृष्णाजिनोत्तरीयश्च यज्ञसूत्रसमन्वितः ॥ ९६ ॥

शुक्लवस्त्रधरः शान्तः कटिसूत्रस्समेखलः ।
शुक्लमाल्यानुलेपश्च कर्णकुण्डलमण्डितः ॥ ९७ ॥

दक्षिणे चाक्षमालां च कूर्चं चैव तु धारयेत् ।
कमण्डलं कुशं वामे दक्षिणे स्रुक्स्रुवौ धरः ॥ ९८ ॥

आज्यस्थालीं कुशं चैव वामहस्ते तु धारयेत् ।
अभयं वरदौ पूर्वे हस्तौ वा द्विजसत्तम ! ॥ ९९ ॥

आसने तु भवांघ्रिश्च शाययेत्तु परस्परम् ।
मेढ्रमूलोपरिष्टात्तु वामहस्तोर्ध्ववक्त्रकम् ॥ १०० ॥

सव्यहस्तं च तस्योर्ध्वे तद्वनास्वात्र्यद्य अच्युतम् ।
दक्षिणे चाक्षमालां च वामहस्ते कमण्डलुम् ॥ १०१ ॥

सरस्वती दक्षिणे भागे सावित्री वामपाश्वके ।
आसीनो वा स्थितो वापि पद्मपीठोपरि स्थितः ॥ १०२ ॥

शिवोत्तमं श्वेतवर्णं तु चतुर्दोर्भिस्समन्वितम् ।
सर्वाभरणसंयुक्तं शुक्लवस्त्रोपवीतकम् ॥ १०३ ॥

नेत्रद्वयसमायुक्तं करण्डमकुटान्वितम् ।
अभयवरदोपेतं शूलपाशधृतं शुचिम् ॥ १०४ ॥

पद्मपीठोपरिष्टात्तु स्थानकं समपादकम् ।
भृगुः शुक्लनिभश्शान्तः शुक्लवस्त्रधरस्ततः ॥ १०५ ॥

करण्डमकुटोपेतो हस्तद्वयसमन्वितः ।
अभयवरदोपेतः सर्वाभरणभूषितः ॥ १०६ ॥

स्थानकं वासनं वापि पद्मपीठोपरि स्थितः ।
पूर्वमेवोदितस्त्वीशः तथात्रैव तु कल्पयेत् ॥ १०७ ॥

अगस्त्यं कौशिकं कृत्वा स्थापयेत्स्थापकोत्तमः ।
एकवक्त्रं चतुर्बाहुं नेत्रत्रयसमन्वितम् ॥ १०८ ॥

क्षौमवस्त्रधरं शान्तं बन्धूककुसुमप्रभम् ।
जटामकुटसंयुक्तं सर्वाभरणभूषितम् ॥ १०९ ॥

अभयवरदोपेतं टंकशूलधरं शुचिम् ।
विद्येशं पूर्ववत्कृत्वा स्थापयेद्देशिकोत्तमः ॥ ११० ॥

सरस्वतीं चतुर्बाहुं श्वेतपद्मासनासिकाम् ।
जटामकुटसंयुक्तां शुक्लवर्णां सिताम्बराम् ॥ १११ ॥

यज्ञोपवीतसंयुक्तां रत्नकुण्डलमण्डिताम् ।
सर्वाभरणसंयुक्ता मुक्ताहारा सुलोचना ॥ ११२ ॥

व्याख्यानं चाक्षमाला च दक्षिणे तु करद्वये ।
पुस्तकं कुण्डिकां वामे त्रिणेत्रा चारुरूपिणी ॥ ११३ ॥

भृग्वादि प्रमुखैः सर्वमुनिभिः सेविता परा ।
एवं लक्षणसंयुक्ता वाग्देवी परिकीर्तिता ॥ ११४ ॥

लक्ष्मीः पद्मासनासीना द्विभुजा कांचनप्रभा ।
हेमरत्नोज्वलन्नक्र कुण्डलाभ्यां सुमण्डिता ॥ ११५ ॥

सुयौवना सुरम्यांगा कुंचितभ्रूसविभ्रमा ।
रक्ताक्षी पीतगन्धा च कंचुकाच्छादनस्तनी ॥ ११६ ॥

शिरसो मण्डलं शंखचक्रसीमान्तपंकजम् ।
अम्बुजं दक्षिणे हस्ते वामे श्रीफलमुच्यते ॥ ११७ ॥

मध्ये विपुलसुश्रोणी शोभनाम्बर वेष्टिता ।
मेखला कटिसूत्रा च सर्वाभरणभूषिता ॥ ११८ ॥

एकाक्षसदृशास्त्वेक नेत्रं कुर्याद्विशेषतः ।
पशुपतिवत्कृत्वाथ स्थापयेद्देशिकोत्तमः ॥ ११९ ॥

धरो ध्रुवश्च सोमश्च स्त्वापस्त्वनल एव च ।
अनिलः प्रत्युषश्चैव प्रभावश्च तथैव च ॥ १२० ॥

वसवो ह्यष्टकाः सर्वे रक्तवर्णा द्विनेत्रकाः ।
पीताम्बर धराः सर्वे आसीनास्त्वास्थितास्तु वा ॥ १२१ ॥

खड्गखेटकहस्ताश्च सर्वाभरणभूषिताः ।
करण्डमकुटोपेता रौद्रास्सर्वे प्रकीर्तिताः ॥ १२२ ॥

पशुपतिमिव कार्यो महादेवो द्विजोत्तम ! ।
एकरुद्रमिव कार्यो त्रिमूर्तिर्द्विजसत्तम ! ॥ १२३ ॥

धनदः सर्वयक्षेन्द्रः सर्वाभरणभूषितः ।
तप्तकांचनसंकाशो हस्तद्वयसमन्वितः ॥ १२४ ॥

वरदाभय हस्तश्च गदा वा वामहस्तके ।
पद्मपीठो परिष्टात्तु द्विनेत्रो मेषवाहनः ॥ १२५ ॥

रक्ताम्बरधरौ सौम्यो शंखपद्मनिधी उभौ ।
भूताकारौ महाबलौ शंखपद्मनिधी ततः ॥ १२६ ॥

आसीनौ पद्मपीठे तु पद्महस्तौ द्विजोत्तम ! ।
करण्डमकुटोपेतौ सितवासोत्तरीयकौ ॥ १२७ ॥

दक्षिणेऽदक्षिणे शंखनिधिपद्मनिधी क्रमात् ।
धनदस्य तु वामे तु देवीं कुर्यात्सलक्षणाम् ॥ १२८ ॥

धनदं ह्येवमाख्यातं प्राग्वद्रुद्रं च कल्पयेत् ।
कालाग्निरुद्रमूर्तेस्तु लक्षणं वक्ष्यतेऽधुना ॥ १२९ ॥

चतुर्भुजं त्रिणेत्रं च ज्वालाकेशोपशोभितम् ।
खड्गखेटकसंयुक्तं शरचापधृतं परम् ॥ १३० ॥

रक्तवस्त्रधरं रौद्रं सर्वाभरणभूषितम् ।
रक्तोर्ध्वकेशसंयुक्तं सिंहासनोपरिस्थितम् ॥ १३१ ॥

चतुर्भुजं त्रिणेत्रं च नीलोत्पलसमप्रभम् ।
करण्डमकुटोपेतं सर्वाभरणभूषितम् ॥ १८२ ॥

अभयवरदोपेतं टंकशूलधृतं परम् ।
रक्तवस्त्रसमायुक्तं पद्मपीठोपरिस्थितम् ॥ १३३ ॥

श्रीकण्ठं ह्येवमाख्यातं नागदेवमथोच्यते ।
त्रिणेत्रं चतुर्भुजं सौम्यं रक्ताभं सितवाससम् ॥ १३४ ॥

अभयवरदोपेतं परहस्ते तु नागधृत् ।
करण्डमकुटोपेतं नागं पंचफणान्वितम् ॥ १३५ ॥

सर्वाभरणसंयुक्तं पद्मपीठोपरि स्थितम् ।
भीमं चतुर्भुजं रौद्रं सर्वाभरणभूषितम् ॥ १३६ ॥

जटामकुटसंयुक्तं मतिरक्तसमप्रभम् ।
अभयं वरदं चैव शूलं पाशं च धारयेत् ॥ १३७ ॥

सितवस्त्रसितं चैव रौद्रदृष्टिं सदंष्ट्रकम् ।
सस्यांकुरनिभाभूमिः नीलालकसमन्विता ॥ १३८ ॥

करण्डमकुटोपेता सर्वाभरणभूषिता ।
पीतवस्त्रधरा चैव प्रसन्नवदनान्विता ॥ १३९ ॥

पद्मं वाप्युत्पलं वाथ उभयोर्हस्तयोर्धृता ।
पद्मपीठोपरिष्टात्तु आसीना वा स्थितापि वा ॥ १४० ॥

शिखण्डिनः स्वभावस्तु चतुर्भुजसमन्वितः ।
करण्डमकुटोपेतः सर्वाभरणभूषितः ॥ १४१ ॥

रक्तवस्त्रधरश्शान्तः अभयवरदान्वितः ।
खड्गखेटकसंयुक्तः पद्मपीठोपरिस्थितः ॥ १४२ ॥

मरुद्गणा धूम्रवर्णाः द्विभुजाः स्वतिसुन्दराः ।
केशभारसमायुक्ताः सर्वाभरणभूषिताः ॥ १४३ ॥

रक्तवस्त्रधरास्सर्वे अभयवरदान्विताः ।
खड्गखेटकसंयुक्ताः पीनोरुजघनस्थलाः ॥ १४४ ॥

पद्मपीठोपरिष्टात्तु अष्टौ देवा मरुद्गणाः ।
उग्रश्चतुर्भुजो रौद्रः रक्तवर्णसमन्वितः ॥ १४५ ॥

करण्डमकुटोपेतः सर्वाभरणभूषितः ।
अभयवरदोपेतं टंकशूलसमन्वितम् ॥ १४६ ॥

स्थानकं पद्मपीठे तु शुक्लवस्त्रधरश्शुचिः ।
शनैश्चरं कृष्णवर्णं द्विभुजं सितवस्त्रकम् ॥ १४७ ॥

करण्डमकुटोपेतं सर्वाभरणभूषितम् ।
दण्डं दक्षिणहस्ते तु वरदं वाममुच्यते ॥ १४८ ॥

स्थानकं पद्मपीठे तु त्वासनं वा विशेषतः ।
ईषत्पंगुमिव स्थाने ईषद्धृस्वतनुः स्मृतः ॥ १४९ ॥

प्रतिमां ह्येवमाख्यातं पीठं चेल्लक्षणं शृणु ।
भानुद्वयांगुलं तारं उत्सेधं भानुमात्रकम् ॥ १५० ॥

मेखलात्रयसंयुक्तं वेदमात्रविशालकम् ।
गुणांगुलं तदुत्सेधं पद्मोच्चं तु गुणांगुलम् ॥ १५१ ॥

षडंशं पद्मविस्तारं शेषोर्ध्वकम्पनीव्रकम् ।
शिलाभिर्वेष्टकाभिर्वा सुधया वा प्रकल्पयेत् ॥ १५२ ॥

परिवारासमं ह्येवं महापीठविधिं शृणु ।
प्रासादस्य तु विस्तारं यत्तद्दण्डमिहोच्यते ॥ १५३ ॥

मूलहर्म्यं समारभ्य षडष्टौ दण्डमानतः ।
दशद्वादशदण्डो वा मनुदण्डावसानकम् ॥ १५४ ॥

षोडशाष्टादशो वापि महापीठं प्रकल्पयेत् ।
अथवान्यप्रकारेण पीठस्थानं विधीयते ॥ १५५ ॥

त्रिसाले तु चतुष्पंच साले वै यिव मध्यमे ।
महापीठं प्रकर्तव्यं तस्य लक्षणमुच्यते ॥ १५६ ॥

मूलधामस्य द्वारोच्चं उत्तमं पीठविस्तृतम् ।
त्रिपादं मध्यमं प्रोक्तं द्वारतुंगार्धकन्यसम् ॥ १५७ ॥

शुद्धद्वारस्य विस्तारमधमं पीठमुच्यते ।
द्विगुणं मध्यमं प्रोक्तं त्रिगुणं श्रेष्ठमुच्यते ॥ १५८ ॥

अथवा व्योमहस्तं तु अधमं पीठविस्तृतम् ।
द्विहस्तं मध्यमं प्रोक्तं त्रिहस्तं श्रेष्ठमुच्यते ॥ १५९ ॥

तद्विस्तारसमं तुंगं कृत्वा चैवाष्टविंशति ।
उपानोच्चं द्विभागं स्याद् षडंशं जगती भवेत् ॥ १६० ॥

कुमुदोच्चं तु भूतांशं कम्पमेकांशमुच्यते ।
वेदांशं कर्णमानं तु ऊर्ध्वकम्पं शिवांशकम् ॥ १६१ ॥

महापट्टीगुणांशं वा द्विभागं वा विशेषतः ।
वेदांशं पद्मतुंगं तु द्विभागं कर्णिकोदयम् ॥ १६२ ॥

अथवा कर्णिकोत्सेधं गुणांशं द्विजसत्तम ! ।
पद्मोच्चं पंचभागं तु महापट्टी द्विभागया ॥ १६३ ॥

उपानोच्चं शिवांशेन शेषं पूर्ववदेव हि ।
अथ पीठोदयं विप्र धरातलं यथा कुरु ॥ १६४ ॥

तदूर्ध्वे पद्ममानं तु पीठोच्चं न्यंशमुच्यते ।
अधिष्ठानोक्तमार्गेण वेशनिष्क्रान्तमाचरेत् ॥ १६५ ॥

पद्मतारे युगांशं वा भूतांशं कर्णिका भवेत् ।
पीठाकारं युगाश्रं वा वृत्तं वाष्टाश्रमेव वा ॥ १६६ ॥

कलाश्रं वाथ कर्तव्यं तद्द्वयं मण्डलाम्बुजम् ।
लोहजं शैलजं वाथ इष्टकामयमेव वा ॥ १६७ ॥

सुधया वेष्टकागर्भं नानाचित्रैविचित्रितम् ।
भूतैश्च मकरैर्व्यालैः वृषभैश्च विभूषितम् ॥ १६८ ॥

नानावर्णैर्विचित्रं वा भूषयेद्धेमराजतैः ।
पीठव्यासे तु षट्सप्त वसुनन्दांशकेऽपि वा ॥ १६९ ॥

अंशमस्योपपीठोच्चं उपपीठोक्तवत्कुरु ।
तदूर्ध्वे तु महापीठं उक्तव्यासोदयान्वितम् ॥ १७० ॥

उपपीठं विना पीठं कर्तव्यं वा द्विजोत्तम ! ।
आमोदं प्राग्दले विप्र प्रमोदं यमदिग्दले ॥ १७१ ॥

प्रमुखं वारुणे चैव दुर्मुखं सौम्यदिग्दले ।
तामसं चाग्निदिग्भागे राजसं नैर्-ऋते दले ॥ १७२ ॥

सात्विकं वायुदिग्भागे विघ्नकर्तारमीशके ।
विघ्नकर्तारमित्युक्तं तद्विघ्नं तदुदाहृतम् ॥ १७३ ॥

भूम्यन्तरिक्षस्वर्गे च सर्वभूतगुणात्मकम् ।
तत्सर्वात्मकमित्युक्तं महापीठं द्विजोत्तम ! ॥ १७४ ॥

तासामार्तिनिवृत्त्यर्थं नित्यं वल्यन्तमर्चयेत् ।
तासामार्तिहरायाथ नित्योत्सवप्रदक्षिणम् ॥ १७५ ॥

भूमिप्रदक्षिणं कृत्वा द्वितीयं त्वन्तरिक्षकम् ।
स्वर्गप्रदक्षिणं पश्चात् कृतं तद्वासिनां हि तत् ॥ १७६ ॥

जगदार्तिविनाशार्थं कल्प्येवं साधकोत्तमः ।
पश्चिमाभिमुखे हर्म्ये किंचिद्भेदं वदाम्यहम् ॥ १४७ ॥

वृषस्थाने कुमारं तु कौमारे वृषभं न्यसेत् ।
वारुणे तु महापीठं शेषं पूर्ववदाचरेत् ॥ १७८ ॥

परिवारविधिः प्रोक्तः पश्चाल्लिंगस्य लक्षणम् ॥ १७८ ½ ॥


इत्यंशुमान्काश्यपे परिवारविधिः पटलः (पंचाशः) ॥ ५० ॥