अंशुमत्काश्यपागमः/स्कन्दलक्षणपटलः ४९

← पटलः ४८ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ५० →



उत्तमं पंचतालेन स्कन्दं कुर्यात्सलक्षणम् ।
मानोन्मानादयस्सर्वे प्रागुक्तं सर्वलक्षणम् ॥ १ ॥

द्विहस्तं वा चतुर्हस्तं षड्भुजं भानुबाहुकम् ।
शक्तिं बाणं च खड्गं च चक्रं पाशं प्रसारितम् ॥ २ ॥

सर्वे वामे तु पिंछं च खेटकं कुक्कुटं तथा ।
धनुर्दण्डं हलं चैव भानुहस्तान्विते धृतम् ॥ ३ ॥

षड्भूजेत्वभयं खड्गं शक्तिं दक्षिणपार्श्वके ।
खेटकं चाक्षमालां च कुक्कुटं वामहस्तके ॥ ४ ॥

चतुर्भुजेऽभयं शक्तिं दक्षिणे तु करद्वयम् ।
कुक्कुटं चाक्षमालां च वामहस्तधृतो गुहः ॥ ५ ॥

द्विभुजे कुक्कुटं वामे शक्तिं दक्षिणहस्तके ।
अत्रानुक्तं तु यत्सर्वं उमास्कन्दसहितोक्तवत् ॥ ६ ॥

स्कन्द लक्षणमाख्यातं ज्येष्ठाविधिमतः परम् ।

इत्यंशुमान्काश्यपे स्कन्दलक्षणपटलः (एकोनपंचाशः) ॥ ४९ ॥